14003: यू स्त्र्याख्यौ नदी
==========================
**Padacheda:** यू | S | | | 1
स्त्री-आख्यौ | S | 1 | 2 |
नदी | S | 1 | 1 |
Sutrartha
---------
**दीर्घ-ईकारान्ताः दीर्घ-ऊकारान्ता: च नित्यस्त्रीलिङ्गवाचिनः शब्दाः नदीसंज्ञकाः भवन्ति । यथा - गौरी, वधू ।**
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा नदी इति संज्ञा अनेन सूत्रेण पाठ्यते । **दीर्घ-ईकारान्ताः, दीर्घ-ऊकारान्ता: च नित्यस्त्रीलिङ्गवाचिनः शब्दाः नदीसंज्ञकाः भवन्ति ** - इति अस्य सूत्रस्य अर्थः ।
नित्यस्त्रीलिङ्गवाचिनः शब्दाः - ये शब्दाः भाषायाम् **केवलं स्त्रीलिङ्गे** एव प्रयुज्यन्ते (पुंलिङ्गे उत नपुंसकलिङ्गे नैव प्रयुज्यन्ते इत्याशयः) ते **नित्यस्त्रीलिङ्गवाचिनः** शब्दाः इति नाम्ना ज्ञायन्ते । एते शब्दाः द्विप्रकारकाः सन्ति -
1. ते शब्दाः येषाम् अन्ते कश्चन स्त्रीप्रत्ययः (टाप्, डाप्, चाप्, ङीप्, ङीष्, ङीन्, ऊङ्, क्तिन्) विद्यते । यथा - "माला", "गौरी", "नदी", "स्त्री", "ब्रह्मबन्धू" - इत्यादयः।
2. ते शब्दाः ये स्त्रीप्रत्ययान्ताः न सन्ति परन्तु तथापि स्वभावतः केवलं स्त्रीलिङ्गे एव प्रयुक्ताः दृश्यन्ते । यथा - "धी", "लक्ष्मी", "मातृ", "चमू", "वधू" - इत्यादयः ।
एतादृशाः **नित्यस्त्रीलिङ्गवाचिनः शब्दाः यदि दीर्घ-ईकारान्ताः उत दीर्घ-ऊकारान्ताः सन्ति, तर्हि तेषां प्रकृतसूत्रेण नदी इति संज्ञा भवति** । यथा -
1. **दीर्घ-ईकारान्ताः नित्यस्त्रीलिङ्गवाचिनः शब्दाः ** - कुमारी, गौरी, नदी, लक्ष्मी एतादृशानां दीर्घ-ईकारान्त-स्त्रीलिङ्गशब्दानां प्रकृतसूत्रेण **नदी ** संज्ञा भवति ।
2. **दीर्घ-ऊकारान्ताः नित्यस्त्रीलिङ्गवाचिनः शब्दाः ** - ब्रह्मबन्धू, वधू, यवागू, श्वश्रू एतादृशानां दीर्घ-ऊकारान्त-स्त्रीलिङ्गशब्दानां प्रकृतसूत्रेण **नदी ** संज्ञा भवति ।
**सूत्रस्य प्रतिपदार्थः**
अस्मिन् सूत्रे विद्यमानयोः शब्दयोः अर्थौ एतादृशौ -
1. यू - प्रकृतसूत्रे प्रयुक्त: **यू** इति शब्दः "ई + ऊ" इत्यस्मात् प्रारभ्य ईकारस्य यणादेशं कृत्वा सिद्ध्यति । इत्युक्ते, **यू** इति शब्देन अत्र दीर्घ-ईकारस्य, दीर्घ-ऊकारस्य च निर्देशः भवति । **येन विधिस्तदन्तस्य** (1.1.72) इत्यनेन अत्र तदन्तग्रहणम् अपि क्रियते, अतश्च **यू** इति शब्देन अत्र **दीर्घ-ईकारान्तशब्दानाम्** **दीर्घ-ऊकारान्तशब्दानां** च ग्रहणं भवति ।
2. स्त्र्याख्यौ - प्रकृतसूत्रे प्रयुक्तस्य **स्त्र्याख्यः** इति शब्दस्य विग्रहः **स्त्रीः आख्या यस्य** इति दीयते । **आख्या** इत्युक्ते **संज्ञा** । येषां शब्दानां नित्यम् **स्त्री** इति संज्ञा भवति, इत्युक्ते ये शब्दाः **नित्यस्त्रीलिङ्गवाचिनः** सन्ति, तेषाम् अनेन शब्देन निर्देशः क्रियते । एतादृशानां शब्दानाम् एव प्रकृतसूत्रेण **नदी**संज्ञा विधीयते । ये शब्दाः दीर्घ-ईकारान्ताः / दीर्घ-ऊकारान्ताः सन्तः अपि पुंलिङ्गवाचिनः सन्ति, अथ वा ये शब्दाः दीर्घ-ईकारान्ताः / दीर्घ-ऊकारान्ताः सन्तः अपि समाने एव अर्थे स्त्रीलिङ्गे पुंलिङ्गे च प्रयुज्यन्ते, ते नित्यस्त्रीलिङ्गाः न, अतः तेषाम् प्रकृतसूत्रेण **नदी**संज्ञा अपि नैव भवति । अतएव, प्रधी (प्रध्यायति सः / सा), सेनानी (= सेनां नयति सः / सा), खलपू (= खलं पुनीते सः / सा, one who cleans the floor) एतादृशानां शब्दानां स्त्रीलिङ्गप्रयोगे अपि प्रकृतसूत्रेण **नदी**संज्ञा न भवति ।
विशेषः - ये शब्दाः दीर्घ-ईकारान्ताः / दीर्घ-ऊकारान्ताः सन्तः अपि समाने एव अर्थे स्त्रीलिङ्गे पुंलिङ्गे च प्रयुज्यन्ते, तेषां स्त्रीलिङ्गप्रयोगे अपि नित्यस्त्रीलिङ्गत्वं न मन्यते, अतश्च नदीसंज्ञा अपि नैव भवति इति अस्माभिः अत्र यद् दृष्टम्, सः **कैयटस्य पक्षः** अस्ति । **कशिकाकारस्य मतेन** तु अत्र **स्त्र्याख्यः** इति शब्दस्य अर्थः किञ्चित् भिन्नः वर्तते । अमुम् एव अर्थं स्पष्टीकुर्वन् सिद्धान्तकौमुद्यां **वाऽमि** (1.4.5) इत्यस्मिन् सूत्रे कौमुदीकारः वदति - वृत्तिकारादीनां मते...पदान्तरं विना अपि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम् - इति । अस्य अर्थः अयम् - यत्र कश्चन शब्दः स्वाभाविकरूपेण पुंलिङ्गे स्त्रीलिङ्गे च प्रयोक्तुं शक्यते, तत्र तस्य स्त्रीलिङ्गप्रयोगे अवश्यम् एव नित्यस्त्रीलिङ्गत्वं स्वीकरणीयम्, अतश्च तस्य नदीसंज्ञा अपि सम्भवति । यथा, "प्रध्यायति" इत्यस्मिन् अर्थे सिद्धः "प्रधी" इति शब्दः लोके लिङ्गनिरपेक्षरूपेण प्रयुक्तः दृश्यते (इत्युक्ते, पुरुषस्य विषये, तथा च स्त्रियाः अपि विषये समानरूपेण अस्य शब्दस्य प्रयोगः दृश्यते), अतश्च स्त्रीलिङ्गवाचिनः "प्रधी"-शब्दस्य नित्यस्त्रीलिङ्गत्वं मत्वा प्रकृतसूत्रेण तस्य अवश्यं हि नदीसंज्ञा भवति । परन्तु, ये शब्दाः **लोके स्वभावतः पुंलिङ्गे एव दृश्यन्ते** । इत्युक्ते एतेषां शब्दानां प्रयोगेण सामान्यतः पुंलिङ्गः अर्थः एव स्वीकरणीयः इति लोके व्यवहारः अस्ति; तथा च यदि स्त्रीलिङ्गः अर्थः वक्तव्यः तर्हि तत्र "सा" / "एषा" इति पदान्तरस्य आवश्यकता विद्यते, तादृशाः शब्दाः **स्त्रीलिङ्गे प्रयुक्ताः अपि नित्यस्त्रीलिङ्गवाचिनः न सन्ति, अतश्च नदीसंज्ञकाः अपि न सन्ति ** । यथा, "सेनां नयति" इत्यस्मिन् अर्थे प्रयुक्तः "सेनानी" इति शब्दः यद्यपि पुंलिङ्गे स्त्रीलिङ्गे च प्रयोक्तुं