13088: अणावकर्मकाच्चित्तवत्कर्तृकात् ==================================== **Padacheda:** अणौ | S | 7 | 1 | अकर्मकात् | S | 5 | 1 | चित्तवत्कर्तृकात् | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affixes of the परस्मैपद are used after the causal of that verb, which in its non-causal state was intransitive and had a being endowed with reason for its agent, even when the fruit of the action accrues to the agent. Vasu English Translation ------------------------ The affixes of the परस्मैपद are used after the causal of that verb, which in its non-causal state was intransitive and had a being endowed with reason for its agent, even when the fruit of the action accrues to the agent. The phrase णेः is understood here also. The *Atmanepada* was ordained by *sutra* (1.3.74) when the fruit of the action accrued to the agent. This aphorism is an exception to that, and ordains *parasmaipada*. As आस्ते देवदत्तः *Devadatta* sits; आसयते देवदत्तं he makes *Devadatta* to sit; शेते देवदत्तः *Devadatta* sleeps ; शाययति देवदत्तं he causes *Devadatta* to lie down. Why do we say 'in its non-causal state'? For if the causative root is from another causative root, and not from a simple non-causative root, then the *parasmaipada* will not be employed. Thus 'if one person such as *Devadatta*, causes another person *Yajnadatta*, to cause a third person *Ramadatta*, to do an act denoted by an intransitive root, as 'mounting' for instance, though *Ramadatta* mounts for his own benefit, the verb to be used in such a case is आरोहयते, in the *Atmanepada*, from the root आरुह to mount; and not आरोहयति. (*Lengar*'s Guide to *Panini*). Why do we say 'which was intransitive'? This rule will not apply if the verb in its non-causative state was transitive. Thus from कारि the causative from कृ, if the person caused to do the act denoted by the verb does it for his own use, comes only कारयते though the person has a will; for the original root कृ though a non-causative root, is not an intransitive root.' (Ibid). Why do we say 'having a being endowed with reason for its agent'? For if the agent is a non-sentient object, the verb will be *Atmanepadi*. Thus from शोषि the causative from शुष 'to dry' if that which dries is a thing not possessed of a will as व्रीहयः 'paddy,' for instance, though the fruit of the action, i.e., the drying, affects only the paddy itself, comes शोषयते in the *atmanepadi*, though 'to dry' is an intransitive root; e. g., शोषयते व्रीहीनातपः 'the sun-shine causes the paddy to dry.' (Ibid). Bhashya ------- अणावकर्मकाच्चित्तवत्कर्तृकात् अणावकर्मकादिति चुरादिणिचो ण्यन्तात्परस्मैपदवचनम् ॥ 1 ॥ अणावकर्मकादिति चुरादिणिचो ण्यन्तात्परस्मैपदं वक्तव्यम् । इहापि यथा स्यात् चेतयमानं प्रयोजयति चेतयति । यदि तर्ह्यत्रापीष्यते अणिग्रहणमिदानीं किमर्थं स्यात् ? अकर्मकग्रहणमण्यन्तविशेषणं यथा विज्ञायेत । अथाऽक्रियमाणेऽणिग्रहणे अकर्मकग्रहणं कस्य विशेषणं स्यात् ? णेरिति वर्तते। ण्यन्तविशेषणं स्यात् । तत्र को दोषः ? इहैव यथा स्यात् - चेतयमानं प्रयोजयति चेतयति । इह न स्यात् - आसयति शाययतीति । सिद्धं त्वतस्मिण्णाविति वचनात् ॥ 2 ॥ सिद्धमेतत् । कथम् ? अतस्मिण्णौ यः अकर्मकस्तत्रेति वक्तव्यम् । सिद्ध्यति । सूत्रं तर्हि भिद्यते । यथान्यासमेवास्तु । ननु चोक्तमणावकर्मकादिति चुरादिणिचो ण्यन्तात्परस्मैपदवचनमिति । नैषः दोषः । अणाविति कस्येदं णेर्ग्रहणम् । यस्माण्णेः प्राक्कर्म कर्ता वा विद्यते । न चैतस्माण्णेः प्राक्कर्म कर्ता वा विद्यते ॥ 88 ॥ Kashika ------- णेरिति वर्तते। कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदापवादः परस्मैपदं विधीयते। अण्यन्तो यो धातुरकर्मकश्चित्तवत्कर्तृकश्च, तस्माद् ण्यन्तात् परस्मैपदं भवति। आस्ते देवदत्तः। आसयति देवदत्तम्। शेते देवदत्तः। शाययति देवदत्तम्। अणाविति किम्? चेतयमानं प्रयोजयति चेतयत इति केचित् प्रत्युदाहरन्ति, तदयुक्तम्। हेतुमण्णिचो विधिः, प्रतिषेधोऽपि प्रत्यासत्तेस्तस्यैव न्याय्यः। तस्मादिह चेतयतीति परस्मैपदेनैव भवितव्यम्। इदं तु प्रत्युदाहरणम् — आरोहयमाणं प्रयुङ्क्ते, आरोहयते। अकर्मकादिति किम्? कटं कुर्वाणं प्रयुङ्क्ते, कारयते। चित्तवत्कर्तृकादिति किम्? शुष्यन्ति व्रीहयः। शोषयते व्रीहीनातपः॥ Siddhanta Kaumudi ----------------- ण्यान्तात्परस्मैपदं स्यात् । शेते कृष्णस्तं गोपी शाययति ॥ Balamanorama ------------ **अणावकर्मकाच्चित्तवत्कर्तृकात्** - अणावकर्मकात् । ण्यन्तादिति शेषपूरणम्, णेरित्यनुवृत्तेरिति भावः । अणौ यो दातुरकर्मकः, चित्तवत्कर्तृकश्च, तस्माण्ण्यन्तात्परस्मैपदमिति यावत् । चित्तवत्कर्तृकादिति किम् । व्रीहयः शुष्यन्ति, तान् शोषयते । अकर्मकात्किम् । कटं करोति तं प्रयुङ्क्ते ।कटं कारयति । Tattvabodhini ------------- **अणावकर्मकाच्चित्तवत्कर्तृकात्** - अणावकर्मकात् । क्रियाफलस्य कर्तृगमित्वविवक्षायामात्मनेपदे प्राप्ते परस्मैपदार्थमिदम् । अणाविति किम् । हेतुमण्यन्तादकर्मकात्परस्मैपद[मिति] नियमो मा भूत् । आरोह्रमाणं प्रयुङ्क्ते आरोहयते । न्यग्भवन्तं प्रेरयतीत्यर्थः ।णेरणौ॑ इतिसूत्रे उदाहरणत्वेन य आरोहयतिकर्मको निर्णीस्तस्माद्द्वितीये णिचि प्रत्युदाहरणमिदम् । केचित्तु अणाविति किम् । चुरादिण्यन्तात्परस्मैपदनियमो माभूत् । तद्यथा पुट्ट प्वुट्ट अल्पीभावे । पुट्टयति । चुट्टयति । अल्पीभवतीत्यर्थः । अकर्मकाविमौ । ततो हेतुमण्णिचि — पुट्टयते चुट्टयते । इति प्रत्युदाहरणन्ति, तद्भाष्यादिविरुद्धम् । तथाहि बुधादिसूत्रादिह णेरिति वर्तते, बुधादिभ्यश्च हेतुमण्णिरेव संभवतीति तदन्तादेवायं विधिः । अणाविति प्रतिषेधोऽपि प्रत्यास्त्तेस्तस्यैव न्याय्यः । तेन चुरादिण्यन्ताद्धेतुमण्णौ परस्मपैदं भवत्येवेति भाष्यादौ स्थितम् । तथा च हेतुमण्णेः प्राग्योऽकर्मको हेतुमण्ण्यन्तभिन्नस्तस्माद्धेतुमण्णावात्मनेपदं नेति फलितोऽर्थः । अकर्मकात्किम् । कटं यः करोति तं प्रयुङ्क्ते कटं कारयति । चित्तवत्कर्तृकादिति किम् । शुष्यन्ति व्रीहयस्ताञ्शोषयते । Padamanjari ----------- अणाविति किमिति। ण्यन्तस्य प्रयोज्येन कर्मणा सकर्मकत्वमवश्यम्भावीति मन्यमानस्य प्रश्नः। चेतयमानमिति।'