13036: सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः ========================================================= **Padacheda:** सम्मानन-उत्सञ्जन-आचार्यकरण-ज्ञान-भृति-विगणन-व्ययेषु | S | 7 | 3 | नियः | S | 5 | 1 | Sutrartha --------- **सम्माननम्, उत्सञ्जनम् , आचार्यकरणम्, ज्ञान, भृतिः, विगणनम् , व्ययः - एतेषु अर्थेषु 'नी' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।** णीञ् (प्रापणे) अयं धातुः वस्तुतः उभयपदी अस्ति । परन्तु एतेषु अर्थेषु सः केवलं आत्मनेपदस्य प्रत्ययान् एव प्राप्नोति - 1) सम्माननम् (सुष्ठु मार्गदर्शनम्) - आचार्यः छात्रं व्याकरणे नयते । 2) उत्सञ्जनम् (उत्थापनम्) - राजा दण्डमुन्नतये ('उपरि करोति' इत्यर्थः । ) 3) आचार्यकरणम् (विधिपूर्वकम् ज्ञानदानम्) - आचार्यः माणवकमुपनयते । 4) ज्ञानम् (निश्चयः) - सः तत्वं नयते । ('तत्वस्य निश्चयं करोति' इत्यर्थः) 5) भृतिः (वेतनं दत्वा समीपतानिर्माणम्) - धनिकः कर्मकारमनुपनयते । 6) विगणनम् (ऋणपूर्तिः) - मद्राः करं विनयन्ते ('करः' इत्युक्ते भागधेयम् - यथा आयकरः, विक्रयकरः आदयः । 'मद्राः ऋणपूर्तिं कुर्वन्ति' इत्यर्थः । 7) व्ययः (विनियोगः) - धनिकः शतं विनयते । अन्येषु अर्थेषु उभयपदम् भवति । यथा - अजाम् ग्रामम् नयति नयते वा । Sutrartha (English) ------------------- The verb नी gets the प्रत्ययाः of आत्मनेपद ; when used in the meaning of - (1) सम्मानन, To respect in an appropriate way (2) उत्सञ्जन, To lift up, to toss (3) आचार्यकरण, To convert someone into a teacher (by imparting proper knowledge to them) (4) ज्ञान, To decide, fix upon (5) भृतिः, Employ someone by giving money (6) निगणन, To pay off, to give loan ; and (7) व्यय, To spend. Vasu English Summary -------------------- After the verb नी 'to lead', when used in the sense of 'to guide so as to render the person guided worthy', 'to lift up', 'make one a spiritual guide', 'to determine the true sense', 'to employ on wages', 'to pay debt' and 'to give as in charity', even when the fruit of the action does not accrue to the agent, the आत्मनेपद is used. Vasu English Translation ------------------------ After the verb नी 'to lead', when used in the sense of 'to guide so as to render the person guided worthy', 'to lift up', 'make one a spiritual guide', 'to determine the true sense', 'to employ on wages', 'to pay debt' and 'to give as in charity', even when the fruit of the action does not accrue to the agent, the आत्मनेपद is used. This *sutra* is begun in order to show that the verb नी may take the terminations of the *Atmanepada*, even when the direct fruit of the action does not accrue to the agent, in the following cases, viz, when it means to 'respect' &c. *Sammanana* means to respect; as नयते चर्वी लोकायते 'the *Charvi* gives instruction in the *Lokayata* *sastra*.' The word *charvi* primarily means intelligence, and by secondary use it has been extended to the preceptor also; such a preceptor gives instruction, in *Lokayata* *Sastra*, that is to say, having established