13067: णेरणौ यत्कर्म णौ चेत् स कर्ताऽनाध्याने ============================================= **Padacheda:** णेः | S | 5 | 1 | अणौ | S | 7 | 1 | यत् | S | 1 | 1 | कर्म | S | 1 | 1 | णौ | S | 7 | 1 | चेत् | S | 0 | 0 | सः | S | 1 | 1 | कर्ता | S | 1 | 1 | अनाध्याने | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After a verb ending in the affix णि (causal) the आत्मनेपद is used, provided that when the object in the non-णि or non-causal sense becomes the agent in the causal; and when it does not mean 'to remember with regret', even when the fruit of the action does not accrue to the agent. Vasu English Translation ------------------------ After a verb ending in the affix णि (causal) the आत्मनेपद is used, provided that when the object in the non-णि or non-causal sense becomes the agent in the causal; and when it does not mean 'to remember with regret', even when the fruit of the action does not accrue to the agent. The causatives (णिच्) are conjugated in the *atmanepadi*, when they are used in the passive voice, that is to say when a word which was an objective case in the ordinary verb becomes nominative case in the causative; and the nominative case of the ordinary verbs becomes objective case in the causative. In short when causatives are used in the passive voice, they are *atmanepadi*. This round-about phraseology has been employed, because the base of the active and the passive causatives do not differ in form; as आरोहते हस्तिपकान् हस्ती. The phrase 'णेः (after the causatives)' of this *sutra* governs the four succeeding *sutras* and is understood in them. The *sutra* consists of the following words:- णेः 'after the causative;' अणौ 'in the non-causative;' यत् 'what;' कर्म 'object;' णौ 'in the causative;' चेत् 'if;' सः 'that;' कर्ता 'nominative;' अनाध्यान 'except to remember.' In general, by *sutra* (1.3.74), the causative verbs take the terminations of the *atmanepada*, when the fruit of the action accrues to the agent. The present *sutra* applies to the case where fruit of the action does not accrue to the agent. After the verbs that take the affix णिच्, the terminations are those of the *atmanepada*. How? When that which was the object when the primitive verb was used non-causatively, becomes also the object when the derivative verb is used causatively; and even that object becomes also the agent as well. There is exception, however, in the case when the verb means to 'remember with regret.' As आरोहन्ति हस्तिनं हस्तिपकाः 'the elephant-keepers mount the elephant.' Let us paraphrase this sentence by transforming the primitive non-causative verb आरोहन्ति into a causative form. The sentence then will be, आरोहयते हस्ती स्वयमेव 'the elephant makes itself to be mounted.' Similarly उपसिंचन्ति हस्तिनं हस्तिपकाः 'the elephant-keepers sprinkle the elephant'; and उपसेचयते हस्ती स्वयमेव 'the elephant makes itself to be sprinkled;' पश्यन्ति भृत्या राजानम् 'the attendants see the king'; and दर्शयते राजा स्वयमेव 'the king makes himself to be seen.' Why do we say 'after the causatives?' Because the rule of this *sutra*, will not apply, if the verb though conveying the sense of a causal verb, is, however, not formed by the affix णिच्; as आरोहन्ति हस्तिनं हस्तिपकाः 'the elephant-keepers mount the elephant;' and आरोहयमाणो हस्ती साध्वारोहति 'the elephant that is being mounted, mounts gracefully'. Here the terminations are of the *parasmaipada* in the second case also. Why do we say 'in the non-causative non-*ni*'? For this rule will not apply when the primitive verb itself is formed by the affix णिच्; such are the roots of the tenth class or *churadi* in which the *nich* is added in the self-descriptive sense, and not for a causative purpose. Thus the root गण belongs to *churadi* class; whose causative and primitive forms are the same. As गणयति गणं गोपालकः 'the cowherd counts the herd;' and the causative form is गणयति गणः स्वयमेव 'the herd makes itself to be counted.' The terminations in both cases are those of the *parasmaipada*. Why do we say 'when the object (*karma*) becomes the agent?' Because the rule will not apply, when any other *karaka* or case, than the *karma* or object, of the primitive verb becomes the agent in the causative. Thus लुनाति दात्रेण 'he cuts with the scythe,' लावयति दात्रं स्वयमेव 'the scythe is made to cut of itself.' Here the word *datra* was the instrument of the primitive verb which became agent in the causative, and therefore in the causative the terminations are of the *parasmaipada* only. Why do we say 'if in the causative' in the *sutra*? It is for the purpose of indicating that the verb must be one and the same, both in the primary sentence and the causative sentence. Therefore the rule does not apply here where the causative verb सेचयति in the second sentence was not used in the first sentence; आरोहन्ति हस्तिनं हस्तिपकाः 'the elephant-keepers mount the elephant;' and आरोहयमाणो हस्तीभीतान् सेचयति मूत्रेण 'the elephant that is being caused to mount is made to sprinkle with urine the frightened men'. The word सः 'that' is employed in the aphorism to show that the objects in both sentences must be the same and not different. Therefore in the following example where the objects are different, the terminations of *parasmaipada* are only used. आरोहन्ति हस्तिनं हस्तिपकाः 'the elephant-keepers mount the elephant'; and आरोहयमाणो हस्ती स्थलमारोहयति मनुष्यान् 'the elephant, that is being caused to mount, makes men mount on the land.' Why do we use the word *karta* (agent) in the *sutra* ? If the former object is not the agent in the second case, the terminations of the *parasmaipada* only would be used. As आरोहन्ति हस्तिनं हस्तिपकाः 'the elephant-keepers mount the elephant;' and तानारोहयति महामात्रः 'the elephant-driver makes it to mount.' Why do we say 'except when meaning to remember with tenderness?' Observe, स्मरति वनगुल्मस्य कोकिलः 'the dove remembers, with regret, the forest tree;' and स्मरयत्वेनं वनगुल्मः स्वयमेव 'the forest tree is made to be remembered of itself.' Bhashya ------- णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने णेरात्मनेपदविधानेऽण्यन्तस्य कर्मणस्तत्रोपलब्धिः ॥ 1 ॥ णेरात्मनेपदविधानेऽण्यन्तस्य यत्कर्म यदा ण्यन्ते तदेव कर्म भवति तदात्मनेपदं भवतीति वक्तव्यम् । इतरथा हि सर्वप्रसङ्गः ॥ 2 ॥ इतरथा हि सर्वत्र प्रसङ्गः स्यात् । इहापि प्रसज्येत - आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयमाणो हस्ती स्थलमारोहयति मनुष्यान् । तत्तर्हि वक्तव्यम् । न वक्तव्यम् । एवं वक्ष्यामि - णेः आत्मनेपदं भवति । ततः अणौ यत्कर्म णौ चेत् । अण्यन्ते यत्कर्म णौ चेण्णौ यदि तदेव कर्म भवति । ततः स कर्ता कर्ता चेत्स भवति णाविति। यद्येवं कर्म कर्ताऽयं भवति तत्र कर्मकर्तृत्वात्सिद्धम्। । कर्मकर्तृत्वासिद्धमिति चेद्यक्चिणोर्निवृत्त्यर्थं वचनम् ॥ 