13072: स्वरितञितः कर्त्रभिप्राये क्रियाफले ========================================== **Padacheda:** स्वरित-ञितः | S | 5 | 1 | कर्तृ-अभिप्राये | S | 7 | 1 | क्रियाफले | S | 7 | 1 | Sutrartha --------- **यस्मिन् धातौ ञकारः इत्संज्ञकः अस्ति उत स्वरितः स्वरः इत्संज्ञकः अस्ति, तस्मात् परः कर्त्रभिप्राये क्रियाफले आत्मनेपदस्य प्रत्ययाः भवन्ति ।** अस्य सूत्रस्य अर्थम् ज्ञातुमादौ काचित् पीठिका ज्ञातव्या - धातुपाठे निर्दिष्टेभ्यः धातुभ्यः केभ्यश्चन केवलमात्मनेपदस्यैव प्रत्ययाः भवन्ति । यथा - लभ्, वन्द्, सेव् - आदयः । केभ्यश्चन अन्येभ्यः केवलं परस्मैपदस्यैव प्रत्ययाः भवन्ति । यथा - पठ्, क्रीड्, चल् - आदयः । परन्तु केभ्यश्चन धातुभ्यः आत्मनेपदस्यापि प्रत्ययाः भवितुमर्हन्ति, परस्मैपदस्यापि भवितुमर्हन्ति । एते धातवः सामान्यभाषायाम् 'उभयपदिनः धातवः' इत्युच्यन्ते । एतेषां विषये अस्मिन् सूत्रे उक्तमस्ति । येषु धातुषु औपदेशिक-अवस्थायाम् 'ञकारः' इत्संज्ञकः अस्ति, नो चेत् येषु धातुषु औपदेशिक-अवस्थायाम् स्वरितः स्वरः इत्संज्ञकः अस्ति, तेभ्यः धातुभ्यः आत्मनेपदस्यापि प्रत्ययाः अपि भवितुमर्हन्ति, परस्मैपदस्यापि च भवितुमर्हन्ति । परन्तु अस्य अर्थः अयम् नास्ति, यत् 'वक्ता इच्छति चेत्' परस्मैपदस्य प्रत्ययान् प्रयोक्तुम् शक्नोति, तथा इच्छति चेत् आत्मनेपदस्य । उभयपदिनाम् धातूनाम् विषये अपि 'कुत्र' परस्मैपदस्य प्रत्ययाः करणीयाः कुत्र च आत्मनेपदस्य' अस्मिन् विषये अनेन सूत्रेण सिद्धान्तः दीयते । अनेन सूत्रेण एतत् उच्यते, यत् उभयपदी-धातोः विषये क्रियायाः फलं कः लभते तत् दृष्ट्वा पदनिर्णयः कर्तव्यः । यदि क्रियायाः फलम् कर्तारम् गच्छति, तर्हि आत्मनेपदस्य प्रत्ययानाम् प्रयोगः करणीयः । एवं नास्ति चेत् अनेन सूत्रेण आत्मनेपदस्य प्रत्ययाः न विधीयन्ते, अतः **शेषात् कर्तरि परस्मैपदम्** (1.3.78) इत्यनेन धातोः परस्मैपदस्य प्रत्ययाः भवन्ति । यथा - 'माता ओदनम् पचते' इत्यत्र पच्-धातोः आत्मनेपदस्य प्रत्ययः प्रयुक्तः अस्ति, यतः अत्र 'माता स्वस्य कृते ओदनं पचति' इति अर्थः अभिप्रेतः अस्ति । परन्तु यदि एतत् ओदनम् मात्रा न खाद्यते अपितु पुत्रेण खाद्यते, तर्हि अस्याम् स्थितौ पच्-धातोः आत्मनेपदस्य प्रत्ययाः न भवितुमर्हन्ति । अतः **शेषात् कर्तरि परस्मैपदम्** (1.3.78) इत्यनेन धातोः परस्मैपदस्य प्रत्ययं कृत्वा 'माता ओदनम् पचति' इत्येव प्रयोगः करणीयः । अतः अस्य सूत्रस्य अर्थः अयम् - 'कर्त्रभिप्राये क्रियाफले' (इत्युक्ते, यत्र क्रियायाः फलम् कर्तारं गच्छति तत्र) स्वरित्-धातुभ्यः ञित्-धातुभ्श्च आत्मनेपदस्य प्रत्ययाः भवन्ति । (अन्यासु स्थितिषु परस्मैपदस्य प्रत्ययाः भवन्तीति तु **शेषात् कर्तरि परस्मैपदम्** (1.3.78) इत्यनेन ज्ञायते ।) कानिचन उदाहरणानि - (अ) ञित्-धातवः - 1. णीञ् प्रापणे - सः पुस्तकम् नयते (स्वस्य कृते इत्यर्थः) । सः अश्वं नयति (कस्यचन अन्यस्य कृते इत्यर्थः) । 