13045: अकर्मकाच्च ================= **Padacheda:** अकर्मकात् | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- And when used intransitively after the verb ज्ञ , the आत्मनेपद is used, when the fruit of the action does not accrue to the agent. Vasu English Translation ------------------------ And when used intransitively after the verb ज्ञ , the आत्मनेपद is used, when the fruit of the action does not accrue to the agent. As सर्पिषो जानीते मधुनो जानीते 'he engages in sacrifice by means of clarified butter or honey.' (See (2.3.51)). This *Atmanepadi* form of *jna* is employed when the fruit of the action does not accrue to the agent. From *sutra* (1.3.76) it will be seen that when the fruit of the action accrues to the agent, the verb is *Atmanepadi*. How in the above example the verb *jna* is intransitive? Because the word *sarpih* is not the object of knowledge, but it is an instrument of sacrifice, into which one engages from complete knowledge (*jnana*); and it (*sarpishah*) is in the genitive case by virtue of (2.3.51) (ज्ञोऽविदर्थस्य करणे) by which the instrumental *karaka* of the *jna* is put in the genitive case. Why do we say of "Intransitive"? Because in the transitive it is *parasmaipadi*, as स्वरेण पुत्रं जानाति 'he knows (recognizes) the son by his voice.' Kashika ------- अकर्त्रभिप्रायार्थमिदम्। कर्त्रभिप्राये हि **अनुपसर्गाज्ज्ञः** (१.३.७६) इति वक्ष्यति। जानातेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति। सर्पिषो जानीते। मधुनो जानीते। कथं चायमकर्मकः? नात्र सर्पिरादि ज्ञेयत्वेन विवक्षितम्। किं तर्हि? ज्ञानपूर्विकायां प्रवृत्तौ करणत्वेन। तथा च **ज्ञोऽविदर्थस्य करणे** (२.३.५१) इति षष्ठी विधीयतेसर्पिषो जानीते, मधुनो जानीते। सर्पिषा उपायेन प्रवर्तत इत्यर्थः। अकर्मकादिति किम्? स्वरेण पुत्रं जानाति॥ Siddhanta Kaumudi ----------------- सर्पिषो जानीते । सर्पिषो उपायेन प्रवर्तते इत्यर्थः ॥ Laghu Siddhanta Kaumudi ----------------------- सर्पिषो जानीते। सर्पिषोपायेन प्रवर्तत इत्यर्थः॥ Balamanorama ------------ **अकर्मकाच्च** - अकर्मकाच्च ।ज्ञ आत्मनेपदटमिति शेषः । सर्पिषो जानीते इति । अत्र ज्ञाधातुः प्रवृत्तौ वर्तते ।ज्ञोऽविदर्थस्य करणे॑ इति तृतीयार्थे षष्ठी । तदाह — सर्पिषोपायेन प्रवर्तते इति । 'अनुपसर्गाज्ज्ञः' इति वक्ष्यमाणेनैव सिद्धे सोपसर्गार्थमिदम् । सर्पिषोऽनुजानीते । Tattvabodhini ------------- **अकर्मकाच्च** - अकर्मकाच्च ।अनुपसर्गाज्ज्ञः॑ इत्यनेनैव सिद्धेसर्पिषोऽनुजानीते॑ इत्यादिसोपसर्गार्थमिदं सूत्रम् । Padamanjari ----------- अकर्त्रमिप्रायार्तमिदमिति। अथ कर्त्रभिप्राये कथम्, तत्राह-कर्त्रभिप्रायो हीति। ननु सोपसर्गात्कर्त्रभिप्रायेऽप्यनेनैवात्मनेपदमेषितव्यम् - औषधस्यानुजानीते, औषधस्यानुजिज्ञासत इति; तस्मात्सर्पिषो जानीते इत्युदाहरणाभिप्रायमेतद्वेतव्यम्। कथं चायमकर्मक इति।'सर्पिषः' इति कर्मणि शेषत्वेन षष्ठी, न माषाणामश्नीयादितिवत्। तेन सर्पिरादिना ज्ञेयेन सकर्मक इति मत्वा प्रश्नः। अकर्मकादिति किमिति। यदि सर्पिरादि करणत्वेन विविक्षितम्, तर्हि करणादिति वक्तव्यमित्यभिप्रायः। एवमुच्यमाने सकर्मकादपि स्यादेवेति दर्शयतिस्वरेणेति॥ Nyaas ----- `कथञ्चायमकर्मकः` इति। एवं मन्यते - सर्पिरादि ज्ञेयत्वेन विवक्षितं कर्म, अतस्तेन कर्मणा सकर्मक एवायमित्यभिप्रायः। `कथम्` इति। न कथञ्चिदित्यर्थः। तथा चेत्यादिना `नात्र सर्पिरादि कर्मत्वेन, अपि तु करणत्वेन विवक्षितम् इत्यत्र युक्तिमाह - `सर्पिषोपायेन` इत्यादि। यस्य सर्पिःष्वभिष्वङगो विना तेन भुजिक्रियायामभिलाषो न भवति तस्य भोजने प्रवृतिंत प्रति सर्पिरुपायभावं प्रतिपद्यत इति तेनोपायेन स प्रवर्तत इति। `अकर्मकादिति किम्` इति। `नात्र सर्पिरादि ज्ञेयत्वेन विवक्षितम्। किं तर्हि? करणत्वेन` इति ब्राउवता वृत्तिकृता साक्षाच्छब्दोपात्तेन करणेन सकरणादात्मनेपदं भवतीत्युक्तं भवति। एवञ्च सकरणादित्येवं वाच्यम्, किमकर्मकग्रहणेनेति भावः। एवमुच्यमाने करणयुक्तात् सकर्मकादपि स्यादिति दर्शयितुमाह - `स्वरेण पुत्रं जानाति` इति॥ Prakriyasarvasvam ----------------- आयुधस्य जानीते । तेन प्रवर्तत इत्यर्थः । अत्र षष्ठी प्रागुक्ता । Sudha ----- अकर्मकाच्च । ज्ञः आत्मनेपदमिति शेषः । सर्पिषो जानीते इति । अत्र ज्ञाधातुः प्रवृत्तौ वर्तते । ज्ञो ऽविदर्थस्य करणे इति तृतीयार्थे पष्ठी । तदाह - सर्पिषोपायेन प्रवर्तते इति । Sutra Prayogas -------------- * **विकुर्वते** (रघुवंशम्): `अकर्मकाञ्च` इत्यात्मनेपदम्। * **ज्ञास्यसि** (कुमारसम्भवम्): `अकर्मकाच्च` इत्यात्मनेपदविकल्पः। * **विकुर्वे** (भट्टिकाव्यम्): `अकर्मकाञ्च` इति तङ्।