3 ॥ कर्मकर्तृत्वात्सिद्धमिति चेद् यक्चिणोर्निवृत्त्यर्थमिदं वक्तव्यम् । कर्मापदिष्टौ यक्चिणौ मा भूतामिति । न वा यक्चिणोः प्रतिषेधात् ॥ 4 ॥ न वा एष दोषः । किं कारणम् ? यक्चिणोः प्रतिषेधात् । प्रतिषिद्ध्येते अत्र यक्चिणौ । यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञ्ञामुपसङ्ख्यानम् इति । यस्तर्हि न हेतुमण्णिच्, तदर्थमिदं वक्तव्यम् । तस्य कर्मापदिष्टौ यक्चिणौ मा भूतामिति । उदपुपुच्छत पुच्छं स्वयमेव । अत्रापि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यं प्रतिषेधेन - यक्चिणोः प्रतिषेधे णिश्रन्थिग्रन्थिब्रूञ्ञात्मनेपदाकर्मकाणामुपसंख्यानमिति । स चावश्यं प्रतिषेध आश्रयितव्यः । इतरथा हि यत्र नियमस्ततोऽन्यत्र प्रतिषेधः ॥ 5 ॥ अनुच्यमाने ह्येतस्मिन् यत्र नियमस्ततोऽन्यत्र तेन यक्चिणोः प्रतिषेधो वक्तव्यः स्यात् । गणयति गणं गोपालकः । गणयति गणः स्वयमेव । आत्मनेपदस्य च ॥ 6 ॥ आत्मनेपदस्य च प्रतिषेधो वक्तव्यः । गणयति गणः स्वयमेव । आत्मनेपदप्रतिषेधार्थं तु ॥ 7 ॥ आत्मनेपदप्रतिषेधार्थमिदं वक्तव्यम् । गणयति गणः स्वयमेव । इष्यत एवात्रात्मनेपदम् । किमिष्यत एव, आहोस्वित्प्राप्नोत्यपि ? इष्यते च, प्राप्नोति च । कथम् ? अणाविति कस्येदं णेर्ग्रहणं यस्माण्णेः प्राक्कर्म वा कर्ता वा विद्यते । न चैतस्माण्णेः प्राक्कर्म कर्ता वा विद्यते । इदं तर्हि प्रयोजनम् - अनाध्यान इति वक्ष्यामीति । इह मा भूत् - स्मरति वनगुल्मस्य कोकिलः । स्मरयत्येनं वनगुल्मः स्वयमवेति । एतदपि नास्ति प्रयोजनम् । कर्मापदिष्टा विधयः कर्मस्थभावकानां कर्मस्थक्रियाणां वा भवन्ति। कर्तृस्थभावकश्चायम् । एवं तर्हि सिद्धे सति यदनाध्यान इति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः - भवत्येवंजातीयकानामात्मनेपदमिति । किमेतस्य ज्ञापने प्रयोजनम् ? पश्यन्ति भृत्या राजानम् । दर्शयते भृत्यान् राजा । अत्रात्मनेपदं सिद्धं भवति । आत्मनः कर्मत्वे प्रतिषेधः ॥ 8 ॥ आत्मनः कर्मत्वे प्रतिषेधो वक्तव्यः । हन्त्यात्मानम् । घातयत्यात्मा इति । स तर्हि वक्तव्यः । न वा ण्यन्तेऽन्यस्य कर्तृत्वात् ॥ 9 ॥ न वा वक्तव्यः । किं कारणम् ? ण्यन्तेऽन्यस्य कर्तृत्वात् । अन्यदत्राण्यन्ते कर्मऽन्यो ण्यन्तस्य कर्ता । कथम् ? द्वावात्मानौ, अन्तरात्मा शरीरात्मा च । अन्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखःदुखे अनुभवतीति। शरीरात्मा तत्कर्म करोति येनान्तरात्मा सुखदुःखे अनुभवतीति। 67 ॥ Kashika ------- **णिचश्च** (१.३.७४) इति कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम्। अकर्त्रभिप्रायार्थोऽयमारम्भः। ण्यन्तादात्मनेपदं भवति। कथम्? अणौ यत् कर्म णौ चेत् तदेव कर्म, स एव कर्ता भवति, अनाध्यान आध्यानं वर्जयित्वा। आरोहन्ति हस्तिनं हस्तिपकाः। आरोहयते हस्ती स्वयमेव। उपसिञ्चन्ति हस्तिनं हस्तिपकाः। उपसेचयते हस्ती स्वयमेव। पश्यन्ति भृत्या राजानम्। दर्शयते राजा स्वयमेव। णेरिति किम्? आरोहन्ति हस्तिनं हस्तिपकाः। आरोहयमाणो हस्ती साध्वारोहति। अणाविति किम्? गणयति गणं गोपालकः। गणयति गणः स्वयमेव। कर्मग्रहणं किम्? लुनाति दात्रेण। लावयति दात्रं स्वयमेव। णौ चेद् ग्रहणं समानक्रियार्थम्। आरोहन्ति हस्तिनं हस्तिपकाः। आरोहयमाणो हस्ती भीतान् सेचयति मूत्रेण। यत्सग्रहणमनन्यकर्मार्थम्। आरोहन्ति हस्तिनं हस्तिपकाः। आरोहयमाणो हस्ती स्थलमारोहयति मनुष्यान्। कर्तेति किम्? आरोहन्ति हस्तिनं हस्तिपकाः। तानारोहयति महामात्रः। अनाध्यान इति किम्? स्मरति वनगुल्मस्य कोकिलः। स्मरयत्येनं वनगुल्मः स्वयमेव। ननु चात्र कर्मकर्तरि मूलोदाहरणानि, तत्र कर्मवद्भावेनैव सिद्धमात्मनेपदम्, किमर्थमिदमुच्यते? कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्मवदतिदेशो विज्ञायते। कर्तृस्थार्थोऽयमारम्भः। तथा च रुहिः कर्तृस्थक्रियः, दृशिः कर्तृस्थभावक उदाहृतः॥ Siddhanta Kaumudi ----------------- ण्यन्तादात्मनेपदं स्यादणौ या क्रिया सैव चेत् ण्यन्तेनोच्येत अणौ यत्कर्मकारकं स चेण्णौकर्ता स्यान्नत्वनाध्याने । णिचश्च (SK2564) इति सिद्धेऽकर्त्रभिप्रायार्थमिदम् । कर्त्रभिप्राये तु विभाषोपपदेन (SK2744) इति विकल्पे अणावकर्मकात् (SK2754)ति परस्मैपदेच परत्वात्प्राप्ते पूर्वविप्रतिषेधेनेदमेवेष्यते । कर्तृस्थभावकाः कर्तृस्थक्रियाश्चोदाहरणम् । तथा हि । पश्यन्ति भवं भक्ताः । चाक्षुषज्ञाविषयं कुर्वन्तीत्यर्थः । प्रेरणांशत्यागे । पश्यति भवः । विषयो भवतीत्यर्थः । ततो हेतुमण्णिच् । दर्शयन्ति भवं भक्ताः । पश्यन्तीत्यर्थः । पुनर्ण्यर्थस्याविवक्षायां दर्शयते भवः । इह प्रथमतृतीययोरवस्तयोर्द्वितीयचतुर्थ्योस्च तुल्योऽर्थः । तत्र तृतीयाकक्षायां न तङ् । क्रियासाम्येऽप्यणौ कर्मकारकस्य णौ कर्तुत्वाभावात् । चतुर्थ्यां तु तङ् । द्वितीयामादाय क्रियासाम्यात् । प्रथमायां कर्मणो भवस्येह कर्तृत्वाच्च । एमारोहयते हस्तीत्युदाहरणम् । आरोहन्ति हस्तिनं हस्तिपकाः । न्यग्भावयन्तीत्यर्थः । तत आरोहति हस्ती । न्यग्भवतीत्यर्थः । ततो णिच् । आरोहन्तीत्यर्थः । तत आरोहयते । न्यग्भवतीत्यर्थः । यद्वा पश्यन्त्यारोहन्तीति प्रथमकक्षा प्राग्वत् । ततः कर्मण एव हेतुत्वारोपाण्णिच् । दर्शयति भवः । आरोहयति हस्ती । पश्यत आरोहतश्च प्रेरयतीत्यर्थः । ततो णिज्भ्यां तत्प्रकृतिभ्यां च उपात्तयोरपि प्रेषणयोस्त्यागे । दर्शयते आरोहयते इत्युदाहरणम् । अर्थः प्राग्वत् । अस्मिन्पक्षेद्वितीयकक्षायां न तङ् । समानक्रियत्वाभावाण्णिजर्थस्याधिक्यात् । अनाध्याने किम् । स्मरति वनगुल्मं कोकिलः । स्मरयति वनगुल्मः । उत्कण्ठापूर्वकस्मृतौ विषयो भवतीत्यर्थः । भीस्म्योर्हेतुभये (SK2594) व्याख्यातम् ॥ Balamanorama ------------ **णेरणौ यत् कर्म णौ चेत् स कर्ताऽनाध्याने** - णेरणौ । इह चत्वार्यवान्तरवाक्यानि ।णे॑रिति प्रथमं वाक्यम् । प्रत्ययग्रहणपरिभाषया णेरिति तदन्तग्रहणम् । आत्मनेपदमित्यधिकृतं । तदाह — ण्यन्तादात्मनेपदं स्यादिति ।अणौ यत्कर्म णौ चे॑दिति द्वितीयं वाक्यम् ।कर्तरि कर्मव्यतिहारे॑ इतिवत्कर्मशब्दोऽत्र क्रियापरः । यत्तदोर्नित्यसम्बन्धात्तदिति लभ्यते । तथा च द्वितीयं वाक्यम् । तथा च अणौ या क्रिया सा ण्यन्ते चेदिति लभ्यते । एवं सति पचति पाचयतीत्यादौ सर्वतर् अणौ क्रियायाण्यन्ते अवश्यं सत्त्वाद्वाक्यमिदमनर्थकम् । तस्मात् अणौ या क्रिया सैव ण्यन्ते चेदित्येवकारो लभ्यते । ततश्च द्वितीयवाक्यस्य फलितमाह — अणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेत ।स कर्ते॑ति तृतीयं वाक्यम् । अत्रअणौ यत्कर्मकारकं स चेण्णौ कर्ता स्यादिति । अत्र तच्छब्दस्य विदेयसमर्पककर्तृशब्दानुसारेण पुंलिङ्गता ज्ञेया,शैत्यं हि यत्सा प्रकृतिर्जलस्ये॑तिवत् । अथअनाध्याने॑ति चतुर्तं वक्यं व्याचष्टे — न त्वाध्याने इति । आध्यानमुत्कण्ठापूर्वकं स्मरणम् । तत्र नात्मनेपदमिति प्रसज्यप्रतिषेधोऽयमिति मन्यते । वस्तुतस्तु आध्याने आत्मनेपदं नेत्यर्थाश्रयणे भवतीत्यत्र नञोऽन्वितत्वेन असामर्थ्यादाध्यानशब्देन सम#आसाऽसंभवात्पर्युदास एवाऽयम् । 'न त्वाध्याने' इतिमूलं तु फलितार्थकथनपरमेव । तथा च आध्यानभिन्नेऽर्थे विद्यमानाण्ण्यन्तादात्मनेपदं स्यादित्येवं प्रथमवाक्य एव आध्याने इत्यस्यान्वयात्रीण्येवाऽतवाक्यानीति युक्तम् ।वाक्यत्रय॑मित्येव च भाष्ये दृश्यते । ननुणिचश्चे॑ति सिद्धे किमर्थमिदं सूत्रमित्यत आह — णिचश्चेतीति । परगामिन्यपि फले आत्मनेपदार्थमित्यर्थः । स्यादेतत् ।विभाषोपपदेन प्रतीयमाने॑ इति सूत्रं वक्ष्यते । कर्तृगामिनि क्रियाफले यदात्मनेपदं विहितं तदुपपदेन क्रियाफलस्य कर्तृगामित्वे गम्ये वा स्यादिति तदर्थः ।