13068: भीस्म्योर्हेतुभये ======================== **Padacheda:** भी-स्म्योः | S | 6 | 2 | हेतुभये | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the causatives of the verbs भी 'to fear' and स्मि 'to wonder' even when the fruit of the action does not accrue to the agent the आत्मनेपद is employed, when the fear is produced directly by the causative agent. Vasu English Translation ------------------------ After the causatives of the verbs भी 'to fear' and स्मि 'to wonder' even when the fruit of the action does not accrue to the agent the आत्मनेपद is employed, when the fear is produced directly by the causative agent. The phrase 'of the causative ending in णि' is understood in this *sutra* and is to be supplied from the previous aphorism. This *sutra* is also restricted to cases where the fruit of the action does not accrue to the agent. The word हेतु in the aphorism has been defined later on in *sutra* (1.4.55) (स्वतन्त्र कर्त्ता); it is the agent which is the mover of another's agent. When a fear is caused by a हेतु it is called हेतुभय. The word भय 'fear' in the aphorism is illustrative, and includes by implication विस्मय 'astonishment' also. As जटिलो भीषयते 'the *jatila*, the cock-headed frightens.' मुण्डो भीषयते 'the *munda*, the shave-headed frightens '; जटिलो विस्मापयते 'the *jatila* astonishes,' मुण्डो विस्मापयते 'the *munda* astonishes' i.e., the very fact of matted-hair or shaven-head frightens,' &c. Why do we say हेतुभय? For if the fear or astonishment is not the direct result caused by the agent, but arises from something else, then the *atmanepada* will not be used. As कुञ्चिकयैनं भाययति 'he frightens him with the *kunchika*,' रूपेण विस्माययति 'he astonishes with his form'. Here *kunchika* and *rupa* are the instruments, which cause fear or astonishment, and are not the *hetu* thereof. Kashika ------- णेरिति वर्तते। अकर्त्रभिप्रायार्थोऽयमारम्भः। बिभेतेः स्मयतेश्च ण्यन्तादात्मनेपदं भवति हेतुभये। हेतुः प्रयोजकः कर्ता लकारवाच्यः, ततश्चेद् भयं भवति। भयग्रहणमुपलक्षणार्थम्। विस्मयोऽपि तत एव। जटिलो भीषयते। मुण्डो भीषयते। जटिलो विस्मापयते। मुण्डो विस्मापयते। हेतुभय इति किम्? कुञ्चिकयैनं भाययति। रूपेण विस्माययति। अत्र कुञ्चिका भयस्य करणम्, न हेतुः॥ Siddhanta Kaumudi ----------------- ण्यन्ताभ्यामाभ्यामात्मनेपदं स्याद्धेतोश्चेद्भयस्मयौ । सूत्रे भयग्रहणं धात्वर्थोपलक्षणम् । मुण्डो भापयते ॥ Balamanorama ------------ **भीस्म्योर्हेतुभये** - भीस्म्योर्हेतुभये ।अनुदात्तङितः॑इत्यत आत्मनेपदमिति, 'णेरणौ' इत्यतो णेरिति चानुवर्तते । हेतुः- प्रयोजकः । तदाह - आभ्यां ण्यन्ताभ्यामित्यादि अकत्र्रभिप्रायार्थमिदम् । ननु हेतोश्चेद्भयस्मयावित्यनुवपपन्नं, सूत्रे स्मयग्रहणाऽभावादित्यत आह — सूत्रे भयेति । सूत्रे भयग्रहणं स्मिङ्घात्वर्थस्य स्मयस्याप्युलक्षणमित्यर्थः । मुण्डो भापयते इति । अत्र आत्त्वं पुक्, आत्मनेपदं च । भिय आत्त्वाऽभावपक्षे विशेषमाह — Tattvabodhini ------------- **भीस्म्योर्हेतुभये** - भीस्म्योः । व्यत्ययेन षष्ठीत्याह - आभ्यामिति ।