चिती संज्ञाने' चुरादिः। हेतुमण्णिचो विधिरिति। बुधादिसूत्रादिह णिज्ग्रहणमनुवर्तते, बुधादिभ्यश्च हेतुमत्येव णिच् सम्भवति, तस्मादिहापि तस्यैव ग्रहणमिति भावः। तत्र यथा-ठ्ब्राह्मण आनीयन्तामन्यत्रानधीयानेभ्यःऽ इत्युक्ते प्रत्यासतेर्यदध्ययनं ब्रह्मणानां सम्भवति तदधीयानेभ्य इति गम्यते, न त्वध्येत्वयमात्रमधीयानेभ्य इति, तद्वदिहापि तस्यैव गम्यते यज्जातीयस्य विधौ ग्रहणमिति। आरोहयमाणमिति।'णेरणौ' इत्यात्मनेपदं शानच् तत्रैवास्याकर्मकत्वमुपपादितम्। प्रयुङ् क्त इति पाठः। प्रयोजयतीति पाठे णेरर्थो मृग्यः॥ Nyaas ----- `चेतयमानम्` इति। `चिती संज्ञाने` (धातुपाठः-39), चौरादिकः। अयञ्चाकर्मकश्चित्तवत्कर्तृकश्च। `हेतुमण्णिचो विधिः` इति। बुधादेः (1.3.86) सूत्रादिह णिज्ग्रहणमनुवर्तते, स च हेतुमण्णिजेव; बुधादिभ्योऽन्यस्य णिचोऽसम्भवात्। यतश्च हेतुमण्णिचो विधिः, प्रत्यासत्तेस्तस्यैव प्रतिषेधो युक्तः। यथाभूत एव विधिभाक्; तथाभूतेनैव प्रतिषेधभाजा भवितव्यम्; प्रत्यासत्तेः। तथा हि - ब्राआह्मणाः प्रवेश्यन्तामन्यताधीयानेभ्य इत्युक्ते यताजातीयकानां प्रवेशो विहितस्तथाजातीयकानामेव प्रत्यासत्तेः पर्युदासो विज्ञायते। `{आरोह्रमाणः`- इति मुद्रितः पाठः।} आरोह्रमाणम्` इति। णेरणावादि (1.3.67) सूत्रेणात्मनेपदम्। यद्यप्यत्र हस्तिपकान् प्रति हस्तिनः प्रयोजकत्वे विवक्षिते णिज्विहितः, तथापि ण्यन्तावस्थायां हस्तिपकाः प्रयोज्यत्वेन न विवक्ष्यन्ते; अन्यथा ह्रणौ यत्कर्म तदेव णौ कर्ता न स्यात्। तत्र प्रयोज्यत्वाविवक्षायामारोह्र-माण इत्यस्य स्वयमेवारोहयतीत्येषोऽर्थो भवति। तमारोहयमाणं यदान्यः प्रयुङ्क्ते, तदा द्वितीयो हेतुमण्णिच्। तदन्तात् `णिचश्च` (1.3.74) इत्यात्मनेपदं भवति। तेनारोहयत इति युक्तमेव प्रत्युदाहरणम्॥ Prakriyasarvasvam ----------------- अण्यन्तावस्थायामकर्म्मकश्चेतनकर्तृको यो धातुस्तस्य ण्यन्तत्वे परस्मैपदमेव । शेते कृष्णः शाययति कृष्णं गोपी । पूर्वं सकर्मकेभ्यस्तु तङ् स्यात् कारयते पटम् । अचित्तकर्तृकेभ्यश्च शालीञ्छोषयते नरः ॥ ६६१ ॥ ण्यन्तेभ्य एभ्य उक्तपरस्मैपदनियमो न । ण्यन्तत्वादुभयं स्यात् । पाययते पाययति । दमयते दमयति । आयामयते आयामयति । आयासयते आयासयति । इत्यादि । 'धेडोऽपि न' । धापयते धापयति । पाधेटोगर्रणार्थत्वाच्चलनार्थत्वतो नृतेः । अकर्मत्वात् परेषूक्तिर्वदेः कर्माविवक्षया ॥ इति ॥ ६६२ ॥ ऊचेस्वरितञित्सूत्रं वेत्यर्थं माघटीकया । फलभाक्ष्वप्यतडदृष्टेरफलेऽपि तडीक्षणात् ॥ ६६३ ॥ दुदुहुर्वल्लवा धेनुं सन्तापं कुरुते मरुत् । यथाकथञ्चित् सर्वत्र योज्यमेवेति मन्मतम् ॥ ६६४ ॥ अस्वार्थमिव वीतास्था दुदुहुः किल वल्लवाः । स्वार्थं धीपूर्वकारीव तपत्यतितरां मरुत् ॥ इति ॥ ६६५ ॥ हरेर्विधास्यन्नहमात्मनेपदं तस्मै परस्मै पदजालमर्पयन् । गिरा तदाराधनमेव खल्विदं करोम्यतोऽन्यत् फलमस्तु वा न वा ॥ ६६६ ॥ Sutra Prayogas -------------- * **वर्तयति** (किरातार्जुनीयम्): `अणावकर्मकाच्चित्तवत्कर्तृकात्` इति परस्मैपदनियमात्। * **परिमोहयमाणेन** (किरातार्जुनीयम्): `अणावकर्मकाच्चित्तवत्कर्तृकात्` इति परस्मैपदे प्राप्ते। * **अयोधयत्** (भट्टिकाव्यम्): `अणावकर्मकात्` इत्यनेन उभयत्रापि लङः परस्मैपदम्। * **नाशयेयं** (भट्टिकाव्यम्): `नशिजन्योरकर्मकत्वात् अणौ` इत्यनेन लिङः परस्मैपदम्। * **अ-चलयन्** (भट्टिकाव्यम्): `अणौ` इत्यनेन परस्मैपदम्।