2. डुकृञ् करणे - गुरुः पाठनकार्यम् कुर्वन् अस्ति (परस्मैपदस्य विवक्षायाम् शतृ-प्रत्ययः) । पापम् कुर्वाणाः निश्चयेन तत्फलं लभन्ते (आत्मनेपदस्य विवक्षायाम् शानच्-प्रत्ययः) (आ) स्वरितेत्-धातवः - 1. डुपचष् पाके - माता ओदनं पचति । पाचकः ओदनं पचते । 2. टुयाचृँ याञ्चायाम् - पञ्च ग्रामान् याचते धर्माय दूर्योधनः किमपि न ददाति । इन्द्रः कर्णम् कवचम् याचमानः अस्ति । ज्ञातव्यम् - 1. एतादृशम् प्रत्ययविधानम् केवलं तेभ्यः धातुभ्यः एव कृतमस्ति ये स्वरितेतः / ञितः सन्ति । अन्येषां विषये तु यथानिर्दिष्टमात्मनेपदस्यैव / परस्मैपदस्यैव प्रत्ययाः भवन्ति । तत्र एतादृशम् क्रियाफलं दृष्ट्वा प्रत्ययविधानम् न क्रियते । 2. **तङानावात्मनेपदम्** (1.4.100) इत्यनेन त-आताम्-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ्-एतेषाम् तथा शानच्-कानच्-एतयोः 'आत्मनेपदम्' संज्ञा भवति । एतान् विहाये लकारस्य स्थाने विहिताः ये आदेशाः - 'तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-म्-शतृ-क्वसु' - एतेषाम् 'परस्मैपदम्' संज्ञा भवति । Sutrartha (English) ------------------- A verb that contains इत्संज्ञक ञकार or an इत्संज्ञक स्वरित स्वरः gets the प्रत्यया of आत्मनेपद when the doer of the action does the action for himself. Vasu English Summary -------------------- After the verb marked with a स्वरित or which has an indicatory ञित् , the terminations of the आत्मनेपद are used, when the fruit of the action accrues to the agent. Vasu English Translation ------------------------ After the verb marked with a स्वरित or which has an indicatory ञित् , the terminations of the आत्मनेपद are used, when the fruit of the action accrues to the agent. The *anuvritti* of the phrase णेः does not go further. The word क्रियाफलं is a compound, meaning 'fruit of the action.' When the principal object for the sake of which the action is begun, is meant for the agent indicated by the verb, there the *atmanepada* is used after verbs having an indicatory ञ or a *svarita* accent. As यजते 'he sacrifices for himself'; पचते 'he cooks for himself.' Here the verb यज् and पच् are marked with *svarita* accent in the *Dhatupatha*, and therefore they take the *atmanepada* terminations. Similarly सुनुते 'he presses the *soma*-juice,' कुरुते 'he does.' Here the verbs सुञ् and कृञ् have an indicatory ञ्. In all the above cases, the principal object of the action such as getting heaven by performance of sacrifices, eating of food, &c., is meant for the agent. That is to say, he sacrifices in order that he