णेरणौ॑ इत्यतो णेरित्यनुवृत्तेण्र्यन्ताभ्यामेव विधिरकत्र्रभिप्रायार्थः । Padamanjari ----------- भयमनिष्टापातशङ्गासाधनमात्रं लोकिको हेतुः, न वान्तरेण साधनं क्रिया सम्भवतीति विशेषणसामर्थ्यात् कृत्रिमत्वाच्च पारिभाषिकस्य हेतोर्ग्रहणमित्याह - हेतुः प्रयोजक इत्यादि। ततश्चेद्भयं भवतीति। यद्येवम्, स्मयत्यर्थो न विशेषितः स्यात्, न हि स्मयतेर्भयमर्थः, अऽत आह-भयग्रहणमिति। चितविकारस्योपलक्षणमित्यर्थः। विस्मयोऽपि तत एवेति। अत्र चेद्भवतीत्यनुषङ्गः। भीषयत इति।'भियो हेतुभये षुक्' । भाययत इति 'बिभेतेर्हेतुभये' इति वैकल्पिकमात्वम्। एवं च अत्र षुक् न भवति; तद्विधावाकारप्रश्लेषात्। विस्मापयत इति।'नित्यं स्मयतेः' इत्यात्वम्। ठर्तिह्रीऽ इत्यादिना पुक्। कुञ्चिकयेति। कारणादत्र भयम्, न हेतोः। यद्यपि तद्व्यापारे णिज्विधानात् प्रयोजकसाध्यमेव भयम्, तथापि विशेषणोपादानसामर्थ्यादेवं विज्ञायते-अन्यनिरपेक्षाद्धेतोरेव यद्भयमिति। एवं च मौण्ड।ल्èनं भाययतीत्यत्रापि गुणगुणिनोर्भेदविवक्षायां न भवति। उदाहरणे तु तादात्म्यस्य विवक्षितत्वाद्धेतोरेव भयम्॥ Nyaas ----- `हेतुभये`इति। हेतोर्भयं हेतुभयमिति। **पञ्चमी भयेन** (2.1.37) इति समासः। भीतिर्भयम् = त्रासः, अनिष्टापाताशङ्का। `ततश्चद्भयं भवति` इति। यदि ततो हेतुसंज्ञकात् प्रयोजकाद्भयं भवत्येवमात्मनेपदं भवति, नान्यथेति। यद्येवम्,स्मयत्यर्थो न विशेषितः स्यात्; यस्माद्भयं बिभेतेरेवार्थो न स्मरतेः, ततश्च रूपेण विस्माययतीत्यवमादावप्यात्मनेपदं स्यात्। मुण्डो विस्मापयत इत्यादौ न स्यादित्यत आह - `भयग्रहणम्` इत्यादि। भयग्रहणं हि धात्वर्थोपलक्षणार्थम्। धात्वर्थश्चेत् प्रयोजकाद्भवतीत्ययमर्थो विवक्षितः।तेन विस्मयोऽपि यदि तत एव हेतोर्भवति यद्येषोऽर्थो लभ्यत इति स्मयत्यर्थोऽपि विशेषित एव। विस्मयः = आश्चर्यम्। `मुण्डः` इति। मुण्डगुणोपेतत्वान्मुण्डः। `भीषयते` इति। `ञिभी भये` (धातुपाठः-1084),**विभाषा लीयतेः** (6.1.51) इत्यतो विभाषाग्रहणानुवृत्तेः **बिभेतेर्हेतुभये** (6.1.56) इति पक्ष आत्त्वम्। **भियो हेतुभये षुक्** (7.3.40) इति षुक्। `विस्मापयते` इति। `{ष्मिङ`-धातुपाठः} स्मिङ ईषद्धसने` (धातुपाठः-948)। **नित्यं स्मयतेः** (6.1.57) इत्यात्त्वम्;र्तिह्यी` (7.3.36) इत्यादिना पुक्।`कुञ्चिकयैनं भाययति` इति। करणादत्र भयम्, न हेतोः प्रयोजकात्। तेनात्मनेपदं न भवति। षुगप्यत्र न भवति, स हीकारान्तस्यैवेष्यते, **भियो हेतुभये षुक्** (7.3.40) इत्यत्र भी ई - इतीकारप्रश्लेषनिर्द्देशात्। `रूपेण विस्माययति` इति। अत्र करणादेव विस्मयः;न हेतोः॥ Prakriyasarvasvam ----------------- हेतुः प्रयोजककर्ता, तज्जन्ये भये विस्मये च वाच्ये ण्यन्तयोर्भीस्म्योस्तङ् स्यात् । शूरो भीषयते, विस्मापयते वा । प्रयोजकात् पृथग्भूते कारणे तु न तङ् भवेत् । दण्डेन भाययत्येष विस्माययति कीर्तिभिः ॥ ६५६ ॥ षुक्पुकावपि तङ्‌विषय एव वक्ष्येते । Sutra Prayogas -------------- * **विस्माययन्** (रघुवंशम्): `भीस्म्योर्हेतुभये` इत्यात्मनेपदम्। * **भीषयमाणं** (भट्टिकाव्यम्): `भी-स्म्योर्हेतुभये` इति तङ् । * **अभीषयन्त** (भट्टिकाव्यम्): `भीस्म्योर्हेतुभये` इति तङ्। * **भीषयांचक्रिरे** (भट्टिकाव्यम्): `भी - स्म्योर्हेतुभये` इति तङ् अनुप्रयोगेऽपि।