13021: क्रीडोऽनुसम्परिभ्यश्च ============================ **Padacheda:** क्रीडः | S | 5 | 1 | अनु-सम्-परिभ्यः | S | 5 | 3 | च | S | 0 | 0 | Sutrartha --------- **'आङ्' / 'अनु' / 'सम्' / 'परि' उपसर्गात् 'क्रीङ्' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।** वस्तुतः क्रीड् (विहारे) अयं धातुः परस्मैपदी अस्ति, परन्तु आङ् / अनु / सम् / परि - एतेभ्यः उपसर्गेभ्यः परस्य क्रीड्-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - आक्रीडते, अनुक्रीडते, संक्रीडते, परिक्रीडते । (एतेषां सर्वेषामर्थः 'क्रीडति' इत्येव ।) ज्ञातव्यम् - यत्र 'अनु' शब्दस्य **तृतीयार्थे** (1.4.85) इत्यनेन कर्मप्रवचनीयसंज्ञा भवति, तत्र तु परस्मैपदमेव भवति, यतः तत्र 'अनु' अयमुपसर्गः नास्ति । यथा - माणवकमनु क्रीडति । (माणवकेन सह क्रीडति इत्यर्थः) । सूत्रेऽस्मिन् केचन वार्त्तिकाः पाठिताः सन्ति - 1. - 'सम् + क्रीड्' अयं धातुः 'शब्दं करोति' अस्मिन् अर्थे परस्मैपदी एव ज्ञातव्यः । यथा - शकटम् सङ्क्रीडति (उच्चैः शब्दं करोति इत्यर्थः) । 2. - 'आ + गम् + णिच्' अयं धातुः यदा 'कालस्य व्ययः / प्रतीक्षा' अस्मिन् अर्थे प्रयुज्यते तदा तस्य आत्मनेपदी प्रत्ययाः भवन्ति । यथा - आगमयस्व तावत् ('तावत् प्रतीक्षां कुरु' इत्यर्थः) । (ज्ञातव्यम् - यद्यपि वार्तिके केवल् 'आ + गम्' इत्येव उच्यते, तथापि 'आ + गम् + णिच्' इत्यस्य विषये एव वार्तिकमिदम् प्रयोक्तव्यम् इति भाष्ये उक्तमस्ति ।) 3. - 'शक् + सन्' अस्मात् धातोः 'जिज्ञासा' अस्मिन् अर्थे आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - विद्यासु शिक्षते ('विद्याप्राप्तेः जिज्ञासाम् कर्तुम् शक्नोति' इत्यर्थः) । अस्मिन् वार्तिके 'शिक्ष्' इति शक्-धातोः सन्नतरूपमस्तीति ज्ञातव्यम् । 'शिक्ष् (विद्योपादाने)' नाम अन्यः धातुः अपि अस्ति, परन्तु सः मूलरूपेण एव आत्मनेपदी अस्ति, अतः तस्य विषये वार्तिकमिदम् न आवश्यकम् । 4. - नाथ् (याञ्चा-उपताप-ऐश्वर्य-आशीःषु) अयं धातुः यद्यपि धातुपाठे आत्मनेपदी प्रोक्तः अस्ति, तथापि केवलं 'आशीः' (= अप्राप्तस्य इच्छा) अस्मिन् अर्थे एव अयमात्मनेपदी भवति, अन्येषु अर्थेषु परस्मैपदी एव ज्ञातव्यः । यथा - घृतं नाथते ('घृतस्य प्राप्तेः इच्छां करोति' इत्यर्थः), माणवकमनुनाथति (माणवकम् याञ्चते इत्यर्थः) । विशेषः - भारवेः 'किरातार्जुनीयम्' नाम्नि महाकाव्ये 'नाथसे किमु पतिं न भूभृताम्' इदम् वाक्यम् दृश्यते । अत्र 'नाथ्' धातुः 'याञ्चा' अस्मिन् अर्थे प्रयुक्तः अस्ति । तथाप्यत्र आत्मनेपदस्य प्रयोगः कृतः अस्ति । एषः प्रयोगः प्रामादिकः अस्तीति मत्वा तस्य स्थाने 'नाधसे' इति प्रयोगः करणीयः इति सिद्धान्तकौमुद्यां दीक्षितः वदति । 