himself may attain heaven, he cooks in order that he himself may eat, &c. Why do we say 'when the fruit of the action accrues to the agent'? Otherwise it will have *parasmaipada*. As यजन्ति याजकाः 'the priests sacrifice, (not for themselves, but for their clients)' पचन्ति पाचकाः 'the cooks cook (for their masters)'; कुर्वन्ति कर्मकराः 'the menials work (for their masters).' Here though the fees and the wages are the fruits which the agent gets, yet as that fruit is not the principal object for which the action was begun--the principal object of the sacrifice was not that the priest should get his fee, but that the sacrificer may go to heaven--the verb takes the terminations of the *Parasmaipada*. Here the principal fruit of the action does not accrue to the agent, but to a third party. Bhashya ------- स्वरितञ्ञितः कर्त्रभिप्राये क्रियाफले स्वरितञ्ञित इति किमर्थम् ?। याति वाति द्राति प्साति । स्वरितञ्ञित इति शक्यमकर्त्तुम् । इह कस्मान्न भवति याति वाति द्राति प्सातीति ?। कर्त्रभिप्राये क्रियाफले इत्युच्यते। सर्वेषां च कर्त्रभिप्रायं क्रियाफलमस्ति । त एवं विज्ञास्यामः येषां कर्त्रभिप्रायमकर्त्रभिप्रायं च क्रियाफलमस्ति तेभ्य आत्मनेपदं भवतीति । न चैतेषां कर्त्रभिप्रायं चाकर्त्रभिप्रायं च क्रियाफलमस्ति । तथाजातीयकाः खल्वाचार्येण स्वस्तिञ्ञितः पठिताः ये उभयवन्तः - येषां कर्त्रभिप्रायं चाकर्त्रभिप्रायं च क्रियाफलमस्ति । अथाभिप्रग्रहणं किमर्थम् ?। स्वरितञ्ञितः कर्त्राये क्रियाफल इतीयत्युच्यमाने यमेव संप्रत्येति क्रियाफलं तत्रैव स्यात् - लूञ्ञ् लुनीते, पूञ्ञ् पुनीते । इह न स्यात् - यज् यजते, वप् वपते । अभिप्रग्रहणे पुनः क्रियमाणे न दोषो भवति । अभिरामुख्ये वर्तते, प्र आदिकर्मणि । तेन यं चाऽभिप्रति, यं चाभिप्रैष्यति, यं चाऽभिप्रागात्तत्र सर्वत्राभिमुख्यमात्रे सिद्धं भवति । कर्त्रभिप्राये क्रियाफल इति किमर्थम् ? पचन्ति भक्तकाराः । कुर्वन्ति कर्मकराः । यजन्ति याजकाः । कर्त्रभिप्राये क्रियाफल इत्युच्यमानेऽप्यत्र प्राप्नोति । अत्राऽपि हि क्रियाफलं कर्तारमभिप्रैति । याजका यजन्ति गा लप्स्यामह इति । कर्मकराः कुर्वन्ति पादिकमहर्लप्स्यामह इति । एवं तर्हि कर्त्रभिप्राये क्रियाफल इत्युच्यते, सर्वत्र च कर्त्तारं क्रियाफलमभिप्रैति, तत्र प्रकर्षगतिर्विज्ञास्यते - साधीयो यत्र कर्तारं क्रियाफलमभिप्रैति । न चान्तरेण यजिं यजिफलं वपिं वा वपिफलं लभन्ते । याजकाः पुनरन्तरेणाऽपि यजिं गा लभन्ते भृतकाश्च पादिकमिति ॥ 72 ॥ Kashika ------- णेरिति निवृत्तम्। शेषात् कर्तरि परस्मैपदे प्राप्ते, स्वरितेतो ये धातवो ञितश्च तेभ्य आत्मनेपदं भवति, कर्तारं चेत् क्रियाफलमभिप्रैति। क्रियायाः फलं क्रियाफलं प्रधानभूतम्, यदर्थमसौ क्रियारभ्यते तच्चेत् कर्तुर्लकारवाच्यस्य भवति। यजते। पचते। ञितः खल्वपि — सुनुते। कुरुते। स्वर्गादि प्रधानफलमिह कर्तारमभिप्रैति। कर्त्रभिप्राय इति किम्? यजन्ति याजकाः। पचन्ति पाचकाः। कुर्वन्ति कर्मकराः। यद्यपि दक्षिणा भृतिश्च कर्तुः फलमिहास्ति, तथापि न तदर्थः क्रियारम्भः॥ Siddhanta Kaumudi ----------------- स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले ॥ Laghu Siddhanta Kaumudi ----------------------- स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले ॥ Balamanorama ------------ **स्वरितञितः कर्त्रभिप्राये क्रियाफले** - स्वरितञितः । स्वरितश्च ञ् च स्वरितञौ, तौ इतौ यस्य तस्मादिति बहुव्रीहिः । इच्छब्दः प्रत्येकं सम्बध्यते । तदाह — स्वरितेतो ञितश्चेति । धातोरित्यनन्तरंलस्य स्थाने॑इति शेषः । कर्तारमभिप्रैति गच्छतीतिकत्र्रभिप्रायम् । कर्मण्यण् । तदाह — कर्तृगामिनीति । एवं चहोता याज्यया यजती॑त्यादौ यागफलस्य स्वर्गस्य यजमानगामित्वेन होतृगामित्वाऽभावान्नात्मनेपदम् । तथावेतनेन यज्ञदत्तभृतो देवदत्तः पचती॑त्यत्रापि पाकफलस्य भोजनस्य पक्तृगामित्वाऽभावान्नात्मनेपदम् । दक्षिणादिलाभस्तु न फलम् । लोकतो वेदतो वा यदुद्देशेन क्रियाप्रवृत्तिस्तस्यैवात्र क्रियाफलशब्देन । विवक्षित्वात् । कर्तृगामिफलकक्रियावृत्तेर्धातोरित्यर्थः । आत्मनेपदं तु धात्वर्थफलस्य कर्तृगामित्वं द्योतयतीत्यलम् । Tattvabodhini ------------- **स्वरितञितः कर्त्रभिप्राये क्रियाफले** - पूर्ववदिच्छब्दः प्रत्येकं संबध्यते । कर्तारमभिप्रैति गच्छतीति कत्र्रभिप्रायम् ।कर्मण्यण् । धातोरिति । धातोर्लस्येत्यर्थः । लकारधात्वोराक्षेपः पूर्ववद्बोध्यः । Padamanjari ----------- कर्तारमभिप्रैतीति कर्त्रभिप्रायम्'कर्मण्यण्' ,क्रियाफलं चेह कर्मैवेति नास्ति नियमः तेनाकर्मकेभ्योऽपि यजिप्रभृतिभ्यः स्वर्गादिके फले कर्तृ गामिन्ययं विधिर्भवत्येव। कर्तारं चेदिति। क्रियाफलस्य कर्तृ गामित्वह्यएतनायात्मनेपदं भवतीत्यर्थः। यदि यच्च यावच्च क्रियानन्तरभावि फलं तत्र कर्तृ गामिन्ययं विधिर्भवति, इहापि स्याद्-यजन्ति याजकाः, पचन्ति पाचका इति; दक्षिणादेः कर्तृ गामित्वादित्यत्र आह-प्रघानभूतमिति। किं पुनस्तदित्यत आह-यदर्थमिति। यदुद्दिश्येत्यर्थः। क्रिया आरभत इति। सामग्रीसमवधानात्मिका आद्या प्रवृत्तिःउआरम्भः, यामन्तरेण याजकादीनामप्रवृत्तिः, स्वर्गादिकं हि फलं प्रेक्षुः सामग्रआआ समवधाप्य प्रवर्तयति, सा प्रवर्तिता यथायथं प्रवर्तते। कथं पुनरेतल्लभ्यते-प्रधाने फले कर्त्रभिप्रायैति? प्रधानत्वादेव। किञ्च-यत् किचन फलं सर्वत्र कर्त्रभिप्रायं भवति। ननु यत्र क्रियाभ्यासमात्रे तात्पर्यम्, तत्र न किञ्चित्पलं कर्तृगामि, तत्रापि किञ्चित्फलं कर्तृगामि, तत्रापि किञ्चित्फलं कर्तृगामि, किं कौशलम्? पुनः पुनरभ्यासे हि क्रियासु कौशलं भवति, तस्मात्प्रधाने फले कर्त्रभिप्राय