13057: ज्ञाश्रुस्मृदृशां सनः ============================ **Padacheda:** ज्ञा-श्रु-स्मृ-दृशाम् | S | 6 | 3 | सनः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the Desideratives formed by the affix सन् , of the verbs ज्ञा 'to know', श्रु 'to hear', स्मृ 'to remember' and दृश् 'to see', the आत्मनेपद is used. Vasu English Translation ------------------------ After the Desideratives formed by the affix सन् , of the verbs ज्ञा 'to know', श्रु 'to hear', स्मृ 'to remember' and दृश् 'to see', the आत्मनेपद is used. The above four roots are *atmanepadi* when in the Desiderative form, the suffix "*san*" being the *pratyaya* by which desideratives are formed. The verb *jna* takes the terminations of the *atmanepada* when used in the senses indicated by the three *sutras* (1.3.44), (1.3.45) and (1.3.46) already explained. The desiderative form of *jna* would ex necessitate take *atmanepada* affixes when used in the above senses: see Rule (1.3.62). The present *sutra* however enlarges the scope of *atmanepada*, by declaring all desideratives of *jna* to be *atmanepada*, in whatever sense they may be used. Similarly by *sutra* (1.3.29) *ante* and the *vartika* under it, the roots *sru*, and *dris* take the terminations of the *atmanepada*; when preceded by *sam*, the desideratives of those would of course have taken *atmanepada* affixes by (1.3.62), but the present *sutra* makes it general. The present *sutra* however enunciates a new rule in the case of the root *smri*. As धर्म्मं जिज्ञासते 'he wishes to know (i. e. enquires after) religion,' गुरुं शुश्रूषते 'he serves the teacher,' नष्टं सुस्मूर्षते 'he wishes to remember the lost.' नृपं दिदृक्षते 'he wishes to see the king.' Why do we say, when taking the affix *san*? Because the primitive verbs will take the *parasmaipada* terminations as जानाति 'he knows,' शृणोति 'he hears,' स्मरति 'he remembers' पश्यति 'he sees.' Kashika ------- ज्ञा श्रु स्मृ दृश् इत्येतेषां सन्नन्तानामात्मनेपदं भवति। तत्र जानातेः **अपह्नवे ज्ञः** (१.३.४४) इति त्रिभिः सूत्रैरात्मनेपदं विहितम्, श्रुदृशोरपि **समो गम्यृच्छि०** (१.३.२९) इत्यत्र विहितम्। तस्मिन् विषये **पूर्ववत् सनः** (१.३.६२) इत्येव सिद्धमात्मनेपदम्, ततोऽन्यत्रानेन विधीयते। स्मरतेः पुनरप्राप्त एव विधानम्। धर्मं जिज्ञासते। गुरुं शुश्रूषते। नष्टं सुस्मूर्षते। नृपं दिदृक्षते। सन इति किम्? जानाति। शृणोति। स्मरति। पश्यति॥ Siddhanta Kaumudi ----------------- सन्नन्तानामेषां प्राग्वत् । धर्मं जिज्ञासते । शुश्रूषते । सुस्मूर्षते । दिदृक्षते ॥ Balamanorama ------------ **ज्ञाश्रुस्मृदृशां सनः** - ज्ञानश्र । प्राग्वदिति । आत्मनेपदमित्यर्थः । यद्यपिअपह्नवे ज्ञः, 'अकर्मकाच्च'सम्प्रतिभ्यानाध्याने॑ इति सूत्रैः,अर्तिश्रुदृशिभ्यश्चे॑ति वार्तिकेन च ज्ञादिभ्य आत्मनेपदे कृते 'पूर्ववत्सनः' इत्यात्मनेपदं सिद्धम्,तथाप्यपह्नवाद्यभावेऽप्यात्मनेपदार्थं ज्ञाश्रुदृशीनामिह ग्रहणमिति मत्वोदाहरति — धर्मं जिज्ञासते इति । ज्ञातुमिच्छतीत्यर्थः । शुश्रूषते इति ।अज्झनगमां सनी॑ति दीर्घः ।इको झ॑लिति सनः कित्त्वम् ।श्र्युकः किती॑ति इण्निषेधः । सुस्मूर्षते इति । स्मृधातोः सनिअज्झने॑ति दीर्घेउदोष्ठपूर्वस्ये॑त्युत्त्वे रपरत्वेहलि चे॑ति दीर्घः । Tattvabodhini ------------- **ज्ञाश्रुस्मृदृशां सनः** - ज्ञाश्रुस्मृ ।अपह्नवे ज्ञः॑ इत्यादिना ज्ञादातोः,अर्तिश्रुदृशिभ्यश्चे॑ति श्रुदृ शिभ्यां चात्मनेपदे कृते तस्मिन्विषयेपूर्ववत्सनः॑ इत्यनेन सिद्धेऽपि विषयान्तरे सन्नन्तादनेन विधीयत इति ज्ञेयम् । Padamanjari ----------- श्रुद्दशोरपौति। श्रुवः सूत्र एव निर्देशाद् द्दश उपसंख्यानात्॥ Nyaas ----- `त्रिभिः सूत्रेः` इति। **अपह्नवे ज्ञः** (1.3.44) इत्यादिभिः। `धर्मं जिज्ञासते` इति। `ज्ञा अवबोधने` (धातुपाठः-1507), सन्, द्विर्वचनम्, अभ्यासस्य ह्रस्वत्वम्, `सन्यतः` (7.4.79) इतीत्त्वम्। `शुश्रूषशते` इति। श्रु श्रवणे` (धातुपाठः-942), **इको झल्** (1.2.9) इति सनः कित्तम्, `श्रयुकः किति` (7.2.11) इतीट्प्रतिषेधः, **अज्झनगमां सनि** (6.4.16) इति दीर्घः। `सुस्मूर्षते` इति।`स्मृ आध्याने` (धातुपाठः-807) ; पूर्ववत् कित्त्वात् `उदोष्ठपूर्वस्य` (7.1.102) इत्युत्त्वम्, रपरत्वम्। `दिदृक्षते` इति। **हलन्ताच्च** (1.2.10) इति कित्त्वम्, ततश्च व्रश्चादिना (8.2.36) षत्वम्, **षढोः कः सि** (8.2.41) इति कत्वम्॥ Prakriyasarvasvam ----------------- सनन्तेभ्य एभ्यस्तङ् । जिज्ञासते । शुश्रूषते । सुस्मूर्षते । दिदृक्षते । Sutra Prayogas -------------- * **जिज्ञासमाना** (रघुवंशम्): `ज्ञाश्रुस्मृदृशां सनः` इत्यात्मनेपदे शानच्। * **शुश्रूषमाणां** (कुमारसम्भवम्): `ज्ञाश्रुस्मृदृशां सनः` इत्यात्मनेपदम्। * **जिज्ञासमानाभ्यस्ताभ्योऽऽशप्सत** (भट्टिकाव्यम्): `ज्ञाश्रुस्मृदृशां सनः` इति तङ्। * **जिज्ञासांचक्रिरे** (भट्टिकाव्यम्): `ज्ञा-श्रु- स्मृ-दशां सनः` इत्यात्मनेपदित्वादनुप्रयोगे ऽपि तङ्।