13093: लुटि च कॢपः ================== **Padacheda:** लुटि | S | 7 | 1 | च | S | 0 | 0 | कॢपः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the verb क्लिप् 'to be fit', परस्मैपद is optionally used, when लुट् (1st Future) is affixed, as well as when स्य and सन् are affixed. Vasu English Translation ------------------------ After the verb क्लिप् 'to be fit', परस्मैपद is optionally used, when लुट् (1st Future) is affixed, as well as when स्य and सन् are affixed. The verb क्लप् is one of the five verbs of the sub-class वृतादि of the last aphorism. Therefore it will take both *parasmaipada* and *Atmanepada*, when the affixes स्य or सन follow. The present *sutra* makes the additional declaration in the case of Ist Future or लुट. Thus in *Lut* we have-- कल्प्तसि or कल्प्तासे thou wilt be; in Ist Future we have :- कल्पिष्यते or कल्प्स्यति he will be; in the Desiderative we have :- चिक्लृप्सति or चिकल्पिषते; in the conditional we have :- अकल्प्स्यत् or अकाल्पष्यत. Bhashya ------- लुटि च कॢपः किमर्थश्चकारः ?। स्यसनोरित्येतदनुकृष्यते । यदि तर्हि नान्तरेण चकारमनुवृत्तिर्भवति, द्युद्भ्यो लुङि (1.3.91) इत्यत्रापि चकारः कर्तव्यः विभाषेत्यनुकर्षणार्थः। अथेदानीमन्तरेणापि चकारनुवृत्तिर्भवति, इहापि नार्थश्चकारेण ॥ एवं सर्वे चकाराः प्रत्याख्यायन्ते ॥ 93 ॥ इति श्रीभगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमाध्यायस्य तृतीये पादे द्वितीयमाह्निकम् । पादश्च तृतीयः समाप्तः । Kashika ------- वृतादित्वादेव स्यसनोर्विकल्पः सिद्धः, लुटि विधीयते। चकारस्तर्हि स्यसनोरनुकर्षणार्थो न वक्तव्यः। एवं तर्हीयं प्राप्तिः पूर्वां प्राप्तिं बाधेत। तस्माच्चकारः स्यसनोरनुकर्षणार्थः क्रियते। लुटि च स्यसनोश्च कृपेः परस्मैपदं वा भवति। कल्प्ता, कल्प्तारौ, कल्प्तारः। कल्प्स्यति। अकल्प्स्यत्। चिक्ऌप्सति। कल्पिता। कल्पिष्यते। अकल्पिष्यत। चिकल्पिषते॥ ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य तृतीयः पादः ॥ Siddhanta Kaumudi ----------------- लुटि स्यसनोश्च कॢपेः परस्मैपदं वा स्यात् ॥ Balamanorama ------------ **लुटि च कॢपः** - लुटि च कॢपः । चकारात्वृद्भ्यः सस्यनो॑रित्यतः स्यसनोरित्यनुकृष्यते,शेषात्कर्तरी॑त्यतः परस्मैपदमिति, 'वा क्यषः' इत्यतो वेति च । तदाह — लुटि स्यसनोरित्यादिना । Padamanjari ----------- एवं तर्हीति। सामान्यस्य विशेषो वाधक इति भावः। कल्प्तेत्यादौ'तासि च कॢपः' इतीट्प्रतिषेधः॥ इति हरदतविरचितायां पदमञ्जर्यां प्रथमाध्यायस्य तृतीयः पादः॥ Nyaas ----- `चकारस्तर्हि` इत्यादि। स्यसनोर्वृतादित्वादेव सिद्धे विकल्प इत्यभिप्रायः। `एवं तर्हि`इत्यादिना विशेषविधानं सामान्यविधानस्य बाधकं भवतीति विज्ञायते। ननु चयदीयं प्राप्तिः कृपेः प्राप्त बाधते, द्युतादिषु पाठस्य तस्यानर्थक्यं प्रसज्येत? नैतदस्ति; अङर्थत्वात्। ननु च स्यसनोरिति स्वरितत्वमिष्यते, तेन तस्य बाधा न भविष्यतीति, सत्यमेतत्; सूत्रकारस्तु चकारं वैचित्र्यार्थं चकार, न स्वरितत्वार्थम्। `कल्प्ता` इति। पूर्ववदधिकारद्वयानुवृत्तौ सत्यां `तासि च कॢपः` (7.2.60) इतीट्प्रतिषेधः। **लुटः प्रथमस्य डारौरसः** (2.4.85) इति डादेशः। **कृपो रो लः** (8.2.18) इति लत्वम् `चिकॢप्सति` इति। पूर्ववत् कित्वाद्गुणाभावः॥इति श्रोबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायांप्रथमाध्यायस्यतृतीयः पादः Prakriyasarvasvam ----------------- लुटि स्यसनोश्च कृपेर्वा परस्मैपदं स्यात् । Sutra Prayogas -------------- * **अकल्प्स्यदुद्यतिः** (भट्टिकाव्यम्): `लुटि च क्लृपः` इति चकारात् स्य सनोरपि भवति विभाषापरमैपदम्। * **कल्प्स्यति** (भट्टिकाव्यम्): `लुटि च क्लृपः` इति परस्मैपदम् । * **कल्पिष्यते** (भट्टिकाव्यम्): `लुटि च क्लृपः` इति चकारात् स्य- सनोरपि परस्मैपदविकल्पः। * **** (भट्टिकाव्यम्): `लुटि चक्लृपः` इति तङभावपक्षः। * **कल्प्तास्थः** (भट्टिकाव्यम्): `लुटि चक्लृपः` इति तङभावपक्षः।