13090: वा क्यषः =============== **Padacheda:** वा | S | 0 | 0 | क्यषः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affixes of the परस्मैपद are used optionally after the denominative verbs ending in the affix क्यष। Vasu English Translation ------------------------ The affixes of the परस्मैपद are used optionally after the denominative verbs ending in the affix क्यष। The affix क्यष is ordained by *sutra* (3.1.12) भृशादिभ्यो भूव्यच् वेर्लोपश्च हलः after the words लोहित &c. These roots take optionally *parasmaipada*. As लोहितायति or ते he reddens. पटपटायति or ते he makes *pat* *pat*. Kashika ------- **लोहितादिडाज्भ्यः क्यष्** (३.१.१३) इति वक्ष्यति। तदन्ताद् धातोर्वा परस्मैपदं भवति। लोहितायति, लोहितायते। पटपटायति, पटपटायते। अथात्र परस्मैपदेन मुक्ते कथमात्मनेपदं लभ्यते, यावता **अनुदात्तङित०** (१.३.१२) इत्येवमादिना प्रकरणेन तन्नियतम्? एवं तर्हि आत्मनेपदमेवात्र विकल्पितं विधीयते, तच्चानन्तरं परस्मैपदप्रतिषेधेन सन्निधापितमिह संबध्यते। तेन मुक्ते **शेषात् कर्तरि परस्मैपदम्** (१.३.७८) भवति॥ Siddhanta Kaumudi ----------------- क्यषन्तात्परस्मैपदं वा स्यात् । लोहितायति लोहितायते । अत्राच्वेरित्यनुवृत्त्याऽभूततद्भावविषयत्वं लब्धम् । तच्च लोहितशब्दस्यैव विशेषणं न तु डाचोऽसंभवात् । नाप्यादिशब्दग्राह्याणाम् । तस्य प्रत्याख्यानात् । तथा च वार्तिकम् । (वार्तिकम्) ॥ न चैवं काम्यच इव क्यषोऽपि ककारः श्रूयेत उच्चारणसामर्थ्यादिति वाच्यम् । तस्यापि भाष्ये प्रत्याख्यानात् । पटपटायति । पटपटायते । कृभ्वस्तियोगं विनापीह डाच् । डाजन्तात् क्यषो विधानसामर्थ्यात् । यत्तुलोहितश्यामदुःखानि हर्षगर्वसुखानि च । मूर्च्छानिद्राकृपाधूमाः करुणा नित्यचर्मणी ॥ 1 ॥ इति पठित्वा श्यामादिभ्योऽपि क्यषि पदद्वयमुदाहरन्ति तद्भाष्यवार्तिकविरुद्धम् । तस्मात्तेभ्यः क्यङेव । श्यामायते । दुःखादयो वृत्तिविषये तद्वति वर्तन्ते । लिङ्गविशिष्टपरिभाषया लोहिनीशब्दादपि क्यष् । लोहिनीयति । लोहिनीयते ॥ Balamanorama ------------ **वा क्यषः** - वा क्यषः । परस्मैपदमिति ।शेषात्कर्तरी॑त्यस्तदनुवृत्तेरिति भावः । लोहितायतीति । अलोहितो लोहितो भवतीत्यर्थः । अत्रेति ।लोहितादी॑ति सूत्रे इत्यर्थः । तच्चेति । अभूततद्भाविषयत्वमित्यर्थः । असंभवादिति । अव्यक्तानुकरणड्डाचो विहितत्वेन तस्य अभूततद्भावविषयत्वे अनुकरणत्वस्य भङ्गापत्तेरिति भावः । नाप्यादिशब्दग्राह्राणामिति ।श्यामादिशब्दाना॑मिति शेषः । तस्येति । आदिग्रहणस्येत्यर्थः । आदिगर्हणप्रख्याने प्रमाणं दर्शयति — तथा चेति । आदिग्रहणमपनीय लोहितशब्दाड्डाजन्तेभ्यश्च क्यष्वचनं कर्तव्यम् । इतराणि = लोहितादिगणपठितानि श्यामादीनि प्रतिपदिकानि भृशादिष्वेव पठनीयानीत्यर्थः । एवं च श्यामादिशब्देभ्यः क्यङि आत्मनेपदमेवेति फलितम् । तस्यापीति । आदिग्रहणस्येव क्यषः ककारस्यापि विवक्षिते सतिडाचि विवक्षिते द्वे बहुल॑मिति द्वित्वे नित्यमाम्रेडितेडाची॑ति पूर्वखण्डान्तस्य तकारस्य , उत्तरखण्डादेः पकारस्यच पररूपे एकस्मिन् पकारे, डित्त्वाट्टिलोपे, पटपटाशब्दाड्डाजन्तात् क्यषि तदन्ताल्लडादीति भावः । 