13010: यथासंख्यमनुदेशः समानाम् ============================== **Padacheda:** यथासंख्यम् | S | 0 | 0 | अनुदेशः | S | 1 | 1 | समानाम् | S | 6 | 3 | Sutrartha --------- **यत्र द्वयोः गणयोः मध्ये कस्यचन सम्बन्धस्य विधानम् क्रियते तत्र तयोः सङ्ख्या समाना अस्ति चेत् सः सम्बन्धः तयोः सदस्येषु यथासङ्ख्यम् विधीयते ।** यदि सूत्रे द्वयोः समसङ्ख्यकयोः गणयोः निर्देशं कृत्वा तयोः मध्ये कश्चन सम्बन्धः प्रस्थापितः दृश्यते, तर्हि सः सम्बन्धः तयोः सदस्येषु क्रमेण भवति । इत्युक्ते, प्रथमगणस्य यः प्रथमसदस्यः, तस्य द्वितीयगणस्य प्रथमसदस्येन सह सम्बन्धः भवति; एवमेव प्रथमगणस्य द्वितीयसदस्यस्य द्वितीयगणस्य द्वितीयसदस्येन सह भवति; इत्यादिक्रमेण प्रथमगणस्य अन्तिमसदस्यस्य द्वितीयगणस्य अपि अन्तिमसदस्येन सह एव सम्बन्धः भवति — इत्थं सः सम्बन्धः सदस्यानां क्रमम् अनुसृत्य विधीयते — इति अस्य सूत्रस्य अर्थः । अस्मिन् सूत्रे "अनुद्देशः" इति शब्देन "सम्बन्धः" इति अर्थः विधीयते । द्वयोः गणयोः मध्ये विद्यमानः सम्बन्धः तयोः सदस्येषु **यथासङ्ख्यम्** (respectively) भवति इति अत्र आशयः । कानिचन उदाहरणानि एतादृशानि — 1. **एचोऽयवायावः** (6.1.78) इति सूतेण एच्-वर्णानाम् अच्-वर्णे परे अय-अव-आय-आव-आदेशः विधीयन्ते । अत्र "एच्" इत्यमिन् गणे ए, ओ, ऐ, औ — एते चत्वारः वर्णाः सन्ति । "अय-अव-आय-आव" इत्यत्रापि चत्वारः सदस्याः सन्ति । अतः एतयोः मध्ये विहितः अनुदेशः (सम्बन्धः) प्रकृतसूत्रेण यथासङ्ख्यम् भवति । इत्युक्ते, ए-वर्णस्य स्थाने अय्-आदेशः, ओ-वर्णस्य स्थाने अव्-आदेशः, ऐ-वर्णस्य स्थाने आय्-आदेशः, औ-वर्णस्य स्थाने आव्-आदेशः इति क्रमेण आदेशविधानं भवति । अस्मिन्नेव सूत्रे "अच्" इति अन्यः गणः अपि अनुवृत्तिरूपेण स्वीकृतः अस्ति, परन्तु तस्मिन् गणे अधिकाः वर्णाः विद्यन्ते अतः तस्य विषये यथासङ्ख्यत्वम् न विधीयते । इत्युक्ते, सर्वेषु अपि अच्-वर्णेषु ए-वर्णस्य अय्-आदेशः भवति इति अत्र आशयः । 2. **नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः** (3.1.134) अनेन सूत्रेण नन्द्यादिगण-ग्रह्यादिगण-पचादिगणस्य शब्देभ्यः ल्यु-णिनि-अच् एते प्रत्ययाः विधीयन्ते । अत्र अपि अनुदेशः (प्रत्ययविधानम्) यथासङ्ख्यं भवति, अतः अत्र नन्द्यादिगणस्य शब्देभ्यः ल्यु-प्रत्ययः विधीयते, ग्रह्यादिगणस्य शब्देभ्यः णिनि-प्रत्ययः विधीयते, तथा च पचादिगणस्य शब्देभ्यः अच्-प्रत्ययः विधीयते । 3. **आद्यन्तौ टकितौ** (1.1.46) अनेन सूत्रेण टित्-कितौ आगमौ आगमिनः आदि-अन्तौ भवतः इति उच्यते । अत्र अपि इदं विधानं यथासङ्ख्यं भवति । इत्युक्ते, टित्-आगमः आगमिनः आदौ विधीयते, कित्-आगमः आगमिनः अनन्तरम् विधीयते । **यत्र द्वयोः गणयोः शब्दानां सङ्ख्या समाना नास्ति, तत्र अस्य सूत्रस्य प्रयोगः न भवति** । यथा - **झलां जशोऽन्ते** (8.2.39) इत्यनेन झल्-वर्णानाम् स्थाने जश्-वर्णाः आदेशरूपेण आगच्छन्ति । अत्र झल्-प्रत्याहारे 24 वर्णाः विद्यन्ते, जश्-प्रत्याहारे च केवलं 5 वर्णाः एव समाविष्टाः सन्ति । अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । अतश्च अस्मिन् स्थले **स्थानेऽन्तरतमः** (1.1.50) इत्येतं सूत्रम् उपयुज्य आन्तरतम्यस्य निर्णयः क्रियते । Sutrartha (English) ------------------- When a certain relation is given between two groups having same number of elements, then the relation is considered to exist only between the correspondingly positioned members of the two groups. Vasu English