'नाध्' धातुः अपि 'नाथ्' इत्यस्य अर्थे एव प्रयुज्यते, परन्तु सः नित्यमात्मनेपदी अस्ति, अतः 'नाधसे' इत्यनेन अर्थभेदः अपि न जायते, व्याकरणप्रमादोऽपि अपसरति । 5. - 'हृ' धातोः गतताच्छिल्यम् (इत्युक्ते, 'अनुकरणम्') अस्मिन् अर्थे आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - गावः मातरम् अनुहरन्ते ('यथा माता करोति तथैव अनुकरणम् कुर्वन्ति' इत्यर्थः) । अन्यस्मिन् अर्थे तु परस्मैपदस्यैव प्रत्ययाः भवन्ति - गावः मातुः अनुहरन्ति ('मातावत् एव भासन्ते' इत्यर्थः ) । 6. - कॄ (विक्षेपे) अस्मात् धातोः 'हर्ष' (इत्युक्ते मोदः), 'जीविका' (इत्युक्ते भक्षणम्), तथा 'कुलायकरणम्' (इत्युक्ते आश्रयः) एतेषु अर्थेषु आत्मनेपदम् भवति । यथा - - ह्रष्टः वृषः अपस्कीरते ('मुदितः वृषभः पादेन मृत्तिकां अपसर्पयति' इत्यर्थः) । - कुकुट्टः अपस्कीरते ('भोजनार्थम् कुकुट्टः मृत्तिकां अपसर्पयति' इत्यर्थः) । - कुक्कुरः अपस्कीरते ('श्वानः आश्रयार्थम् मृत्तिकां अपसर्पयति' इत्यर्थः)। - गजः अपकीरति ('गजः मृत्तिकां अपसर्पयति' इत्यर्थः । अत्र मोद-भोजन-आश्रय-एतेषु किमपि कारणम् नास्ति, अतः अत्र परस्मैपदस्यैव प्रयोगः क्रियते) । 7. - आङ्-उपसर्गात् परस्य नु (स्तुतौ) तथा प्रच्छ् (ज्ञीप्सायाम्) एतयोः धात्वोः आत्मनेपदम् भवति । यथा - शृगालः आनुते ('उत्कण्ठापूर्वकं शब्दं करोति' इत्यर्थः) । छात्रः गुरुमापृच्छते ('अनुमतिं पृच्छति' इत्यर्थः) । 8. - शप् (आक्रोशे) धातुः वस्तुतः उभयपदी अस्ति, परन्तु 'वाचा शरीरं स्पृशति' अस्मिन् अर्थे अस्मात् धातोः केवलं आत्मनेपदस्य प्रत्ययाः एव भवन्ति । यथा - राधा कृष्णाय शपते । Sutrartha (English) ------------------- When any of the उपसर्गs - आङ् , अनु, सम or परि - is attached to the verb 'क्रीड्', it gets the प्रत्ययाः of आत्मनेपद. Vasu English Summary -------------------- After the verb क्रीड 'to play', preceded by अनु , सम् , or परि as well as आङ्, the आत्मनेपद affix is used. Vasu English Translation ------------------------ After the verb क्रीड 'to play', preceded by अनु , सम् , or परि as well as आङ्, the आत्मनेपद affix is used. The words "आङ्" is to be read into the *sutra* by virtue of the conjunction च in the text. As आक्रीडते संक्रीडते अनुक्रीडते, or परिक्रीडते 'he plays.' Vart:- When the verb क्रीड् compounded with सम् means 'to make a rattling or creaking noise,' it does not take *atmanepada* terminations. As संक्रीडन्ति शकटानि 'the carts rattle or creak.' The word *anu*, *pari* &c., being taught along with *sam*, indicates that the *upasargas* *anu*, *pari*, &c., are to be taken and not the *karmapravachaniya* *anu* *pari*, &c. Therefore, when these prefixes are used as *karmapravachaniya*, they do not cause the verb क्रीड् to take the *atmanepada* terminations as माणवकमनुक्रीडति 'he plays in imitation of the boy.' For the definition and action of *karmapravachaniya*, see. (1.4.83) and (2.3.8). Vart:- The verb आगम् takes the *atmanepada* terminations when meaning 'to wait for', 'to overlook', 'to have patience', as, आगमयस्व तावन् माणवकम् । 'Have patience with the boy.' Vart:- The verb शिक्ष takes *atmanepada* terminations, when meaning 'to enquire':- as, विद्यासु शिक्षते 'he investigates sciences.' Vart:- The verb नाथ् when meaning 'to bless,' takes *atmanepada* terminations, as, सर्पिषो नाथते 'he blesses with clarified butter.' मधुनो नाथते । Why do we say 'when meaning to bless'? Observe, माणवकमनुनाथति, 'he begs of *Manavaka*.' Vart:- The verb हरति takes *atmanepada* terminations when meaning 'to take after the nature of the parents.' As पैतृकमश्वा अनुहरते 'the horses resemble their father.' मातृकं गावोऽनुहरन्ते 'the cows always imitate their mother.' But when not having this meaning, we have मातुरनुहरति 'he resembles his mother.' Vart:- The verb किरति takes *atmanepada* terminations when meaning 'to scratch out or scatter with joy, for abode or food.' As अपस्किरते वृषभो हृष्टः 'the happy bull scratches with joy.' अपस्किरते कुक्कुटो भक्षार्थी 'the cock scratches in search of food,' अपस्किरते श्वाऽऽश्रयार्थी 'the dog scratches to make his abode.' When not having these senses we have अपकिरति कुसुमम् 'he scatters about the flowers.' The dental स in *apaskirate* is added by *sutra* (6.1.142). अपाच्चतुष्पाच्छकुनिष्वालेखने ॥ Vart:- The verbs नु 'to cry' and प्रच्छ 'to ask' take the *atmanepada* terminations when preceded by the preposition आङ्, as आनुते शृगालः 'the jackal howls,' आपृच्छते गुरुम् 'he questions the *Guru*.' Vart:- The verb शप् when meaning 'to touch the body by the word' takes *atmanepada* affixes. As देवदत्ताय शपते 'he promises by oath to *Devadatta*.' Otherwise we have शपति 'he curses.' Bhashya ------- क्रीडोऽनुसंपरिभ्यश्च उपसर्गग्रहणम् ॥1 ॥ उपसर्गग्रहणं कर्तव्यम्। इह मा भूत् - अनु क्रीडति माणवकम् इति। समोऽकूजने ॥ 2 ॥ समोऽकूजन इति वक्तव्यम्। इह मा भूत् - सङ्क्रीडन्ति शकटानि। आगमेः क्षमायाम् ॥ 