शक्यः, तथापि लोकव्यवहारे अयं शब्दः स्वभावतः पुंलिङ्गवाची एव अस्ति (सेनायाः नायकत्वं सामान्यरूपेण पुरुषे एव स्वीक्रियते इत्याशयः) । इत्युक्ते, यदि "सेनानी" इति शब्दः स्त्रीलिङ्गे प्रयोक्तव्यः, तर्हि तस्य लिङ्गस्य निर्देशार्थम् विशिष्टरूपेण "सा सेनानी" / "एषा सेनानी" इति रीत्या पदान्तरस्य (अन्यपदस्य) आधारः आवश्यकः भवति । एतादृशाः शब्दाः, स्त्रीलिङ्गे प्रयुक्ताः सन्तः अपि काशिकाकारस्य मतेन नित्यस्त्रीलिङ्गाः न, अतः ते नदीसंज्ञकाः अपि नैव मन्यन्ते । अनेनैव प्रकारेण "खलं पुनाति" अनेन वाक्येन निर्दिष्टः व्यवहारः अपि लोके सामान्यतः पुरुषवाचकः एव मन्यते, अतः तेन निर्दिष्टः "खलपू" इति शब्दः अपि लोके सामान्यतः पुंलिङ्गरूपेण एव व्यवह्रियते । इत्युक्ते, अस्य स्त्रीलिङ्गे निर्देशार्थम् अपि "सा" / "एषा" इति पदान्तरम् आवश्यकं भवति । एतं (इत्युक्ते, "सा" / "एषा" इति) पदान्तरं विना अस्य शब्दस्य **स्त्रियां वर्तमानत्वम्** (विद्यमानत्वम्) नास्ति इत्यर्थः । अतएव अस्य शब्दस्य स्त्रीलिङ्गे प्रयुक्ते सति अपि नित्यस्त्रीलिङ्गत्व-अभावात् नदीसंज्ञा नैव भवति ।अयमेव सर्वः आशयः कौमुद्यां पदान्तरं विना अपि स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम् इति वाक्येन निर्दिष्टः वर्तते । अनेन प्रकारेण काशिकाकार-कैयटयोर्मध्ये **स्त्र्याख्यः** इति शब्दम् अधिकृत्य मतान्तरम् अस्ति ।
**नदीसंज्ञाविशिष्टानि कार्याणि**
**नदी**संज्ञायाः आधारेण अष्टाध्याय्याम् आहत्य **चत्वारि कार्याणि** उक्तानि सन्ति । तानि एतानि -
1. **अम्बार्थनद्योर्ह्रस्वः** (7.3.107) इति सूत्रेण **सम्बोधनैकवचनस्य "सुँ"-प्रत्यये परे नदीसंज्ञक-अङ्गस्य ह्रस्वादेशः** भवति । यथा -
.. code-block:: text
गौरी + सुँ [सम्बोधनैकवचनस्य प्रत्ययः]
--> गौरि + स् [ **अम्बार्थनद्योर्ह्रस्वः** (7.3.107) इति नदीसंज्ञकस्य अङ्गस्य ह्रस्वादेशः]
--> गौरि [**एङ्ह्रस्वात्सम्बुद्धेः** (6.1.69) इति सम्बोधनैकवचनप्रत्ययस्य लोपः]
2. **आण्नद्याः** (7.3.112) इति सूत्रेण **नदीसंज्ञक-अङ्गात् विहितस्य ङित्-प्रत्ययस्य "आट्" इति आगमः** भवति । यथा -
.. code-block:: text
गौरी + ङे [चतुर्थ्येकवचनस्य प्रत्ययः]
--> गौरी + आट् + ए [ **आण्नद्याः** (7.3.112) नदीसंज्ञक-अङ्गात् विहितस्य ङित्-प्रत्ययस्य "आट्" आगमः]
--> गौरी + ऐ [**आटश्च** (6.1.90) इति वृद्ध्यैकादेशः]
--> गौर्यै [**इको यणचि** (6.1.77) इति यणादेशः]
एवमेव, नदीसंज्ञकशब्दस्य पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रक्रियायाम् अपि अनेन सूत्रैण आट् आगमः भवति -
.. code-block:: text
गौरी + ङसिँ / ङस् [पञ्चम्येकवचनस्य / षष्ठ्येकवचनस्य प्रत्ययः]
--> गौरी + आट् + अस् [**आण्नद्याः** (7.3.112) नदीसंज्ञक-अङ्गात् विहितस्य ङित्-प्रत्ययस्य "आट्" आगमः]
--> गौरी + आस् [**आटश्च** (6.1.90) इति वृद्ध्यैकादेशः]
--> गौर्यास् [**इको यणचि** (6.1.77) इति यणादेशः]
--> गौर्याः [रुत्वविसर्गौ]
3. **ह्रस्वनद्यापो नुट्** (7.1.54) इति सूत्रेण **नदीसंज्ञक-अङ्गात् विहितस्य षष्ठीबहुवचनस्य आम्-प्रत्ययस्य "नुट्" इति आगमः** भवति । यथा -
.. code-block:: text
गौरी + आम् [षष्ठीबहुवचनस्य प्रत्ययः]
--> गौरी + नुट्+ आम् [ **ह्रस्वनद्यापो नुट्** (7.1.54) इति नदीसंज्ञक-अङ्गात् विहितस्य आम्-प्रत्ययस्य "नुट्" आगमः]
--> गौरीणाम् [**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम्]
4. **ङेराम्नद्याम्नीभ्यः** (7.3.116) इति सूत्रेण **नदीसंज्ञक-अङ्गात् परस्य सप्तमी-एकवचनस्य ङि-प्रत्ययस्य "आम्" इति आदेशः** भवति । यथा -
.. code-block:: text
गौरी + ङि [सप्तम्येकवचनस्य प्रत्ययः]
--> गौरी + आम् [ **ङेराम्नद्याम्नीभ्यः** (7.3.116) इति नदीसंज्ञक-अङ्गात् विहितस्य सप्तमी-एकवचनस्य ङि-प्रत्ययस्य "आम्" आदेशः]
--> गौरी + आट् + आम् [**आण्नद्याः** (7.3.112) नदीसंज्ञक-अङ्गात् विहितस्य ङित्-प्रत्ययस्य "आट्" आगमः]
--> गौरी + आम् [**आटश्च** (6.1.90) इति वृद्ध्यैकादेशः]
--> गौर्याम् [**इको यणचि** (6.1.77) इति यणादेशः]
"प्रधी" (प्रध्यायति सा) इत्यादीनां केषाञ्चन शब्दानां केवलं काशिकाकारस्य मतेन एव नदीसंज्ञा भवति, कैयटस्य मतेन न, अतः एतादृशानां शब्दानां रूपाणि अपि पक्षद्वये भिद्यन्ते । यथा, काशिकामतेन "प्रधी"शब्दस्य नदीसंज्ञायां कृतायाम् "प्रध्यै", "प्रध्याः", "प्रधीनाम्", "प्रध्याम्", "हे प्रधि" इति रूपाणि भवन्ति । कैयटमतेन तु अस्य शब्दस्य नदीसंज्ञा एव नास्ति, अतः अस्य रूपाणि "प्रध्ये", "प्रध्यः", "प्रध्याम्", "प्रध्यि", "हे प्रधीः" इति भवन्ति ।
**बाध्यबाधकभावः**
"श्री", "धी", "भ्रू" - इत्यादयः शब्दाः, ये अजादिप्रत्ययेषु परेषु "इयङ्" उत "उवङ्" इति आदेशं प्राप्नुवन्ति, तेषां विषये प्रकृतसूत्रेण नदीसंज्ञायां प्राप्तायाम् **नेयङुवङ्स्थानावस्त्री** (1.4.4) इति अग्रिमसूत्रेण सा निषिध्यते, ततः षष्ठीबहुवचनस्य आम्-प्रत्यये परे **वामि** (1.4.5) इत्यनेन, तथा च ङित्-प्रत्ययेषु परे **ङिति ह्रस्वश्च** (1.4.6) इत्यनेन सा पुनः विकल्पेन विधीयते ।
