13013: भावकर्मणोः ================= **Padacheda:** भाव-कर्मणोः | S | 7 | 2 | Sutrartha --------- **भावे प्रयोगे, कर्मणि प्रयोगे च धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।** **लः कर्मणि च भावे चाकर्मकेभ्यः** (3.4.69) इत्यनेन लकाराः कर्तरि, कर्मणि तथा भावे कारकेषु भवन्ति । एतेषु कर्मणि-भावे-कारकयोः अनेन सूत्रेण लकारस्य स्थाने आत्मनेपदस्य प्रत्ययाः विधीयन्ते । यथा - 1) कर्मणि - रामेण विद्यालयः गम्यमानः अस्ति । अत्र गम्-धातोः आत्मनेपदस्य 'मान' प्रत्ययः भवति । 2) भावे - वृक्षेण पत्यते । अत्र पत्-धातोः आत्मनेपदस्य 'ते' प्रत्ययः भवति । ज्ञातव्यम् - 1) लकारः यदा कर्तारमनुसरति, तदा सः 'कर्तरि' अस्तीति उच्यते । लकारः यदा कर्म अनुसरति तदा सः 'कर्मणि' अस्तीति उच्यते । लकारः यदा भावं निदर्शयति तदा सः 'भावे' अस्तीति उच्यते । 2) **तङानावात्मनेपदम्** (1.4.100) इत्यनेन त-आताम्-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ्-एतेषाम् तथा शानच्-कानच्-एतयोः 'आत्मनेपदम्' संज्ञा भवति । Sutrartha (English) ------------------- A verb gets the प्रत्ययाः of आत्मनेपद in the भावे and the कर्मणि प्रयोग. Vasu English Summary -------------------- An आत्मनेपद affix is the substitute of the affix ल (3.4.69) when it denotes the action of the verb or the object of the verb. Vasu English Translation ------------------------ An आत्मनेपद affix is the substitute of the affix ल (3.4.69) when it denotes the action of the verb or the object of the verb. *Sutra* (3.4.69) declares the "letter ल (लट्, लिट् &c.,) is placed after transitive verbs in denoting the object also as well as the agent; and after intransitives in marking the condition (i.e., the action itself which the verb imports) also as well as the agent." The *Paras*. and *Atman*. affixes would have come, therefore, generally after all these verbs. The present *sutra* restricts *Atman*. affixes to *bhava* and *karma* verbs. This is clear. Impersonal verbs and passive verbs as a rule are conjugated in the *atmanepada* and take the terminations of that *pada*. These originally were verbs expressive of states rather than of actions. As of भाव we have ग्लायते भवता 'you dislike' (lit. 'it is disliked by you'), सुप्यते भवता 'you sleep.' Similarly passive verbs as क्रियते कटः 'the mat is made'; ह्रियते भारः 'the load is carried.' All verbs in Sanskrit may have three voices, viz, active, passive, and middle or impersonal; active voice is generally *parasmaipada*. The reflexive verbs known as कर्मकर्तरि are also *atmanepadi*. Thus लूयते केदारः स्वयमेव 'the wood cuts of itself.' See *sutra* (1.3.78). Kashika ------- **लः कर्मणि च भावे चाकर्मकेभ्यः** (३.