'अभूततद्भावे' इति तु नात्र संबध्यते इत्युक्तम् । न ह्रपटच्छब्दः पटच्छब्दो भवतीति युज्यते । ननु कृभ्वस्तियोगाऽभावादिह कथं डाजित्यत आह — कृभ्वस्तियोगं विनापीति । भवत्यर्थसत्तामात्रेणेत्यर्थः । कुत इत्यत आह — डाजन्तादिति । तद्भाष्येति ।भृशादिष्वितराणी॑त्युक्तवार्तिकतद्भाष्यविरुद्धमित्यर्थः । तस्मादिति । उक्तवार्तिकभाष्यविरोधात्तेभ्यः श्यामादिभ्यो भृशादित्वलक्षणः क्यङेव नतु क्यषित्यर्थः । ततश्च 'वा क्यषः' इत्यस्याऽप्रवृत्तेर्ङित्त्वादात्मनेपदमेवेति मत्वाऽऽह — श्यामायते इति । श्यामो भवतीत्यर्थः । ननु देवदत्तः सुखायते इति कथम्, देवदत्तस्य सुखत्वाऽभावादित्यत आह — सुखादय इति । श्यामादिषु ये सुखदुःखादिशब्दा गुणवचनास्ते सुखादिगुणवति वर्तन्ते इत्यर्थः । एवंच 'सुखायते' इत्यस् सुखवान् भवतीत्यर्थः । एवं 'दुखायते' इत्यादावपि । ननु लोहितशब्दाद्विहितः क्यष् कथं लोहिनीशब्दात्स्यादित्यत आह - लिङ्गविशिष्टेति । Tattvabodhini ------------- **वा क्यषः** - तस्येति । आदिशब्दस्येत्यर्थः । * लोहितडाज्भ्यः क्यष्वचनं, भृशादिष्वितराणि । तस्यापीति । क्यषः ककारस्येत्यर्थः । एतेननः क्ये॑ क्यस्य विभाषे॑ति सूत्रद्वये क्यषोऽपि ग्रहणं वदन्तः परास्ताः । लोहनीयतीति । क्यङि सति तङेव स्यात्,क्यङ्मानिनोश्चे॑ति पुंवद्भावश्चेति भावः । Padamanjari ----------- लोहितायते इति। अलोहितो लोहितो भवतीत्यत्रार्थे क्यष्, ठकृत्सार्वधातुकयोःऽ इति दीर्घः। पटपटायतीति। पटच्छब्दस्य डाज्विषये द्विर्वचनम्, ठव्यक्तानुकरणात्ऽ इति डाच्, टिलोप;'नित्यमाम्रेडिते डाचि' । कथमिति। न कथञ्चिदित्यर्थः। किं कारणमित्याह-यावतेति। न नियमेन व्यावर्तितमात्मनेपदमनेन शक्यं प्रापयितुम्,न ह्यशक्यार्थेवचनस्य व्यापारः, वावचनं तु केवलस्य लस्य प्रयोगर्थ स्यादिदि भावः। । एवं तर्हीत्यादि परिहारः। विकल्पितं विभाषितम्,पाक्षिकमित्यर्थः। कथं पुनः परस्मैपदप्रकरणेन विच्छिन्नमात्मनेपदं शक्यं विधातुम्,अत आह-तच्चेति। ननु शाब्दः सन्निधिः सम्बन्धकारणम्, प्रतिषेधेन चापवादभूतस्य भावामात्रं प्रतिपाद्यते, आत्मनेपदं तु स्वेनशास्त्रेण भवति, न भावना तस्य सन्निधिर्भवति, उच्यते; तात्पर्यतोऽपि सन्निधिः, सन्निधिरेवापवादापनयनस्य चोत्सर्गप्रवृतौ तात्पर्यम्, तेन परस्मैपदं भवतीत्यस्यात्मनेपदं भवतीति तात्पर्यार्थः। यद्वा-इहापि प्रतिषेध एव विधेयः, स च पूर्वसूत्रवदिहात्मनेपदं प्रवर्तयिष्यति। किं तर्हि उच्यते-अनन्तरं सन्निधापितामिति, नन्वेवमिहैव सन्निधापितं भवति? स्यादेवम्, यदि परस्मैपदेन क्यषन्तादात्मनेपदं बाधितं स्याद्, नियमेन तद्व्यावृत्तिः, तत्र स्वविषये परस्मैपदप्रतिषेधो विकल्प्यमानः किं कारणमात्मनेपदं प्रवर्तयेत्? पूर्वत्र त्वपवादमपनयता प्रतिषेधेनात्मनेपदं