इति सिद्धम्। यजत इति। केचिदाहुः-'देवतायै इदं न मम' इत्येवंविधो मानसः सङ्कल्पो याग इति, तेषां यजन्ति याजका इति ऋत्विग्व्यापारे प्रयोगो नोपपद्यते। अन्ये त्वाहुः-ठ्होमादिष्वभिष्ट्वादिऋत्विग्व्यापारो यागःऽ इति, तेषां यजतिव्यापापारप्रयोगो नोपपद्यते। एवं तर्ह्युभयं यजेरर्थः-ऋत्वग्व्यापारश्च, यजमानव्यापारश्च। तदुक्तम्-यजादिषु चाविपर्यासो नानाक्रियाणां यज्यर्थत्वादिति। न तदर्थः क्रियारम्म इति। ननु ऋत्विजामारम्भस्तदर्थ एव, नैतदेवम्; ठाद्या प्रवृत्तिरारम्भःऽ इत्युक्तम्, सा च यजमानस्य- स्वर्गमहं लभेयेति, न पुनरिमे दक्षिणां लभेरन्निति। यथा-अवघाते क्रियमाणे स्वेदश्च भवति वैतुष्यं च भवति, भृतिश्च लभ्यते, अथ च वैतुष्यार्थ एवावघागः, तद्वदत्रापि। तदुक्तं हरिणा- यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः। तत्प्रधानं फलं न लाभादि प्रयोजनम्॥ इति । इह स्वामिदासौ पचत इति। क्रियामात्रविवक्षायां परस्मैपदं भवति। स्वामिगते तु धर्मे दास आरोपिते स्वामिदासौ पचेते इत्यात्मनेपदं भवति। अथाभिप्रग्रगणं किमर्थम्? विप्रकृष्टेऽपि फले यथा स्याद्। द्विविधं क्रियाफलम्, द्दष्टम् - अन्नपुत्रवृष्टिशत्रुवधादिकम्, अद्दष्ट्ंअ च स्वर्गादि। तत्र पूर्वं प्रत्यासन्नमवश्यंभावीति प्रधानम्, इतरतु विधुरप्रत्ययोपनिपाते सति व्यभिचारसंभवाद्विप्रकृष्टत्वच्चाप्रधानम्। संभवति ह्यविकलमनुष्ठातुं यागस्यापि मध्ये वैराग्योत्पतौ मोक्षार्थप्रवृतौ सत्यामनुत्पत्तिः स्वर्गस्य। ततश्चेह तस्य ग्रहणं न स्याद्। अभिप्रग्रहणे तु सति अभिराभिमुख्ये वर्तते, प्रशब्दस्त्वारम्भ इति कर्तारं प्रत्याभिमुख्येन क्रियाफलं चेतत्प्रैति एतुमारभते एवमात्मनेदं भवतीत्यर्थो भवति। तथा च यद्यपि स्वर्गादिकं स्वरूपेणान्नादिवत् तदानीं नैति तस्य त्वङ्कुरावस्था कर्तारमेतीति तद्द्वारेण फलमेवैतुमारभत इति सर्वत्र सिद्ध्यति। फलस्यैव ह्यङ्करावस्था पूर्वशब्दवाच्या॥ Nyaas ----- `कत्र्रभिप्राये` इति। कर्तारमभिप्रैतीति **कर्मण्यण्** (3.2.1) । यदि सामान्येन यत्र क्रियाफलं कर्तारमभिप्रैति तत्रात्मनेपदम्, तदेहापि स्यात् - पचन्ति पाचकाः, यजन्ति याजका इति। तथा ह्यत्र क्रियाफलं दक्षिणा याजकान् कर्त्तृनभिप्रैति, भृतिश्च पाचकानित्यत आह - `क्रियायाः फलम्` इत्यादि। प्रधानभूतं यत्फलं क्रियायास्तदिह गृह्रते। न च दक्षिणादिकं क्रियाफलं प्रधानभूतम्, ततो न भवत्यतिप्रसङ्गः। किं पुनस्तत्प्रधानभूतमित्यत आह- `यदयर्थम्` इत्यादि। एतेन यदुद्दिश्यासौ यागादिक्रियारभ्यते, न तु दक्षिणाद्यर्थम्। `यदर्थम्` इति। स्वर्गादि, न तु दक्षिणादि। तथा हि स्वर्गाद्यर्थं यागादिक्रियारभ्यते, न तु दक्षिणाद्यर्थम्। `यदर्थम्` इति। क्रियाविशेषणमेतत्। यच्छब्देन क्रियायाः प्रधानभूतं फलं निर्दिश्यते। यदर्थः प्रयोजनं यस्य क्रियारम्भस्य फलमात्रस्य ग्रहमभिप्रेतं स्यात्, तदा फलग्रहणमनर्थकं स्यात्; व्यवच्छेद्याभावत्। नास्त्येव