४.६९) इति भावकर्मणोर्विहितस्य लस्य तिबादयः सामान्येन वक्ष्यन्ते, तत्रेदमुच्यते, भावे कर्मणि चात्मनेपदं भवति। भावे — ग्लायते भवता। सुप्यते भवता। आस्यते भवता। कर्मणि — क्रियते कटः। ह्रियते भारः। कर्मकर्तरि — लूयते केदारः स्वयमेवेति परस्मैपदं न भवति। तस्य विधाने द्वितीयं कर्तृग्रहणमनुवर्तते। तेन कर्तैव यः कर्ता तत्र परस्मैपदं भवति॥ Siddhanta Kaumudi ----------------- बभूवे । अनुबभूवे ॥ Laghu Siddhanta Kaumudi ----------------------- भावे कर्मणि च धातोः लस्यात्मनेपदम्॥ Balamanorama ------------ **भावकर्मणोः** - अथ आत्मनेपदप्रक्रिया निरूप्यते । आत्मनेपदपरस्मैपदव्यवस्थापकानि सूत्राणि प्रथमस्य तृतीयपादे पठितानि । तानि क्रमेण व्याख्यास्यन् व्याख्यातमपि सूत्रं पुनः स्मारयति — अनुदात्तङित इति ।आत्मनेपद॑मित्येतत्शेषात्कर्तरि परस्मैपद॑मित्यतः प्रागनुवर्तते । भावकर्मणोः । भावः भावना क्रियेति पर्यायाः । कर्मशब्दः कर्मकारके वर्तते । भावे कर्मणि च यो लकारस्तस्यात्मनेपदमित्यर्थः । भावे उदाहरति — बभूवे इति । वृत्ता भवनक्रियेत्यर्थः । कर्मण्युदाहरति — अनुबभूवे इति । 'आनन्द' इति शेषः । आनन्दकर्मिका वृत्ता अनुभवक्रियेत्यर्थः । Tattvabodhini ------------- **भावकर्मणोः** - भावकर्मणोः । भावे कर्मणि चयो लकारस्तस्याऽऽत्मनेपदमित्यर्थः । Padamanjari ----------- भाव्यत इति भावः, ण्यन्ताद् भवतेः कर्मणि घञ्। धात्वर्थः क्रियात्मक उच्यते, कर्म तु पारिभाषिकम्। धञादिविधौ तु'भाव' इति शुद्धाद् भवतेर्भावे घञ्। भावःउसता,धात्वर्थस्य सिद्धतावस्थोच्यते। अयमपि नियम इति दर्शयितुमन्यतः सिद्धिमाह-लः कर्मणि चेत्यादि । कथं पुनरयं नियमः, यावता ठनुदातङ्ति एवात्मनेपद्म्ऽइति पूर्वेण नियमेन यथा शेषात् कर्तर्यात्मनेपदं व्यावर्तितम्, एवं भावकर्मणोरपीति तद्विषये विध्यर्थमिदं युक्तम्?सत्यम्;यदि पूर्वसूत्रे प्रवृत्तिः,विपर्ययोऽपि शक्यते वक्तुम्-भावकर्मणोरेवात्मनेपदमिति, अस्मिन्नियमे प्रवृते ठनुदातङ्तिःऽकर्तर्यात्मनेपदमप्राप्तमिति पूर्वसूत्रमपि विध्यर्थमिति। तेन द्वयोरपि लस्य तिबादय इत्येतदपेक्षया नियमार्थत्वम्, परस्परापेक्षया तु विध्यर्थत्वमेवमापादपरिसमाप्तेर्द्रव्यम्। अत एवस्यान्यथासिद्धं दर्शयताप्येवशब्दो न प्रयुक्तः। तिबादिसूत्रेण धातुसामान्यविहितं च लकारमाश्रित्य तिबादयो विहितास्तत्रैभ्य एव धातुभ्य इति पूर्वे नियमः, अयं त्वेतयोरे वार्थयोरिति। ननु चात्रार्थनियम एव ग्रन्थे प्रतीयते, अयं त्वत्रार्थः-ठ्लः कर्मणि चऽइति भावकर्मणोर्यो विहितो लकातो