स्वं यज्ञं यजति यजते वे॑त्याद्युदाहरणम् । 'णेरणौ' इत्स्य तु दर्शयते भव इत्यनुपदमेव उदाहरणं वक्ष्यते इत स्थितिः । तत्रदर्शयते भवः स्वयमेवे॑त्यत्र फलस्य कर्तृगामित्वविवक्षायांणेरणा॑विति नित्यमात्मनेपदमिष्यते । तत्र परत्वात्विभाषोपपदेने॑ति विकल्पः स्यात्, 'णेरणौ' इत्स्य फले आत्मगामित्वगमकोपपदाऽभावे सावकाशत्वात् । किंचअणावकर्मकाच्चित्तवत्कर्तृका॑दिति वक्ष्यते । अण्यन्ते यो धातुरकर्मकः, चित्तवत्कर्तृकश्च तस्माण्ण्यन्तात् परस्मैपदं स्यादिति तदर्थः । शेते कृष्णः । तं गोपी शाययतीत्युदाहरणम् । णेरणावित्यस्य तु दर्शयते भव इत्युदाहरणविषय इति स्थितिः । तत्र लूधातोर्लुनाति केदारं देवदत्त इत्यतर्चित्तवत्कर्तृकत्वात्, लूयते केदार इति कर्मकर्तरि कर्मणः केदारस्य कर्तृत्वेन विवक्षिततया अकर्मकत्वाच्च 'लावयते केदार' इति ण्यन्तात् 'णेरणौ' इत्यात्मनेपदं बाधित्वा पर्तवात्अणावकर्मका॑दिति परस्मैपदमेव स्यात्, णेरणावित्यस्य दर्शयतेभव इत्यत्र सावकाशत्वादित्यत आह — कत्र्रभिप्राये त्विति । पूर्वविप्रतिषेधेनेति । पूर्वविप्रतिषेधाश्रयणे 'राजा दर्शयते' इति भाष्यप्रयोगो मानम्, अन्यथा तत्रअणावकर्मका॑दिति परस्मैपदापत्तेः, दर्शनविषयो भवतीत्यर्थे पश्यति भव इत्यत्र दृशेरणावकर्मकत्वाच्चित्तवत्कर्तृकत्वाच्च ।विभाषोपपदेने॑ति विकल्पबाधविषये पूर्वविप्रतिषेधाश्रयणे तु व्याख्यानमेव शरणम् । अन्ये तुदर्शयते राजे॑ति भाष्यप्रयोगः फलस्य परगामित्वविषयो भविष्यति । एवं च कर्तृगामिनि क्रियाफले परत्वादणावकर्मकादित्यस्य प्रवृत्तौ न किंचिद्बाधकमिति पूर्वविप्रतिषेधाश्रयणं चिन्त्यमित्याहुः । तच्चिन्त्यम्,अणावकर्मका॑दित्यस्य परगामिन्यपि फले परत्वात्प्रवृत्तेर्दुर्वारत्वात् । नह्रणावकर्मकादित्यत्र कत्र्रभिप्राय इत्यस्ति,स्वरितञितः कत्र्रभिप्राये॑ इत्यस्य बहुव्यवहितत्वादिति शब्दरत्ने प्रपञ्चितम् । ननु दर्शनविषयो भवतीत्यर्थे दर्शयते भव इत्यतत्र वस्तुतो दर्शनकर्मीभूतस्यैव भवस्य कर्तृत्वविवक्षायां तस्यकर्मवत्कर्मणे॑ति कर्मवद्भावात्भावकर्मणो॑रित्यात्मनेपदसिद्धेः 'णेरणौ' इति सूत्रं व्यर्थमित्यत आह — कर्तृस्थेति । कर्तृस्थो भावो येषां ते कर्तृस्थकभावकाः, कर्तृस्था क्रिया येषां ते कर्तृस्थक्रियाः, एवंविधा धातव इह सूत्रे उदाहरणम् । 'कर्मवत्कर्मणे' त्यस्य तु कर्मस्थभावकाः, कर्मस्थक्रियाश्चोदाहरणमिति प्रकृतसूत्रे 'कर्मवत्कर्मणे' ति सूत्रे च भाष्ये स्पष्टम । अतो विषयभेदात्कर्मवत् कर्मणे॑त्यनेनणेरणौ॑इत्यस्य न गतार्थतेति भावः । अपरिस्पन्दनसाधनसाध्यो धात्वर्थो भावः । यथा दर्शनश्रवणादिः । सपरिस्पन्दनसाधनसाध्यो धात्वर्थः । क्रिया । यथा पाकादिः । यद्यपि दर्शने चक्षुरुन्मीलनादिरूपं स्पन्दनमस्ति तथापि तद्भिन्नहस्तपादादिचेष्टैवाऽत्र स्पन्दनमित्यविरोधः । तत्र कर्तृस्थभावकमुदाहरति — पश्यन्ति भवं भक्ता इति । सकर्मकेषु धातुषु फलव्यापारयोर्धातुर्वर्तते । यथा पचेर्विक्लित्त्यनुकूलो व्यापारः । तत्र विक्लित्तिः फलम् । तदनुकूलोऽधिश्रयणादिव्र्यापारः । धातूपात्तव्यापाराश्रयः कर्ता देवदत्तादिः । व्यापारव्यधिकरणधातूपात्तफलाश्रयभूतं कर्म । यथा तण्डुलान् पचतीत्यत्र विक्लित्त्याश्रयास्तण्डुला इति स्थितिः । प्रकृते च दृशेश्चाक्षुषज्ञानानुकूलव्यापार्थकत्वे सकर्मकत्वानुपपत्तिः, फलस्य चाक्षुषज्ञानस्य तदनुकूलप्रयत्नादेश्च समानाधिकरण्तवात् । अतो दृशेश्चाक्षुज्ञानविषयत्वापत्त्यनुकूलव्यापारोऽर्थः । तत्र ज्ञानविषत्वापत्तिः फलम् । तदनुकूलः प्रयत्नादिव्ापारो देवदत्तनिष्ठः । एवं च प्रयत्नादिव्यापारव्यधिकणचाक्षुषज्ञानविषयत्वरूपफलाश्रयो घटादिः कर्मेति युज्यते । तदेतदाह — चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थ इति । प्रेरणेति । यदा चाक्षुषज्ञानविषयत्वापत्तिरेव दृशेरर्थो विवक्षितो न तु तदनुकूलव्यापारः कृञ्धातुगम्यः प्रेषणांशस्तदा पश्यति भव इत्यस्य चाक्षुषज्ञानविषयः संपद्यते इत्यर्थः । सौकर्यातिशयविवक्षया अनुकूलव्यापारांऽशस्य अविवक्षा बोध्या । तथा च चाक्षुषज्ञानविषयत्वापत्तेरेव दृश्यर्थत्वात्तदाश्रयस्य भवस्य कर्तृत्वमेव । तदाह — विषयो भवतीत्यर्थ इति । लक्षणया चाक्षुषज्ञानविषयो भवतीत्यर्थ इत्यर्थः । नचाऽत्र भवस्य वस्तुतो दर्शनकर्मण इह कर्तृत्वात्कर्मवत्ककर्मणा तुल्यक्रियः॑ इति कर्मवत्त्वाद्यगादिकमेव स्यान्न तु शबादीति शङ्क्यं,कर्मवत्कर्मणे॑त्यस्य कर्मस्थभावकेषु, कर्मस्थक्रियेषु च प्रवृत्तेः । अतः कर्मकर्तर्यपि शबादिकमेवेति भावः । तत इति । कृञ्धातुगम्यं पेरषणांशं विहाय चाक्षुषज्ञानविषयत्वापत्तिवृत्तेर्दृशेर्हेतुमण्णिजित्यर्थः । दर्शयन्ति भवं भक्ता इति । चाक्षुषज्ञानविषयत्वमापादयन्तीति णिजन्तस्य फलितोऽर्थ- । तदाह — पश्यन्तीत्यर्थ इति । चाक्षुषज्ञानविषयं कुर्वन्तीत्यर्थः । पुनरिति । चाक्षुषज्ञानविषयत्वमापादयन्तीत्यर्थकेदर्शयन्ति भवं भक्ता॑ इत्युक्तोदाहरणे णिजर्थस्य आपादनांऽशस्याऽविवक्षायां प्रकृतसूत्रेणात्मनेपदे सति 'दर्शयते भव' इत्युदाहरणमित्यर्थः । अत्र ण्यन्तस्यप्रेरणारहिऽथ लक्षणा । 'गङ्गायां घोष' इत्यत्र टाप इव णिचः स्थितिः । चुरादेराकृतिगणत्वात्स्वार्थिको णिजित्यन्ये । इहेति । अवस्था = पदविशेषात्मकावयवसंनिवेशविशेषः । प्रथमा च तृतीया च प्रथमतृतीये । तयोरवस्थयोरिति विग्रहः ।सर्वनाम्नो वृत्तिमात्रे॑ इति प्रथमाशब्दस्य पुंवत्त्वम् । पश्यन्ति भवं भक्ता इति प्रथमावस्था । पदविशेषसंदर्भ इति यावत् । अवस्थैव कक्ष्येति व्यवहरिष्यते मूले । कक्ष्या हि राजधान्यादौ जनविशेषसङ्घातनिवासात्मिका अनन्तरस्थानप्रापिका । तद्यथा रामायणे — आपञ्चमायाः कक्ष्याया नैनं कश्चिदवारय॑दित्यादि । इदं च प्रथमवाक्यं प्रेरणांशत्यागे पश्यति भव इति द्वितीयवाक्यस्य उपपादकम् । चाक्षुषज्ञानविषयत्वापादने दृश्यर्थे प्रेरणांऽशत्यागसय् प्रेरणाविशिष्टार्थकदृशिघटितप्रथमवाक्याऽभावे असंभवात् । प्रेरणांऽशत्यागे पश्यति भव इति द्वितीया कक्ष्या तु दर्शनविषयत्वापत्तिमात्रार्थकाद्धेतुमण्णिचि दर्शयन्ति भवं भक्ता इति तृतीयवाक्यस्य पश्यन्ति भवं भक्ता इति प्रथमवाक्यसमानार्थकस्य प्रवेशापत्तेः । तृतीयं वाक्यं त्विदं दर्शयन्तीति — ण्यर्थस्याऽविवक्षायां दर्शयते भव इति चतुर्थवाक्यस्य दर्शनविषयो भवतीति द्वितीयवाक्य्समानार्थकस्य ण्नय्तघटितस्योपपादकमिति स्पष्टमेव । तथा च प्रथमतृतीययोः कक्ष्ययोः पश्यन्ति भवं भक्ताः, दर्शयन्ति भवं भक्ता इत्यनयोः , तथा पश्यन्ति भवः, दर्शयते भव इति द्वितीयचतुर्थ्योः कक्ष्ययोश्च तुल्योऽर्थ इत्यर्थः । तत्र प्रथमद्वितीययोः कक्ष्ययोर्दृशेण्र्यन्तत्वाऽभावादेव तङो न प्रसक्तिरिति मत्वा आह — तत्र तृतीयकक्ष्यायां न तङिति । कुत इत्यत आह — क्रियासाम्येऽपीति ।दर्शयन्ति भवं भक्ता॑ इति तृतीयक्ष्यायाः,पश्यन्ति भवं भक्ता॑ इति प्रथमकक्ष्यासमनार्थकतयाअणौ या क्रिया सैव चेण्ण्यन्तेनोच्येते॑त्यंशस्य सत्तवेऽपि प्रथमकक्ष्यायामणौ कर्मकारकस्य भवस्यदर्शयन्ति भवं भक्ता॑ इति तृतीयकक्ष्यायां णौ कर्तृत्वाऽभावादित्यर्थः । एवं चतुर्थकक्ष्योपपादिका तृतीयकक्ष्यैषा प्रत्युदाहरणं चेत्युक्तं भवति । अणा या क्रिया सैव चेण्ण्यन्तेनोच्येतेत्यंशस्य तु अध्यारोपितप्रेरणपक्षे द्वितीयकक्ष्यायां न तङिति फलं वक्ष्यते । चतुर्थकक्ष्या तु प्ररकृतसूत्र्सयोदाहरणमित्याह — चतुर्थ्यां तु तङिति । 'णेरणौ' इति प्रकृतसूत्रेणे॑ति सेषः । तदेवोपपादयति - द्वितीयामादायेति । 'पश्यति भव' इति द्वितीयकक्ष्यायां या चाक्षुषज्ञानविषयत्वापत्तिरूपा क्रिया तस्या एव 'दर्शयते भव' इति चतुर्थक्ष्यायां ण्यन्तदृश्यर्थत्वादित्यर्थः । अनेनअणौ या क्रिया सैव चेण्ण्यन्तेनोच्येते त्यंश उपपादितः । अथअणौ यत्कर्मकारकं णौ स चेत्कर्ता स्या॑दित्यंशमुपपादयति — प्रथमायामिति ।