**वार्त्तिकम् - **
य: दीर्घ-ईकारान्तः दीर्घ-ऊकारान्तः वा **पुंलिङ्गशब्दः** समासादिवृत्त्या सिद्ध्यति, तस्य अपि केषुचित् स्थलेषु नदीसंज्ञां विधातुम् वार्त्तिककारेण इदं वार्त्तिकम् पाठितम् अस्ति । कौमुदीकारः इदं वार्त्तिकं स्पष्टीकुर्वन् ब्रूते - पूर्वं स्त्र्याख्यस्य उपसर्जनेऽपि नदीत्वं वक्तव्यम् इति । **पूर्वं स्त्र्याख्यस्य नदीत्वं वक्तव्यम्** इत्युक्ते, वृत्तेः पूर्वम् यः शब्दः नित्यस्त्रीलिङ्गवाची अस्ति, तस्य शब्दस्य वृत्तेः अनन्तरम् अपि अवश्यं नदीसंज्ञा भवति - इति । कदा भवति ? **उपसर्जने अपि भवति** । इत्युक्ते, **सः नित्यस्त्रीलिङ्गशब्दः वृत्तेः अनन्तरं पुंलिङ्गे प्रयुज्यते चेद् अपि भवति** - इत्यर्थः । **समासादिवृत्त्या सिद्धे दीर्घ-ईकारान्ते दीर्घ-ऊकारान्ते वा पुंलिङ्गशब्दे अवयवरूपेण विद्यमानः नित्यस्त्रीलिङ्गशब्दः तस्मिन् पुंलिङ्गशब्दे अपि नदीसंज्ञकः भवति, तदनुषङ्गेण च सम्पूर्णस्य पुंलिङ्गशब्दस्य अपि अवश्यं नदीसंज्ञा भवति** - इति अस्य सर्वस्य आशयः । अस्य कानिचन उदाहरणानि एतानि -
1. "बह्व्यः श्रेयस्यः यस्य सः" अस्मिन् अर्थे बहुव्रीहिसमासं कृत्वा "बहुश्रेयसी" इति दीर्घ-ईकारान्तपुंलिङ्गशब्दः सिद्ध्यन्ति । अस्मिन् शब्दे उपसर्जनरूपेण "श्रेयसी" इति शब्दः विद्यते । अयं शब्दः दीर्घ-ईकारान्तः नित्यस्त्रीलिङ्गवाची च अस्ति । अतः यद्यपि अयं शब्दः "बहुश्रेयसी" इत्यत्र उपसर्जनरूपेण प्रयुक्तः अस्ति (इत्युक्ते, पुंलिङ्गरूपेण प्रयुक्तः अस्ति) तथापि अस्य शब्दस्य, तदनुषङ्गेण च "बहुश्रेयसी"-शब्दस्य अपि इति वार्त्तिकेन अवश्यम् नदीसंज्ञा भवति । नदीसंज्ञायां लब्धायाम् अस्य रूपाणि अपि "बहुश्रेयस्यै", "बहुश्रेयस्याः", "बहुश्रेयसीनाम्", "बहुश्रेयस्याम्", "हे बहुश्रेयसि" - इति भवन्ति ।
2. "प्रकृष्टा धीः यस्य सः" अस्मिन् अर्थे बहुव्रीहिसमासं कृत्वा "प्रधी" इति दीर्घ-ईकारान्तपुंलिङ्गशब्दः सिद्ध्यति । अस्मिन् शब्दे उपसर्जनरूपेण "धी" इति शब्दः विद्यते । अयं शब्दः दीर्घ-ईकारान्तः नित्यस्त्रीलिङ्गवाची च अस्ति । अतः यद्यपि अयं शब्दः "प्रधी" इत्यत्र उपसर्जनरूपेण प्रयुक्तः अस्ति (इत्युक्ते, पुंलिङ्गरूपेण प्रयुक्तः अस्ति) तथापि अस्य शब्दस्य, तदनुषङ्गेण च "प्रधी"-शब्दस्य अपि इति वार्त्तिकेन अवश्यम् नदीसंज्ञा भवति । नदीसंज्ञायां लब्धायाम् अस्य रूपाणि अपि "प्रध्यै", "प्रध्याः", "प्रधीनाम्", "प्रध्याम्", "हे प्रधि" - इति भवन्ति ।
उपरि **स्त्र्याख्यौ ** इति शब्दस्य विवरणसमये "प्रध्यायति सः" अस्मिन् अर्थे सिद्धस्य "प्रधी" शब्दस्य नदीसंज्ञा न भवति इति स्पष्टीकृतम् अस्ति । सः शब्दः भिन्नः, अत्र च "प्रकृष्टा धीः यस्य सः" अस्मिन् अर्थे सिद्धः "प्रधी"-शब्दः भिन्नः ।
3. "कुमारीम् आत्मनः इच्छति" अस्मिन् अर्थे "कुमारी"-शब्दात् "क्यच्" इति सनादिप्रत्यये कृते, ततः च तस्मात् "क्विप्"-प्रत्यये कृते "कुमारी" इति दीर्घ-ईकारान्तपुंलिङ्गशब्दः सिद्ध्यति । यः पुरुषः स्वस्य कृते कुमारीम् इच्छति, सः अपि "कुमारी" इति नाम्ना एव ज्ञायते इति अस्य आशयः । अस्मिन् शब्दे उपसर्जनरूपेण "कुमारी" इति दीर्घ-ईकारान्तः नित्यस्त्रीलिङ्गवाची शब्दः विद्यते । अस्य शब्दस्य, तदनुषङ्गेण च पुंलिङ्गवाचिनः "कुमारी"-शब्दस्य अपि इति वार्त्तिकेन नदीसंज्ञा भवति । नदीसंज्ञायां लब्धायाम् अस्य रूपाणि अपि "कुमार्यै", "कुमार्याः", "कुमारीणाम्", "कुमार्याम्", "हे कुमारि" - इति भवन्ति ।
4. "कुमारी इव आचरति" अस्मिन् अर्थे "कुमारी"-शब्दात् "क्विप्" इति सनादिप्रत्यये कृते, ततः च तस्मात् पुनः "क्विप्" इति कृत्प्रत्यये कृते "कुमारी" इति दीर्घ-ईकारान्तपुंलिङ्गशब्दः सिद्ध्यति । यः पुरुषः कुमारीसदृशम् आचरणं करोति, सः अपि "कुमारी" इति नाम्ना एव ज्ञायते इति अस्य आशयः । अस्मिन् शब्दे अपि, पूर्वशब्दसदृशम् उपसर्जनरूपेण "कुमारी" इति दीर्घ-ईकारान्तः नित्यस्त्रीलिङ्गवाची शब्दः विद्यते । अस्य शब्दस्य, तदनुषङ्गेण च पुंलिङ्गवाचिनः "कुमारी"-शब्दस्य अपि इति वार्त्तिकेन नदीसंज्ञा भवति । नदीसंज्ञायां लब्धायाम् अस्य रूपाणि अपि "कुमार्यै", "कुमार्याः", "कुमारीणाम्", "कुमार्याम्", "हे कुमारि" - इत्येव भवन्ति ।
1. इति वार्त्तिकस्य प्रयोगः केवलम् **पुंलिङ्गवाचिशब्दानां कृते** एव भवति, **स्त्रीलिङ्गवाचिशब्दानां कृते न ।** अतः, "प्रकृष्टा धीः यस्या साः" इत्यस्मिन् अर्थे स्त्रीलिङ्गे प्रयुक्तः "प्रधी"-शब्दः अनेन वार्त्तिकेन नदीसंज्ञकः न भवति । अस्यां स्थितौ अस्य (स्त्रीलिङ्गे प्रयुक्तस्य "प्रधी"-शब्दस्य) नदीसंज्ञा भवति वा - इति प्रश्ने कृते, अस्मिन् विषये काशिका-कैयटयोर्मध्ये मतान्तरम् वर्तते । अयं विषयः उपरि विस्तरेण प्रतिपादितः अस्ति । संक्षेपेण, काशिकाकारस्य मतेन एतादृशस्य स्त्रीलिङ्गे प्रयुक्तस्य "प्रधी"-शब्दस्य नदीसंज्ञा भवति । परन्तु कैयटस्य मतेन स्त्रीलिङ्गे प्रयुक्तस्य "प्रधी"-शब्दस्य नदीसंज्ञा न भवति ।
2. ये शब्दाः **नित्यस्त्रीलिङ्गवाचिनः** सन्ति (इत्युक्ते, पुंलिङ्गे नपुंसकलिङ्गे वा नैव प्रयोक्तुं शक्याः) तेषां विषये समस्तपदत्वे अपि **यू स्त्र्याख्यौ नदी** (1.4.3) इति प्रकृतसूत्रेणैव नदीसंज्ञा भवति । यथा, "प्रकृष्टा च असौ धीः" इत्यस्मिन् अर्थे सिद्धम् "प्रधी" इति प्रातिपदिकम् नित्यस्त्रीलिङ्गवाचि सत् सूत्रसामर्थ्यात् एव नदीसंज्ञकम् भवति ।