3 ॥ आगमेः क्षमायामुपसंख्यानं कर्तव्यम्। माणवक आगमयस्व तावत्। शिक्षेर्जिज्ञासायाम् ॥ 4 ॥ शिक्षेर्जिज्ञासायामुपसंख्यानं कर्तव्यम्। विद्यासु शिक्षते। धनुषि शिक्षते। किरतेर्हर्षजीविकाकुलायकरणेषु ॥ 5 ॥ किरतेर्हर्षजीविकाकुलायकरणेषूपसंख्यानं कर्तव्यम्। अपस्किरते वृषभो हृष्टः । अपस्किरते कुक्कुटो भक्षार्थी। अपस्किरते श्वा आश्रयार्थी। हरतेर्गतताच्छील्ये ॥ 6 ॥ हरतेर्गतताच्छील्ये उपसंख्यानं कर्तव्यम्। पैतृकमश्वा अनुहरन्ते। मातृकं गावोऽनुहरन्ते। आशिषि नाथः ॥ 7 ॥ आशिषि नाथ उपसंख्यानं कर्तव्यम्। सर्पिषो नाथते। मधुनो नाथते। आङि नुप्रच्छ्योः ॥ 8 ॥ आङि नुप्रच्छ्योरुपसंख्यानं कर्तव्यम्। आनुते शृगालः। आपृच्छते गुरुमिति। शप उपलम्भने ॥ 9 ॥ शप उपलम्भन उपसंख्यानं कर्तव्यम्। देवदत्ताय शपते । यज्ञदत्ताय शपते इति। Kashika ------- **क्रीडृ विहारे** एतस्माद् अनु सम् परीत्येवंपूर्वाद् आङ्पूर्वाच्चात्मनेपदं भवति। अनुक्रीडते। संक्रीडते। परिक्रीडते। आङः खल्वपि — आक्रीडते। समा साहचर्याद् अन्वादिरुपसर्गो गृह्यते, तेनेह कर्मप्रवचनीयप्रयोगे न भवति — माणवकमनु क्रीडति॥ समोऽकूजन इति वक्तव्यम्॥ संक्रीडन्ति शकटानि॥ आगमेः क्षमायामात्मनेपदं वक्तव्यम्॥ क्षमोपेक्षा कालहरणमिति यावत्। आगमयस्व तावन्माणवकम् ॥ शिक्षेर्जिज्ञासायाम्॥ विद्यासु शिक्षते॥ आशिषि नाथः॥ सर्पिषो नाथते। मधुनो नाथते । आशिषीति किम्? माणवकमनुनाथति॥ हरतेर्गतिताच्छील्ये॥ पैतृकमश्वा अनुहरन्ते। मातृकं गावोऽनुहरन्ते। गतिताच्छील्य इति किम्? मातुरनुहरति, पितुरनुहरति॥ किरतेर्हर्षजीविकाकुलायकरणेष्विति वक्तव्यम्॥ अपस्किरते वृषभो हृष्टः। जीविकायाम्अपस्किरते कुक्कुटो भक्षार्थी। कुलायकरणे — अपस्किरते श्वाश्रयार्थी। हर्षादिष्विति किम्? अपकिरति कुसुमम्॥ आङि नुप्रच्छ्योरुपसंख्यानम्॥ आनुते शृगालः। आपृच्छते गुरुम्॥ शप उपलम्भन इति वक्तव्यम्॥ वाचा शरीरस्पर्शनमुपलम्भनम्। देवदत्ताय शपते। यज्ञदत्ताय शपते। उपलम्भन इति किम्? शपति॥ Siddhanta Kaumudi ----------------- चादाङः । अनुक्रीडते संक्रीडते । परिक्रीडते । आक्रीडते । अनोः कर्मप्रवचनीयान्न । उपसर्गेन समा साहचर्यात् । माणवकमनुक्रीडति । तेन सहेत्यर्थः । तृतीयार्थे -(SK549) इत्यनोः कर्मप्रवचनीयत्वम् । (वार्तिकम्) ॥ संक्रीडते । कूजने तु संक्रीडति चक्रम् ॥ (वार्तिकम्) ॥ ण्यन्तस्येदं ग्रहणम् । आगमयस्व तावत् । मा त्वरिष्ठा इत्यर्थः । (वार्तिकम्) ॥ धनुषि शिक्षते ॥ धनुर्विषये ज्ञाने शक्तो भवितुमिच्छतीत्यर्थः । (वार्तिकम्) ॥ आशिष्येवेति नियमार्थं वार्तिकमित्युक्तम् । सर्पिषो नाथते । सर्पिर्मे स्यादित्याशास्त इत्यर्थः । कथं नाथसे किमु पतिं न भूभृतामिति । नाधसे इति पाठ्यम् । (वार्तिकम्) ॥ गतं प्रकारः । पैतृकमश्वा अनुहरन्ते । मातृकं गावः । पितुर्मातुश्चागतं प्रकारं सततं परिशीलयन्तीत्यर्थः । ताच्छील्ये किम् ? मातुरनुहरति । (वार्तिकम्) ॥ हर्षादयो विषयाः ॥ तत्र हर्षो विक्षेपस्य कारणम् । इतरे फले ॥ Balamanorama ------------ **क्रीडोऽनुसम्परिभ्यश्च** - क्रीडोऽनु । चादाङ इति । तथा च अनु सम परि आङ् एभ्यः परस्मात् क्रीडधातोरात्मनेपदमित्यर्थः ।अनोः कर्मपर्वचनीयान्ने॑ति वार्तिकम् । तदिदं न्यायसिद्धमित्याह — उपसर्गेण समेति । 'समोऽकूजने' इति वार्तिकम् । समः परस्मादकूजने विद्यमानात् क्रीडेरात्मनेपदमित्यर्थः । कूजने तु संक्रीडति चक्रमिति । कूजतीत्यर्थः । आगमेः क्षमायामिति ।आत्मनेपद॑मिति शेषः । वर्तिकमिदम् । ण्यन्तस्येदं ग्रहणमिति । भाष्ये ण्यन्तस्यैवोदाहरणादिति भावः । आगमयस्व तावदिति । कंचित्कालं सहस्वेत्यर्थः । आङुपसर्गवशाद्गमधातुः क्षमायां वर्तते ।हन्त्यर्थाश्चे॑ति चुरादिगणसूत्रेण स्वार्थे णिच् । चुरादेराकृतिगणत्वाद्वा । मा त्वरिष्ठा इति । फलितार्थकथनम् ।शिक्षेर्जिज्ञासाया॑मितय्पि वार्तिकम् । धुनुषि शिक्षते इति । वैषयिके आधारे सप्मती । शकिः सन्नन्तः । 'सनि मीमा' इति इस् । अभ्यासलोपश्च । तदाह — धनुर्विषये इत्यादि ।सिक्ष विद्योपादाने॑ इत्यस्य तु नेह ग्रहणम्, अनुदात्तेत्त्वादेव सिद्धेरिति भावः । कथमिति । भूभृतां पतिं किमु न नाथसे = न याचसे इत्यर्थः । आशिषोऽप्रतीतेः कथमात्मनेपदमित्यर्थः । नाधसे इति पाठमिति । तवर्गचतुर्थान्तोऽयम् । 'आशिषि नाथः' इति नियमस्तु तवर्गद्वितीयान्तस्यैवेति भावः ।हरतेर्गते॑त्यादि वार्तिकम् ।आत्मनेपद॑मिति शेषः । गतं प्रकार इति । वृत्तमित्यर्थः । ताच्छील्यं = स्वभावानुसरणम् । गतिताच्छील्यमिति यावत् । गतेति पाठे भावे क्तः । पैतृकमआआ इति । पैतृकं वृत्तआआः स्वभावादनुसरन्तीत्यर्थः । मातृकं गाव इति । 'अनुहरन्ते' इत्यनुषज्यते । मातुरनुहरतीति । अनुकरोतीत्यर्थः । अत्र सादृश्यमात्रं विवक्षितं, न तु गतिताच्छील्यमिति भावः । किरतेरिति वार्तिकम् । हर्षः = प्रमोदः, जीविका जीवनोपायो, भक्षणम्, कुलायकरणम् = आश्रयसंम्पत्तिः, एषु कृधातोरात्मनेपदमित्यर्थः । ननु कधातोर्विक्षेपार्थकस्य कथमेषु वृत्तिरित्यत आह — हर्षादयो विषया इति । धात्वर्थत्वाऽभावेऽपि पदान्तरसमभिव्याहारगम्या इत्यर्थः । तत्रेति । तेषु हर्षादिष्वित्यर्थः । कारणमिति । तथा च हर्षमूलकत्वं विक्षेपस्य लभ्यते इति भावः । इतरे इति । जीविकाकुलायकरणे विक्षेपस्य साध्ये इति लभ्यते । हर्षादीनामेवं विधविषयत्वे सत्येवात्मनेपदमिति फलितम्, भाष्ये तथैवोदाहृतत्वादिति भावः । Tattvabodhini ------------- **क्रीडोऽनुसम्परिभ्यश्च** - *शिक्षेर्जिज्ञासायामिति ।