पश्यन्ति भवं भक्ता॑ इति प्रथमकक्ष्यायामण्यन्तदृशिकर्मणो भवस्य 'दर्शयते भव' इति चतुर्थकक्ष्यायां ण्यन्तदृशिकर्तृत्वाच्चेत्यर्थः । अथ कर्तृस्थक्रियधातुमुद#आहरति — एवमारोहयते हस्तीत्यादि । तत्र प्रथमकक्ष्यामाह — आरोहन्ति हस्तिनं हस्तिपका इति । हस्तिनं पान्तीति हस्तिपाः । त एव हस्तिपकाः । स्वार्थे कः । उपरिभागाक्रमणानुकूलव्यापारो रुहरेर्थः । तत्र प्रासादमारोहतीत्यादौ उपरिभागाक्रमणानुकूलव्यापारः सोपानगमनादिः । इह तु उच्चस्य हस्तिनो न्यग्भावनमेव उपरिभागाक्रमणानुकूलो व्यापारो विवक्षितः । तच्च नीचीकरणं । तदाह — न्यग्भावयन्तीति । अत्र उपरिभागाक्रमणानुकूलन्यग्भवनानुकूलोऽङ्कुशपातादिव्र्यापारः । उपरिभागाक्रमणानुकूलन्यग्भवनं फलम् । तदाश्रयत्वाद्धस्ती कर्म । तादृशव्यापारश्रयत्वाद्धस्तिपकाः कर्तारः । अत द्वितीयकक्ष्यामाह — तत इति । प्रेरणांशपरित्यागे सति उपरिभागाक्रमणानुकूलन्यग्भवनार्थकाल्लटि आरोहति, हस्तीति न्यग्भवतीत्यर्थः । प्रेषणांऽशपरित्यागे फलितमाह — न्यग्भवतीत्यर्थ इति । अथ तृतीयकक्ष्यामाह — ततो णिजिति । प्रेषणांऽशं परित्यज्य न्यग्भवनार्थकत्वमाश्रिताद्धातोः प्रेषणविवक्षायायं हेतुमण्णिजिति भावः । आरोहयन्तीति । 'हस्तिनं हस्तिपका' इति शेषः । प्रेषणांशनिवृत्तौ णिजन्तस्य फलितमर्थमाह - आरोहन्तीत्यर्थ इति । आक्रमणाय हस्तिनं न्यग्भावयन्तीति यावत् । चतुर्थकक्ष्यामाह — तत इति । अविवक्षितप्रेषणाण्ण्यन्तात्प्रकृतसूत्रेणात्मनेपदे आरोहयते इति रूपमित्यर्थः । प्रेषणांऽशत्यागे सति ण्यन्तस्य फलितमर्थमाह — न्यग्भवतीत्यर्थ इति.तददेवंनिवृत्तप्रेषणाअद्धातोः प्राकृतेऽर्थे णिजिष्यते॑ इति पक्षमाश्रित्योदाहृतम् । इदानीमध्यारोपितप्रेषणपक्षमाश्रित्य आह — यद्वेति । पश्यन्तीति । पश्यनति भवं भक्ता इति, आरोहन्ति हस्तिनं हस्तिपका इति च प्रथमकक्ष्या पूर्ववद्व्याख्येयेत्यर्थः । द्वितयीकक्ष्यामाह — ततः कर्मण इति । दृशे रुहेश्च प्थमकक्ष्यायां कर्मीभूतस्य भवस्य हस्तिनश्च प्रयोजकर्तृकत्वरूपहेतुत्वारोपाद्धेतुमण्णिजित्यर्थः । दर्शयति भव इति ।भक्ता॑निति शेषः । तदाह — पश्त आरोहतश्च प्रेरयतीत्यर्थ इति । चाक्षुषज्ञानविषयत्वमापादयतो भक्तान्भवः प्रेरयति, न्यग्भावयतो हस्तिपान् हस्ती प्रेरयतीत्यर्थः । उभयत्रहेतुमण्णिच् । तत्र प्रकृतिभ्यां दृशिरुहिभ्यामेकैकं प्रेरणम् । णिचा तु तद्विषयकमेकैकं प्रेरणान्तरं प्रतीयते इति स्थितिः । चतुर्थकक्ष्यामाह - ततो णिज्भ्यामिति । हेतुमण्णिज्भ्यां, तत्प्रकृतिभूतदृशिरुहिभ्यां च उपात्तयोः प्रेरणयोस्त्यागे सत चाक्षुषज्ञानविषयो भवति भव इति, न्यग्भवति हस्तीति चार्थः पर्यवस्यति । तत्र प्रकृतसूत्रेणात्मनेपदे दर्शयति भवः, आरोहयते हस्तीति च सिद्धमित्यर्थः । पश्यन्ति भवं भक्ता इति, आरोहन्ति हस्तिनं हस्तिपका इति च प्रथमकक्ष्यायां कर्मणो भवस्य हस्तिनश्च तृतीयकक्ष्यायां कर्तृत्वात्, प्रथमकक्ष्यायामणौ या क्रिया तस्या एवाऽत्र तृतीयकक्ष्यायां कर्मणो भवस्य हस्तिनश्च तृतीयकक्ष्यायां कर्तृत्वात्,प्रथमकक्ष्यामणौ या चाक्षुषज्ञानविषयं कुर्वन्तीति, न्यग्भावयन्तीति प्रकृत्युपात्तस्यप्रेषणांशसय् तृतीयकक्ष्यायां त्यागागदणौ या क्रिया सैव चेण्ण्यन्तेनोच्येतेत्यंशसय्कथं प्रवृत्तिरिति वाच्यम्,सैव चेण्ण्यन्तेने॑त्यत्र आधिक्यमात्रं व्यवच्छिद्यते, नतु न्यूनत्वमपीत्यदोषात् । ननु द्वितीयकक्ष्यामेव कुतो न तङित्यत आह — अस्मिन्पक्षे द्वितीयेति । कुत इत्यत आह — समानक्रियत्वाभावादिति । द्वितीयकक्ष्यायामणौ या क्रिया सैव चेण्ण्य्नतेनोच्येतेत्यंशस्याऽभावादिति यावत् । तदेवोपपादयति — णिजर्थस्येति । णेरिति किम् । पश्यत्यारोहतीति निवृत्तप्रेषणान्मा भूत् । स्मरति वनगुल्मं कोकिल इति । स्मृतिविषयत्वमापादयतीत्यर्थः । पक्षद्वयेऽप्येषा प्रथमकक्ष्या द्वितयीतृतीयकक्ष्योरप्युपलक्षणम् । तत्र निवृत्तप्रेषणपक्षेस्मरति वनगुल्मट इति द्वितीयकक्ष्या । स्मृतिविषयो भवतीत्यर्थः ।स्मरयति वनगुल्मं कोकिल॑ इति तृतीयकक्ष्या । स्मृतिविषयत्वमापादयतीत्यर्थः । द्वितीयकक्ष्या । प्रेषणपक्षे तुस्मरयति वनगुल्मः कोकिल॑मिति द्वितीयकक्ष्या । स्मरन्तं प्रेरयतीत्यर्थः । स्मरयति वनगुल्म इति । प्रत्युदाहरणमिदम् । निवृत्तप्रेषणपक्षे चतुर्थकक्ष्यैषा । अध्यारोपितप्रेषणपक्षे तु तृतीयकक्ष्येति बोध्यम् । 'स्मृ आध्याने' इति घाटादिकत्वेन मित्त्वद्ध्रस्वः । विस्तरस्त्वत्र प्रौढमनोरमाशब्दरत्नशब्दोन्दुशेखरेष्वनुसन्धेयः । Tattvabodhini ------------- **णेरणौ यत् कर्म णौ चेत् स कर्ताऽनाध्याने** - णेरणौ यत्कर्म । आत्मनेपदमित्यधिक्रियते । इहावान्तरवाक्यानि चत्वारि प्रतीयन्ते ।णेरात्मनेपद॑मित्येकं वाक्यम् । तच्च स्यादित्यन्तेन व्याख्यातम् ।अणौ यत्कर्म णौ चे॑दिति द्वितीयम् । कर्मशब्दः क्रियापरःकर्तरि कर्मव्यतिहारे॑ इति वत् । तथा च अणौ या क्रिया सैव ण्यन्ते चेदित्यर्थः । एवं स्थिते फलितमाह — सैव चेण्ण्यन्तेनोच्येतेति । स कर्ते॑ति तृतीयं वाक्यम् । अणावित्यादि चेच्छब्दान्तमिहानुर्तते । कर्मशब्दश्चात्र कारकविशेषपरः, शब्दाधिकाराश्रयणात्, तदेतद्व्याचष्टे — अणौ यदित्यादिना, स्यादित्यन्तेन ।अनाध्याने॑ इति वाक्यान्तरं व्याचष्टे — न त्विति । आध्यानमुत्कण्ठापूर्वकं स्मरणम् । वस्तुतस्तु पर्युदास एव लाघवादाश्रयणीयः । अस्मिन्पक्षे आध्यानभिन्ने इत्यर्थे सति फलितो-न त्वाध्याने॑ नेयः । तथा च अत्र वाक्यत्रयमेवेति बोध्यम् । विकल्प इति ।परत्वात्प्राप्ते॑ इत्युत्तरेणान्वयः । पूर्वविप्रतिषेधेनेति ।विभाषोपपदेने॑त्यस्यावकाशः — स्वं यज्ञं यजति । स्वं यज्ञं यजते इत्यादि ।णेरणा॑ वित्यस्य तु — दर्शयते राजेत्यादि । तथाअणावकर्मका॑ दित्यस्य — शेते कृष्णस्तं गोपी शाययतीत्यवकाशः ।णेरणौ॑ इत्यस्य तु — लावयते केदारः स्वयमेवेति । तत्र हि लूयते केदार इति द्वितीयकक्षायामणावकर्मकत्वादिति भावः । न चपश्यति भव॑ इतिवद्द्वितीयकक्षायांलुनाति केदार॑ इत्येव प्रयोग इति भ्रमितव्यम् । लवनस्य कर्मस्थक्रियात्वेनकर्मवत्कर्मणे॑ति यगात्मनेपदप्रवृत्तेः । नव्यास्तुअणावकर्मका॑ दित्यस्य बाधेदर्शयते राजे॑ति भाष्यप्रयोगो मानम् । तत्र हि निवृत्तप्रेषमपक्षे दृशेरणावकर्मकत्वाच्चित्तवत्कर्त्तृकत्वाच्च परस्मैपदप्राप्तेः ।विभाषोपपदेने॑ति विकल्पबाधेतु न किंचिन्मानम् । किं चअणावकर्मका॑दित्यस्य बाधेऽपि नास्त्येव प्रमाणम्, पूर्वोक्तभाष्यस्य परगामिनि क्रियाफले चरितार्थत्वात् । तथा च कर्तृगामिनि क्रियाफले परत्वात्अणावकर्मका॑ दित्यस्य प्रवृत्तौ न किंचिद्बाधकमस्तीतिपूर्वविप्रतिषेधेनेदमेवेष्यते॑ इत्येतच्चिन्त्यमित्याहुः । वस्तुतस्तुणेरणौ॑ इति सूत्रस्याऽचित्त्वत्कर्तृकेऽपि लावयते केदार इत्यादौ चरितार्थत्वात्अणावकर्मका॑ दित्यनेन परगामिनि क्रियफलेऽपि परत्वात्परस्मैपदे प्राप्ते दर्शयते राजेति भाष्यप्रयोगबलात्पूर्वविप्रतिषेधाभ्युपगमेनणेरणौ॑ इत्यात्मनेपदप्रवृत्तावपिआत्मार्थं दर्शयते॑स्वार्थं दर्शयते॑ इत्यादौ परत्वात्विभाषोपपदेने॑त्यस्य प्रवृत्तौ न किंचिद्बाधकमस्ति । ततोऽपि परत्वात्अणावकर्मका॑ दिति परस्मैपदमेव स्यादिति तद्बाधेन पूर्वविप्रतिषेधे स्वीकृतेविभाषोपपदेने॑त्यस्याप्यर्थात्पूर्वविप्रतिषेधेन बाधो जात एवेति चेत्, एवं तर्हिदर्शयते राजे॑ति भाष्यप्रयोगस्य केवले चरितार्थत्वात्सोपपदप्रयोगेअणावकर्मका॑ दिति गतार्थत्वशङ्कां निरस्यति — कर्तस्थभावका इति । अपरिस्पन्दनसाधनसाध्यो धात्वर्थो भावः ।ष सपरिस्पन्दनसाधनसाध्या तु क्रिया । साधनं = कारकं, तत्साध्यत्वाद्धात्वर्थस्य । ननुनृत्यन्तं भवं पश्यती॑त्यत्र दृशेः कर्तृस्थभावकता न स्यात्, किं तु कर्तृस्थक्रियाकतैव स्यात् । न च साधनशब्देन लकारवाच्यं कारकं विवक्षितमिति वाच्यं, नृत्यन्भवः पश्यतीत्यत्र तद्दोषतादवस्थ्यादिति चेत् । अत्राहुः — आरोहणादौ सपरिन्पन्द एव देवदत्तादिर्यथा साधनतथा दर्शनश्रवणादौ न भवति किंतु स्पन्दनरहितोऽपि नोक्तदोष इति । कर्तृस्थभावकमुदाहरति — पश्यन्तीति । प्रेरणांशेति । सौकर्यविवक्षयेति भाव- । तत इति । त्यक्तप्रेरणांशकाद्धातोरित्यर्थः । पुनण्र्यर्थस्येत्यादि । न चैवं णिजपि गच्छतीतिदर्शयते भव॑ इति न सिध्येदिति वाच्यम्, उपायनिवृत्तावप्युपेयाऽनिवर्तनादिति कैयटोक्तेः । तत्र तृतीयायेति । प्रथमाद्वितीययोस्तु ण्यन्तत्वाऽभावात्तङः प्रसक्तिरेव नास्तीति बावः । क्रियासाम्येऽपीति । प्रथमकक्षया सहेत्यर्थः । द्वितीयामादायेति ।