**इयं शब्दस्य संज्ञा, न हि वर्णस्य**
प्रकृतसूत्रे विद्यमानः **यू** इति शब्दः दीर्घ-ईकारस्य, दीर्घ-ऊकारस्य च ग्रहणं करोति । एतयोः वर्णयोः सन्दर्भेण अस्माभिः **तदन्तविधिः** स्वीकृतः अस्ति, येन **दीर्घ-ईकारान्तशब्दस्य, दीर्घ-ऊकारान्तशब्दस्य च नदीसंज्ञा भवति** इति अर्थः सिद्ध्यति । परन्तु **एतादृशं तदन्तग्रहणं नैव करणीयम्, अपितु केवलम् दीर्घ-ईकारस्य, दीर्घ-ऊकारस्य च नदीसंज्ञा करणीया - इति केचन वैयाकरणाः मन्यन्ते** । एते वैयाकरणाः स्वस्य पक्षस्य पुष्ट्यर्थम् **आच्छीनद्योर्नुम्** (7.1.80) इति सूत्रम् अपि प्रमाणरूपेण निर्दिशन्ति । अस्मिन् सूत्रे विद्यमानः **नदी** इति शब्द: केवलम् **दीर्घ-ईकारस्यैव** निर्देशं करोति (दीर्घ-ईकारान्त-**शब्दस्य** न), अतश्च नदीसंज्ञा अपि केवलं दीर्घ-वर्णस्य एव करणीया - इति तेषाम् आशयः । परन्तु एतादृशं क्रियते चेत् अनेके दोषाः उद्भवन्ति । यथा, "लक्ष्मी" इति शब्दे विद्यमानः ईकारः न हि स्त्र्याख्यः अस्ति, अतः अस्य शब्दस्य नदीसंज्ञा नैव सम्भवति । किञ्च, दीर्घ-ईकारमात्रम् / दीर्घ-ऊकारमात्रम् केनापि सूत्रेण इयङ्-स्थानी / उवङ्-स्थानी नैव विधीयते, अतः केवलं दीर्घ-ईकारस्य दीर्घ-ऊकारस्य वा नदीसंज्ञायां कृतायाम् **नेयङुवङ्स्थानावस्त्री** (1.4.4) इति अग्रिमसूत्रेण निर्दिष्टः निषेधः अपि व्यर्थः जायते । एतादृशान् दोषान् दृष्ट्वा एव प्रकृतसूत्रे तदन्तग्रहणं कृत्वा शब्दस्यैव नदीसंज्ञा कृता वर्तते ।
Sutrartha (English)
-------------------
The दीर्घ-ईकारान्त and दीर्घ-ऊकारान्त words which are only used as स्त्रीलिङ्ग forms get the term 'नदी'.
Vasu English Summary
--------------------
Word-forms ending in long ई and ऊ being names of females called नदी।
Vasu English Translation
------------------------
Word-forms ending in long ई and ऊ being names of females called नदी।
The word यू is compound of ई + ऊ The word *stryakhya* means that which by itself denotes the name of a female. These words must be always feminine, having no masculine of the same form, as the word *gramani* has. As the words *Kumari* a virgin, यवागू, *yavaguh* rice gruel. The declension of nouns of *nadi* class is somewhat peculiar which will be treated of later. As see Rule (7.3.112) आट् is the augment of the case-affixes having an indicatory ङ when they come after a word ending with a *Nadi*.
Why do we say ending in ई and ऊ ? Because feminine nouns not ending in these vowels will not be declined like *Nadi* words. Thus while the dative of कुमारी will be कुमार्य्यै, the dative of दुहितृ will be दुहित्रे.
Why do we say 'which are feminine'? Because if they are names of males, they will not be called *Nadi*. As ग्रामणीः leader of a village; सेनानी leader of an army; खलपू a sweeper; their dative being ग्रामण्ये, सेनान्ये, खलप्ये.
Why have we used the word *akhya* 'name' in the text? Because feminine gender must be denoted by the word itself and not by any other epithet used along with the word. Thus if the head-borough or the sweeper should be of the female sex, the Dative Singular would still be ग्रामण्ये स्त्रियै and खलप्वे स्त्रियै.
Bhashya
-------
यू स्त्र्याख्यौ नदी (243) यू इति किमर्थम् ? खट्वा। माला । किंच स्यात् ? खट्वाबन्धुः। मालाबन्धुः । नदी बन्धुनि (6.2.109) इत्येष स्वरः प्रसज्येत । इह च बहुखट्वक इति नद्यृतश्च (5.4.153) इति नित्यः कप्प्रसज्येत । नैषः दोषः । आचार्यप्रवृत्तिर्ज्ञापयति नापो नदीसंज्ञा भवतीति यदयं ङेराम्नद्याम्नीभ्यः (7.3.116) इति पृथगाब्ग्रहणं करोति ॥ इह तर्हि - मात्रे मातुरिति आण्नद्याः (112) इत्याट्प्रसज्येत । किं पुनरिदं दीर्घयोर्ग्रहणमाहोस्विदह्रस्वयोः ? किं चातः ? यदि दीर्घयोर्ग्रहणं यू इति निर्देशो नोपपद्यते । दीर्घाद्धि पूर्वसवर्णदीर्घः प्रतिषिध्यते । उत्तरत्र च (संज्ञि) विशेषणं न प्रकल्पेत यू ह्रस्वाविति । यदि यू, न ह्रस्वौ, अथ ह्रस्वौ, न यू । यू ह्रस्वौ चेति विप्रतिषिद्धम् ॥ अथ ह्रस्वयोः, हे शकटे अत्रापि प्रसज्येत । नैषः दोषः । अवश्यमत्र विभाषा नदीसंज्ञैषितव्या । उभयं हीष्यते - हे शकटि, हे शकटे इति (च) । इह तर्हि - शकटिबन्धुः इति नदी बन्धुनि (6.2.109) इत्येष स्वरः प्रसज्येत । इह च बहुशकटिरिति नद्यृतश्च (5.4.153) इति कप्प्रसज्येत ॥ नैषः दोषः । ङिति ह्रस्वश्च (1.4.6) इत्ययं नियमार्थो भविष्यति - ङित्येव यू ह्रस्वौ नदीसंज्ञौ भवतो नान्यत्रेति । कैमर्थक्यान्नियमो भवति ? विधेयं नास्तीति कृत्वा । इह चास्ति विधेयम् । किम् ? नित्या नदी संज्ञा प्राप्ता, सा विभाषा विधेया । तत्रापूर्वो विधिरस्तु नियमो (वाटऽस्त्वित्यपूर्व एव विधिर्भविष्यति न नियमः । अथायं नित्यो योगः स्यात्प्रकल्पेत नियमः ? बाढं प्रकल्पेत । नित्यस्तर्हि भविष्यति । तत्कथम् ? योगविभागः करिष्यते । इदमस्ति, - यू स्त्र्याख्यौ नदी नेयङुवङ्स्थानावस्त्री (4) वामि (5) । ततो ङिति । ङिति चेयङुवङ्स्थानौ यू वाऽस्त्री नदीसंज्ञौ न भवतः । ततो ह्रस्वौ ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसंज्ञौ भवतः । इयङुवङ्स्थानौ वा नेति निवृत्तम् । यद्येवं शकटये अत्र गुणो न प्राप्नोति । द्वितीयो योगविभागः करिष्यते। शेषग्रहणं न करिष्यते । कथम् ? इदमस्ति - यू स्त्र्याख्यौ नदी नेयङुवङ्स्थानावस्त्री वामि । ततो ङिति ङिति चेयङुवङ्स्थानौ यू वाऽस्त्री नदीसंज्ञौ न भवतः । ततो ह्रस्वौ ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसंज्ञौ भवतः । इयङुवङ्स्थानौ वा नेति निवृत्तम् । ततो घि । घिंसज्ञौ च भवतः स्त्र्याख्यौ यू ह्रस्वौ ङिति । ततोऽसखि । सखिवर्जितौ च यू ह्रस्वौ घिसंज्ञौ भवतः । स्त्र्याख्यौ ङितीति च निवृत्तम् ॥ यदि तर्हि शेषग्रहणं न क्रियते नार्थ एकेनापि योगविभागेन । अविशेषेण नदीसंज्ञोत्सर्गः । तस्याः ह्रस्वयोर्घिसंज्ञा बाधिका । तस्यां नित्यं प्राप्तयामियं ङिति विभाषाऽऽरभ्यते । अथवा पुनरस्तु दीर्घयोः । ननु चोक्तम् - निर्देशो नोपपद्यते । दीर्घाद्धि पूर्वसवर्णदीर्घः प्रतिषिध्यत इति । वा छन्दसि (6.1.106) इत्येवं भविष्यति । छन्दसीत्युच्यते। न चेदं छन्दः । छन्दोवत्सूत्राणि भवन्तीति । यदप्युच्यते - उत्तरत्र विशेषणं न प्रकल्पेत यू ह्रस्वाविति,यदि यू, न ह्रस्वौ । अथ ह्रस्वौ, न यू । यू ह्रस्वाविति च विप्रतिषिद्धमिति । नैतद्विप्रतिषिद्धम् । आहायं यू ह्रस्वाविति । यदि यू, न ह्रस्वौ । अथ ह्रस्वौ, न यू । त एवं विज्ञास्यामः - य्वोर्यौ ह्रस्वाविति । कौ च य्वोर्ह्रस्वौ ? सवर्णौ । अथ स्त्र्याख्याविति कोयं शब्दः ? स्त्रियमाचक्षाते स्त्र्याख्यौ । यद्येवं स्त्र्याख्यायाविति प्राप्नोति । अनुपसर्गे हि को विधीयते । न तर्हीदानीमिदं भवति - यस्मिन्दश सहस्राणि पुत्रे जाते गवां ददौ । ब्राह्मणेभ्यः प्रियाख्येभ्यः सोयमुञ्ञ्छेन जीवति ॥ छन्दोवत्कवयः कुर्वन्ति । नह्येषेष्टिः ॥ एवं तर्हि कर्मसाधनो भविष्यति। स्त्रियामाख्यायेते स्त्राख्यौ । यदि कर्मसाधनः कृत्स्त्रिया धातुस्त्रियाश्च न सिध्यति, तन्त्र्यै लक्ष्मयै श्रियै भ्रुवै ॥ एवं तर्हि बहुव्रीहिर्भविष्यति, - स्त्रियामाख्याऽनयोः स्त्र्याख्यौ । एवमपि कृत्स्त्रिया धातुस्त्रियाश्च न सिध्यति, - तन्त्र्यै लक्ष्म्यै श्रियै भ्रुवै । एवं तर्हि विज्भविष्यति। अथ वा पुनरस्तु क एव - स्त्रियमाचक्षाते स्त्र्याख्याविति । ननु चोक्तं स्त्र्याख्यायाविति प्राप्नोति । अनुपसर्गे हि को विधीयते इति । मूलविभुजादिपाठात्को भविष्यति । एवं च कृत्वा सोऽप्यदोषो भवति यदुक्तम् - यस्मिन्दश सहस्राणि पुत्रे जाते गवां ददौ । ब्राह्मणेभ्यः प्रियाख्येभ्यः सोऽयमुञ्ञ्छेन जीवति ॥ इति । अथाख्याग्रहणं किमर्थम् ? नदीसंज्ञायामाख्याग्रहणं स्त्रीविषयार्थम् ॥ 1 ॥ नदीसंज्ञायामाख्याग्रहणं क्रियते स्त्रीविषयार्थम् । स्त्रीविषयावेव यौ नित्यं तयोरेव नदीसंज्ञा यथा स्यात् । इह मा भूत् - ग्रामण्ये सेनान्ये स्त्रियै इति । प्रथमलिङ्गग्रहणं च ॥ 2 ॥ प्रथमलिङ्गग्रहणं च कर्तव्यम् । प्रथमलिङ्गे यौ स्त्राख्यौ इति वक्तव्यम् । किं प्रयोजनम् ? प्रयोजनं क्विब्लुप्समसाः ॥ 3 ॥ क्विप् - कुमार्यै ब्राह्मणाय । लुप् - खरकुट्यै ब्राह्मणाय । समास - अतितन्त्र्यै ब्राह्मणाय । अतिलक्ष्म्यै ब्राह्मणाय । ततर्हि वक्तव्यम् ? न वक्तव्यम् । अवयवस्त्रीविषयत्वात्सिद्धम् ॥ 4 ॥ अवयवोत्र स्त्रीविषयस्तदाश्रया नदीसंज्ञा भविष्यति । अवयवस्त्रीविषयत्वात्सिद्धमिति चेदियङुवङ्स्थानप्रतिषेधप्रसङ्गे यण्स्थानप्रतिषेधप्रसङ्गोवयवस्येयङुवङ्स्थानत्वात् ॥ 5 ॥ अवयवस्त्रीविषयत्वात्सिद्धमिति चेदियङुवङ्स्थानप्रतिषेधप्रसङ्गे यण्स्थानयोरपि य्वोः प्रतिषेधः प्रसज्येत । आध्यै प्रध्यै ब्राह्मण्यै । किं कारणम् ? अवयवस्य इयङ्स्थानत्वात् । अवयवोऽत्र इयङ्स्थानः । सिद्धं त्वङ्गरूपग्रहणाद्यस्याङ्गस्येयुवौ तत्प्रतिषेधात् ॥ 6 ॥ सिद्धमेतत् । कथम् ? अङ्गरूपं गृह्यते । यस्याऽङ्गस्येयुवौ भवतस्तस्येदं ग्रहणम्। न चैतस्याङ्गस्येयुवौ भवतः । ह्रस्वेयुव्स्थानप्रवृत्तौ च स्त्रीवचने ॥ 7 ॥ ह्रस्वौ चेयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनावेव नदीसंज्ञौ भवत इति वक्तव्यम् । शकट्यै। अतिशकट्यै ब्राह्मण्यै । क्व मा भूत्? शकटये अतिशकटये ब्राह्मणाय। धेन्वै अतिधेन्वै ब्राह्मण्यै । क्व मा भूत् ? धेनवे अतिधेनवे ब्राह्मणाय । श्रियै अतिश्रियै ब्राह्मण्यै । क्व मा भूत् ? श्रिये अतिश्रिये ब्राह्मणाय । भ्रुवै अतिभ्रुवै ब्राह्मण्यै । क्व मा भूत् ? भ्रुवे अतिभ्रुवे ब्राह्मणाय । अपर आह - ह्रस्वेयुव्स्थानप्रवृत्तौ स्त्रीवचने ॥ 8 ॥ ह्रस्वौ चेयुव्स्थानौ च प्रवृत्तावपि स्त्रीवचनावेव नदीसंज्ञौ भवत इति वक्तव्यम् । किं प्रयोजनम् ? शकट्यै अतिशकट्यै ब्राह्मण्यै । क्व मा भूत् ? शकटये अतिशकटये ब्राह्मणाय । धेन्वै अतिधेन्वै ब्राह्मण्यै । क्व मा भूत् ? धेनवे अतिधेनवे ब्राह्मणाय । श्रियै अतिश्रियै ब्राह्मण्यै । क्व मा भूत् ? श्रिये अतिश्रिये ब्राह्मणाय । भ्रुवै अतिभ्रुवै ब्राह्मण्यै । क्व मा भूत् ? भ्रुवे अतिभ्रुवे ब्राह्मणाय । किमर्थं पुनरिदमुच्यते ? प्रथमलिङ्गग्रहणं चोदितं तद्द्वेष्यं विजानीयात्सर्वमेतद्विकल्पते इति । तदाचार्यः सुहृद्भूत्वान्वाचष्टे ह्रस्वौ चेयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनावेवेति ॥ 3 ॥
Kashika
-------
