14016: सिति च
=============
**Padacheda:** सिति | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha
---------
**सित्-प्रत्यये परे प्रकृतेः पदसंज्ञा भवति । यथा - ऊर्णा + युस्, कम् + यस्, भवत् + छस्, पर्शु + णस्, ऋतु + घस् ।**
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति **पदम्** इति संज्ञा । **सुप्तिङन्तं पदम्** (1.4.14) इत्यतः **स्वादिष्वसर्वनामस्थाने** (1.4.17) इत्येतैः चतुर्भिः सूत्रैः इयं संज्ञा विधीयते । अस्य सूत्रसमूहस्य इदं तृतीयं सूत्रम् ।**यस्मात् शब्दात् **सित्**-प्रत्ययः (सकारः यस्मिन् इत्संज्ञकः विद्यते तादृशः प्रत्ययः) विधीयते, सः शब्दः पदसंज्ञकः भवति ** — इति अस्य सूत्रस्य आशयः । अष्टाध्याय्याम् आहत्य **पञ्च प्रत्ययाः सित्-प्रत्ययाः सन्ति** - युस्, यस्, छस्, णस्, घस् । एते सर्वेऽपि तद्धितसंज्ञकाः प्रत्ययाः । एतेषां सर्वेषाम् क्रमेण उदाहरणानि अधः दीयन्ते —
1) युस्-प्रत्ययः - **ऊर्णाया युस्** (5.2.123) इति सूत्रेण "ऊर्णा" इति शब्दात् **युस्** इति तद्धितसंज्ञकप्रत्ययः विधीयते । अस्मिन् प्रत्यये परे "ऊर्णा"-शब्दस्य **यचि भम्** (1.4.18) इत्यनेन भसंज्ञायां प्राप्तायाम् प्रकृतसूत्रेण तां बाधित्वा **पदसंज्ञा** विधीयते । अस्य प्रयोजनम् अस्ति **अनिष्टस्य भसंज्ञाविशिष्टस्य कार्यस्य बाधः** इति । इत्युक्ते, यदि अत्र पदसंज्ञा न अभविष्यत्, तर्हि भसंज्ञायाः सामर्थ्यात् "ऊर्णा + यु" इत्यत्र **यस्येति च** (6.4.148) इत्यनेन "ऊर्णा"-शब्दस्य अनिष्टः आकारलोपः अभविष्यत् । प्रक्रिया इयम् -
.. code-block:: text
ऊर्णा अस्य अस्ति इति
--> ऊर्णा + युस् [**ऊर्णाया युस्** (5.2.123) इति युस्-प्रत्ययः । अत्र आदौ प्रथमासमर्थात् युस्-प्रत्ययः भवति । ततः प्रातिपदिकसंज्ञा, सुँलोपश्च विधीयते ।]
→ ऊर्णा + यु [सकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः । अत्र यकारादिप्रत्यये परे "ऊर्णा" शब्दस्य **यचि भम्** (1.4.18) इति भसंज्ञायां प्राप्तायां, तां बाधित्वा **सिति च** (1.4.16) इति पदसंज्ञा भवति । भसंज्ञायाः अभावात् अत्र **यस्येति च** (6.4.148) इति आकारलोपः न सम्भवति ।
→ ऊर्णायु ।
2 यस्-प्रत्ययः - "कम्" (= जलम्) इति मकारान्तप्रातिपदिकात् "अस्य अस्मिन् वा अस्ति" इत्यर्थे ** कंशंभ्यां बभयुस्तितुतयसः** (5.2.138) इति सूत्रेण **यस्** तथा **युस्** एतौ द्वौ तद्धितसंज्ञकप्रत्ययौ विधीयेते । उभयोः उपस्थितौ "कम्" इति प्रकृतेः **पदसंज्ञा** भवति, अतः **पदान्तमकारस्य **मोऽनुस्वारः** (8.3.23) इत्यनेन अनुस्वारादेशे कृते** इष्टरूपं सिद्ध्यति —
.. code-block:: text
कम् अस्य अस्मिन् वा अस्ति
--> कम् + युस् / यस् [** कंशंभ्यां बभयुस्तितुतयसः** (5.2.138) इति सूत्रेण यस्/युस्-प्रत्ययः]
→ कम् + यु / य [सकारस्य इत्संज्ञालोपः]
→ कंयु / कंय [सित्-प्रत्यये परे **सिति च** (1.4.16) इति प्रकृतेः पदसंज्ञा भवति । पदसंज्ञायां सत्याम् **मोऽनुस्वारः** (8.3.23) इति अनुस्वारादेशः भवति ।]
→ कंयु / कय्ँयु / कंय / कय्ँय [**वा पदान्तस्य** (8.4.59) इति विकल्पेन परसवर्णः]
3) छस्-प्रत्ययः - भवत् इति शब्दात् शैषिकेषु अर्थेषु **भवतः ठक्छसौ** (4.2.115) इति सूत्रेण **छस्** इति प्रत्ययः भवति । अस्मिन्-प्रत्यये परे भवत्-शब्दस्य प्रकृतसूत्रेण **पदसंज्ञा** भवति । **पदसंज्ञायां सत्यां **झलां जशोऽन्ते** (8.2.39) इति पदान्तजश्त्वे कृते** इष्टं रूपं सिद्ध्यति —
.. code-block:: text
