13015: न गतिहिंसार्थेभ्यः ========================= **Padacheda:** न | S | 0 | 0 | गति-हिंसा-अर्थेभ्यः | S | 5 | 3 | Sutrartha --------- **(1) गत्यर्थकेभ्यः धातुभ्यः , (2) हिंसार्थकेभ्यः धातुभ्यः - क्रियायाः व्यतिहारे, कर्तरि प्रयोगे आत्मनेपदस्य प्रत्ययाः न भवन्ति ।** **कर्तरि कर्मव्यतिहारे** (1.3.14) इत्यनेन क्रियायाः व्यतिहारे कर्तरि प्रयोगे यद् आत्मनेपदमुक्तमस्ति, तस्य अनेन सूत्रेण गत्यर्थकेभ्यः तथा हिंसार्थकेभ्यः धातुभ्यः प्रतिषेधः भवति । इत्युक्ते, एतेभ्यः धातुभ्यः यद् पदम् सामान्यरूपेण भवति, तदेव पदम् व्यतिहारे अपि प्रयुज्यते । यथा - व्यतिगच्छन्ति (परस्परान् प्रति गच्छन्ति), व्यतिहिंसन्ति (परस्परान् हिंसन्ति), व्यतिघ्नन्ति (परस्परान् घ्नन्ति) आदयः । अस्मिन् विषये द्वे वार्तिके ज्ञातव्ये - 1) - शब्दर्थकेभ्यः धातुभ्यः (इत्युक्ते, यैः धातुभिः ध्वनिः निर्मीयते. तेभ्यः) अपि कर्मव्यतिहारे आत्मनेपदस्य प्रतिषेधः करणीयः । यथा - व्यतिहसन्ति, व्यतिजल्पन्ति, व्यतिपठन्ति । 2) - ह्र-धातोः विषये अयं प्रतिषेधः न भवति । यथा - राजानः सम्प्रहरन्ते । अत्र हिंसायाः अर्थः दृश्यते, तथापि व्यतिहारं दर्शयितुमात्मनेपदमेव प्रयुज्यते । Sutrartha (English) ------------------- The verbs indicating the action of - (a) movement, or (2) violence - do not get the प्रत्ययाः of आत्मनेपद in the कर्तरि प्रयोग, in the context of व्यतिहार (exchange of actions). Vasu English Summary -------------------- After verbs having the sense of 'motion', or 'injury', when expressing interchange of action, the आत्मनेपद affixes are used. Vasu English Translation ------------------------ After verbs having the sense of 'motion', or 'injury', when expressing interchange of action, the आत्मनेपद affixes are used. This aphorism prohibits *Atmanepada* affixes in certain cases where by force of the last *sutra* *Atmanepada* affixes would have been obtained. As व्यतिगच्छन्ति 'they go against each other,' व्यतिहिंसन्ति 'they injure each other.' व्यतिघ्नन्ति 'they fight together.' The word 'not' of this *sutra* is understood in the subsequent *sutra*. Vart:- This prohibition extends to the verbs हस् 'to laugh,' and the rest. As व्यतिहसन्ति, व्यतिजल्पन्ति, व्यतिपठन्ति ॥ Vart:- Prohibition must be made of the verbs हरति 'to injure,' as संप्रहरन्ते राजानः ॥ Bhashya ------- न गतिहिंसार्थेभ्यः प्रतिषेधे हसादीनामुपसंख्यानम् ॥ 1 ॥ प्रतिषधे हसादीनामुपसंख्यानं कर्तव्यम्। व्यतिहसन्ति। व्यतिजल्पन्ति। व्यतिपठन्ति। हरिवह्योरप्रतिषेधः ॥ 2 ॥ हरिवह्योरप्रतिषेधो भवतीति वक्तव्यम्। संप्रहरन्ते राजानः । संविवहन्ते गर्गैः इति। न वहिर्गत्यर्थः। देशान्तरप्रापणक्रियोऽत्र वहिः ॥ 15 ॥ Kashika ------- पूर्वेणात्मनेपदं प्राप्तं प्रतिषिध्यते। गत्यर्थेभ्यो हिंसार्थेभ्यश्च धातुभ्यः कर्मव्यतिहार आत्मनेपदं न भवति । व्यतिगच्छन्ति। व्यतिसर्पन्ति। हिंसार्थेभ्यः — व्यतिहिंसन्ति। व्यतिघ्नन्ति॥ प्रतिषेधे हसादीनामुपसंख्यानम्॥ व्यतिहसन्ति। व्यतिजल्पन्ति। व्यतिपठन्ति ॥ हरतेरप्रतिषेधः॥ संप्रहरन्ते राजानः॥ Siddhanta Kaumudi ----------------- व्यतिगच्छन्ति । व्यतिघ्नन्ति । (वार्तिकम्) ॥ हसादयो हसप्रकाराः शब्दक्रियाः । व्यतिहसन्ति । व्यतिजल्पन्ति ॥ (वार्तिकम्) ॥ संप्रहरन्ते राजानः ॥ Laghu Siddhanta Kaumudi ----------------------- व्यतिगच्छन्ति। व्यतिघ्नन्ति॥ Balamanorama ------------ **न गतिहिंसार्थेभ्यः** - न गतिहिंसार्थेभ्यः । कर्मव्यतिहारे आत्मनेपदं नेत्यर्थः । हसादिगणस्य अदर्शनादाह — हसप्रकारा इति । उपसर्गमनपेक्ष्य ये गतिहिंसयोर्वर्तन्ते तेषामेव ग्रहणलाभाय अर्थग्रहणम् । ह्मञ्धातुस्तु उपसर्गबलादिंधसायां वर्तते इति न तस्य प्रतिषेध इत्याह — हरतेरप्रतिषेध इति । अर्थग्रहणलभ्यमिदं वार्तिकम् । Tattvabodhini ------------- **न गतिहिंसार्थेभ्यः** - न गतिहिंसार्थेभ्यः । अर्थशब्दः प्रत्येकभिसंबध्यते । कर्मव्यतिहारे यदात्मनेपदं तस्य निषेधः । अर्थग्रहणसामर्थ्याद्येशब्दान्तरमनपेक्ष्य गतिहिंसयोर्वर्तन्ते त एवेह गृह्यन्ते । हरतिस्तूपसर्गवशादिंधसायां प्रवर्तते इतिहरतेरप्रतिषेधः॑ इति वार्तिकमर्थग्रहणलभ्यमेवेत्याहुः । Padamanjari ----------- व्यतिगच्छन्तीत्यादि।'गम्लृ सृप्लृ गतौ' 'तृहि हिसि हिंसायाम्' 'हन हिंसागत्योः' ,गमेः ठिषुगमियमां च्छःऽठ्छे चऽइति तुक्, सृपेर्लधूपधगुणः, हन्तेर्गमहनेत्युपधालोपः,'हो हन्तेः' इति कुत्वम्। हसादीनामिति। हसिप्रकाराणं शब्दक्रियाणामित्यर्थः। उपसंख्यानमिति। संख्यायतेउसंक्षिप्य प्रतिपाद्यतेऽनेनार्थ इति संख्यानमुसूत्रम्, तस्योपोच्चारितमुपसंख्यानं सूत्रम्, समीप इदमपि सूत्रं पठितव्यमित्यर्थः। हरतेरप्रतिषेघ इति। अर्थग्रहणसामर्थ्याह्यए शब्दान्तरनिरपेक्षागतिहिसयोर्वर्तन्ते त इह गृह्यन्त इति उपसर्गवशेन हिसार्थत्वाद्धरतेरप्रतिषेध इत्याहुः। इह तु'ततः संप्रहरिष्यन्तौ द्दष्ट्वा कर्णधनञ्जयौ' इति योत्स्यमानाविति विवक्षितम्, न व्यतीहारः। इह च संव्यवहरन्ते गर्गैरिति वहेरगत्यर्थत्वादप्रतिषेधः, देशान्तरप्रापणं हि वहेरर्थंः- भारं वहतीति;नान्तरीयकस्तु गतिप्रत्ययः कन्याप्रापणमुखेन गर्गैः सम्बध्यन्त इत्यर्थः॥ Nyaas ----- `व्यतिगच्छन्ति`इति। **इषुगमियमां छः** (7.3.77) इति छत्वम्, `छे च` (6.1.71) इति तुक्। `व्यतिसर्पन्ति` इति। `गम्लृ सृप्लृ गतौ` (धातुपाठः-982,983), लघूपधगुणः। `व्यतिहिंसन्ति` इति। `तृहि हिसि हिंसायाम्` (धातुपाठः-1348,1829)। `व्यतिघ्नन्ति` इति। `हन हिंसागत्योः` (धातुपाठः-1012) `गमहन` (6.4.98) इत्युपधापलोपः, **हो हन्तेर्ञ्णिन्नेषु** (7.3.54) इति कुत्वम्।`प्रतिषेधे` इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। उपसंख्यानशब्दोऽत्रानेकार्थत्वाद्धातूनां प्रतिपादने वर्तते। तच्च प्रतिपादनं प्रकृतत्वात् प्रतिषेधस्येति गम्यते। तदयमर्थः - प्रतिषेधे कर्तव्ये हसादीनामप्यात्मनेपदप्रतिषधस्य प्रतिपादनं कर्तव्यमिति। तत्रेदं प्रतिपादनम् - नेति योगविभागः क्रियते, तेन हसादीनामपि भविष्यतीति। ततः `गतिहिंसार्थेभ्यः` इति द्वितीयो योगः, तत्र `न` इति वर्तते।किमर्थं पुनरयम्? पूर्वयोगस्यासर्वविषयत्वज्ञापनार्थम्, तेन `न` इति योगविभागेन हसादीनामेव प्रतिषेधो भविष्यति, नान्येष्यमिति। Prakriyasarvasvam ----------------- एभ्य क्रियाविनिमये तङ् न । तङित्यानयोरप्युपलक्षणं ज्ञेयम् । व्यतिगच्छन्ति, व्यतिघ्नन्ति । (वा०) । व्यतिहसन्ति, व्यतिजल्पन्ति, व्यतिपठन्ति । हृवह्नोर्गत्यर्थत्वेऽप्यनिषेधमाह भोजः । व्यतिहरन्ते व्यतिवहन्ते । Sudha ----- न गतिहिंसार्थेभ्य इति । कर्मव्यतिहारे द्योत्ये गत्यर्थेभ्यो हिंसार्थेभ्यश्च धातुभ्यो न आत्मनेपदमित्यर्थः । व्यतिगच्छन्ति । व्यतिघ्नन्ति । अत्र **कर्तरि कर्मव्यतिहारे**(1.3.14) इत्यात्मनेपदत्वे प्राप्ते **न गतिहिंसार्थेभ्यः**(1.3.15) इति निवार्यते । Vartika ------- हसादीनामुपसंख्यानम् । Sutra Prayogas -------------- * **व्यत्यैतां** (भट्टिकाव्यम्): `न गतिहिंसार्थेभ्यः` इति गत्यर्थत्वात् प्रतिषिद्धं तेन तसस्तामादेशः।