अणौ या क्रिया सैव चेण्ण्यन्ते॑ इत्यस्य न्यूनाधिकभावव्यवच्छेदपरत्वमभ्युपेत्येदमुक्तम् । यदा त्वधिकव्यवच्छेदमात्रपरत्वमभ्युपगम्यते तदा प्रथमामादाय तत्संभवति । इदानीं कर्तृस्थक्रियाकमुदाहरति — एवमित्यादिना । आरोहति हस्तीति । प्रेषणांशत्यागे उदाहरणमिदम् । ततो णिजैति । निवृत्तप्रेषणाद्धातोः प्रेषणांऽशविवक्षायां णिजित्यर्थः । पुनण्र्यर्थस्याऽविवक्षायामुदाहरणमाह — आरोहयते इति । एवं निवृत्तप्रेषणपक्षमुपपाद्येदानीमध्यारोपितप्रेषणपक्षमाह — यद्वेति । हेतुत्वारोपादिति । प्रयोजककर्तृत्वारोपादित्यर्थः । अत्रापि सौकर्यविवक्षैव बीजम् । पश्यत इति । पश्यतो भक्तान्, आरोहतो हस्तिपकानिति क्रमेणाऽर्थः । आधिक्यादिति ।अस्मिन्पक्षे णौ चेत्सा क्रियेत्यनेन आधिक्यमात्रं व्यवच्छिद्यते न तु न्यूनत्वमपि । अन्यथा तृतीयक्षायामपि तङ् न स्यात्, प्रकृत्युपात्तप्रेषणाशंस्य त्यागेन न्यूनतायाः सत्त्वादिति भावः । णेरिति किम् । पश्यत्यारोहतीत्यादिनिवृत्तप्रेषमान्म#आभूत् । न चणौ चे॑दिति श्रुतत्वाण्ण्यन्तादेव स्यादिति वाच्यम्, अणावित्यस्यापि श्रुतत्वात् । तस्याऽग्रिमयोगार्थमवश्यं कर्तव्यस्य स्पष्टार्थमिहैव कर्तृमौचित्याच्च । अणौ या क्रिया सैव चेण्ण्यन्ते किम् । दर्शयति भवः, आरोहयति हस्तीत्यध्यारोपितप्रेषमपक्षे द्वितीयकक्षायां माभूत् । कथं तर्हिकरेणुरारोहयते निषादिन॑मिति माघप्रयोगः,स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव सादु बन्धुता॑ मिति भारविप्रयोगश्च सङ्गच्छत इति चेत् । अत्राहुः — णिचश्चे॑ त्यनेन क्रियाफले कर्तृगामिनि तङ्, न तु प्रकृतसूत्रेणेति । अणौ यत्कर्म कारकं णौ चेत्स कर्तेति किम् । दर्शयन्ति भवमिति निवृत्तप्रेषणपक्षे चतुर्थकक्षेयम् । आध्यारोपितपक्षे तु तृतीयकक्षेति ज्ञेयम् । केचित्तु एतत्सूत्रस्थे भाष्ये दर्शयते भृत्यान्राजेत्युदाहरणं, स्मरयत्येनं वनगुल्मैति प्रत्युदाहरणं च दृश्यते । ततश्च अध्यारोपितप्रेषणपक्षे द्वितीयकक्षायामेवाऽनेनात्मनेपदं भवति, न तु तृतीयकक्षायामिति प्रतीयते । तथा च कर्मपदमावर्त्त्य तस्य क्रियावाचित्वं स्वीकृत्याऽणौ या क्रियासैव चेण्ण्यन्तेनोच्येतेति वाक्यान्तराभ्युपगमेऽप्येवकारेणाऽधिक्यं न व्यवच्छिद्यते, किं तु न्यूनतैवेत्यस्मादेव भाष्यादवगम्यते । एवं चदर्शयते भवः॑आरोहयते हस्ती॑ति कर्मप्रयोगरहितं मूलग्रन्थस्योदाहरणं,॒स्मरयति वनगुल्म॑ इति प्रत्युदाहरणं च भाष्यविरुद्धमेवेत्याहुः । अन्यैस्त्वविविक्षितमिह क्रमेत्युक्त्वाऽत्र मूलग्रन्थाऽविरोधेनैव भाष्यग्रन्थः समर्थितः ।तेषामयमाशयः — गभीरायां नद्यां घोष॑ इत्यत्र गभीराऽभिन्ननद्यामिति गभीरनदीपदार्थयोरभेदबोधानन्तरं तीरलक्षणायां तीरस्य गभीरत्वाऽभावात्, नद्यास्तु गभीरत्वेऽप्येकदेशान्वयाऽसंभवाच्च अनर्थकमपि गभीरायामिति पदं प्राथमिकबोधमादाय यथा सार्थकं, तद्वदिहापि अध्यारोपितप्रेषणपक्षे द्वितीयकक्षायां कर्मण्यन्वितं, ततो णिजर्थस्येव कर्मणोऽपि त्यागे णिचः कर्मपदस्य च प्राथमिकबोधमादाय सार्थक्यम् । स्वबोध्यसंबन्धो लक्षणेत्यभ्युपगमात् । विशिष्टवाक्यार्थस्य चेह बोध्यत्वेन तत्संबन्धस्य बोधतृकतारूपस्य वाक्ये सत्त्वात् । एषैवार्थवादैः प्राशस्त्यलक्षणायां गतिः । अन्यथावायव्यं ओतमालबेत बूतिकामः॑ इत्यादिविधिवाक्यस्य योऽर्थवादःवायुर्वैक्षेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति॑स एवैनं भूति गमयति॑ इत्यादिस्तत्रवायुमेव स्वेन भागधेयेन॑स एवैन॑ मित्य#आदिरूपस्य विभक्तिभेदेन प्रयोगस्य वैयथ्र्यं स्यादिति । नन्वेतत्सूत्रस्योदाहरमं प्रत्युदाहरणं च यताश्रुतभाष्यानुसारेण सकर्मकमेवास्तु किमनेन विद्यमानकर्मणोऽविवक्षितत्वोपपादनक्लेशेनेति चेत् । मैवम् । निवृत्तप्रेषमपक्षे दर्शयते भव इत्याद्युदाहरणस्य प्रत्युदाहरणस्य च कर्मरहितस्य स्वीकर्तव्यतया तदैकरूप्यस्याऽस्मिन्नपि पक्षे अकर्मकोदाहरमप्रत्युदाहरणयोः सिद्ध्ये कर्मणोऽविवक्षितत्वाव्याख्याया उचितत्वात् । किंचकर्मवत्कर्मणे॑ त्यनेनैव सिद्धे कर्तृस्थभावक्रियार्थं सूत्रमिति भाष्यग्रन्थस्वारस्यादप्यकर्मकमेवोदाहरणं प्रत्युदाहरणं चायाति । न चकर्मवत्कर्मणे॑ति सूत्रे तुल्यशब्देनापि कर्मस्थक्रियातो न्यूनतैव व्यवच्छिद्यते न त्वाधिक्यमिति स्वीकृते नास्ति भाष्यग्रन्थस्वारस्यभङ्ग इति वाच्यं, तथा हि सतिकर्मवत्कर्मस्थक्रिय॑ इत्युक्तेऽपि कर्मस्था क्रिया यस्य कर्तुः स कर्ता कर्मवदित्यर्थलाभात्तत्समीहितसिद्धौकर्मणा तुल्यक्रिय॑ इत्यस्य वैयथ्र्यापत्तेः । द्वितीयकक्षायां भवे हस्तिनि च विषयत्वापादनविषयकप्रेरणायाश्च न्यग्भवनविषयप्रेरणायाश्च सत्त्वेऽपि विषयत्वापत्तिरूपाया न्यग्भवनरूपायाश्च कर्मस्थक्रियायाः सत्त्वात् । यदि तुकर्मणा तुल्यक्रियः॑ इत्येतत्सार्थक्याय तुल्यशब्देनात्र न्यूनाधिकव्यवच्चेदः क्रियत इत्युच्यते, तदाकर्मवत्कर्मणे॑ति सूत्रस्य द्वितयीकक्षायामप्रवृत्तेःकर्मवत्कर्मणेत्यनेनैव सिद्धे॑ इत्यादिभाष्यग्रन्थस्वारस्यभङ्गो भवत्येव । ततश्च अध्यारोपितप्रेषणपक्षे तृतीयकक्षायामेवोदाहरणं, न तु द्वितयीकक्षायामित्यभ्युपगन्तव्यम् । एतेनाध्यारोपितप्रेषणपक्षे णौ चेत्सा क्रियेत्यनेनाधिक्यमात्रं व्यवच्छिद्यते न्यूनत्वं नेत्यत्र विनिगमनाऽभावान्न्यूनत्वव्यवच्छेद एव स्वीकृते, द्वितयीकक्षायां तङ् दुर्वार इति न्यूनाधिकव्यवच्छेद एव ग्राह्रस्तेन कक्षाचतुष्टयपक्ष एव साधीयानिति वदन्तः परास्ताः । दर्शयते भृत्यान् राजेति भाष्योदाहरबलेन अध्यारोपितपक्षस्यैव प्रबलत्वादिति दिक् । गृधिवञ्च्योः प्रलभने । अकत्र्रभिप्रायार्थ आरम्भः । Padamanjari ----------- अत्र'णेः' इति यद्यपि सामान्यनिर्देशः,तथापि पुच्छभाण्डादिणिङ् न गृह्यते; अणौ कर्मणो णावसम्भवात्, कमेर्णि ङ्स्तुठायादय आर्द्धधातुके वाऽ इति वचनादण्यन्तावस्था सम्भवति। कर्मणश्च कर्तृत्वम् - कमिष्यते योषितं देवदतः कामयिष्यते योषित्स्वयमेवेति, तथापि ङित्वादेवि सिद्धे सोऽपि न गृह्यत इति णिच एव ग्रहणमित्याह - णिचश्चेति कर्त्रभिप्राये क्रियाफले सिद्धमेवात्सनेपदमिति। अकर्त्रभिप्रायार्थ इति। उपलक्षणमेतत्, कर्त्रभिप्राये पदान्तरेण द्योतिते'विभाषोपपदेन प्रतीयमाने' इति विकल्पं बाधित्वा नित्यो विधिर्यथा स्यादित्यपि द्रष्टव्यम्। अत्रैकवाक्यतायामयमर्थो भवति - ण्यन्तादात्मनेपदं भवत्यण्यन्तावस्थायां यत्कर्म ण्यन्तावस्थायां यदि स कर्ता भवति आध्यानादन्यत्रेति। तत्र कर्मान्तरनिवृत्तिर्न कृता स्यात्, ततश्चेहापि प्रसज्येत - आरोहन्ति हस्तिनं हस्तिपकास्तानारोहयति हस्तीति। किं च उक्तेऽर्थे'णेरणौ कर्मणि' इत्येतावदेव वाच्यम्; कर्तरीत्येव ण्यन्तादात्मनेपदं भवति, ठणौ कर्मणि कर्तरिऽ इत्युक्ते को नाम विवक्षितोऽर्थो न सिद्ध्यति।'