भवतः इदम्
--> भवत् + छस् [**भवतः ठक्छसौ** (4.2.115) इति सूत्रेण छस्-प्रत्ययः]
--> भवत् + छ [सकारस्य इत्संज्ञा, लोपः ]
→ भवत् + ईय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति छकारस्य ईय्-आदेशः]
→ भवद् + ईय [सित्-प्रत्यये परे **सिति च** (1.4.16) इति "भवत्" शब्दस्य पदसंज्ञा । अतः पदान्ते विद्यमानस्य तकारस्य **झलां जशोऽन्ते** (8.2.39) इति जश्त्वे दकारः विधीयते ।]
→ भवदीय
4) णस्-प्रत्ययः - **ब्राह्मणमाणववाडवाद्यन्** (4.2.42) इत्यत्र पाठितेन इति वार्त्तिकेन "पर्शूनाम् समूहः" अस्मिन् अर्थे "पर्शु"-शब्दात् **णस्** इति प्रत्ययः भवति । अस्मिन् प्रत्यये परे **यचि भम्** (1.4.18) इत्यनेन "पर्शु" शब्दस्य भसंज्ञायां प्राप्तायाम् तद्बाधित्वा **सिति च** (1.4.16) इत्यनेन तस्य **पदसंज्ञा** विधीयते । अस्याः प्रयोजनम् अस्ति **अनिष्टस्य भसंज्ञाविशिष्टस्य कार्यस्य बाधः** इति । यदि अत्र भसंज्ञा अभविष्यत्, तर्हि **ओर्गुणः** (6.4.146) इति अत्र उकारस्य अनिष्टः गुणादेशः अभविष्यत् । प्रक्रिया इयम् —
.. code-block:: text
पर्शूनां समूहः
= पर्शु + णस् [ ]
→ पर्शु + अ [**चुटू** (1.3.7) इति णकारस्य इत्संज्ञा, **हलन्त्यम्** (1.3.3) इति सकारस्य इत्संज्ञा, **तस्य लोपः** (1.3.9) इति द्वयोः अपि लोप;]
→ पार्शु + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः]
→ पार्श्व [**सिति च** (1.4.17) इति प्रकृतेः पदसंज्ञा । इयं पदसंज्ञा भसंज्ञां बाधते भसंज्ञायाः अभावात् अत्र **ओर्गुणः** (6.4.146) इत्यनेन उकारस्य अनिष्टः गुणादेशः प्रतिषिध्यते । अग्रे **इको यणचि** (6.1.77) इति यणादेशं कृत्वा रूपं सिद्ध्यति ।]
5) घस्-प्रत्ययः - "ऋतु" इति शब्दात् वेदेषु "अस्य प्राप्तम्" अस्मिन् अर्थे **छन्दसि घस्** (5.1.106) इति सूत्रेण **घस्** इति प्रत्ययः कृतः दृश्यते । अस्मिन् प्रत्यये सकारस्य इत्संज्ञा भवति, अतः अस्मिन् प्रत्यये परे **सिति च** (1.4.17) इति प्रकृतेः **पदसंज्ञा** विधीयते । अस्याः प्रयोजनम् अस्ति **अनिष्टस्य भसंज्ञाविशिष्टस्य कार्यस्य बाधः** इति । यदि अत्र भसंज्ञा अभविष्यत्, तर्हि **ओर्गुणः** (6.4.146) इति अत्र उकारस्य अनिष्टः गुणादेशः अभविष्यत् । प्रक्रिया इयम् —
.. code-block:: text
ऋतुः यस्य प्राप्तः
--> ऋतु + घस् [**छन्दसि घस्** (5.1.106) इति घस्]]
--> ऋतु + घ [इत्संज्ञा, लोपः]
→ ऋतु + इय [**आयनेयीनीयीयः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति इय-आदेशः]
→ ऋत्विय [**सिति च** (1.4.16) इत्यनेन प्रकृतेः पदसंज्ञा । इयं पदसंज्ञा भसंज्ञां बाधित्वा विधीयते । भसंज्ञायाः अभावात् अत्र **ओर्गुणः** (6.4.146) इत्यनेन उकारस्य अनिष्टः गुणादेशः प्रतिषिध्यते । अग्रे **इको यणचि** (6.1.77) इति यणादेशं कृत्वा रूपं सिद्ध्यति ।]
**बाध्यबाधकभावः**
सर्वे सित्-प्रत्ययाः अजादयः / यकारादयः सन्ति । अतः एतेषु परेषु प्रकृतेः **यचि भम्** (1.4.18) इति भसंज्ञा प्राप्नोति । एवमेव **सिति च** (1.4.16) इत्यनेन प्रकृतेः पदसंज्ञा अपि विधीयते । अत्र पदसंज्ञा भसंज्ञायाः अपेक्षया अनवकाशा अस्ति, अतः **आकडारादेका संज्ञा** (1.4.1) इत्येतम् अधिकारम् अनुसृत्य अत्र **पदसंज्ञा भसंज्ञां सम्पूर्णरूपेण बाधते** । अतः सित्-प्रत्यये परे प्रकृतेः पदसंज्ञा एव भवति, न हि भसंज्ञा ।
Sutrartha (English)
-------------------
In presence of a प्रत्यय having सकार as इत्संज्ञक, the प्रकृति gets the term पद.
