13047: भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः
===================================================
**Padacheda:** भासन-उपसम्भाषा-ज्ञान-यत्न-विमति-उपमन्त्रणेषु | S | 7 | 3 |
वदः | S | 5 | 1 |
Sutrartha
---------
****
Vasu English Summary
--------------------
After the verb वद् , the आत्मनेपद is used, when used in the senses of 'showing brilliance, or proficiency in', pacifying', 'knowledge', 'effort', 'difference of opinion' and 'flattering'.
Vasu English Translation
------------------------
After the verb वद् , the आत्मनेपद is used, when used in the senses of 'showing brilliance, or proficiency in', pacifying', 'knowledge', 'effort', 'difference of opinion' and 'flattering'.
By *sutra* (1.3.78), *vad* generally takes the terminations of the *Parasmaipada*. By the present *sutra*, it takes also the affixes of the *Atmanepada* when having certain meanings.
*Bhasana*, (shining) means to illumine as वदते चर्वी लोकायते. The *charvi* illumines the *Lokayat* *shastras*, by his discourses and clear exposition.
*Upasambhasha* (persuasions) means to appease, to conciliate, as कर्मकरानुपवदते 'he conciliates or cajoles the servants.'
*jnana* (knowledge) means to know completely, as वदते चर्वी लोकायते 'the *charvi* knows completely to discourse upon *Lokayat* *shastra*.'
*Yatna* (endeavour) means energy, as क्षेत्रे वदते 'He toils in the field,' गेहे वदते 'he toils in the house.'
*Vimati* (disagreement) means dissension, want of unanimus opinion As क्षेत्रे विवदन्ते, 'they disagree over the field,' i.e., holding different opinions they talk diversely.
*Upamantrana* (enticing) means to coax in secret, as, कुलभार्यामुपवदते 'he entices the wife of a respectable family (i.e., seduces her in secret),' परदारानुपवदते 'he flatters another's wife.'
Why in the above senses only? See यत् किंचिद्वदति 'he says something'.
Kashika
-------
शेषात् कर्तरि परस्मैपदे (१.३.७८) प्राप्ते भासनादिषु विशेषणेषु सत्सु वदतेरात्मनेपदं भवति। भासनं दीप्तिः — वदते चार्वी लोकायते। भासमानो दीप्यमानः, तत्र पदार्थान् व्यक्तीकरोतीत्यर्थः। उपसंभाषोपसान्त्वनम् — कर्मकरानुपवदते। उपसान्त्वयतीत्यर्थः। ज्ञानं सम्यगवबोधः — वदते चार्वी लोकायते। जानाति वदितुमित्यर्थः। यत्न उत्साहः — क्षेत्रे वदते। गेहे वदते। तद्विषयमुत्साहमाविष्करोतीत्यर्थः। विमतिर्नानामतिः — क्षेत्रे विवदन्ते। गेहे विवदन्ते। विमतिपतिता विचित्रं भाषन्त इत्यर्थः। उपमन्त्रणं रहस्युपच्छन्दनम् — कुलभार्यामुपवदते। परदारानुपवदते। उपच्छन्दयतीत्यर्थः। एतेष्विति किम्? यत्किंचिद् वदति॥
Siddhanta Kaumudi
-----------------
उपसंभाषोपमन्त्रणे धातोर्वाच्ये । इतरे प्रयोगोपाधयः । शास्त्रे वदते । भासमानो ब्रवीतीत्यर्थः । उपसंभाषोपसान्त्वनम् । भृत्यानुपवदते । सान्त्वयतीत्यर्थः । ज्ञाने । शास्त्रे वदते । यत्ने । क्षेत्रे । वदते । विमतौ । क्षेत्रे विवदन्ते । उपमन्त्रणमुपच्छन्दनम् । उपवदते । प्रार्थयत इत्यर्थः ॥
Laghu Siddhanta Kaumudi
-----------------------
अजन्तस्येत्येव। श्रीपं ज्ञानवत्॥
Balamanorama
------------
**भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः** - भासनोपसंभाषा ।आत्मनेपद॑मिति शेषः । इतरे इति । भासनज्ञानादय इत्यर्थः । प्रयोगोपाधय इति । इदंसम्माननोत्सञ्जने॑त्यत्र व्याख्यातं प्राक् । भासनं तु तत्तदाक्षेपेषु समाधानाय नवनवयुक्त्युल्लेखः । शास्त्रे वदते इति । विषयसप्तम्येषा इति । भासमान इति । नवनवयुक्तीरुल्लिखतीत्यर्थः । शास्त्रे वदते इति - विषसप्तमी । व्यवहरतीत्यर्थः । व्यवहारश्च ज्ञानं विना न संभवतीति ज्ञानमार्थिकम् । ज्ञात्वा व्यवहरतीति फलितम् । क्षेत्रे विवदन्ते इति । विरुद्धं व्यवहरन्तीत्यर्थः । विरुद्धव्यवहारश्च वैमत्यमूलक इति विमतिरार्थिकी । उपवदते इति । उपपूर्वस्य वदेः प्रार्थनमर्थः । तदाह — प्रार्थयते इत्यर्थ इत ।
Tattvabodhini
-------------
**भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः** - भसनोपसंभाषा । एषु किम् । यत्कचिद्वदति ।
Padamanjari
-----------
भासनादिष्विति। अत्रापि किञ्चिद्धातोर्विशेषणम्, किञ्चिद्धात्वर्थस्य। उपसान्त्वनमु उपच्छन्दनम्, धातोः, भासनादि धात्वर्थस्य । भासमान इति । हेतौ लटः शानजादेशप्रयोगेण भासनं हेतुत्वेन विशेषणमित्याह । शिष्यैः स्तूयमानो भासते। तथा चोपर्युपरि शास्त्रार्थस्य प्रतिभासनात् सुष्ठुअ वदनं भवति, तेजोभङ्गे तु न शक्नुयाद्वदितुम्। जानाति वदितुमिति।'शकवृष' इत्यादिना तुमुन्, अत्र वदत्यर्थो ज्ञानस्य विषयः, ज्ञानं विषयि। तद्विषयमित्यादि। अत्र यत्नस्याविष्करणरूपस्य वदत्यर्थस्य कर्म। विमतिपतिता इति हेतुगर्भविशेषणं प्रयुञ्जानो विमतिर्हेतुत्वेन विशेषणमित्याह। विमतौ हि सत्यां विचित्रभाषणरूपो वदत्यर्थो निवर्तते। उपच्छन्दयतीति।'भद्रे भजस्व मास्, इदं ते दास्यामि' इति, स्वाभिलषिते प्रवर्तयतीत्यर्थः॥
Nyaas
-----
`{भासनादिषु विशेषणेषु` इत्येव-काशिका, पदमञ्जरी च।} भासनादिष्वर्थेषु विशेषणेषु` इति। अत्रापि किंस्विद्विशिष्यते वदत्यर्थोऽनेनेति विशेषणम्? किंस्विद्वदत्यर्थ एव, विशेषणं ह्रर्थान्तराद्विशिष्यते व्यवच्छिद्यत इति कृत्वा? तत्रोपसम्भाषोपलसान्त्वनमुपमन्त्रणञ्च द्वितीयेनार्थेन वदत्यर्थ एव विशेषणम्। परिशिष्टानि तु भासनादीनि प्रथमेनार्थेन विशेषणानि। `भासनमान` इत्यादिना भासनं वदत्यर्थस्य लक्षणभावेन हेतुभावेन वा विशेषणमिति दर्शयति। तथा ह्यत्र भासमान इति **लक्षणहेत्वोः क्रियायाः** (3.2.126) इत्यनेन शानजादेशो विहितः। `जानाति` इत्यादिना ज्ञानं वदत्यर्थस्य विषयिभावेन विशेषणमिति दर्शयति। ज्ञानेन ह्रसौ वदितुं जानाति। अत्र येन ज्ञानेन वदनं वदत्यर्थस्य हेतुभावेन तत्र तेनैव विषयेण परिच्छेद्येन विषयीभवति। `तद्विषयम्` इत्यादिना यत्र आविष्करणस्य वदत्यर्थस्य हेतुभावेन विशेषणमित्याचष्टे। उत्साहो ह्राविष्क्रियमाण आदिष्करणक्रियायाः कर्माख्यं साधनं भवति, साधनं च हेतुः; कारकाणां क्रियानिमित्तत्वात्। `विमतिपतिताः` इत्यादिना विमतिर्भाषणस्य वदत्यर्थस्य हेतुभावेन विशेषणमिति दर्शयति। सत्यां विमतौ विचित्रं नानाप्रकारं भाषन्ते। यदि ह्रभिन्ना मतिः स्यादभिन्नमेव भाषेरन्। `उपच्छन्दयति` इति। `भद्रे भजस्य मामिदं ते दास्यामि` इत्येवमादिभिरभिष्टेऽर्थे प्रवर्तयतीत्यर्थः॥
Prakriyasarvasvam
-----------------
भासमानो वदति वा भाति वा वदते बुधः । सान्त्वनं ह्युपसम्भाषा चारूपवदते प्रियाम् ॥ ६५० ॥ ज्ञात्वोक्तौ वदते विद्वान् यत्नेऽसौ वदते गृहे । विमतौ विवदन्तेऽमी विविक्ते तूपलालनम् ॥ उपमन्त्रणमित्युक्तं जारोपवदते वधूम् ॥ ६५१ ॥ गृहे वदत इति, तत्र प्रयत्नं करोतीति वृत्तिकृत् । सोत्साहं वदतीति नाथः ।
Sutra Prayogas
--------------
* **कृतोपसम्भाषम्** (किरातार्जुनीयम्): `भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः` इति भासनादिसूत्रेण काशिकायाम् 'उपसंभाषणमुपसान्त्वनम्' इति व्याख्यातम्।
* **संजानानान्** (भट्टिकाव्यम्): `भासनोपसंभाषा` इत्यादिना आत्मनेपदम्।