सः' इत्येतच्चानर्थकम्; यतदोर्नित्यसम्बन्धादेवाध्याहारतः सिद्धेः। तस्माद्यथाश्रुतमात्रं न विवक्षितमिति मत्वा पृच्छति - कथमिति। इतरोऽपि वाक्यभेदाश्रयणेन परिहरति - अणौ यत्कर्मेत्यादि। णेरात्मनेपदं भवति आध्यानादन्यत्रेत्येकं वाक्यम्, ततोऽणौ यत्कर्मेति द्वितीयम्। अत्र वाक्ये यतदोर्नित्यसम्बन्धाद्यच्छब्देन तच्छब्द आक्षिप्यते। कर्मान्तरस्य चानिर्देशाद् उद्देश्यतयापि श्रुतं कर्मत्वमेव विधीयते। तच्च विधीयमानं सामर्थ्याण्णोरिति सन्निहितत्वाण्णयन्तावस्थायामेव विधीयते । किं तत्सामर्थ्यम्? अणौ यत्कर्मेत्यनुवादसामर्थ्यादेवाणौ कर्मत्वसिद्धेस्तत्रैव तद्विधानस्यासम्भवः। तदेवमणौ यत्कर्मेत्येतावत एवाणौ यत्कर्म णौ चेतत्कर्मेत्यर्थो भवति। अनेन च कर्मान्तरनिवृत्तिः क्रियते, न त्वणौ कर्मणो णौ कर्मभावः प्रतिपाद्यते। स कर्तेति वाक्यान्तरेण तस्य कर्तृत्वप्रतिपादनात् एकस्य युगपदेकस्यां क्रियायां कर्मत्वकर्तृत्वयोरुभयोरसम्भवात्। ततो णौ चेदिति तृतीयं वाक्यम् - अणौ यदित्येव, अणौ यत्प्रतिपाद्यं वस्तु णौ चेतदेव प्रतिपाद्यमित्यर्थः। ततः स कर्तेति चतुर्थम्। अत्राणौ यत्कर्म णौ चेदिति सर्वमनुवर्तते। ठनाध्यानेऽ इत्येतदपि प्रसज्यप्रतिषेधे पञ्चमं वाक्यम्। तत्र वृत्तिकारेण त्रीणि वाक्यानि स्ववाचा दर्शितानि-ण्यन्तादात्मनेपदं भवतीत्येकं वाक्यम्, अणौ यत्कर्म णौ चेतदेव कर्मेति द्वितीयम्, स एव कर्ता भवतीति तृतीयम् 'णौ चेद्' ग्रहणं समानक्रियार्थमिति तु वक्ष्यति, अतस्तदपि वाक्यमभ्युपगतमेव। आरोहन्तीत्यादि। अणौ कर्मप्रदर्शनार्थमिदमुक्तम्, इदं तत्रोदाहरणम् - आरोहयते हस्ती स्वयमेवेति। आङ्पूर्वो रुहिः न्यग्भवनोपसजंने न्यग्भावने वर्तते, न्यग्भवन्तं हस्तिनं न्यग्भवयतीत्यर्थः। यदा तु हस्तिनः सौकर्यातिशयप्रतिपादनाय हस्तिपकव्यापारो न विवक्ष्यते, तदा न्यग्भवमात्रे रुहिर्वर्तते, तत्र च हस्तिनः कर्तृत्वम्। उक्तं च - निवृतप्रेषणं कर्म स्वक्रियावयवे स्थितम्। निवर्तमाने कर्मत्वे स्वकर्तृत्वेऽवतिष्ठते॥ इति अस्य च कर्तुः कर्मस्थक्रियेषु कर्मकार्याण्यतिदिश्यन्ते-ठ्कर्मवत्कर्मणातुल्यक्रियःऽ इति, तद्यथा-लूयते केदारः स्वयेवेति। लुनातिर्हि द्विधाभवनोपसर्जने द्विधाभावने वृतः कर्तृव्यापाराविवक्षायां द्विधा भवनमात्रे वर्तते। दुहिस्तु कर्तृस्थक्रियत्वात् कर्मकार्याणि न लभत इत्येतावत्। ततो न्यग्भवनवृते रुहेर्हस्तिपकव्यापारे णिजुत्पद्यते, तदा च य एवार्थ आरोहयन्ति हस्तिनं हस्तिपकाः, स एवार्थ आरोहयन्ति हस्तिपका इति । पुनः सौकर्यातिशयविवक्षायामविवक्षिते हस्तिपकव्यापारे न्यग्भवनमात्रे रोहिर्वर्तते-आरोहयते हस्ती स्वयमेवेति। सुष्ठुअ न्यग्भवतीत्यर्थः। उक्तं च- न्यग्भावनं न्यग्भवनं रुहौ शुद्धे प्रतीयते। न्यग्भावनं न्यग्भवनं ण्यन्तेऽपि प्रतिपद्यते॥ अवस्थां पञ्चमीमाहुर्ण्यन्तानां कर्मकर्तरि। निवृतप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते॥ इति। एवं सिञ्चतेरप्यार्द्रीभवनोपसर्जनमार्द्रीभावनमर्थः। ततो निवृतप्रेषणमित्यादि पूर्ववत्। सेचयते हस्ती स्वयमेव, सेचनेऽत्यन्तमनुकूलो भवतीत्यर्थः। एवं द्दशिरपि कर्मव्यापारमात्रवृत्तिः,णिजुत्पन्ने पुनस्तत्रापरोऽपि, तदुदाहरणम्-दर्शयते राजा स्वयमेव, दर्शनेनानुकूलो भवतीत्यर्थः। सोऽयं निवृतप्रेषपक्ष उच्यते। अपरः प्रकारः-आरोहन्ति हस्तिनं हस्तिपकाः, तान् सौकर्यातिशयाद्धस्ती प्रयुङ्क्ते इति; हस्तिव्यापारे णिजुत्पद्यते-आरोहयति हस्ती हस्तिपकानिति। तत्र सौकर्यातिशयप्रतिपादने तात्पर्यमिति कर्म न विवक्ष्यते, ततोऽकर्मको भवति; यथा-नेह पच्यते, नेह भुज्यते इति पाकमात्रप्रतिषेधे तात्पर्यमिति कर्माविवक्षायां भावे लो भवति-आरोहयते हस्ती स्वयमेव, सुष्ठुअ न्यग्भवतीत्यर्थः। एष एव हि हस्तिनः प्रयोजकव्यापारः। एवमितरयोरपि द्रष्टव्यम्। सोऽयमध्यारोपितप्रेषणपक्ष इति गीयते। तदेवमुभयोरपि पक्षयोः सैव क्रिया, याऽण्यन्तावस्थायाम्। न च कर्मान्तरमस्ति, कर्तापि स एवेत्युदाहरणोपपतिः। स्वयमिति वचनं कर्त्रन्तरव्युदासार्थम्। णेरिति किमिति। अणौ कर्मत्वानुवादेन णौ कर्तृत्वविधानात् प्राधान्याण्ण्यन्तादेव भविष्यतीति प्रश्नः। साध्वारोहतीति। साघु न्यग्भवतीत्यर्थः। अत्र कर्मव्यापारमात्रे रुहिर्वर्तते, कर्तृस्थक्रियत्वातु कर्मवद्भावाभावाद्यगात्मनेपदे न भवतः, शप्परस्मैपदे भवतः, अणौ यत्कर्मेत्यण्यन्तावस्थायामपि श्रुतत्वाततोऽपि स्यादिति भाव। ननु प्राधान्याण्ण्यन्तादेव भविष्यतीत्युक्तम्, किमर्थमणौ यत्कर्म णौ चेत्स कर्तेति? अयमुपाधिर्यस्मिन्नेव प्रयोगे संभवति, तत्रैवात्मनेपदं युक्तम्, साध्वारोहतीत्यत्र च नायं प्रकारः सम्भवति। आरोहयते हस्तीत्यत्र तु णिचः प्रकृतिभूते रुहावण्यन्ते यत्कर्म ण्यन्ते स एव कर्तेति तत्रैव भविष्यति, सत्यम्; तदेवमुतरार्थमवश्यं णेरिति वक्तव्यमिहापि विस्पष्टार्थं भविष्यतीति मन्यते। अणाविति किमिति। कर्मत्वकर्तृत्वयोर्यौगपद्यासम्भवात् णौ च कर्तृत्वस्य श्रुतत्वादवस्थान्तरे णावेव कर्मत्वं विज्ञास्यत इति प्रश्नः। गमयतीति।'गणसंख्याने' चुरादावदन्तः पठ।ल्ते, अतो लोपस्य स्थानिवद्भावाद् उपधावृद्ध्यभावः। गण्यमानो गणो यदा गणनक्रियायामानुकूल्यं प्रतिपद्यते, तदा तद्व्यापारमात्रवृतेर्हेतुमण्णिचि पुनः कर्मव्यापारमात्रे आरोपितस्यैवायं प्रयोगः। गणयति गणः स्वयमेवेति। अत्र णावेव गणेः कर्म, णावेव कर्ता इत्यात्मनेपदं न भवति। कर्मवद्भावेनापि न भवति; कर्तृ स्थक्रियत्वात्। गणनं हि संख्यानिमितः परिच्छेदो ज्ञानविवेषः। भाष्ये तु भागशोऽवस्थापने गणिर्वर्तते। भागशोऽवतिष्ठमानं गणं गोपालकोऽवस्थापयतीत्यर्थमङ्गीकृत्य तत्रानुकूलत्वाद् गणस्यैव कर्तृ त्वविवक्षायामस्ति कर्मस्थभावकत्वमिति कर्मवद्भावादात्मनेपदमुदाहृतम्। ननु चाणावकर्मकादित्यत्र वक्ष्यति-ठ्हेतुमण्णिचो विधिःऽ इति, प्रतिषेधोऽपि प्रत्यासतेस्तस्यैव न्याय्य इति, तच्चेत्, सत्यम्; इदमपि प्रत्युदाहरणमयुक्तमेव, उच्यते-युक्तं तत्र हेतुमण्णिचो विधिरिति; तत्र बुधादिसूत्रे'णः' इति वर्तते, बुधादिभ्यश्च हेतुमण्णिजेव सम्भवति। इह तु सामान्येन ग्रहणं विशेषहेत्वभावात्। ननु चाणौ यत्कर्मेत्युच्यते चुरादीनां च नित्यण्यन्तत्वात्केवलानां प्रयोगाभवाद् अणौ कर्मणोऽसम्भवाद् अत्रापि हेतुमण्णिच एव विधिः, नेत्याह; ठा धृषाद्वाऽ इति विभाषितणिचामपि केषाञ्चित्सम्भवात्। भाष्ये तु हेतुमण्णिचो विधिरिति स्थितम्। लावयति दात्रं स्वयमेवेति। करणस्य दात्रस्यापि तैक्ष्ण्यातिशयेन लवने यदानुकूल्यं तत्प्रतिपादनाय लावकान्प्रति प्रयोजकत्वविवक्षायां णिच्। इह ण्यन्तादात्मनेपदं भवत्यणौ यत्कर्म स चेत्कर्तेत्युक्ते गम्यत एतद्यस्माद् ण्यन्ताद्विधिः तत्रैवाण्यन्ते यत्कर्म स चेत्कर्तेति, अतो णौ चेद्ग्रहणमर्थकम्, तत्राह-णौ चेद्ग्रहणं समानक्रियार्थमिति। प्रयोज्यप्रयोजकभावलक्षणेऽपि क्रियाभेदे मा भूत्, णिच्प्रकृत्यर्थभूतायामेव क्रियायां यथा स्यादित्यर्थः। यथा पुनरयं शब्दार्थस्तथोक्तं पुरस्तात्। आरोहयमाणो हस्ती भीतान् सेचयति मूत्रेणेति। येन प्रयोज्यप्रयोजकभावलक्षणेऽपि क्रियाभेदे आत्मनेपदं वार्यत एवानेन धातुभेदादत्यन्तभेद इति मत्वैतत्प्रत्युदाहृतम्, भीताश्चात्रारोहयतेः कर्म। आरोहयमाण इति।'णिचश्च' इत्यात्मनेपदं शानच्, भीता ह्यारेह्यमाणा भीत्या मूत्रयन्ति, तेन हस्ती सिच्यते। कर्माविवक्षायां तु सेचयतेरकर्मकत्वम्। उद्देशप्रतिनिर्देशात् लब्धे यत्सग्रहे पुनस्तद्ग्रहो वाक्यभेदेन कर्मान्तरनिवृतये इत्याह-यत्सग्रहणमनन्यकर्मार्थमिति। स्थलमारोहयति मनुष्यानित्यत्र कर्मान्तरमप्यस्ति मनुष्याः, रुहेर्गत्यर्थत्वान्मनुष्याणां कर्मसंज्ञा। कथं पुनरत्राणौ कर्मणो णौ कर्तृत्वम्,यावता स्थलमणौ कर्म हस्ती तु णौ कर्ता? स्यादेततारोहयमाण इत्यत्राणौ कर्मणो हस्तिन एव कर्तृ त्वम्, स एव च स्थलमारोहयतीत्यत्रापि कर्तेति। एवमपि प्रत्यासतेरेवात्र न भविष्यति, तथा हि ण्यन्तादात्मनेपदं भवति। अणौ यत्कर्म णौ चेत् स कर्तेत्युक्ते प्रत्यासतेरेतद् गम्यते-येन णिचा ण्यन्तादात्मनेपदं विधित्सितं तेनैव णिचाऽण्यन्ते तत्प्रकृतिभूते धातौ यत्कर्म स एव चेत्कर्ता तस्मिन्नेव ण्यन्त इति। अत्र च यत्रायमुपाधिः, कृतमेव तत्रात्मनेपदम्-आरोहयमाण इति। यत्रतु न कृतम्-स्थलमारोहयतीति, न तत्रायमुपाधिरिति नैवात्मनेपदप्रसङ्गः। इह तर्हि-आरोहन्त हस्तिनं हस्तिपकाः, तानारेहयति हस्तीति? किं पुनरत्र नेष्यते? वृत्तिकृता नेष्यते, भागवृत्तिकारेण त्विष्यते। तथा माघः प्रयुङ्क्ते-ठ्करेणुरारोहयते निषादिनम्ऽ इति। कतेति किमिति। भावकर्मणोः सिद्धत्वात् कर्तर्येव भविष्यतीति मन्यते। अणौ यत्कर्म तस्मिन्नेव कर्तरि यथा स्यात्, कर्त्रन्तरे मा भूदित्येवमर्थं कर्तृग्रहणमिति दर्शयन्नाह-तानारोहयति महामात्र इति। गत्यर्थत्वच्च रुहेः हस्तिपकानां कर्मसंज्ञा । यद्येवम्, कर्मान्तरसम्भवादेवात्र न भविष्यति? नैतदेवम्? अस्तीत्यत्राणौ कर्मणो हस्तिनो णावपि कर्मत्वेनान्वयः। न वा सति कर्तृ त्वविधौ कर्मान्तरव्यावृत्तिर्लभ्यते। यद्वा-प्रयोजकव्यापारमात्रे तात्पर्याद्यदा हस्तिपकाः कर्मत्वेनाविवक्षिताः, तदेदं प्रत्युदाहणं द्रष्टव्यम्। वनगुल्मस्येति। कर्मोपलक्षणमेतत्, न त्वत्र वनगुल्मस्य कर्मत्वमस्ति; शेषत्वेन विवक्षित्वात्। तस्माद्वनगुल्ममिति प्रदर्शनीयम्। स्मरयत्येनमिति।'