Vasu English Summary
--------------------
When an affix having an indicatory स् follows then that which precedes it is called पद।
Vasu English Translation
------------------------
When an affix having an indicatory स् follows then that which precedes it is called पद।
The sutra 18 of this chapter teaches that before certain affixes, the preceding word is called *bha*. This *sutra* declares an exception to that by anticipation. Thus Rule (4.2.115) declares: -- "Affixes ठक् and छस् come after the *vriddha* (1.1.74) word भवत्." Here the affix छस् has an indicatory स्, therefore the word भवत्, standing before it, will be called *pada*. Thus भवत् + छस् = भवदीयः (7.1.2), belonging to you. The result of being *pada* is that ते is changed into द (7.2.3). Similarly स् is इत् in युस् (After the word *urna* there is *yus* (5.2.123). Thus ऊर्णायुः; so also घस् (5.1.106), has स् as indicatory. Thus ॠत्वियः There is no *guna* because of its being *pada*
Kashika
-------
**यचि भम्** (१.४.१८) इति वक्ष्यति, तस्यायं पुरस्तादपवादः। सिति प्रत्यये परतः पूर्वं पदसंज्ञं भवति। **भवतष्ठक्छसौ** (४.२.११५) — भवदीयः। **ऊर्णाया युस्** (५.२.१२३) — ऊर्णायुः। **ऋतोरण्** (५.१.१०५),**छन्दसि घस्** (५.१.१०६) — ऋत्वियः॥
Siddhanta Kaumudi
-----------------
सिति परे पूर्वं पदसंज्ञं स्यात् । अभत्वादोर्गुणो न । पर्शूनां समूहः पार्श्वम् ॥
Padamanjari
-----------
भवदीय इति। पदत्वाज्जत्वम्। ऊर्णायुरिति पदसंज्ञाया निरस्तत्वाद् यस्येति लोपाभावः। एवम् ऋत्विय इति ठोर्गुणःऽ न भवति, चकारोऽनुक्तसमुच्चयार्थः तेन भुवद्धारयतोर्मतोश्च्छन्दसि'तसौ मत्वर्थे' इति भसंज्ञां बाधित्वा पदसंज्ञा भवति, तेन भुवद्वद्भ्यः, धारयद्वद्भ्यः॥
Nyaas
-----
`भवदीयः` इत्यादि। **तत्र जातः** (4.3.25) इत्यादौ शैषिकेऽर्थे तद्धितः, पदत्वात् `झलाञ्जशोऽन्ते` (8.2.39) इति जश्त्वम्। `ऊर्णायुः` इति। **ऊर्णाया युस्** (5.2.123) इति युसि कृते पदसंज्ञया भसंज्ञायां निरस्तायां **यस्येति च** (6.4.148) इत्याकारलोपो न भवति। `ऋत्वियः` इति। ऋतुः प्राप्तोऽस्त्येति `ऋतोरण्` **छन्दसि घस्** (5.1.106) ऋत्वियः, पदत्वात् भत्वाभावे तदाश्रयः **ओर्गुणः** (6.4.146) न भवति।
Prakriyasarvasvam
-----------------
सिति प्रत्यये परे पूर्वं पदाख्यम्, इति पदत्वेन भत्वाभावादौर्गुणो न । पार्श्वास्थीनि पर्शवः । तत्समूहः, पार्श्र्वम् ।।