शिक्ष विद्योपादाने॑ इत्यस्य नेह ग्रहणमनुदात्तेत्त्वादेवात्मनेपदसिद्धेः, किं तु शकेः सन्नन्तस्येति ध्वनयति — धनुर्विषय इत्यादिना । नियमार्थमिति । नाथतेरनुदात्तेत्त्वं तुअनुदात्तेतश्च हलादे॑रिति युचि नाथन इति रूपसिद्ध्यर्थमिति भावः । मातुरनुहरतीति । सादृश्यमात्रमत्र विवक्षितं , न तु प्रकारताच्छील्यम् । Padamanjari ----------- माणवकमनुक्रीडतीति। माणवकेन सह क्रीडतीत्यर्थः।'तृतीयार्थ' इत्यनुः कर्मप्रवचनीयसंज्ञकः। कर्मप्रवचनीयसंज्ञकः। आगमेरिति ण्यन्तस्येदं ग्रहणम्। आगमयस्व तावदिति। सहस्व कञ्चित्कालं मा त्वरिष्ठा इत्यर्थः। शिक्षेरिति।'शिक्ष विद्योपादाने' इत्यस्यानुदतेत्वादेव सिद्धमिति शकेः सन्नन्तस्य ग्रहणम्। शिक्षत इति।'सनि मीमाघु' इत्यच इस्,'स्कोः संयोगाद्योः' इति सलोपः, ठत्र लोपोऽभ्यासस्यऽ धनुर्विषये ज्ञाने शक्तौ भवितुमिच्छतीत्यर्थः। क्रियाविषयो हि शकेः प्रयोगः- भोक्तुअं शक्नोति, गन्तुं शक्नोतीति। तदिह ज्ञानं विषयः, आत्मनेपदेनैव ज्ञानविषयत्वस्य गमितत्वाज्ज्ञानमिति न प्रयुज्यते। आशिषि नाथ इति।'नाथृ नाधृ याच्ञोपतापैश्वर्याशीःषु' अनुदातेत्। नियमार्थतु वचनम्-आशिष्येव यथा स्याद् याञ्चादिषु मा भूदिति। अनुदातेत्वं युजर्थम्। सर्पिषो नाथ इति । ठाशिषि नाथःऽ इति कर्मणि षष्ठी सर्पिर्मे भूयादित्याशास्त इत्यर्थः। हरतेरिति। गतिः प्रकारः। पैतृकमिति। पितुरागतं प्रकारं सततं शीलयन्तीत्यर्थः ठृतष्ठञ्ऽ। प्रत्युदाहरणे साद्दश्यमात्रं विक्षितम्, न प्रकारताच्छील्यम्। किरतेरिति। विक्षेपार्थः किरतिः। हर्षादयस्तु विषयत्वेनोपताः । तत्र हर्षो विक्षेपस्य कारणम्। जीविकाकुलायकरणे तु फलम्। एतेष्वर्थेषु अपाच्चतुष्पात् इति सुसुड्विधीयते। आपृच्छत इति।'प्रच्छ ज्ञीप्सायाम्' तुदादिः, ग्रहीत्यादिना सम्प्रसारणम्। वाचा शरीस्पर्शनमिति ।'त्वत्पादौ स्पृशामि, नैतन्मया कृतम्' इत्येवंरूपः शपथविशेषः। देवदतायेति।'श्लाघह्नुङ्स्थाशपाम्' इति सम्प्रदानसंज्ञा ॥ Nyaas ----- `समा साहचर्यात्` इति। यद्यप्यन्वादिरुपसर्गत्वं व्यभिचरति, सम्शब्दस्तु न व्यभिचरति, अतस्तत्साहचर्यादन्वादिरुपसर्ग एव गृह्रते। `माणवकमनुक्रीडति` इति। माणवकेन सह क्रौडतीत्यर्थः। **तृतीयार्थे** (1.4.85) इत्यनुशब्दस्य कर्मप्रवचनीयसंज्ञा।`आगमेः` इति। आङपूर्वस्य गमेण्र्यन्तस्य ग्रहणम्। `क्षमा उपेक्षा कालहरण्` इति। कालप्रतिपादनं प्रतीक्षणमित्यर्थः। `आगमयस्व` इति। `जनीजृष्वनसुरञ्जौऽमन्ताश्च` (ग।सू।धातुपाठः- 817) इति मित्संज्ञायाम् `मितां ह्रस्वः` (6.4.92) इति ह्रस्वत्वम्। लोण्मध्यमपुरुषैकवचनम्, `थासः से` (3.4.80) **सवाभ्यां वामौ** (3.4.91) इति वादेशः। `शिक्षेः` इति। शकिः सन्नन्तो गृह्रते।