स्मृ आध्याने' घटादिः, वनगुल्मस्य रमणीयत्वप्रतिपादनाय प्रयोजकत्वे विवक्षिते णिच्। एनमिति। बुद्ध्यर्थत्वात्कोकिलस्य कर्मसंज्ञा। एतदप्युपलक्षणम्, अत्रहि कर्मान्तरसद्भावादेव प्राप्तिर्नास्ति कर्माविवक्षायां प्रत्युदाहरणं द्रष्टव्यम्। ननु चात्र कर्मकर्तरि मूलोदाहरणानीति। ननु चाध्यारोपितप्रेषणपक्षे आरोहयतो हस्तिनः कर्मत्वाभावात्कर्मणा समानधातौ तुल्यक्रियत्वाभावात् पचत्योदनं देवदतो राध्यत्योदनं स्वयमेवेतिवत्कर्मवद्भावो न प्राप्नोति, सत्यम्; आरब्ध एवास्मिन् सूत्रे सोऽपि पक्षः सम्भवात् प्रदर्शितः, अनारब्धे तु निवृतप्रेषणपक्षप्रक्रियैवाश्रयिष्टे। ननु तत्रापि व्यापारद्वयाभिधायिषु रुहादिषु भवत्येवम्, ये तु केवलकर्तृ व्यापारवाचिनो द्दश्यादयः तेषु कथम्, न हि द्दशिः कर्मव्यापारं कञ्चदाचष्टे? स्यादेतत्-विषयभावापतिः कर्मव्यापारस्तदापादनं कर्तृ व्यापार इति। यद्येवम्, इच्छापि द्दश्यर्थः स्यात्। नन्वत्रापि विषयभावापतिः, तदापादनं च विद्यते, अथ दर्शनविषयभावापादनं द्दश्यर्थः, ननु तदेव निरूप्यते किं नाम तद्दर्शनम् इति, अत्रोच्यते; मा नामाख्यातकर्मव्यापारः, अस्ति तावत्कर्मणोऽपि व्यापारः, कारकत्वात्, तत्र णिजुत्पत्तिदशायां तावत्येव वर्तिष्यते, उदाहरणदशायां ण्यन्तोऽपीति मन्यते। तथा च रुहिः कर्तृ युक् कर्मणाभिधेय इति युक्तं केवलकर्तृ व्यापारवाचिनां गमिद्दशिप्रभृतीनां कर्तृ स्थक्रियत्वम्; कथं तु विक्लित्युपसर्जनविक्लेदवचनः पचिः, द्विधाभवनोपसर्जनद्विधाभावनवचनश्च लुनातिः कर्मस्थकियः, न्यग्भवनोपसर्जनन्यग्भावनवचनस्तु रुहिः कर्तृ स्थक्रियः? उच्यते; रुहिरपि गत्यर्थः, तथा च'यद्धितुपरिं च्छन्दसि' इत्यत्र भाष्यकारो वक्ष्यति-हस्तिनमारोहतीत्यत्र हि उपरिगमनलक्षण एव रुहेरर्थः, तत्पुनर्न्यग्भवनहेतुत्वाद् न्यग्भावनमित्युच्यते, उपरिगमनरहितं तु न्यग्भावनमात्रं रुहेरर्थो न भवति, यदा खलु क्वचिद् भूमावेव तिष्ठन् वृक्षस्य शाखां हस्ताभ्यामवनमयति, तदा नासावारोहतीत्युच्यते। तस्माद् गतिविशेष एव रुहेरर्थः। कस्तर्हि क्रियाणां कर्मकर्तृ स्थतायां हेतुः? उक्तमत्र- विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता। क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्रकल्पिता॥ इति। विशेषदर्शनेन शब्दानुसारेण वा क्रियायास्तात्स्थ्यं कथ्यते। एतच्च कारणगतमारोहस्य कर्तृस्थत्वं प्रतिपादयति, न तु कर्मस्थताम्। न हि हस्तिनामारोहति, वृक्षमारोहति, पर्वतमारोहतीत्यादौ कर्मभेदेऽप्यारोहणे रूपभेदः प्रतीयते, यथा-घृतमासतण्डुलादिषु पाकः। न च हस्ती न्यग्भवत्वित्येवं कारकव्यापारः, किं तर्हि? हस्तिपका उपर्यासीरन्निति। पाके तु तण्डुलादिगतो विक्लित्यादिरूपो विशेषो यथा स्यादित्येव कारकव्यापारः। तस्मत्कर्मभेदे रूपभेदादुद्देशस्य च कर्मगतत्वात् पचिः कर्मस्थक्रियः,विपर्यपाद्रुहिः कर्तृ स्थक्रिय इति सिद्धम्। एव चारुह्यते हस्ती स्वयमेवेति कर्मवद्भावं प्रर्शयन्तो भाष्यन्यायविरोधादुपेक्ष्याः। द्दशिकर्तृ स्थभावक इति। अथ सिचिः कस्मादुपेक्षितः? कर्मस्थक्रियत्वाद्। आर्द्रीभवनं ह्यत्र प्रधानम्, तदर्थत्वात्कारकव्यापारस्य। किमर्थं तर्ह्युदाहृतः? विशेषाभावात्। न ह्यत्रानेन'कर्मवत्कर्मणा' इत्यनेन वा आत्मनेपदे सति कश्चिद्विशेषः, तेनापि सति यक्चिणौ न भवतः,'णिश्रन्थिग्रन्थि ' इति प्रतिषेधात्। भाष्येऽपि कर्मवद्भावात् सिद्धिमाशङ्क्याध्यानप्रतिषेधार्थमित्युक्त्वा स्मरतेः कर्तृ स्थभावकत्वात् कर्मवद्भावस्य प्राप्तिर्नास्तीत्यभिधायोक्तम्। एवं तर्हि सिद्धे सति यदाध्यानप्रतिषेधं शास्ति, तज्ज्ञापयत्याचार्यः-भवत्येवञ्जातीयकानामात्मनेपदमिति। किमेतस्य ज्ञापने प्रयोजनम्? पश्यन्ति भृत्या राजानम्; दर्शयते भृत्यान् राजा स्वयमेव-अत्रात्मनेपदं सिद्धं भवतीति। एवञ्जातीयकानामिति कर्तृ स्थक्रियाणामित्यर्थः। एवं च ब्रुवता विध्यर्थमेतदित्युक्तं भवति, विशेषप्रतिषेधेन सामान्यविधेरनुमानात्। अत्र दर्शयते भृत्यान् राजेत्येतदेकमुदाहरणमनुपपन्नम्; कर्मान्तरसद्भावात्। तत्र वृत्तिकारः'त्यजेदेकं कुलस्यार्थे' इति न्यायाद् उदाहरणमेतद्गमयितव्यं मन्यते। अस्मिन्नुदाहरणे कमव्यापारमात्रे विवक्षिते सिद्धं भवतीत्यर्थः। अन्ये त्वाहुः-अस्मादेवोदाहरणादणौ ये कर्तृ कर्मणी तद्व्यतिरिक्तकर्मान्तरसद्भाव एवात्मनेपदं न भवति, यथा-स्थलमारोहयति मनुष्यानिति, इह त्वणौ कर्तृणां भृत्यानां णौ कर्मत्वमिति। एवं स्मारयत्येनमिति कोकीलस्य कर्मत्वेऽपि प्रत्युदाहरणमुपपन्नम्,'करेणुरारोहयते निषादिनम्' इति प्रयोगश्चोपपन्न इति तेषां सूत्राक्षराण्येव तावदधिकानि, भाष्यं च सर्वमुदाहरणवर्जमनुपपन्नम्॥ प्रयोगाणां तु निर्वाहो णिचश्चेत्यात्मनेपदात्। जयादित्यस्य हृदयं गूढमेतत्प्रकाशितम्॥ Nyaas ----- `आरोहन्ति हस्तिनं हस्तिपकाः` इति। अणौ कर्मप्रदर्सनार्थमेतदुक्तम्। इदं त्वत्रोदाहरणम् - `आरोहयते हस्ती स्वयमेव` इत। आरोहन्ति हस्तिनं हस्तिपका इत्यत्राङपूर्वस्य तु `रुह बीजजन्मनि प्रादुर्भावे` (धातुपाठः-859) इत्यस्य द्वे क्रिये वाच्ये - न्यगम्भवनम्, न्यग्भावनञ्च। तत्र न्यग्भवनस्य हस्ती कर्ता, न्यगम्भावनस्य हस्तिपका इति। न्यग्भवन्तं हस्तिनं न्यग्भावयन्तीत्यर्थः। स यदा तु सुशिक्षितत्वात् सुविधेयत्वाच्च न्यग्भावनक्रियायामत्यन्तमानुकूल्यं प्रतिपद्यते हस्ती स्वयमेव; तदासौ हस्ती हस्तिपकान् प्रति प्रयोजनकत्वेन विवक्ष्यते, हस्तिपकास्तु प्रयोज्यत्वेन। हस्ती हस्तिपकान् प्रयुङ्क्ते - मामारोहतेति, ततश्च प्रयोज्यप्रयोजकभावे विवक्षिते हेतुमण्णिच्। एवमुत्तरत्रापि कर्मणः कर्त्तृत्वस्य विवक्षितत्वात् प्रयोजकभावविवक्षायां णिज्विधेयः। ततस्तस्मिन्नुत्पन्ने यदा निज्र्ञातस्वरूपत्वाच्चरितार्थत्वात् प्रयोज्या न विवक्ष्यन्ते, तदा निवृत्तत्वात् प्रयोज्यप्रयोजकभावस्य न्यग्भवनमात्रे रुहिर्वर्तते। अत्रेदमुदाहरणम् - आरोहयते हस्ती स्वयमेवेति। तथा हि यदेवाण्यन्ते कर्मासीत् स एव ण्यन्ते हस्ती कर्ता भवति। न च प्रयोज्यप्रयोजकभावे निवृत्तेऽपि णिचो निवृत्तिर्भवतिः निवृत्तिकारणाभावात्। यथैव हि देवदत्तस्य व्यापारे निवृत्तेऽपि पचिः पाकान्न निवर्तते - पच्यत ओदनः स्वयमेवेति, तथेहापि निवृत्ते प्रयोज्यप्रयोजकव्यापारे णिचो निवृत्तिर्न भवतीति वेदितव्यम्।`सिञ्चन्ति` इत्यादि। अत्रापि सिच्यमानो हस्ती कर्म यदा सुशिक्षितत्वात् सुविधेयत्वाच्च सेचनक्रियां प्रति प्रकृष्टमानुकूल्यं भजते, तदा तस्य प्रयोजकत्वे विवक्षिते हस्तिपकानाञ्च प्रयोज्यत्वे णिच्। तत्र कृते पूर्ववत् प्रयोज्येष्वविवक्षितेषु यदेवाण्यन्ते कर्म स एव ण्यन्ते कर्ता भवति। `पश्यन्ति` इत्यादि। अत्रापि दृश्यमानस्य राज्ञः दर्शनक्रियायामतिशयेनानुकूल्यभावोपगमनात् प्रयोजकत्वे विवक्षिते भृत्यानाञ्च प्रयोज्यत्वे णिच्। तत्र विहिते पूर्ववत् प्रयोज्याविवक्षायां यदेव दृशेरण्य्नते कर्म राजा, स एव ण्यन्ते कर्ता। क्रियपि च सर्वेष्वेतेषूदाहरणेषु यैवाण्यन्तावस्थायाम्, सैव ण्यन्तेऽपि। सत्यपि च णिचि प्रयोज्यप्रयोजकभावस्य निवर्त्तितत्त्वात् क्रियान्तरस्य चानुत्पत्तेः।