लकारस्तस्य सामान्येन तिबादयः सर्वे वक्ष्यन्ते, न त्वात्मनेपदमेव, अतस्तदेव यथा स्यादित्यमारम्भ इति। प्रत्ययनियमे तु भावकर्मकर्तृष्वपि विहितस्य लस्य सामान्येन तङ् वक्ष्यत इति वाच्यं स्यात्, सत्यम्;अयं त्वत्रार्थः-ठ्भावकर्मणोःऽइत्युपलक्षणम्, भावकर्मकर्तृष्वित्यर्थः, तिबादय इति सूत्रे तिपः प्रथमनिर्देशादेवमुक्तम्। तिबादिष्वन्तर्भूतास्तङ् इत्यर्थः, तङनाविति यावत् । किं पुनः स्याद् यद्ययमर्थनियम् स्याद्? इह को भवता लाभो लब्धः, को भवता दायो दत इति कर्मणि घञ् न स्याद्। ठकर्तरि चऽ इत्यस्य त्वपादानादिरवकाशः यद्यपि तुल्यजातीयस्य परस्मैपदस्य नियमेन व्यावृत्तिरिति परिहारोऽस्ति;तथापि पूर्वसूत्रे तावत् प्रत्ययनियम इतीहापि स एवाश्रितः। ग्लायत इति।'ग्लै म्लै हर्षक्षये' । सुप्यत इति ।'ञिष्वप् शये' ,'वचिस्वपि इत्यादिना संप्रसारणम्। क्रियत इति। रिङ् शयग्लिङ्क्षु' यदा'कर्मवत्कर्मणा' इत्ययं शास्त्रातिदेशोः व्यपदेशातिदेशो वा, तदा शास्त्रव्यपदेशयोरतिदिष्टयोः स्वेन शास्त्रेण ततत्कर्यं भवति तत्र कर्मण्यात्मनेपदमित्यस्यावकाशः शुद्धं कर्म, कर्तरि परस्मैपदमित्यस्य शुद्धः कर्ता,कर्मकर्तर्युभयप्रसङ्गे परत्वात्परस्मèपदं प्राप्नेति, अत आह-कमकर्तरीत्यादि। द्वितीयं कर्तृग्रहणमनुवर्तत इति।'कर्तरि कर्मव्यतीहारे' इत्यतः कार्यातिदेशपक्षे त्वात्मनेपदमेव । परमिति । नायं परिहारो वाच्यः॥ Nyaas ----- भाव इति धात्वर्थः क्रियात्मक उच्यते, कर्म तु पारिभाषिकमेव। तत्रेदमुच्यते नियमार्थं इति विशेषः। अयमपि पूर्वत् प्रत्ययनियः - भावकर्मणोरेवात्मनेपदं भवति, नार्थनियमः। अर्थनियमे सति `को भवता दायोदत्तः`, `को भवता लाभो लब्धः` इति कर्मणि घञादिर्दुर्लभः स्यात्। `सुप्यते` इति। `ञिष्वप् शये` (धातुपाठः-1068) वच्यादिना (6.1.15) सम्प्रासरण्। `क्रियते` इति। `रिङ शयग्लिङक्षु` (7.4.28) इति रिङादेशः। `लूयते केदारः स्वयमेव` इति। `कर्मवत्कर्मणा तुल्यक्रियः` (3.1.87) इत्यत्र व्यपदेशातिदेशशासत्रातिदेशपक्षयोः कर्मकर्तरि परस्मैपदेन परत्वाद्भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह - `कर्मकर्तरि` इत्यादि। `द्वितीयं कर्तरिग्रहणमुपतिष्ठते` इति। **कर्तरि कर्मव्यतिहारे** (1.3.14) इत्यतः। तेन कर्त्तैव यः कर्ता शुद्धः केवलः कर्मवद्भावरहितः, तत्र परस्मैपदं भवति; यत्र कर्मवद्भावस्तत्रात्मनेपदं भवति।कार्यातिदेशपक्षे `क्रमवत् कर्मणा तुल्यक्रियः` (3.1.87) इत्यनेनैवात्मनपेपदं भवति। Prakriyasarvasvam ----------------- अनयोर्लकाराणामात्मनेपदमेव । भूयते, पच्यते । Sutra Prayogas -------------- * **पच्यते** (रघुवंशम्): `भावकर्मणोः` इत्यात्मनेपदम्। * **प्रणते** (शिशुपालवधम्): `भावकर्मणोः` इत्यात्मनेपदम्। * **अभायत** (भट्टिकाव्यम्): `भावकर्मणोः` इति भावे तङ्।