the truth of the doctrines of that philosophy by argumentation, imparts them to the pupils. Those doctrines being thus established by reason, become respected (*Sanmanita*) and honored. *Utsanjana*, 'to throw up, or lift up,' as माणवकमुदानयते 'he lifts up *Manavaka*.' *Acharya*-*karana* 'acting as a teacher,' that is to say, to bring a boy near oneself in such a way, that being so brought near (*upa*-*neta*), he may himself become an *acharya*, As माणवकमुपनयते 'he initiates *Manavaka* (i.e., making himself the preceptor he brings the boy near himself.') *Jnana* means 'knowledge, a demonstrated verity.' As नयते चर्वीलोकायते 'the *Charvi* investigates the truth of the *Lokayata* doctrine.' *Bhriti* means 'wages.' As कर्मकारानुपनयते 'he employs the servants on hire or wages.' *Viganana* means the paying off as a tribute, debts &c. As मद्रा करं विनयन्ते, the *Madras* pay the tax due to the king, that is, they discharge the debt.' *Vyaya* means 'allotment of money on works of merit &c.' As शतं विनयते 'he expends a hundred pieces on religious acts.' सहस्रं विनयते 'he devotes a thousand. Why do we say, in these senses? Witness अजां नयति ग्रामम् 'he carries the goat to the village.' Here there is no *Atmanepada* affix, as the verb has not any one of the above significations. Kashika ------- **णीञ् प्रापणे** अस्मात् कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम्। अकर्त्रभिप्रायार्थोऽयमारम्भः। णीञ् प्रापणे इत्येतस्माद् धातोरात्मनेपदं भवति सम्माननादिषु विशेषणेषु सत्सु। संमाननं पूजनम् — नयते चार्वी लोकायते। चार्वी बुद्धिः तत्संबन्धादाचार्योऽपि चार्वी, स लोकायते शास्त्रे पदार्थान्नयते, उपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयति, ते युक्तिभिः स्थाप्यमानाः संमानिताः पूजिता भवन्ति। उत्सञ्जनमुत्क्षेपणम् — माणवकमुदानयते। उत्क्षिपतीत्यर्थः। आचार्यकरणमाचार्यक्रिया, माणवकमीदृशेन विधिनात्मसमीपं प्रापयति यथा स उपनेता स्वयमाचार्यः संपद्यते। माणवकमुपनयते। आत्मानमाचार्यीकुर्वन् माणवकमात्मसमीपं प्रापयतीत्यर्थः। ज्ञानं प्रमेयनिश्चयः — नयते चार्वी लोकायते। तत्र प्रमेयं निश्चिनोतीत्यर्थः। भृतिर्वेतनम् — कर्मकरानुपनयते। भृतिदानेन समीपं करोतीत्यर्थः। विगणनमृणादेर्निर्यातनम् — मद्राः करं विनयन्ते। निर्यातयन्तीत्यर्थः। व्ययो धर्मादिषु विनियोगः — शतं विनयते। सहस्रं विनयते। धर्माद्यर्थं शतं विनियुङ्क्त इत्यर्थः। एतेष्विति किम्? अजां नयति ग्रामम्॥ Siddhanta Kaumudi ----------------- अत्रोत्सञ्जनज्ञानविगणनव्यया नयतेर्वाच्याः । इतरे प्रयोगोपाधयः । तथा हि । शास्त्रे नयते । शास्त्रस्थं सिद्धान्तं शिष्येभ्यः प्रापयतीत्यर्थः । तेन च शिष्यसंमाननं फलितम् । उत्सञ्जने । दण्डमुन्नयते । उत्क्षिपतीत्यर्थः । माणवकमुपनयनते । विधिना आत्मसमीपं प्रापयतीत्यर्थः । उपनयनपूर्वकेणाध्यापनेन हि उपनेतरि आचार्यत्वं क्रियते । ज्ञाने । तत्वं नयते । निश्चिनोतीत्यर्थः । कर्मकारानुपनयते । भृतिदानेन स्वसमीपं प्रापयतीत्यर्थः । विगणनमृणादेर्निर्यातनम् । करं विनयते । राज्ञे देयं भागं परिशोधयतीत्यर्थः । शतं विनयते । धर्मार्थं विनियुङ्क्तं इत्यर्थः ॥ Balamanorama ------------ **सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः** - संमननोत्सञ्जना । एषु गम्येषु णीञ्धातोरात् मनेपदमित्यर्थः । परगामिन्यपि फले आत्मनेपदार्थमिदम् । इतरे इति । संमाननाऽऽचार्यकरणप्रभृतय इत्यर्थः । प्रयोगोपाधय इति । वाच्यत्वाऽभावेऽपि आर्थिकाः सत्तामात्रेण शब्दप्रयोगे निमित्तभूता इत्यर्थः । आत्मनेपदद्योत्या इति यावत् । तदेवोपपादयितुं प्रतिजानीते — तथा हीति । संमानने उदाहरति — शास्त्रे नयते इति । अत्र णीञ् प्रापणार्थकः ।सिद्धान्तप्रापणेनेत्यर्थः । फलितमिति । अर्थादिति भावः । उत्सञ्जने इति । 'उदाह्यियते' इति शेषः । उत्सञ्जनमुत्क्षेपः । उत्क्षिपतीत्यर्थ इति । धातूनामनेकार्थत्वादिति सत्त्या प्रापयित्रपेक्षमेव । तच्च माणवकीयमात्मसमीपप्रापणं वैधमेव विवक्षितम्, पूर्वोत्तराऽङ्गकलापाम्नासामर्थ्यात् । तदाह - विधिना आत्मसमीपं प्रापयतीति । तत्राऽऽचार्यकरणस्यार्थिकत्वमुपपादयति — उपनयनपूर्वकेणेति ।माणवकमुपनयीत,तमध्यापयीते॑त्यध्यापनार्थत्वमुपनयनस्याऽवगतम्, अध्यापनादाचार्यत्वं संपद्यते,उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ।॑ इतिस्मरणात् । तथा च आचार्यकरणमुपनयनसाध्यत्वादार्थिकहरति — कर्मकरानुपनयते इति । भृतिः = वेतनं । तदर्थ#ं कर्म करोतीति कर्मकरः । 'कर्मणि भृतौ' इति टप्रत्ययः । कर्मण्युपपदे कृञष्टः स्यात्कर्तरीति तदर्थः । उपपूर्वको णीञ् समीपप्रापणार्थकः । तदाह — राज्ञे देयं भागंपरिशोधयतीति । परिगणयति दातुमित्यर्थः । व्यये उदाहरति — शतं विनयते धर्मार्थमिति । अत्र विपूर्वो णीञ् व्ययार्थकः । तदाह — विनियुङ्क्ते इत्यर्थ इति । Tattvabodhini ------------- **सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः** - संमाननो । उपनयनपूर्वकेणेति । उपनयनं — वटुसंस्कारः ।तस्य परगामित्वात्परस्मैपदं प्राप्ते अनेनात्मनेपदं विधीयते । नह्रुपनयनमात्रेण आचार्यत्वं भवति किं तु तत्पूर्वकाध्यापनेनेत्याचार्यकरणस्य प्रयोगोपाधित्वं परपरया ज्ञेयम् ।उपनीय ददद्वेदमाचार्यः स उदाहृतःर॑ इति स्मृतिः । Padamanjari ----------- सम्माननादिषुविशेषणेषु सत्स्विति। युक्तं सम्माननाचार्यकरणवेतनानां विशेषणत्वम्, तत्र हि प्रापणमेव धात्वर्थः, सम्माननादीनि तु तमेव विषयतया व्यवच्छिन्दन्ति। उत्सञ्जनादीनां त्वयुक्तम्; तेषामेव धात्वर्थत्वात्, तद्व्यतिरिक्तस्य विशेष्यस्यासम्भवात्, उच्यते; सम्माननादेरुत्सञ्जनादेश्च विशेषणत्वं समानं पूर्वोक्तं धात्वर्थविशेषणम्, उतरस्तु धातुविशेषणमिति विशेष्यमात्रं भिद्यते, अतः सुष्ठूअक्तम् - सम्माननादिषु विशेषणेष्विति। चार्वि बुद्धिरिति। चारुशब्दात्'वोतो गुणवचनात्' इति ङीष्। आचार्योऽपि चार्वीति । यथा यष्टीः प्रवेशयेति पुरुषेष्वजहत्स्वलिङ्ग एव यष्टिशब्दः, तद्वच्चार्वीशब्दः। ते युक्तिभिरित्यादि। पूर्वस्मिन् वाक्ये गुणभावेनापि प्रकृते। ते शिष्याः युक्तिभिः प्रतिपाद्यमानाः, निष्पाद्यमाना इत्यर्थः। स्थाप्यमाना इति तु व्याख्याने पदार्थानामचेतनत्वात् न मुख्यं सम्माननम्। उत्क्षिपतीत्यर्थ इति। तेनोत्सञ्जनं नयतेरर्थ इति दर्शयति। आचार्यकरणमाचार्यक्रियेति। सूत्रवृतौ च कारणावस्थाया विवक्षितत्वात् च्विः प्राप्तोऽपि विकल्पाधिकारान्न कृतः। तथा चाचार्यीकुर्वन्निति च्विः प्रयुक्तः। ननुपनयनं माणवकस्य संस्कारः, येनासावध्ययने योग्यो भवति, न त्वनेनाचार्ये