`गणयति` इत्यादि। `गण संख्याने` (धातुपाठः-1853) चनुरादवदन्तः पठते। ततो णिच् , **अतो लोपः** (6.4.48) इत्याकारलोपः। तस्य पूर्वविधौ कर्तव्ये स्थानिवद्भावात् `अत उपाधायाः` (7.2.116) ति वृद्धिर्न भवति। `गणयति गोगणं गोपालकः। गणयति गणः स्वयमेव` इति। अत्र स गण्यमानो यदा गणनं प्रत्यानुकूल्यं भजमानः प्रयोजकत्वेन विवक्ष्यते, गोपालकस्तु प्रयोज्यत्वेन; तदा हेतुमण्णिच्। तस्मिन् कृते पूर्ववत् प्रयोज्याविवक्षायां यदेव कर्म स एव कर्ता भवति। तथाप्यणाविति वचनादात्मनेपदं न भवति; न हि गणःप्रागणौ कर्मासीत्, किं तर्हि? ण्यन्त एव। ननु च **अणावकर्मकाच्चित्तवत्कर्तृकात्** (1.3.88) इत्यत्र `अणौ` इति किम्? चेतयमानं प्रयोजयति चेतयते इति केचित् प्रत्युदाहरन्ति` इत्युक्त्वा प्रत्युदाहरन्ति` इत्युक्त्वा वृत्तिकारो वक्ष्यति, तदयुक्तम्, `हेतुमण्णिचो विधिः। प्रतिषेधोऽपि प्रत्यासत्या तस्यैव न्याय्यः`इति, तच्चेत्, सत्यम्, गणयति गोगणं गोपालकः, गणयति गोगणः स्वयमेवेत्येतदपि प्रत्युदहारणमयुक्तमेव स्यात्, नैतदस्ति; भेदस्याविवक्षितत्वात्। यदि हि भेदो विवक्ष्यते, तदा हेतुमण्णिचो विधिरिति प्रतिषेधोऽपि प्रत्यासत्तेस्तस्यैव स्य#आत्, न हि विप्रकृष्टस्य चुरादिणिचः।न चेह भेदो विवक्षितः, `णेः`इति जातिनिर्देशात्। तस्माण्णिज्मात्रविधिः, अतः प्रितिषेधोऽपि णिज्मात्रस्यैव स्यदिति युक्तमेतत् प्रत्युदाहरणम्। `अणावकर्मकात्` (1.3.88) इत्यादौ सूत्रेऽणाविति हेतुमण्णिच एव ग्रहणम्। अत एव हेतुमण्णिच एव विधिरिति प्रायासत्तेस्तस्यैव प्रतिषेधो युक्तः। यथा तत्र हेतुमण्णिचो ग्रहणं तथा तत्रैव प्रतिपादयिष्यामः। न चात्र तथाविधं किञ्चिन्निबन्धनमस्ति, यतो णेरिति हेतुमण्णिच एव ग्रहणमवसीयते; चौरादिकानामप्यनित्यण्यन्तत्वात्, विभाषितणिचां च केषाञ्चिद्विद्यमानत्वात् येषामण्यन्तानामेव यत् कर्म, तेषामेव चुरादिणिजन्तानां तस्यैव कर्त्तृत्वसम्बवात्। तस्मादिह णेरिति णिज्मात्रस्य ग्रहणं सूत्रकारस्याभिमतमिति लक्ष्यते।अथ गणयति गोगणः स्वयमेवेत्यत्र `कर्मवत् कर्मणा तुल्यक्रियाः` (3.1.87) इत्यतिदेशात् कस्मादात्मनेपदं न भवति? कर्त्तृस्थभावकत्वात्। अत्र हि गणयतिरयं संख्यानिमित्ते परिच्छेदे ज्ञानविशेषे वर्तते, यस्य हि संख्यानमित्याख्या। स च ज्ञाविशेषः कर्तरि वर्तते; तत्र तस्य समवेतत्वात्, न कर्मणि। तस्मात् कर्त्तृस्थभावकत्वादिहात्मनेपदं न भवति। कर्मस्थक्रियाणां कर्मस्थभावकानाञ्च कर्मवद्भावातिदेशेनात्मनेपदमिष्यते, नेतरेषाम्।`लुनाति दात्रेण` इत्यादि। दात्रस्य तीक्ष्णतया करणस्यापि सतो विशिष्टव्यापारभूतत्वाल्लावकपुरुषान् प्रति प्रयोजकत्वविवक्षायां णिच्।`णौ चेद्ग्रहणम्` इत्यादि। इह णौ चेदिति यत् कर्म स कर्तेत्येतावत्युच्यमानेऽणौ यत् कर्म तस्य सामर्थ्याण्णावेव कर्त्तृत्वं विज्ञायत इति किं णौ चेदित्यनेन? तदैतण्णौ चेद्ग्रहणं क्रियमाणं समानक्रियार्थं विज्ञायते - यदि यैव कर्मावस्थायां क्रिया, सैव कत्र्रवस्थायां भवतीति। एतदुक्तं भवति - यस्यैव धात्वर्थस्य य्तकर्म तस्यैव यदि तत् कर्त्तृत्वेन विवक्ष्यत एवमात्मनेपदं भवति; नान्यथेति। तेन `आरोहन्ति हस्तिनं हस्तिपकाः, आरोह्रमाणो हन्ती भीतान् सेचयति मूत्रेण` इत्यत्र सेचयतेरात्मनेपदं न भवति; भिन्नत्वात् क्रियायाः। तथा हि, न्यग्भावनक्रियायां प्राक् ह्सती कर्मत्वेन विवक्षितः, सेचनक्रियायां तूत्तरकालं कर्त्तृत्वेन। `यत्सग्रहणमनन्यकर्मार्थम्` इति। अण्यन्ते यत्कर्म ण्यन्तेऽपि यदि तदेव कर्म कर्ता भवति न कर्मान्तरम्, एवमात्मनेपदं भवति; नान्यथा। ननु विप्रतिषिद्धमेतत् - एकस्यैवैकदा कर्मत्वं कर्त्तृत्वञ्च? नैतद्विप्रतिषिद्धम्; एको हि वस्तुधर्मः, अपरश्च विवक्षाधर्मः, स्वातन्त्र्यविवक्षायां कर्त्तृत्वस्य विवक्षाधर्मत्वात्त वस्तुध्रमत्वाच्चारुह्रमाणताय कर्मत्वम्। `स्थलमारोहयति मनुष्यान्` इति। अत्र कर्मान्तरमप्यस्ति। मनुष्यानिति न केवलं हस्त्येवेति न भवत्यात्मनेपदम्। यद्येवम्, भीतान् सेचयति मूत्रेणेत्यत्र कर्मान्तरसद्भावादात्मनेपदं न भविष्यति; अस्ति ह्यत्रापि कर्मान्तरम् - भीतानिति; अतो न वक्तव्यम् - समानक्रियार्थं णौ चेदित्येतत्? नैतदस्ति, न हि भीतानिति सेचयतेः कर्म किं तर्हि? आरोहयतेः। भीतानाराहयमाणः सन् मूत्रेणात्मानं सेचयतीत्यर्थः; अयुक्तमेतत्, एवं ह्रारोह्रमाण इत्यत्रात्मनेपदं शानच्च न स्यात्, कर्मान्तरसद्भावात्। नैवं तर्हि शानजेवात्र विहितः किं तर्हि? `ताच्छील्यवयोवचनशक्तिषु` (3.2.129) चानश्प्रत्ययः। तत्र यदि समानक्रियार्थं णौ चेद्ग्रहणं न क्रियेत, तदा यदेवारोहयतेरण्यन्ते कर्म, स एव हस्ती सेचयतेण्र्यन्ते कर्ता भवतीति तदेव कर्म, स एव कर्तेति स्यादेवात्मनेपदम्। तस्माण्णौ चेद्ग्रहणं समानक्रियार्थं कर्तव्यम्।`कर्तेति किमि` इति। कर्तर्येवात्मनेपदमनेन विधीयते; भावकर्मणोः (1.3.13) इत्मनेनैव सिद्धत्वात्। तस्मात् सामर्थ्यलब्धः कर्तेत्यभिप्रायः। कर्त्तृग्रहणं येवाण्यन्ते कर्म तस्मिन्नेव ण्यन्ते कर्त्तृत्वेन विवक्षिते सत्येवात्मनेपदं भतवि, नान्यथेत्येवमर्थ क्रियत इति दर्शयितुमाह - `आरोहन्ति हस्तिनं हस्तिपकाः, तानारोहयति महामात्रः` इति। अत्र यदेवाण्यन्ते हस्ती कर्म न तदेव ण्यन्ते कर्त्तृत्वेन विवक्षितम्, किं तर्हि? महामात्रः, तेनात्मनेपदं न भवति। एतच्च कर्त्तृग्रहणाल्लभ्यते; तस्यानन्यार्थत्वात्। ननु च यत्सग्रहणमनन्यकर्मार्थमित्यक्तम्, इहच कर्मान्तरं हस्तिपकाख्यमस्त, अतो यत्सग्रहणादेव न भविष्यति, तत् किमेतन्निवृत्त्यर्थेन कर्त्तृग्रहणेन? नैतदस्ति;एवं सति हि कर्तृग्रहणेऽणौ यत्कर्म णौ चेत् स कर्ता तदेव कर्म कर्ता भवतीत्यस्यार्थस्यच प्रतिपादनाय क्रियमाणं यत्सग्रहणमर्थवद्भवतीति। असति तु कर्त्तृग्रहणे तन्न कर्तव्यमेव स्यादिति कुतः समानकर्मता प्रतीयते।`स्मरति वनगुल्मस्य` इति। अणौ कर्मप्रदर्शनार्थमेतत्। कर्मविषयेण शेषत्वेन विषयिणा विषयं दर्शयितुमुक्तम्। नन्वत्र न कर्मास्ति; तस्य शेषत्वेन विवक्षितत्वात्। तथा हि `शेषे` (2.3.50) इत्त्यनुवर्तमाने `अधीगर्थ` (2.3.52) इत्यादिना कर्मणि शेषत्वेन विवक्षिते षष्ठीयं विहिता। तस्मादेदं दर्शयितव्यम्, - स्मरति वनगुल्ममिति। अथ वा - यद्यपि तच्छेषत्वेन विवक्षितम्, तथापि स्मर्यमाणत्वात् तस्य कर्मत्वं वस्तुतोऽस्त्येवेति। `स्मरयति` इति। `स्मृ आध्याने` (धातुपाठः-807), वनगुल्मस्य प्रयोजकत्वे विवक्षिते णिच्, घटादित्वान्मित्संज्ञा, `मितां ह्रस्वः` (6.4.92) इति ह्रस्वत्वम्। `एनम्` इति। `गतिबुद्धिप्रत्यवसानार्थ` (1.4.52) इत्यादिना कर्मसंज्ञायां सत्याम्, `द्वितीया टौस्त्वेनः` (2.4.34) इत्येनादेशः। ननु च यत्सग्रहणमनन्यकर्मार्थम्, इह च कर्मानतरमस्ति कोकिलः, ततश्च कर्मान्तरसद्भावादात्मनेपदं न भविष्यतीति किमेतन्निवृत्यर्थेनानाध्यानग्रहणेन? नैतदस्ति; आध्यानामात्रं विवक्षित्येदं प्रत्युदाहरणमुपन्यस्तम्। एनम इति तु वचनं वनगुल्मः कर्ता न कोकिल इत्यर्थोपदर्शनपरं वेदितव्यम्। एवं वनगुल्मं वनगुल्मो स्मरयति। आत्मानमात्मना स्मरयतीत्यर्थः। णिच्युत्पन्ने कोकिलस्य प्रयोज्यस्य विवक्षितत्वान्निवृत्ते प्रयोज्यप्रयोजकभावे स्मरयतेण्र्यन्तस्य प्रकृत एवार्थो भवति। ननु च स्मरणं चेतनावतां धर्मः, वनगुल्मश्चाचेतनः, तत् कथमसौ स्मरेत्? नैतदस्ति; अचेतनेष्वपि चेतनावद्धर्मोपचारः - यथा नदीकूलं पिपतिषतीति। `रुहुः कर्तस्थक्रियः` इति। तदर्थस्य न्यग्भावनात्मनो हस्तिपकेषु समवेतत्वात्। `दृशिश्च कर्तस्थभावकः` इति। तदर्थस्य दर्शनस्य कर्त्तृषु भृत्येषु व्यवस्थित्वात्॥ Prakriyasarvasvam ----------------- अण्यन्तदशायां यत् कर्म तदेव ण्यन्ते कर्ता चेण्ण्यन्तात् तङ् स्यात् । अध्याये तु न । आनुकूल्यप्रकाशनाय कर्मण एव प्रयोजनकर्तृत्वारोपे तङ् स्यादित्यर्थः । आरोहन्ति हस्तिनं हस्तिपका इत्यत्र तानारोहयते हस्ती स्वयमेव । एवं पश्यन्ति भक्ता हरिम् दर्शयते हरिर्भक्तानित्यादि । औत्कण्ठये तु न । स्मरति हरिं राधा तां स्मरयति हरिः स्वयमेव । अत्रारोहयते हस्तीत्येव स्यात् कर्म चार्थतः । कर्मप्रयोगे तङ् न स्यादिति रामादयः स्थिताः ॥ ६५४ ॥ कौमुद्यां दण्डनाथोक्तौ लोके भाष्ये च दर्शनात् । कर्मोक्तं स तु रामादिमार्गः सकलदूषकः ॥ ६५५ ॥