प्रवर्त्यते, तस्मादिहापि तदनुवृत्तिसामर्थ्यात् याद्दशः प्रतिषेध आत्मनेपदप्रवृत्यविनाभावी प्रकृतः, ताद्दश एव विधीयत इति मत्वोक्तम्-ठनन्तरं सन्निधापितम्ऽ इति। यद्यात्मनेपदं विधीयते, केनेदानीं परस्मैपदं पक्षे भवतीत्यत आह-तेन मुक्त इति। इह'प्रोपाभ्यां समर्थाभ्याम्' ठनुपसर्गाद्वाऽ इत्यनन्तरं'क्यषः' इति सूत्रं कर्तव्यम्- क्यषन्तादात्मनेपदं भवतीति, नेदं दुःखमनुभवितव्यं भवति,'वा' ग्रहणञ्च न कर्तव्यं भवति, उतरमपि योगद्वयं तत्रैव कार्यम्? तथा तु न कृतमित्येव॥ Nyaas ----- `लोहितायति` इति। अलोहितो लोहितो भवतीत्यत्रार्थे **लोहितादिडाज्भ्यः क्यष्** (3.1.13) इति क्यष्। `अकृत्सार्वधातुकयोः` (7.4.25) इति दीर्घः। `पटपटायति` इति। पटच्छब्दस्य डाचि विषयभूते `डाचि बहुलं द्वे` (वा।888) इत्युपसंख्यानाद्द्विर्वचनम्, `अव्यक्तानुकरणात्` (5.4.57) इत्यादिना डाच्, **नित्यमाम्रेडिते डाचि** (6.1.100) इति पटशब्दस्य योऽन्त्यस्तकारः, यश्च तस्मात्परः पकारः-तयोः`कथम्` इति। न कथञ्चिदित्यर्थः। किं कारणं न लभ्यत आह - `यावता` इत्यादि। आत्मनेपदं हि `अनुदात्तङितः` (1.3.12) इत्यादि नियतम्, अतो न शक्यते क्यषन्ताद्विज्ञातुमिति। `एवं तर्हि` इत्यादिना परिहरति। `विकल्पितम्` इति विभाषितम्, पाक्षिकमित्यर्थः। ननु चात्मनेपदं परस्मैपदेन व्यवच्छिन्नम्, अतोऽसन्निहित्वान्न शक्यते विज्ञातुमित्याह - `तच्च`इत्यादि। कत्र्रभिप्राये क्रियाफले विवक्षित आत्मनेपदं प्राप्ते तदपवादेन **अनोरकर्मकात्** (1.3.49) इत्यादिना योगद्वयेन परस्मैपदं विहितम्। तस्यापवादस्यानन्तरसूत्रेण यः प्रतिषेधो विहितः, तेनापवादेन परस्मैपदमपनयतात्मनेपदं सन्निधापितम्। अपवादे ह्रपनीते नियोगत एवोत्सर्गेण भवितव्यम्। तदेवं प्रतिषेधेन सन्निधापितमिहात्मनेपदं सम्बध्यते। यदि तह्र्रनेन कर्तर्यात्मनेपदमेव विकल्पेन विधीयते, पक्षे परस्मैपदं कथं लभ्यत इत्याह - `तेन` इत्यादि॥ Prakriyasarvasvam ----------------- क्यषन्ताद् वा तङ् स्यात् । अलोहितो लोहितो भवति लोहितायति, लोहितायते । लिङ्गविशिष्टपरिभाषया स्त्रीत्वेऽपि । लोहिनीयाति, लोहिनीयते । लोहितश्यामदुःखानि हर्षगर्वसुखानि च । मूर्च्छा निद्रा कृपा धूमः करुणा जिह्माचर्मणी ॥ ७९६ ॥ श्यामायति दुःखकृद्भवति दुःखायति । एवं सुखायति । जिह्मायति । नलोपे चर्मायति मांसम् । २तद्वति वा । शिष्टास्तद्वति । हर्षायति । धूमायत्यग्निः । अस्याकृतिगणत्वात् स्याच्चिरायति चिरायते । लीलायते पदं चैवं क्यङ् वास्त्वोजायते यथा ॥ ७९७ ॥ डाचि—पटपटायति । पटपटायते । अत्रापि क्विब् वेति कौमुदी । लोहितति । श्यामति । पटपटाति । शपः सवर्णदीर्घे यातिवद् रूपम् । Sutra Prayogas -------------- * **श्यामायमानानि** (रघुवंशम्): `वा क्यषः` इत्यात्मनेपदे शानच्। * **मन्दायते** (रघुवंशम्): `वा क्यषः` इति आत्मनेपदम्। * **लोहितायाति** (किरातार्जुनीयम्): `वा क्यप:` इति परस्मैपदे शतृप्रत्ययः। * **किलकिलायन्तो** (भट्टिकाव्यम्): `वा क्यषः` इति परस्मैपदम्।