13020: आङो दोऽनास्यविहरणे ========================= **Padacheda:** आङः | S | 5 | 1 | दः | S | 5 | 1 | अनास्यविहरणे | S | 7 | 1 | Sutrartha --------- **'मुखस्य उद्घाटनम्' एतमर्थम् वर्जयित्वा अन्येषु अर्थेषु 'आङ्' उपसर्गात् 'दा' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।** वस्तुतः डुदाञ् (दाने) अयमुभयपदी धातुः अस्ति । परन्तु आङ्-उपसर्गपूर्वकः दा-धातुः आत्मनेपदी भवति । यथा - छात्रः विद्यामादत्ते (गृह्णाति इत्यर्थः) । परन्तु 'मुखस्य उद्घाटनम् / विकसनम्' अस्मिन् अर्थे अयं धातुः परस्मैपदमेव स्वीकरोति । यथा - सः मुखम् व्याददाति (उद्घाटयति इत्यर्थः) । अस्मिन् विषये वार्तिकद्वयं ज्ञातव्यम् - 1. - या क्रिया 'विकसनक्रिया' / 'उद्घाटनक्रिया' अस्ति, सा यद्यपि 'मुखस्य' विषये नास्ति, तथापि केवलं परस्मैपदिनः प्रत्ययाः एव प्रयोक्तव्याः । यथा - नदी तटं व्याददाति (तटस्य विच्छेदं कृत्वा विकसति इत्यर्थः) । अत्र विकसनक्रिया नद्याः स्वयं अस्ति, तटस्य न इति ज्ञातव्यम् । 2. - यत्र विकसनक्रियायाः कर्तुः विकसनम् न भवति, कस्यचित् अन्यस्यैव भवति, तत्र अयं प्रतिषेधः न भवति - इत्युक्ते, तत्र 'आङ् + दा' इत्यस्य आत्मनेपदमेव करणीयम् । यथा - पिपीलिकाः पतङ्गस्य मुखम् व्याददते (उद्घाटयन्ति इत्यर्थः) । Sutrartha (English) ------------------- When the उपसर्ग आङ् is attached to the verb 'दा'; it gets the प्रत्ययाः of आत्मनेपद, provided that the meaning is something other than 'opening the mouth'. Vasu English Summary -------------------- After the verb दा 'to give', preceded by अङ् , and when not meaning 'to open the mouth', the आत्मनेपद affix is used, even when the fruit of the action does not accrue to the agent. Vasu English Translation ------------------------ After the verb दा 'to give', preceded by अङ् , and when not meaning 'to open the mouth', the आत्मनेपद affix is used, even when the fruit of the action does not accrue to the agent. The root दा is generally both *Parasmaipadi* and *Atmanepadi* (see *Sutra*. 72). But when preceded by the preposition आ, it is restriced to the *atmanepada* As विद्यामादत्ते 'he acquires knowledge.' But when it means "to widen the mouth" whether actually or metaphorically, it is *parasmaipadi*. As आस्यं व्याददाति. 'He expands his own mouth.' Vart:- The prohibition also applies when the action is similar to the act of opening the mouth. As विपादिकां व्याददाति 'he opens the tumour.' कूलं व्याददाति नदी 'the river breaks the bank.' Vart:- When the action does not affect the agents' own body the verb is *atmanepadi*, as व्याददतेपिपीलिकाः पतंगस्य मुखम्, 'the ants open the mouth of a locust.' Bhashya ------- आङो दोऽनास्यविहरणे आङो दोऽव्यसनक्रियस्य ॥ 1 ॥ आङो दोऽव्यसनक्रियस्येति वक्तव्यम्। इहापि यथा स्यात् - विपादिकां व्याददाति। कूलं व्याददातीति। तत्तर्हि वक्तव्यम्। न वक्तव्यम्। इह आङो दोऽनास्य इतीयता सिद्धम्। सोऽयमेवं सिद्धे सति यद्विहरणग्रहणं करोति तस्यैतत्प्रयोजनम् - आस्यविहरणसमानक्रियादपि यथा स्यात्। यथाजातीयका चास्यविहरणक्रिया तथाजातीयकात्रापि। स्वाङ्गकर्मकाच्च ॥ 2 ॥ स्वाङ्गकर्मकाच्चेति वक्तव्यम्। इह मा भूत् - व्याददते पिपीलिकाः पतङ्गस्य मुखम् इति ॥ 20 ॥ Kashika ------- अकर्त्रभिप्रायार्थोऽयमारम्भः। आङ्पूर्वाद् ददातेरनास्यविहरणे वर्तमानादात्मनेपदं भवति। विद्यामादत्ते। अनास्यविहरण इति किम्? आस्यं व्याददाति॥ आस्यविहरणसमानक्रियादपि प्रतिषेधो वक्तव्यः॥ विपादिकां व्याददाति। कूलं व्याददाति ॥ स्वाङ्गकर्मकाच्चेति वक्तव्यम्॥ इह मा भूत् — व्याददते पिपीलिकाः पतङ्गस्य मुखम्॥ Siddhanta Kaumudi ----------------- आङ्पूर्वाद्ददातेर्मुखविकसनादन्यत्रार्थे वर्तमानादात्मनेदं स्यात् । विद्यमादत्ते । अनास्येति किम् ? मुखं व्याददाति । आस्यग्रहणमविवक्षितम् । विपादिकां व्याददाति । पादस्फोटो विपादिका । नदी कूलं व्याददाति । (वार्तिकम्) ॥ व्याददते पिपीलिकाः पतङ्गस्य मुखम् ॥ Balamanorama ------------ **आङो दोऽनास्यविहरणे** - आङो दो । आस्यविहरणं — मुखविकसनम् । दा इत्यस्य दः इति पञ्चमी । तदाह — ददातेर्मुखविकसनादन्यत्रेति । विद्यामादत्ते इति । गृह्णातीत्यर्थः । दाञो ञित्त्वेऽप्यकत्र्रभिप्रायार्थमिदम् । अविवक्षितमिति । 'अविहरणे' इत्येतावदेव विवक्षितमित्यर्थः । विपादिकां व्याददातीति । क्षारौषधादिना विदारयतीत्यर्थः । अत्र आस्यविहरणाऽभावेऽपि विकसनसत्त्वान्नात्मनेपदमिति भावः । नदी कूलं व्याददातीति । भिनत्तीत्यर्थः । अत्रापि विकसनसत्त्वादास्यविहरणाऽभावेऽपि नात्मनेपदम् । पराङ्गकर्मकान्न निषेध इति, - वार्तिकम् । पतङ्गस्येति । पक्षिणो मुखं भक्षणाय विकासयन्तीत्यर्थः । Tattvabodhini ------------- **आङो दोऽनास्यविहरणे** - आङो दो । अकत्र्रभिप्रयार्थमिदम् । तेनव्यादत्ते विहगपतिर्मुखं स्वकीय॑मिति प्रयोग आस्यविहरणेऽपि सिद्धः, क्रियाफलस्य कर्तृमित्वविवक्षणात् । Padamanjari ----------- यथैवावत्सा धेनुरानीयतामित्युक्ते सम्भवद्वत्ससम्बन्धा गोधेनुरेवानोयते, न महिष्यादिधेनुः, तथेहापि सम्भवदास्यविहरणस्य'डुदाञ् दाने' इत्यस्यैव ग्रहणम्, न तु'गामादाग्रहणेष्वविशेषः' इति सर्वेषां दारूपाणामित्याह-आङ्पूर्वाद्दाञ इति॥ आदत इति । श्लौ द्विर्वचनम्, पूर्ववदाकारलोपः, दकारस्य चर्त्वम्। क्वचिद्-आङे ङिद्रिशिष्टस्य किम् ? भिक्क्षामाददातीति पठ।ल्ते, तत्र स्मृतावाकारः। आस्यविहरणसमानक्रियादपीति। कथमिह ठाङे दोऽनास्येऽइतीयता सिद्धं द्रव्ये धातोर्वृत्यसम्भवादास्यसमवायिन्यां क्रियायां वर्तमानस्य समुदायस्य निषेधो विज्ञायते, नचैवं स्वं मुखमादत इत्यत्रापि मुखविषयत्वादानस्य प्रतिषेधप्रसङ्गः, ग्राह्यास्य एव समवेता क्रिया, तस्यां वर्तमानो ददातिरास्ये वृत्तिर्भवति, ग्रहणन्तु ग्राह्यहिणोरुभयोरपि समवेतम्। अनास्य इति पर्युदासः, आस्यानास्यसमुदायश्चास्यादन्य इति विधिरेव भविष्यति । एवं सिद्धे विहरणग्रहणं विहरणविशेषोपलक्षार्थम्, तेनासत्यप्यास्ये ताद्दशे विहरणे भविष्यति याद्दशमास्यविहरणमास्यव्यादानम्। विपादिकेति । पादस्फोटःउविपादिका। स्वाङ्गकर्मकाच्चेति। स्वमङ्गं स्वाङ्गम् न तु पारिभाषिकमद्रवादिलक्षणम्। एतच्च न्यायसिद्धमेवोक्तम्, कथम् ? कर्तरीति वर्तते, आस्यशब्दश्चायं सम्बन्धिशब्दः, कस्यास्यमित्यपेक्षायां यस्मिन् कर्तर्यात्मनेपदं तस्य चेतदास्यमिति विज्ञाते तेन परकीयास्यविहरणे विधिरेव भवति॥ Nyaas ----- ददातेरेवास्यविहरणे वृत्तिः सम्भवति, नान्येषां दारूपाणां धतूनामिति। अतस्तत्प्रतिषेधेन तस्यैव ग्रहणं विज्ञायत इत्यत आह - `आङपूर्वाद्दाञः` इति। `आदत्ते` इति। पूर्ववदाकारलोपः, `खरि च` (8.4.54) इति चर्त्वम्।`आस्यविहरणसमानक्रियादपि प्रतिषेधो वक्तव्यः` इत्युपसंख्यानध्याजेनास्यविहरणविषयं दर्शयति। कथम्? विहरणग्रहणं न कर्तव्यम्, इह `आङो दोऽनास्ये` इत्येतद्वक्तव्यम्, तत्रास्ये दाञो वृत्तिर्न सम्भवतीति सामर्थ्यादास्यसमवायिन्यां क्रियायां वृत्तिर्विज्ञास्यते, तत्रैव प्रतिषेधः,तत् किं विहरणग्रहणेन? ननु च `आङो दोऽनास्ये` इत्येतावत्युच्यमाने, स्वं मुखमादत्ते देवदत्त इत्यत्रापि प्रतिषेधः स्यात्, नैष दोषः, वा ह्रास्यविषयैव क्रिया तस्यां वर्तमानो ददातिरास्यवृत्तिर्भवति, विहरणमेवास्यविषयम्, ग्रहणं त्वास्यविषयं ग्रहीतृविषयञ्च। तदेवं विहरणमन्तेरणापि सिद्धे यद्विहरणग्रहणं क्रियते तस्यैतत् प्रयोजनम् - आस्यविहरणसमानक्रियादपि प्रतिषेधोऽयं यथा स्यादित्येवमित्येके। `इतरेतरान्योऽन्योपपदाच्च` (1.3.16) इत्यतश्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः। तेनास्यविहरणसानक्रियादपि प्रतिषेधो भवतीत्यपरे।`स्वाङ्गकर्मकाच्च` इति। वक्तव्यमिति शेषः। न चात्राद्रवमूर्तिमल्लक्षमं पारिभाषिकं स्वाङ्गं विवक्षितम्, किं तर्हि? स्वमङ्गं स्वाङ्गमिति। तत् कर्म यस्य स स्वाङ्गकर्मकः,तस्मात् स्वाङ्गकर्मात् प्रतिषेधो भवतीत्येतदर्थरूपं वक्तव्यमित्यर्थः। तेन परसम्बन्धिना मुखेन यदा सकर्मको भवति तदा भवत्येवात्मनेपदम् - `व्याददते पिपीलिकाः पतङ्गस्य मुखम्` इति। वक्तव्यशब्दस्य व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - कर्तरीति वर्तते, आस्यमिति च सम्बन्धिशब्दः, तत्रैवं विज्ञायते - `यस्मिन् कर्तर्यैवात्मनेपदं भवति तस्य चेदास्यम्` इति। `आङ` इति योगविभागः क्रियते - आगमयस्व तावन्माणवकम्, आनुते शृगालः, आपृच्छते गुरूनित्येवमर्थः। तेन `आगमेः क्षमायाम्` (वा।35) इति `आङि नुप्रसच्छयोः` (वा।40) इति च नोपसंख्येयं भवति॥ Prakriyasarvasvam ----------------- आङ्पूर्वाद् दाञ आस्यप्रसारणादन्यत्रार्थे तङेव । खड्गमादत्ते । अन्यत्र मुखं व्याददाति, व्यादत्ते वा । मुखप्रसारणसदृशेऽपि न । *विपादिकां¹ व्याददाति । अत्र विकासोऽर्थः । आत्माङ्गकर्मकादेव निषेधः । व्यादत्ते बालो ²वत्सस्य मुखमित्यत्र स्यादेव । Vartika ------- स्वाङ्गकर्मकाच्चेति वक्तव्यम् । Sutra Prayogas -------------- * **व्याददाति** (किरातार्जुनीयम्): `आङो दोऽनास्यविहरणे` इत्यत्रानास्यविहरण इति निषेधादात्मनेपदम्। * **व्यददावाननानि** (शिशुपालवधम्): `आङो दोऽनास्यविहरणे` इत्यस्य प्रत्युदाहरणमेतत्। * **आदत्स्व** (भट्टिकाव्यम्): `आङोदोऽनास्यविहरणे` इत्यात्मनेपदम्। * **आददिरे** (भट्टिकाव्यम्): `आङो दो ऽनास्यविहरणे` इति तङ्।