13055: दाणश्च सा चेच्चतुर्थ्यर्थे ================================= **Padacheda:** दाणः | S | 5 | 1 | च | S | 0 | 0 | सा | S | 1 | 1 | चेत् | S | 0 | 0 | चतुर्थी-अर्थे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- And after the verb दा 'to give', preceded by सम् , and connected with a noun in the Instrumental - 3rd Case, the आत्मनेपद affix is used, provided this Instrumental Case has the sense of the Dative - 4th Case. Vasu English Translation ------------------------ And after the verb दा 'to give', preceded by सम् , and connected with a noun in the Instrumental - 3rd Case, the आत्मनेपद affix is used, provided this Instrumental Case has the sense of the Dative - 4th Case. When is the 3rd case used with the force of the 4th case? That is answered by the following. Vart:- The Instrumental has the force of the Dative when immoral conduct is implied. As दास्या or वृषल्या संप्रयच्छते 'he gives with the object of enticing to the female slave or prostitute.' The verb *da* to give is generally *parasmaipadi*, it becomes *atmanepadi* under the above conditions. Why do we say "when it has the force of the dative case"? Because when it has not the sense of the dative, *parasmaipada* terminations will be used, as पाणिना संप्रयच्छति, 'he gives with his hand.' It might be asked how the *atmanepada* terminations are employed when the preposition *sam* is not directly applied to the verb, but another preposition *pra*, intervenes between *sam* and the verb. The reply is that the word *samah* in *sutra* (1.3.54) is not in the ablative case (which would have required its being placed immediately before the verb), but it is in the genitive case, and is used as an attribute. Bhashya ------- दाणश्च सा चेच्चतुर्थ्यर्थे सा चेत्तृतीया चतुर्थ्यर्थे इत्युच्यते। कथं नाम तृतीया चतुर्थ्यर्थे स्यात्? एवं तर्हि - अशिष्टव्यवहारे तु तृतीया च विधीयते ॥1 ॥ (किं च? आत्मनेपदं च) अशिष्टव्यवहारेनेन तृतीया च विधीयत आत्मनेपदं च। दास्या सम्प्रयच्छते, वृषल्या सम्प्रयच्छते। यः शिष्टव्यवहारः ब्राह्मणीभ्यः संम्प्रयच्छतीत्येव। तत्र भवितव्यम्। यद्येवं नार्थोऽनेन। केनेदानीं तृतीया भविष्यति, आत्मनेपदं च? सहयुक्ते तृतीया स्याद्व्यतिहारे तङो विधिः ॥2 ॥ सहयुक्तेऽप्रधाने इत्येव तृतीया भविष्यति, कर्तरि कर्मव्यतिहारे इत्यात्मनेपदम् ॥ 55 ॥ Kashika ------- **दाण् दाने** परस्मैपदी। ततः संपूर्वात् तृतीयायुक्तादात्मनेपदं भवति, सा चेत् तृतीया चतुर्थ्यर्थे भवति। कथं पुनस्तृतीया चतुर्थ्यर्थे स्यात्? वक्तव्यमेवैतत्॥ अशिष्टव्यवहारे तृतीया चतुर्थ्यर्थे भवतीति वक्तव्यम्॥ दास्या संप्रयच्छते। वृषल्या संप्रयच्छते। कामुकः सन् दास्यै ददातीत्यर्थः। चतुर्थ्यर्थ इति किम्? पाणिना संप्रयच्छति। समः प्रशब्देन व्यवधाने कथमात्मनेपदं भवति? सम इति विशेषणे षष्ठी, न पञ्चमी॥ Siddhanta Kaumudi ----------------- संपूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे । दास्या संयच्छते । पूर्वसूत्रे सम इति षष्ठी । तेन सूत्रद्वयमिदं व्यवहितेऽपि प्रवर्तते । रथेन समुदाचरते । दास्या संप्रयच्छते ॥ Laghu Siddhanta Kaumudi ----------------------- सम्पूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे। दास्या संयच्छते कामी॥ Balamanorama ------------ **दाणश्च सा चेच्चतुर्थ्यर्थे** - दाणश्च सा ।समस्तृतीयायुक्ता॑दित्यनुवर्तते । तदाह — संपूर्वादिति । उक्तं स्यादिति । आत्मनेपदमित्यर्थः । सा चेदिति । तच्छब्देन तृतीया परामृश्यते । तदाह — तृतीया चेदिति । दास्या संयच्छते इति ।