कश्चिदतिशयो जन्यते; आचार्यशब्दस्य तु प्रवृत्तिनिमितमुपनीयाध्यापनं नाम क्रियाविशेषः, यथोपाध्यायशब्दस्यैकदेशाध्यापनं तत्कथमाचार्यकरण आत्मनेपदं विधीयते इत्यत आह - माणवकमीद्दशेनेत्यादि । एवं मन्यते - उपनियाध्यापनेनाद्दष्टरूपः कश्चिदतिशय आचार्ये जन्यते, तदेव प्रवृत्तिनिमितमाचार्यशब्दस्येति तदाह - स्वयमाचार्यः सम्पद्यते इति । ठात्मानमाचार्यीकुर्वन्ऽ इति च हेतुलक्षणे लटः शत्रादेशः। ईद्दशेनेति । याद्दशः शास्त्रोक्तो विधिस्ताद्दशेनेत्यर्थः। ननु यद्याचार्यकमुपनयनस्य प्रयोजनं तत्कर्त्रभिप्रायमिति नार्थ आचार्यकरण आत्मनेपदविधानेन? उच्यते; नोपनयनेनाचार्यकं जन्यते, किं तर्हि? तत्पूर्वकेणाध्ययनेन। उपनयनक्रियायास्तु माणवकसंस्कारः साक्षात्फलम्। एवं संस्कृतस्य माणवकस्य यदध्यापनं तेनाचार्यकं जन्यते इति न तदुपनयनायः क्रियायाः फलम्। पच्च तस्याः फलं तन्माणवकगामि, न कर्तृगामि। निश्चिनोतीत्यर्थ इति । अनेन ज्ञानं नयतेरर्थ इत्याह। कारं विनयते इति। कर एव कारः, प्रज्ञादिः, राजग्राह्यए भागः कर्षकैः कल्पितः॥ Nyaas ----- `सम्माननादिषु विशेषणेषु` इति। किंस्विदत्र विशिष्यते नयत्यर्थोऽनेनेति विशेषणम्? किंस्विन्नयत्यर्थ एव विशेषणम्? विशिष्यते व्यावर्त्त्यतेऽर्थान्तरादिति कृत्वा। तत्र सम्माननमाचार्यकरणं भृतिश्चेति पूर्वेणैवार्थेनैतानि विशेषणानि, परिशिष्टानि तु नयत्यर्थस्वभावानि द्वितीयेन विशेषणानि। `नयते चार्वी लोकायते` इति। अत्र नयतेः प्रापणमर्थो विशेष्यः, शिष्यसम्माननन्तु तस्य फलभावेन विशेषमम्। तत्सम्बन्धादाचार्योऽपि चार्वीत्युच्यत इति। यथा कुन्तान्न प्रवेशयेत्युक्ते कुन्तशब्दः कुन्तसम्बन्धात् पुरुषेष्वपि वर्तते, तथेहापि चार्वीशब्दश्चार्वीसम्नब्धादाचार्येऽपि। `स्थिरीकृत्य` इति। निशच्लीकृत्येत्यर्थः। निश्चलत्वन्तु तेषामनन्यार्थभावः। `स्थाप्यमानाः` इति। लोकायते शास्त्रे पदार्थानां सम्यगवबोधः। `पूजिता भवन्ति` इति। अभिलषितार्थसम्पादनमेव तेषां पूजा। अभिलषितोऽर्थस्तु लोकायते शास्त्रे पदार्थानां सम्यवबोधः। `उत्क्षिपतीत्यर्थः` इति। एतेनोपत्सञ्जनं नयतेरर्थः, न तु तस्य विशेषणमिति दर्शयति। एवं `निश्चिनोतीत्यर्थः` इत्यादिभिरपि ज्ञानादीनां यथासम्भवं नयत्यर्थतां दर्शयतीति वेदितव्यम्। `ईदृशेन` इति। यादृशः शास्त्रोक्तो विधिः, तादृशेनेत्यर्थः। अत्राप्याचार्यकरणं नयत्यर्थस्य फलभावेनैव विशेषणम्। `कर्मकरानुपनयते` इति। अत्र हि भृतिर्हेतुभावेन नयत्यर्थस्य समीपकरणस्य विशेषणम्। `ऋणादेः` इति। आदिशब्देन करशुल्कदण्डादीनां ग्रहणम्। करो नाम राजग्राह्रो भागः कर्षकैः रक्षार्थं परिकल्पितः। `धर्मादिषु` इति। आदिशब्देन कामादिष्वपि॥ Prakriyasarvasvam ----------------- पूजनोद्धरणादौ णीञस्तङ् । शास्त्रे नयते² । शास्त्रार्थान् शिष्यान् वा कुर्वन् सम्यग् बोधयतीत्यर्थः । दण्डमुन्नयते । आचार्यकरणमाचार्यकार्या क्रिया । पुत्रमुपनयते । ज्ञाने पदार्थान् नयत इति कौमुदी । निश्चिनोतीत्यर्थः । शास्त्रे नयते । तत्र तत्त्वं निश्चिनोतीत्यकर्मकतैवेति माधवः । भृतिदानेन स्वीकारे भृत्यमुपनयते । विगणनमृणादिप्रतिनिर्यातनम् । ऋणं विनयते । व्यये शतं विनयते । Sutra Prayogas -------------- * **भोक्ष्यते** (रघुवंशम्): `भुजोऽनवने` इत्यात्मनेपदम्। * **विद्वानुपानेष्ट** (भट्टिकाव्यम्): `संमानन` इत्यादिनाचार्यकरणे तङ्। * **विनेष्ये** (भट्टिकाव्यम्): `संमानन` इत्यादिना व्यये तङ्।