`विद्यासु शिक्षते` इति। विद्यां जिज्ञासितुं घटत इत्यर्थः। शकेः सन्, `सनि मीमाघुरभलभ` (7.4.54) इत्यादिनेस्भावः। **अत्र लोपोऽभ्यासस्य** (7.4.58) इत्यभ्यासस्य लोपः। **स्कोः संयोगाद्योरन्ते च** (8.2.29) इति सकारलोपः, शिक्ष इति स्थिते लट्। यस्तु `शिक्ष विद्योपादाने` (धातुपाठः-605) इति पठते, ततोऽनदात्तेत्त्वादात्मनेपदं सिद्धमेव।`आशिषि नाथः` इति। गतेस्ताच्छील्यं गतिताच्छील्यम्। ताच्छील्यम् = तत्स्वभावता। `पैतृकमआआ अनुहरन्ते, मातृकं गावोऽनुहरन्ते` इति। पितृवन्मातृवद्गमनमेषां स्वभाव इत्यर्थः। `मातुरनुहरति, पितुरनुहरति` इति। मातुराकारं पितुराकारमनुकरोतीत्यर्थः। मातृसदृशः,पितृसदृशः इत्यर्थः। पैतृकमिति पितुरागतमिति **ऋतष्ठञ्** (4.3.78) , `इसुसुक्तान्तात् कः` (7.3.51) । मातुरनुहरतीत्यत्र गतिताच्छील्यं न विवक्षितम्। `किरतेः` इत्यादि। `कृ विक्षेपे` (धातुपाठः- 1409) अस्य विक्षेप एवार्थः। हर्षादयस्तस्य विषयभूताः। अत्र हर्षो विक्षेपस्य कारणम्, जीविकाकुलायकरणञ्च तत्फलम्। एतेष्वेवार्थेषु किरतेरात्मनेपदं भवति। `अपस्किरते` इति। **अपाच्चतुष्पाच्छकुनिष्वालेखने** (6.1.142) सुट्।`आनुते` इति। `णु स्तुतौ` (धातुपाठः-1035), अदादिः। अयञ्चात्रोत्कण्ठापूर्वकशब्देन वर्तते। `आपृच्छते` इति। `प्रच्छ ज्ञीप्सायाम्` (धातुपाठः-1413) तौदादिकः, ग्रह्रादिना (6.1.16) सम्प्रसारणम्।`वाचा शरीरस्पर्शनमुपलम्भनम्` इति। शपथविशेषः। तथा हि - देवदत्तस्य शरीरं स्पृशामीति शपथं कुर्वाणो देवदत्ताय शपत इति प्रयुज्यते। `श्लाघह्नुङस्थाशपाम्` (1.4.34) इत्यादिना समप्रदानसंज्ञायाम्, देवदत्तायेति सम्प्रदाने चतुर्थी। शपतीत्याक्रोशतीत्यर्थः। `समोऽकूजने` (वा।34) इत्यादिग्रन्थस्य शप उपलम्भनपर्यन्तस्य योऽर्थः स इह चकारेणानुक्तसमुच्चयार्थेनोपात्तः, तस्यैवार्थस्य चकारोपात्तस्य स्पष्टीकरणायास्य ग्रन्थस्योपन्यासः कृतः॥ Prakriyasarvasvam ----------------- चादाङोऽपि । आक्रीडते अनुक्रीडते इत्यादि । अवाच्चेति कौमुदी । अवक्रीडते । ‘समोऽकूजन इति वक्तव्यम्’ (वा०) । तेनेह न । संक्रीडति वीणा । ध्वनतीत्यर्थः । ‘आगमेः क्षमायां तङ् वाच्यः’ (वा०) आगमयस्व किञ्चित् । आशिषि नाथः । श्रियो नाथते । याचनादौ नाथति । (वा०) गत्यनुकरणता- च्छील्यमिदमित्येके । हंसस्यानुहरते बाला । तुल्यार्थयोगात् षष्ठी । अनुकरणता- च्छील्यमेवेत्यन्ये । गुरुमनुहरते शिष्यः । तत्प्रकारमेव शीलयतीत्यर्थः । अत्र प्राग्वत् षष्ठ्यपि स्यात् । ‘किरतेर्हर्षजीविकाकुलायकरणेषु तङ् वाच्यः’ (वा०) Vartika ------- समोऽकूजने । Sutra Prayogas -------------- * **संक्रीडन्ती** (शिशुपालवधम्): `क्रीडोऽनुसंपरिभ्यश्च` इति आत्मनेपदप्राप्तौ `समोऽकूजने` इति निषेधः। * **परिक्रीडस्व** (भट्टिकाव्यम्): `क्रीडो ऽनु-सं- परिभ्यश्च` इति तङ्।