अशिष्टव्यवहारे दाणः प्रयोगे चतुथ्र्यर्थे तृतीया वाच्या॑ इति तृतीया । ननुरथेन समुदाचरते इत्यत्रसमस्तृतीयायुक्ता॑दिति पूर्वसूत्रस्य न प्रवृत्तिः, आङा व्यवहितत्वेन सम्पूर्वकत्वाऽभावात्त्समादित्युत्तरस्ये॑ति परिभाषया सम इति पञ्चम्या चरेरव्यवहितपरत्वलाभात् । तथादास्या संप्रयच्छते॑ इत्यत्रापिदाणश्च सा चे॑दिति कथं प्रवर्तते, प्रशब्देन व्यवधानादित्यत आह — पूर्वसूत्रे सम इति षष्ठीति । तथा च षष्ठआ पौर्वापर्यमेव गम्यते, न त्वव्यवहितत्वमिति भावः । तेनेति । षष्ठआश्रयणेनेत्यर्थः । सूत्रद्वयमिति ।समस्तृतीयायुक्ता॑दिति पूर्वसूत्रस्थस्य षष्ठन्तस्यैव समःदाणश्चे॑ति सूत्रेऽप्यनुवृत्तेरिति भावः । Padamanjari ----------- वक्तव्यमेवैतदिति। सूत्रे चेच्छब्दश्चशब्दश्चार्थे, अनेकार्थत्वान्निपानामिति। केचिद्-दाणस्तृतीयायुक्तादात्मनेपदं भवति, सा च तृतीया चतुर्थ्यवेदितव्याचक्षते; एवमपि ठशिष्टव्यवहारेऽ इति वक्तव्यमेव, अशिष्टानां सङ्कीर्णाचाराणां यो व्यवहार आचारः तस्मिन्नित्यर्थः। दास्या सम्प्रयच्छत इति । यो दास्या सह भुञ्जानस्तया दतं स्वयं च तस्यै ददाति तद्विषयोऽयं प्रयोग इत्याहुः। कथमात्मनेपदमिति। न कथञ्चित्,'तस्मादित्युतरस्य' इत्यत्र निर्दिष्टग्रहणस्यानन्तर्यार्थत्वादिति भावः। विशेषणषष्ठीति । एवं च पूर्वसूत्रेऽप्यश्वेन समुदाचरत इत्यादावपि भवितव्यम्॥ Nyaas ----- कथं पुनस्तृतीया चतुथ्र्यर्थे स्यादिति? न कथञ्चिदित्यर्थः। तद्विधायिनः शास्त्रस्याभावादिति भावः। `वक्तवयमेवैतत्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - तदेव सम्प्रदानं यदा साधकतमत्वेन विवक्ष्यते तदा साधकतमत्वेन विवक्ष्यते तदा चतुर्थ्येऽपि तदा चतुर्थ्येऽपि तृतीया भवति, विवक्षातः कारकाणि भवन्तीति कृत्वा; न तु स्वभाववतः। सा च विवक्षा लौकिकी समाश्रीते, न तु प्रोयोगिकीति। लोके चाशिष्टव्यवहारे एव सा सम्भवति, नान्यत्र। लौकिकविवक्षात्र समाश्रीयत इति अस्यैवार्थस्य द्योतनाय चेच्छब्दः प्रयुक्तः। `दास्या मालां सम्प्रच्छते` इति। यो हि धर्मशास्त्रविरुद्धां दासीं कामयितुं तस्यै मालां ददाति तस्यासावशिष्टव्यवहारो भवतीत्यस्त्यत्राशिष्टव्यवहारः। सम्प्रयच्छत इति पाध्रादिसूत्रेण (7.3.78) दाणो यच्छादेशः। कथमात्मनेपदं भवतीति। न कथञ्चिदित्यर्थः। **तस्मादित्युत्तरस्य** (1.1.67) इत्यत्र निर्दिष्टग्रहणस्यानन्तर्यार्थत्वादिति। एवं मन्यते - `सम इति विशेषणे षष्ठी` इत्यादि। यदि `समः` इति पञ्चमी स्यान्न षष्ठी, तदा प्रशब्देन व्यवधानादात्मननेपदं न स्यात्; तस्मान्नेयं पञ्चमी, किं तर्हि? षष्ठी - समो विशेषणस्य सम्बन्धी यो विशेष्यो दाणिति। ततश्च व्यवहितोऽपि विशेषणविशेष्यभावो भवतीति तेन व्यवधानेऽपि भवत्यात्मनेपदम्॥ Prakriyasarvasvam ----------------- संशब्दसम्बद्धाद् दाणश्चतुर्थ्यर्थतृतीयायोगे तङ् । दास्या सम्प्रयच्छते । दाणो यच्छादेशः । तृतीयाऽत्रैव प्रयुक्ता । Sudha ----- दाणश्च सा । **समस्तृतीयायुक्तात्**(1.3.54) इत्यनुवर्तते । तदाह - संपूर्वादिति । दास्या संयच्छते कामी । इति वार्तिकेन दास्या इत्यन्त्र चतुर्थ्यर्थे तृतीया, ततश्च दास्या इति तृतीयान्तयुक्तात्सम्पूर्वाद्दाण् धातोर्लोटि तत्स्थाने प्रथमपुरुषैकवचनविवज्ञायां **दाणश्च सा चेच्चतुर्थ्यर्थे**(1.3.55) इत्यात्मनेपदत्वात्तप्रत्यये शपि अनुबन्धलोपे **पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः**(7.3.78) इत्यादिना दाणो यच्छादेशे **अतो गुणे**(6.1.97) इति पररूपत्वे टेरेल्वे च कृते तत्सिद्धिः । Vartika ------- अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया भवतीति वक्तव्यम् । Sutra Prayogas -------------- * **संप्रायच्छन्त** (भट्टिकाव्यम्): `दाणश्च सा चेच्चतुर्थ्यर्थे` इति तङ्।