ई च ऊ च यू। अविभक्तिकोऽय निर्देशः। स्त्रियमाचक्षाते स्त्र्याख्यौ। मूलविभुजादिदर्शनात् (३.२.५ वा०) कप्रत्ययः। ईकारान्तमूकारान्तं च स्त्र्याख्यं शब्दरूपं नदीसंज्ञं भवति। ईकारान्तम् — कुमारी। गौरी। लक्ष्मीः। शार्ङ्गरवी। ऊकारान्तम् — ब्रह्मबन्धूः। यवागूः। यू इति किम्? मात्रे। दुहित्रे। स्त्र्याख्याविति किम्? ग्रामणीः। सेनानीः। खलपूः। आख्याग्रहणं किम्? शब्दार्थे स्त्रीत्व एव यथा स्यात् पदान्तराख्ये मा भूत्। ग्रामण्ये स्त्रियै। खलप्वे स्त्रियै। नदीप्रदेशाः — **आण् नद्याः** (७.३.११२) इत्येवमादयः॥
Siddhanta Kaumudi
-----------------
ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः । (वार्तिकम्) ॥ पूर्व स्त्र्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः ॥
Laghu Siddhanta Kaumudi
-----------------------
ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः। **प्रथमलिङ्गग्रहणं च** (वार्त्तिकम्)। पूर्वं स्त्र्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः॥
Balamanorama
------------
**यू स्त्र्याख्यौ नदी** - हे बहुश्रेयसी सिति स्थिते नदीकार्यं वक्ष्यन्नदीसंज्ञामाह — यूस्त्र्याख्यौ नदी । ईश्चौउश्च यू । पूर्वसवर्णदीर्घः ।दीर्घाज्जसि चे॑ति निषेधाऽभावश्छान्दसः । व्याख्यानाद्दीर्घयोरेव ग्रहणम् । स्त्रियमाचक्षाते स्त्र्याख्यौ । शब्दावित्यर्थाल्लभ्यते । 'यू' इतितद्विशेषणं, ततस्तदन्तविधिः ।स्त्रिया॑मित्येव सिद्धेआख्या॑ग्रहणं नित्यस्त्रीलिङ्गलाभार्थम् । द्वित्वे नदीत्येकवचनं छान्दसम् । तदाह — इदूदन्तावित्यादिना । यू किम् । मात्रे । 'आण्नद्याः' इति न भवति । स्त्रीलिङ्गाविति किम् । वातप्रम्ये । नित्येति किम् । ग्रामण्ये ।ननु प्रकृते बहुश्रेयसीशब्दस्य पुंलिङ्गत्वात्कथं नदीसंज्ञेत्यत आह — प्रथमलिङ्गग्रहणं चेति । वार्तिकमेतत् । प्रथमस्य=समासादिवृत्तिप्रवृत्तेः पूर्वं प्रवृत्तस्य, स्त्रीलिङ्गस्य 'यूस्त्र्याख्यौ' इत्यत्र ग्रहणं कर्तव्यमित्यर्थः । नन्वेवं सति समासादिवृत्त्यभावे गौर्यादिशब्दानां नदीत्वं न स्यादित्याशङ्क्य अपिशब्दमध्याह्मत्य व्याचष्टे — पूर्वमित्यादिना । समासादिवृत्तिप्रवृत्तेः पूर्वं स्त्रीलिङ्गस्य सतः वृत्तिदशायामुपसर्जनतया स्त्रीलिङ्गत्वाऽभावेऽपी नदीत्वं वक्तव्यमिति वार्तिकार्थ इति भावः । अम्बार्थनद्योह्र्यस्वः ।
Tattvabodhini
-------------
**यू स्त्र्याख्यौ नदी** - यू स्त्र्याख्यौ । ईआ ऊश्च यू । व्याख्यानाद्दीर्घयोरेव ग्रहणम् । अविभक्तिकोऽयं निर्देश इत्येके ।दीर्घाज्जसि चे॑ति निषेधस्यवा छन्दासी॑ति पाक्षिकत्वात्पर्थमयोः पूर्वसवर्णः॑इति दीर्घ इत्यन्ये इह॒प्रत्ययस्यैव ग्रहण॑मिति परिभाषा नोपतिष्ठते । नेयङुवङ्स्थानावस्त्री॑ ति निषेधाल्लिङ्गात् । तेनप्रध्यै॒॑प्रध्य॑इत्यादौ नदीकार्यं स्यादेव । स्त्रियमाचक्षाते स्त्र्याख्यौ । मूलविभुजादित्वात्काः ।चक्षिडः ख्याञ् ।आतो लोप इटि चे॑त्यालोपः । ईदुदन्तविति । इहवर्णयोरेव संज्ञे॑त्यपि पक्षोऽस्ति ।आच्छीनद्योः — ॑इति सूत्रस्वरसात् । तयोः स्त्र्याख्यत्वं तु ङ्यादिषु स्वतः, तन्त्रीर्लक्ष्मिरित्यादौ तु स्त्रीवाचकवर्णसमुदाये घटकत्वेन प्रवेशात् । तेन नद्यन्तादिव्यवहारो न विरुध्यते । एवंशेषो ध्यसखी॑त्यत्रापिइवर्णोवर्णयोरेव घिसंज्ञे॑ति पक्षोऽप्यस्तीति बोध्यम् । तेनध्यन्ताजाद्यन्तयोघ्र्यन्तं पर॑मिति व्यवहारः सङ्गच्छेते । वर्णसंज्ञापक्षेअसखी॑त्यस्य सखिभिन्नस्ययव इत्यर्थो न तुसकिशब्दावयवं वर्जयित्वे॑ति । तेन समुदायस्य सखिशब्दभिन्नत्वादितिसखिनोत्यादि निर्बाधमित्यवधेयम् ।॒स्त्रिया॑मित्येव वक्तव्ये आख्याग्रहणं नित्यस्त्रीत्वलाभार्थमित्याशयनाह-नित्यस्त्रीलिङ्गाविति । यू किम् ।, मात्रे । स्त्र्याख्याविति किम्, ग्रामण्येष पूर्वमिति । वृत्तेः प्रागित्यर्थः । संज्ञायां यथोद्देशपर्वृत्तौ न्यायसिद्धमिदं, कार्यकालपक्षे तु वाचमिकमित्याहुः ।
Padamanjari
-----------
अत्र ह्रस्वयोरिदुतोर्ग्रहणे यद्यपि सवर्णग्रहणाद्दीर्घयोरपि संज्ञा लभ्यते, ह्रस्वयोरपि तु स्यात्;ततश्च हे शकटे, हे धेनो अत्रापि प्राप्नोति; इह च शकटिबन्धुः-ठ्नदी बन्धुनिऽ इति पूर्वपदान्तोदातत्वं प्रसज्यते; इह च बहुशकटिः बहुधेनुरिति-नद्यःतश्चऽ इति नित्यः कप्स्यात्, नैष दोषः,'ङिति ह्रस्वश्च' इत्येतन्नियमार्थं भविष्यति-ङ्त्येवि ह्रस्वौ नदीसंज्ञौ भवतः, नान्यत्रेति। कैमर्थ्यान्नियमो भवति विधेयं नास्तीति कृत्वा, इह चास्ति विधेयम्, किम? नित्या नदीसंज्ञा प्राप्नोति, सा विभाषा विधेया, अतो हुस्वयोरपि स्यादेवेति दोषं द्दष्ट्वा दीर्घयोर्ग्रहणमिति दर्शयति - ई च ऊ च यू इति। समासविधौ सुबधिकारान्नैतद् द्वन्द्वस्य विग्रहवाक्यम्, किं तर्हि? अर्थप्रदर्शनम्। अत्र चानुकार्यानुकरणयोरभेदविवक्षया विभक्तिर्न कृता । क्वचितु विभक्त्यन्तमेव पठ।ल्ते। ननु दीर्घयोर्ग्रहणे'यू' इति निर्देशो नोपद्यते,'दीर्घाज्जसि च' इति पूर्वसवर्णप्रतिषेधाद्, अत आह-अविभक्तिकोऽयं निर्देश इति।'दीर्घाज्जसिसुलुक्' इति लुप्तत्वाद्'वा च्छन्दसि' इति पूर्वसवर्णेनापहृतत्वाद्वा नास्मिन् विभक्तिः श्रुयते इत्यविभक्तिकः। अन्ये तु नैवायं द्वन्द्वः, किन्तु पृथक् पदे इत्युक्तमित्याहुः। अविभक्तिकत्वं चातुकार्यानुकरणयोरभेदविवक्षया। स्त्रियमाचक्षाते स्त्र्याख्याविति। ननु स्त्र्याख्या इति प्राप्नोति, ठनुपसर्गेऽ इति को विधीयते, यस्तु ठातश्चोपसर्गेऽ इति कः, अयमकर्मोपपदे चरितार्थः, कर्मणि त्वणा बाध्यते, यथा वक्ष्यति - अकारादनुपपदात् कर्मोपपदे विप्रतिषेधेनेति तत्राह - मूलविभुजादिषु दर्शनादिति। एवं च कृत्वा इदमपि सिद्धं भवति - यस्मिन् दशसहस्त्राणि पुत्रे जाते गवां ददौ। ब्राह्मणेभ्यः प्रियाख्येभ्यः सोऽयमुञ्छेन जीवति ॥ इति॥ इह ईदूतोरेवेयं संज्ञा विधीयेत? तदन्तस्य वा? आद्ये पक्षे कृत् स्त्रियां न स्याद् - आध्यै, ब्राह्मण्यै, हे लक्ष्मि, हे यवाग्विति; समुदायो ह्यत्र स्त्र्याख्यः, न त्वीदून्मात्रम्; ङ्यूङेरेव तु स्यात्, स्त्रियां विधानादन्वयव्यतिरेकाभ्यां च स्त्र्याख्यात्वादिति द्वितीयं पक्षमाशित्याह - ईकारान्तमित्यादि। वर्णग्रहणे सर्वत्र तदन्तविधिरिति तदन्तविधिलाभः,'सुप्तिङ्न्तम्' इत्यत्र सुप्तिङेः प्रत्ययत्वादन्यत्रापि प्रत्ययग्रहणेषु तदन्तविधिर्निवारितः। कथं पुनर्ज्ञायतेवर्णयोरेवेदं ग्रहणं न प्रत्ययोरिति, इयणुवङ्स्थानप्रतिषेधात्। यदि तदन्तस्य संज्ञा, कथं वक्ष्यति-शीनद्योः परतः नद्यन्तादङ्गादुतरस्य इति? समुदायस्य नदीत्वातदवयवभूतावीदूतावपि तथोक्तौ। अन्ये त्वाहुः- वर्णयोरेव संज्ञा, समुदायधर्मस्य स्त्रित्वस्यावयव आरोपात्। कृत् स्त्रियामपि भवति, अत्र च लिङ्गम्-इयणुवङ्स्थानप्रतिषेध इति; तेषां गुरुनदीसंज्ञयोः समावेशो न स्याद्, एकविषयत्वात्। यू इति किमिति।'णेóराम्नद्याम्नीभ्यः' इत्यत्र पृथगाब्ग्रहणाद् आपो न भविष्यतीति मन्यते। मात्रे दुहित्रे इति'न्द्यःतश्च' इति ऋकारग्रहणमस्त्र्यर्थ स्याद्। बहुपितृक इत्यत्रेत्यज्ञापकम् ऋकारान्तानां संज्ञाभावस्य। ग्रामणीः खलपूरिति। रूपोदाहरणमेतत्सम्बुद्ध्यन्तं वा द्रष्ट्व्यम्। अथाख्यग्रहणं किमर्थम्, यावता यु स्त्रियामित्येतावता स्त्र्यर्थवृत्तित्वं लभ्यते, तत्राह - आख्याग्रहणमिति। आङ्पूर्वंस्य'ख्या' इत्यस्य धातोर्ग्रहणमित्यर्थः। क्वचितु आख्यग्रहणं किमिति प्रश्नः। शब्दार्थस्त्रीत्व इति आख्याग्रहणसामर्थ्यात्पदान्तरमनपेक्ष्य यौ स्वयमेव स्त्रियमाचक्षाते इत्याश्रीयते। इष्वशनिप्रभृतीनां तूभयलिङ्गानां शब्दार्थ एव स्त्रीत्वमिति'ङिति ह्रस्वश्च' इति नदीसंज्ञा भवत्येव। एवं पटुअरानीयतामित्युक्ते स्त्रियमप्यानीय कृतीभवति। अन्ये त्वाहुः-आख्याग्रहणसामर्थ्यान्नियम आश्रीयते-स्त्रियमेव यावाचक्षाते न तु लिङ्गन्तरयुक्तम् इति। ग्रामणीखलपूशब्दयोस्तु क्रियाशब्दत्वेन त्रिलिङ्गत्वान्न भवति। इष्विशनिप्रभृतीनां तु स्त्रीविषयन्तवाभावेऽपि'ङिति ह्रस्वश्च' इत्यायत्र केवलस्य स्त्रीशब्दस्यैवानुवृत्तिर्नाख्याग्रहणस्येति भवतीति तेषामाङ्पूर्वस्य ध्यायतेः क्विपि सम्प्रसारणे-आध्यै ब्राह्मण्यै इत्यत्रापि न स्यात्। तस्मात्पूर्व एव प्रकार आश्रयणीयः। कथं तर्हि प्रत्युदाहरणम्-ग्रामण्यै स्त्रियै इति, खलप्वै स्त्रियै इति? उच्यते; क्रियाशब्दत्वेऽप्येतयोः पुंसि मुख्या वृत्तिः, पुंसामेव ह्यमुचितो धर्मो यदुत ग्रामनयनं नाम। एवं खलपवनमपि। आध्यानं तु स्त्रिपुंससाधारणमिति विशेषः।'पथमलिङ्गग्रहणं च प्रयोजनं क्विब्लुप्समासाः,' यः शब्दः प्रथमस्त्रित्वयुक्तद्रव्यमभिधाय पश्चाद्येन केनचित्प्रकारान्तरेण लिङ्गान्तरसंयुक्तं द्रव्यान्तरमाह, तस्य तदानीमस्त्र्याख्यत्वादप्राप्ता संज्ञा विधीयते। क्विप् - कुमारीमिच्छति कुमारीयति, कुमारीयतेः क्विप्, कुमारी ब्राह्मणः, तस्मै कुमार्यै ब्राह्याणाय। लुप् -'लुम्मनुष्ये' इति लुप्, खरकुट्यै ब्राह्मणाय। यद्यप्यत्र यचुक्तवद्भावात् स्त्रीत्वमप्यस्ति, तथापि स्वाश्रस्य पुंस्त्वस्यानिवृतेर्नाऽयं स्त्रियामेव वर्तत इत्याख्याग्रहणादप्राप्तिः । समासः- अतितन्त्र्यै ब्राह्मणाय। अवयवस्त्रीविषयत्वात् सिद्धम्, समासे तावदवयवस्तन्त्रीशब्दः स्त्रियामेव वर्तत इति तदानीमेव संज्ञा, ततश्च वर्णसंज्ञापक्षे समुदायस्य नद्यन्तत्वात् कार्यसिद्धिः; तदन्तपक्षे तु ठङ्गधिकारे तस्य च तदुतरपदस्य चऽ इति वचनाद् अतितन्त्रीबन्धुरित्यत्रापि'नदी बन्धुनि' इति स्वरः सिद्धः; नद्या पूर्वपदस्य विशेषणात्, क्विब्लुपोरपि पूर्व स्त्रियामेव वर्तित्वात्, पश्चादपि तदपरित्यागेनार्थान्तरे वृत्तिः। तत्रार्थान्तरसंसर्गात्प्रागेवान्तरङ्गत्वात्प्रवृता संज्ञा सत्यपि पश्चाल्लिङ्गान्तरयोगे तस्य च बहिरङ्गत्वान्न निवर्तिष्यते। यद्येवम्, इयणुवङ्स्थानप्रतिषेधे यण्स्थानप्रतिषेधप्रसङ्गः; अवयवयोरियणुवङ्स्थानत्वाद्। यथा ह्यवयवस्य स्त्रिविषयत्वात्समुदायस्य संज्ञा भवति, तथावयवस्येयुवस्थानत्वात् समुदायस्य यण्स्थानस्यापि प्रतिषेधप्रसङ्गः, यथा - धियौ, आध्याविति? सिद्धं त्वङ्गरूपग्रहणाद्, यस्याङ्गस्येयुवौ तत्प्रतिषेधादङ्गस्येयणुवङ्विधनासमर्थ्यादङ्गस्याक्षेपः, तेन यस्याङ्गस्येयणुवङै निर्वर्तेतेतस्य नदीसंज्ञा निषेधः। आध्यै इत्यत्र त्ववयवस्याङ्गत्वं नास्ति, अङ्गस्य ठेरनेकाचःऽ इति यण्विधानाद् इयणुवङ्स्थानता नास्तीति निषेधाभावः। एतदर्थमेव तत्र स्थानग्रहणम् - इयणुवङेर्यदा स्थितिस्तदा प्रतिषेधो यथा स्याद्, यदा त्वपवादेन बाधस्तदा मा भूदिति। एवं'ङिति ह्रस्वश्च' इत्यत्राप्यङ्गस्याक्षेपात् सोऽपि विधिरङ्गस्यैव स्त्रीत्वे भवति, नावयवस्य - शकट्यै, अतिशकटये ब्राह्मणाय; श्रियै, अतिश्रिये ब्राह्मणाय॥
Nyaas
-----