हि स विषयो यत्र क्रियाफलं कर्तारं नाभिप्रैति; ततश्च कत्र्रभिप्राये क्रियाया इत्येदं ब्राउयात्। एवमप्युक्ते षष्ठआ क्रियायाः सम्बन्धिनि कत्र्रभिप्राये प्रत्यायिते सामर्थ्यात् फमलेव क्रिय#आयाः कत्र्रभिप्रायं गम्यते। न हि फलान्यत् क्रियासम्बन्धि कर्तारमभिप्रैति। तस्मात् फलग्रहणसामर्थ्यात् प्रधानं फलं गृह्रते। अथ वा - प्रधानत्वादेव प्रधानं फलं गृह्रते। तथा चोक्तम् - प्रधाने कार्यसम्प्रत्ययात् सिद्धमिति। अस्मिन् व्याख्याने फलग्रहणं स्पष्टार्थम्, कर्तर्यात्मनेपदविधानात्। प्रत्यासत्तर्यस्तस्य वाच्यः कर्ता यदि तस्यैव तत् फलं भवतीति विज्ञायत इत्याह - `तच्च` इत्यादि। गतार्थम्। `स्वर्गादि` इति। आदिशब्देनौदनादिकमपि गृह्रते। `तथापि` इत्यादिना दक्षिणादेः फलस्याप्रधान्यं दर्शयति। यदर्थं सा क्रियारभ्यते तत्प्रधानमिहोपात्तं फलम्। स्वर्गाद्यर्थं च यागादिक्रियाऽऽरभ्यते; न दक्षिणाद्यर्थम्। अतोऽप्रयोजकत्वात्तदप्रधाम्। तेन यद्यपि तत् कर्तारमभिप्रैति तथाप्यात्मनेपदं न भवति। अथाभिप्रग्रहणं किमर्थम्? विप्रकृष्टेऽपि फले यथा स्यात् द्विविधं हि क्रियाफलम् - आसन्नम्, विप्रकृष्टञ्च। तत्रासन्नम् - यस्य व्यापारानन्तरमेव निष्पत्तिः। विप्रकृष्टन्तु - उपरतेषु व्यापारेषु यन्निमित्तान्तरमपेक्ष्य कालविप्रकर्षकृतं संस्कारपरिपाकाच्चिराद्भवति। तत्राद्यमासन्नत्वात् दृष्टत्वादुत्पतिंत प्रत्यव्यभिचाराच्च प्रधानमम्। इतरत् पुनर्विप्रकृष्टत्वादनुमेयत्वात् सम्भवव्यभिचाराच्चोत्पतिंत प्रति व्यभिचारः। यद्यपि तदुद्दिश्य क्रियारम्भात् तदपि प्रधानम्, तथाप्यविप्रकृष्टफलापेक्षया तस्याप्राधान्यमस्त्येव। तत्र यद्यभिप्रग्रहणं न क्रियेत, तदा लुनीत पुनीत इत्यादावेव स्यात् - यत्राविप्रकृष्टं क्रियाफलम्। यजते इत्यादौ तु न स्यात् - यत्र विप्रकृष्टं स्वर्गादिकं क्रियाफलम्, प्रधाने कार्यसम्प्रत्ययात्। अभिग्रहणे तु न दोषः; यस्मादभिराभिमुख्ये वर्तते, प्रशब्दसत्त्वारम्भे। तेन प्रारम्भमात्रस्याभिमुख्ये फलनिष्पत्तौ बुद्धावाश्रीयमाणायां सर्वत्र सिद्धं भवति। ननु चासत्यभिप्रग्रहणे प्रकृतीनां यजिप्रभृतीनामनुबन्धविशेषासञ्जनादेव विप्रकृष्टेऽपि फले भविष्यतिच अन्यथा हि तस्य वैयथ्र्यं स्यात्, न; अभिचारादौ यत्राविप्रकृष्टं फलं दृष्टमस्ति तत्र तस्य सार्थकत्वात्। तस्माद्विप्रकृष्टेऽप्यप्रधाने फले स्यादित्येवमर्थमिप्रग्रहणं कर्तव्यमेव॥ Prakriyasarvasvam ----------------- क्रियायाः प्रधानफले कर्त्रर्थे सति स्वरितेद्भ्यो ञिद्भ्यश्चात्मनेपदं स्यात् । पचादयः स्वरितेतः । पान्थः पचत इत्यन्नस्य स्वार्थत्वे । पाचकाः पचन्तीति परार्थत्वे । एवं ञिद्भ्यः, कुरुते करोति । Sutra Prayogas -------------- * **जिष्णुरभृतोष्णवारणम्** (शिशुपालवधम्): `स्वरितञितः कर्त्रभिप्राये क्रियाफले` इत्यात्मनेपदम्। * **अलिपत** (भट्टिकाव्यम्): `स्वरितजि- तः` इति क्रियाफलविवक्षायामात्मनेपदम्।