13048: व्यक्तवाचां समुच्चारणे ============================= **Padacheda:** व्यक्तवाचाम् | S | 6 | 3 | समुच्चारणे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the verb वद् , the आत्मनेपद is used, when used in the sense of 'speaking articulately in a similar manner'. Vasu English Translation ------------------------ After the verb वद् , the आत्मनेपद is used, when used in the sense of 'speaking articulately in a similar manner'. As संप्रवदन्ते ब्राह्मणाः 'the *Brahmanas* are speaking.' But in संप्रवदन्ति कुक्कुटाः 'the cocks are crowing' it is properly *Parasmaipadi*. The sense of the *sutra* is that when men, who are only capable of articulate speech, speak all in one and the same time, then the verb *vad* takes the affix of the *Atmanepada*. When lower animals make a chorus of noise, the verb does not take the *Atmanepada* There must be *samuchcharana* for the application of this rule; when there is no *samuchcharana* or speaking in a chorus, this rule does not apply, as ब्राह्मणो वदति 'the *Brahmana* speaks.' Bhashya ------- व्यक्तवाचां समुच्चारणे व्यक्तवाचामिति किमर्थम्? वरतनु संप्रवदन्ति कुक्कुटाः। व्यक्तवाचामित्युच्यमानेऽप्यत्र प्राप्नोति। एतेऽपि हि व्यक्तवाचः। आतश्च व्यक्तवाचः कुक्कुटेनोदिते उच्यते - कुक्कुटो वदतीति। एवं तर्हि व्यक्तवाचामित्युच्यते। सर्व एव हि व्यक्तवाचः। तत्र प्रकर्षगतिर्विज्ञास्यते - साधीयो ये व्यक्तवाचेति। के च साधीयः? येषां वाच्यकारादयो वर्णा व्यज्यन्ते। न चैतेषां वाच्यकारादयो वर्णा व्यज्यन्ते। एतेषामपि वाच्यकारादयो वर्णा व्यज्यन्ते। आतश्च व्यज्यन्ते। एवं ह्याहुः कुक्कुटाः कुकूडिति। नैवं ते आहुः। अनुकरणमेतत्तेषाम्। अथ वा नैवं विज्ञायते - व्यक्ता वाग्येषां त इमे व्यक्तवाचेति। कथं तर्हि? व्यक्ता वाचि वर्णा येषां त इमे व्यक्तवाचेति ॥ 48 ॥ Kashika ------- वद इति वर्तते। व्यक्तवाचां समुच्चारणं सहोच्चारणम्, तत्र वर्तमानाद् वदतेरात्मनेपदं भवति। ननु **वद व्यक्तायां वाचि** इत्येव पठ्यते तत्र किं व्यक्तवाचामिति विशेषणेन? प्रसिद्ध्युपसंग्रहार्थमेतत्। व्यक्तवाच इति हि मनुष्याः प्रसिद्धाः, तेषां समुच्चारणे यथा स्यात्। संप्रवदन्ते ब्राह्मणाः। संप्रवदन्ते क्षत्रियाः। व्यक्तवाचामिति किम्? संप्रवदन्ति कुक्कुटाः। समुच्चारण इति किम्? ब्राह्मणो वदति। क्षत्रियो वदति॥ Siddhanta Kaumudi ----------------- मनुष्याणां संभूयोच्चारणे वदेरात्मनेपदं स्यात् । संप्रवदन्ते ब्राह्मणाः । नेह । संप्रवदन्ति खगाः ॥ Balamanorama ------------ **व्यक्तवाचां समुच्चारणे** - व्यक्तवाचाम् । व्यक्ताः = अज्झल्भेदेन स्पष्टोच्चारिताः वाचः = शब्दा येषामिति विग्रहः । समित्येकीबावे । तदाह — मनुष्यादीनामिति । संप्रवदन्ते ब्राआहृणा इति । संप्रवदन्ते ब्राआहृणा इति । संभूयोच्चारयन्तीत्यर्थः । Padamanjari ----------- मनुष्याः प्रसिद्धा इति। यद्यपि कुक्कुटादिरुतमपिस्वरूपेम व्यक्तम्-अस्येदं रुतमस्येदमिति। मनुष्यवाक्तु व्यक्ततरा भवति, वर्णात्मकत्वाद्, अर्थावगतिहेतुत्वाच्च, अतस्त एव गृह्यन्ते। शुकशारिकादीनां तु पुरुषप्रयत्नवशेन क्वाचित्कं व्यक्तवाक्त्वम्, न स्वभाविकमिति ने तेषां ग्रहणम्। वरतनु सम्प्रवदन्ति कुक्कुटा इति। अपनय पादसरोजमङ्कतः, शिथिलय बाहुलतां गलाद्दताम्। क्व च वदनाअऽशुकमाकुलीकृतम्,॥इति पूर्वपादाः। क्व् चितु कृत्स्न एव श्लोकः पठ।ल्ते, तत्र वरतनुरिति बहुव्रीहौ यदि ह्रस्वन्तस्तनुशब्दः, ततः'संबुद्धौ च' इति गुणप्रसङ्गः, दीर्घान्ते तु नदीलक्षणः कप् प्राप्नोति। केचिदाहः-तनुशब्दः स्त्रीजातौ कविभिः प्रयुज्यते, तस्माद् ठूणुतःऽ इति ऊइङ् कृते कर्मधारयोऽयमिति॥ Nyaas ----- `प्रसिद्ध्युपसंग्रहार्थम्` इति। यदि तदर्थं व्यक्तवाचामिति नोच्येत,`वरतनु सम्प्रवदन्ति कुक्कुडा {अयि विजहीहि दृढोपगूहनं त्यज नवसङ्गमभीरु वल्लभम्।अरुणकरोद्गम एष वर्तते वरतनु सम्प्रवदन्ति कुक्कुटाः।इत्येवं सयग्रः श्लोकः।}। कुक्कुटाः अपि व्यक्तवाच एव। तथा हि - कुक्कुटेनापि लपिते विशेषपरिच्छेदादुच्यते- कुक्कुटा लपन्तीति। वरतन्विति तनूशब्दस्य `अम्बार्थनद्योह्र्यस्वः` (7.3.107) इति ह्रस्वः। ह्रस्वकवचनसामर्थ्यात् `ह्रस्वस्य गुणः` (7.3.108) इति गुणो न भवति। नृणामिति न कृतं वैचित्र्यार्थम्॥ Prakriyasarvasvam ----------------- मनुष्याणां सहालापेऽर्थे वदेस्तङ् । अकर्मकादेवेति कौमुदी । सम्प्रवदन्ते विप्राः । शुकादिष्वप्याह नाथः । अव्यक्ते तु न । सम्प्रवदन्ति कुक्कुटाः ।