`ई च ऊ च यू` इति। ननु च **दीर्घाज्जसि च** (6.1.105) इति प्रथमयोः पूर्वसवर्णदीर्घत्वे प्रतिषिद्धे यणादेशे सति य्वाविति भवितव्यम्। तत्कथं `यू` इति निर्देश इत्यत आह - ` अविभक्तिकोऽयं निर्देशः` इति। `सुपां सुलुक्` (7.1.39) इति विभक्तिर्लुप्तत्वात्। नास्माद्विभक्तिर्विद्यत इत्यविभक्तिकः। `स्त्रियमाचक्षाते स्त्र्याख्यौ` इति। ननु च **कर्मण्यण्** (3.2.1) इत्यणि कृते **आतो युक् चिण्कृतोः** (7.3.33) इति युकि च स्त्र्याख्यायाविति भवितव्यम्, तत्कथं स्त्र्याख्याविति? **आतोऽनुपसर्गे कः** (3.2.3) इति कप्रत्यये कृत एतद्रूपमिति चेत्, न; चक्षिङोऽत्र सोपसरग्त्वादित्यत आह - `मूलविभुजादिदर्शनात्` इति। मूलविभुजादिष्वपि कप्रत्यय इष्यते। तथा च वक्ष्यति तृतीयेऽध्याये कप्रकरणे - `मूलविभुजादिभ्य उपसंख्यानम्` (वा।232) इति। तेन `स्त्र्याख्यौ` इति शब्दस्य मूलविभुजादिषु दर्शनात् कप्रत्ययः।इहेदूतोरेवेयं संज्ञा विधीयते? तदन्तयोर्वा? तत्र यद्याद्यः पक्ष आश्रीयेत, कृत्स्त्रियां न स्यात् - हे लक्ष्मि, हे यवाग्विति; समुदायौ ह्यत्र स्त्र्याख्यौ, न त्वीदूताविति। इममाद्ये पक्षे दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह - `ईकारान्तमूकारान्तम्` इत्यादि। ननु च **सुप्तिङन्तं पदम्** (1.4.14) इत्यत्रान्तग्रहणादन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्न लभ्यते, नैष दोषः; यदयम् `नेयङवङस्थानौ` (1.4.4) इति प्रतिषेधं शास्ति; तज्ज्ञापयति - भवतीह प्रकरणे तदन्तविधिरिति ; अन्यथा प्रतिषेधोऽनर्थकः स्यात्। न हीकारोकारमात्रं स्त्र्याख्यामियङस्थानमस्ति,किं तर्हि? तदन्तम्। `कुमारी` इति। **वयसि प्रथमे** (4.1.20) इति ङीष्। `गौरी` इति। `षिद्गौरादिभ्यश्च` ( (4.1.41) इति ङीष्। `शार्ङरवी` इति। `शार्ङरवाद्यञो ङीन्` (4.1.73) । `लक्ष्मीः` इति। `लक्ष दर्शनाङ्कयोः` (धातुपाठः-1538) `अवितृस्तृतन्त्रिभ्य ईः` (द।उ।1।82) इत्यनुवर्तमाने `लक्षेर्मुट् च` (द।उ।1।84) चकारादीकारश्च। `ब्राहृबन्धूः` इति। `ऊङुतः` (4.1.66) इत्यूङप्रत्ययः। ङकारः **नोङ्धात्वोः** (6.1.175) इति विशेषणार्थः। `यवागूः` इति। `यू मिश्रणे` (धा।प।#आ1033) `सुयूवचिभ्योऽन्युजागूजक्नुच्` (द।उ।10।4) इत्यागूच्प्रत्ययः। रूपोदाहरणान्येतानि।कार्यं तु `अम्बार्थनद्योह्र्यस्वः` (7.3.107) इत्येवमादि।`मात्रे, दुहित्रे` इत्यत्र नदीसंज्ञाया अभावात् `आण् नद्याः` (7.3.112) इत्याण् न भवति। `ग्रामणीः, खलपूः` इति। पंस्येतौ वर्तेते। तेन नतीसंज्ञाया अभावात् `अम्बार्थनद्योह्र्यस्वः` (7.3.107) इति ह्रस्वो न भवति। ग्रामं नयतीति `सत्सूद्विष` (3.2.61) इत्यादिना क्विप्। `अग्रग्रामाभ्याञ्च` (का।वा।5064) इति णत्वम्। खलं पुनातीति `अन्यभ्योऽपि दृश्यते` (3.2.178) इति क्विप्। `ग्रामण्ये स्त्रियै` इति। **एरनेकाचोऽसंयोगपूर्वस्य** (6.4.82) इति यणाअदेशः। `खलप्वे स्त्रियै`। अत्रापि ओः सुपि` (6.4.83) इति। अत्र स्त्रीशब्देन पदान्तरेण स्त्रीत्वं द्योत्यत इति नदीसंज्ञा न भवति, तेनाण्न भवति। इष्वशनिप्रभृतीनां तूभयलिङ्गानां शब्दार्थ एव स्त्रीत्वमिति भवत्येव नदीसंज्ञा - इष्वै, अशन्या इति। यदि पदान्तरद्योत्ये स्त्रीत्वे नदीसंज्ञा न भवति, इह पट्वै स्त्रिया इति पटुशब्दस्य पुरुषेऽपि दृष्ट्त्वात् पदान्तरद्योत्यमत्र स्त्रीत्वमिति नदीसंज्ञा न स्यात्, नैतदस्ति; पदान्तरं हि दविविधम्- क्वचित्सामान्येन प्रवृत्तिमाशङ्कमानस्य शब्दस्य सामान्यस्याभिधेयान्तरं व्यवच्छिनत्ति, यथा - गोशब्दस्य गवादिषु गौर्वागिति; क्वचित् प्रवृत्तिमेव करोति , यथा - वाहीकादौ गौर्वादीक इति। अत्र यत् सामान्यस्य शब्दस्य पट्वादेः पदान्तरसम्बन्धेन विशेषेऽवस्थानं तत् पदेऽन्तर्भूतमेवेत्याख्याग्रहणेन नापनीयते। ग्रामणीशब्दस्य तु स्त्रीत्वप्रवृत्तिः पदान्तरेण क्रियते,न तु व्यवच्छिद्यते। तेनासावाख्याग्रहणेनापसार्यते। एतयोस्तु क्रियाशब्दत्वेन रूढा पुंसिमुख्या वृत्ति। पटुशब्दस्य पाटवोपादयिनः परत्र मुख्येऽपीत्यस्ति भेदः।
Praudhamanorama
---------------
**ईदूदन्ताविति।** इह वर्णयोरेव संज्ञेत्यपि पक्षोऽस्ति 'आच्छीनद्योर्नुम्' इति सूत्रस्वरसात्। तयोस्त्र्याख्यत्वं तु ङ्यादिषु स्वतः क्वचित्स्त्रीवाचकवर्णसमुदायघटकत्वेन प्रवेशात्। शक्तिपर्याप्त्याधिकरणत्वस्याविवक्षितत्वात्। तेन नद्यन्तादित्यादिव्यवहारो न विरुध्यते। एवं घिसंज्ञायामपि इ उवर्णौ तदन्तं वा घिसंज्ञि इति पक्षद्वयं बोध्यम्। वर्णसंज्ञात्वे 'असखि' इत्यस्य सखिभिन्नस्यावयव इत्यर्थो न तु सखिशब्दावयवं वर्जयित्वेति। तेन 'अतिसखिना' इत्यादि निर्बाधमित्यवधेयम्।
Sarala
------
यू स्त्र्येति । **यू** - प्रथमान्तं, **स्त्र्याख्यौ** - प्रथमान्तं, **नदी** - प्रथमान्तम् । **पूर्वमिति** । वृत्तेः प्राक् नित्यस्त्रीलिङ्गोऽपि यः शब्दो वृत्तावुपसर्जनतयाऽन्यलिङ्गः सोऽपि नदीसञ्ज्ञो भवतीति वार्त्तिकार्थः ॥
Sudha
-----
**यू स्त्र्याख्याविति ।** ईश्च ऊश्व यू । व्याख्यानाद्दीर्घयोरेव ग्रहणम्, यू इति शब्दविशेषणम् । तदन्तविधिस्तदाह - **ईदूदन्त्गविति । पूर्वमित्यादि ।** समासादिवृत्तिप्रवृत्तेः पूर्वं स्त्रीलिङ्गस्य सतः वृत्तिदशायामुपसर्जनतया स्त्रीलिङ्गत्वाभावेऽपि नदीत्वं वक्तव्यमिति वार्तिकार्थः ।
Vartika
-------
प्रथमलिङ्गग्रहणं च ।
Sutra Prayogas
--------------
* **स्त्रियो** (भट्टिकाव्यम्): `दिवः कर्म च` इति कर्मसंज्ञा।