Summary -------------------- When a rule involves the case of equal numbers of substitutes and of things for which these are to be substituted, their mutual correspondence or assignment of each to each, is according to the order of enumeration. Vasu English Translation ------------------------ When a rule involves the case of equal numbers of substitutes and of things for which these are to be substituted, their mutual correspondence or assignment of each to each, is according to the order of enumeration. Thus *sutra* (III.I 134) (नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः) declares- 'the affixes ल्यु, णिनि and अच् are applied to नन्दि, ग्रहि and पच् class of words.' It means the affix ल्यु is applied to the words of नन्दि class, the affix णिनि to words of ग्रहि class, and अच् to words of पच् class. The application must be respectively according to order, and not hap-hazard. Similarly in (6.1.77) इको यणचि (if a vowel follows) in the place of इ, उ, ऋ, लृ there is यण् i. e., य्, र्, ल्, व् ॥ So also see *Sutra*. (4.3.94) (तूदीशलातुरवर्मतीकूचवाराड् ढक् छण् ढञ् यकः) where the four affixes *dhak*, *chhan* *dhan*, and *yak* are applied respectively to the words *tudi*, *salatura*, *varmati* and *kuchavara*; i.e., the first affix in the order of enumeration to the first word, the second affix to the second word, &c. As तौदेयः, शालातुरीयः, वार्मतेयः and कौचवार्य्यः ॥ Why do we say 'of equal members'? This rule will not apply if the number of substitutes and of things for which these are to be substituted are unequal. As in *sutra* (1.4. 90), लक्षणेत्थभूताख्यानभागवीप्सासु प्रति पर्यनवः for here the words *lakshana*, &c., in the first part of the *sutra* are four in number, while the words *prati* &c. are only three. That *sutra* therefore must be read as thus. "The words प्रति, परि and अनु are *karma* *pravachaniya*, whenever they indicate either *lakshana* (a mark), *itthambhuta* *khyana* (a statement of mere circumstance); *bhaga* (division); or *vipsa* (desire)." Bhashya ------- यथासंख्यमनुदेशः समानाम् किमिहोदाहरणम् ? इको यणचि (6.1.77) दध्यत्र मध्वत्र । नैतदस्ति । स्थानेऽन्तरतमेनाप्येतत्सिद्धम् । कुत आन्तर्यम् ?। तालुस्थानस्य तालुस्थान ओष्ठस्थानस्यौष्ठस्थानो भविष्यतीति । इदं तर्हि - तस्थस्थमिपां ताम्तम्तामः (3.4.101) इति । ननु चैतदपि स्थानेऽन्तरतमेनैव सिद्धम् । कुत आन्तर्यम् ?। एकार्थस्यैकार्थो द्व्यर्थस्य द्व्यर्थो बह्वर्थस्य बह्वर्थो भविष्यतीति । इदं तर्हि - तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्ञ्यकः (4.3.94) इति ॥ किमर्थमिदमुच्यते ?। संज्ञासमासनिर्देशात्सर्वप्रसङ्गोऽनुदेशस्य, तत्र यथासंख्यवचनं नियमार्थम् ॥ 1 ॥ संज्ञया समासैश्च निर्देशाः क्रियन्ते । संज्ञया तावत् - परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति । समासैः - तूदीशलातुरवर्मतीकूचवाराङ्ढक्छण्ढञ्ञ्यकः (4.3.94) इति । संज्ञासमासनिर्देशादेतस्मात्कारणात् सर्वप्रसङ्गः सर्वस्योद्देशस्य सर्वोऽनुदेशः प्राप्नोति । इष्यते च समसंङ्ख्यं यथा स्यादिति । तच्चान्तरेण यत्नं न सिध्यतीति तत्र यथासंख्यवचनं नियमार्थम् । एवमर्थमिदमुच्यते । किं पुनः कारणं संज्ञया च समासैश्च निर्देशाः क्रियन्ते ? ॥ संज्ञासमासनिर्देशः पृथग्विभक्तिसंज्ञ्यनुच्चारणार्थः ॥ 2 ॥ संज्ञया च समासैश्च निर्देशाः क्रियन्ते पृथग्विभक्तीः संज्ञिनश्च मोच्चीचरमिति । प्रकरणे च सर्वसंप्रत्ययार्थः ॥ 3 ॥ प्रकरणे च सर्वेषां संप्रत्ययो यथा स्याद् - विदो लटो वा (3.4.83) इति । किं पुनः शब्दतः साम्ये संख्यातानुदेशो भवत्याहोस्विदर्थतः ?। कश्चात्र विशेषः ?। संख्यासाम्यं शब्दतश्चेण्णलादयः परस्मैपदानां डारौरसः प्रथमस्याऽयवायाव एच इत्यनिर्देशः ॥ 4 ॥ संङ्ख्यासाम्यं शब्दतश्चेण्णलादयः परस्मैपदानां डारौरसः प्रथमस्याऽयवायाव एच इत्यनिर्देशः । अगमको निर्देशोऽनिर्देशः । परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति । णलादयो बहवः, परस्मैपदानामित्येकः शब्दः, वैषम्यात्संख्यातानुदेशो न प्राप्नोति ॥ डारौरसः प्रथमस्य। । डारौरसो बहवः प्रथमस्येत्येकः शब्दः । वैषम्यात्सङ्ख्यातानुदेशो न प्राप्नोति ॥ एचोऽयवायावः (6.1.78) अयवायावो बहवः, एच इत्येकः शब्दः । वैषम्यात्सङ्ख्यातानुदेशो न प्राप्नोति ॥ अस्तु तर्ह्यर्थतः । अर्थतश्चेल्लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषः ॥ 5 ॥ अर्थतश्चेल्लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषो भवति ॥ स्यतासी लृलुटोः (3.1.33) स्यतासी द्वौ, लृलुटोरित्यस्य त्रयोऽर्थाः । वैषम्यात्सङ्ख्यातानुदेशो न प्राप्नोति ॥ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (3.1..134) नन्द्यादयो बहवः, ल्युणिन्यचस्त्रयः । वैषम्यात्संख्यातानुदेशो न प्राप्नोति ॥ अरीहणादयो बहवः, वुञ्ञादयः सप्तदश । वैषम्यात्संख्यातानुदेशो न प्राप्नोति ॥ सिन्धुतक्षशिलादिभ्योऽणञ्ञौ (4.3.93) सिन्धुतक्षशिलादयो बहवोऽणञ्ञौ द्वौ, वैषम्यात्संख्यातानुदेशो न प्राप्नोति । आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु ॥ 6 ॥ आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु च दोषो भवति । आत्मनेपदविधिश्च न सिध्यति - अनुदात्तङित आत्मनेपदम् (1.3.2) अनुदातङितौ द्वौ, आत्मनेपदमित्यस्य द्वावर्थौ, तत्र संख्यातानुदेशः प्राप्नोति । निष्ठा - रदाभ्यां निष्ठातो नः पूर्वस्य च दः (8.2.42) इति रेफदकारौ द्वौ, निष्ठेत्यस्य द्वावर्थौ । तत्र संख्यातानुदेशः प्राप्नोति । सार्वधातुकद्विग्रहणेषु च दोषो भवति - श्नसोरल्लोपः (6.4.111) श्नमस्ती द्वौ, सार्वधातुकमित्यस्य द्वावर्थौ । तत्र संख्यातानुदेशः प्राप्नोति । एङः पूर्वत्वे प्रतिषेधः ॥ 7 ॥ एङः पूर्वत्वे प्रतिषेधो वक्तव्यः । एङः पदान्तादति ; ङसिङसोश्च (6.1.109;110) ङसिङसौ द्वौ, एङित्यस्य द्वावथौ,तत्र संख्यातानुदेशः प्राप्नोति । अस्तु तर्हि शब्दतः । ननु चोक्तं संख्यासाम्यं शब्दतश्चेण्णलादयः परस्मैपदानां डारौरसः प्रथमस्याऽयवायाव एच इत्यनिर्देशः इति । नैषः दोषः । स्थानेऽन्तरतमः (1.1.50) इत्यनेन व्यवस्था भविष्यति । कुत आन्तर्यम् ?। एकार्थस्यैकार्थौ द्व्यर्थस्य द्व्यर्थो, बह्वर्थस्य बह्वर्थः । संवृतावर्णस्य संवृतावर्णः, विवृताऽवर्णस्य विवृतावर्णः । अतिप्रसङ्गो गुणवृद्धिप्रतिषेधे क्ङिति ॥ 8 ॥ अतिप्रसङ्गो भवति गुणवृद्धिप्रतिषेधे क्ङिति। गुणवृद्धी द्वे, क्ङितौ द्वौ।,तत्र संख्यातानुदेशः प्राप्नोति ॥ नैषः दोषः । गकारोऽप्यत्र निर्दिश्यते । तद्गकारग्रहणं कर्तव्यम् ?। न कर्तव्यम् । क्रियते न्यास एव । ककारे गकार्रश्चत्वभूतो निर्दिश्यते । गिति किति ङितीति । उदिकूले रुजिवहोः ॥ 9 ॥ उदिकूले द्वे, रुजिवहौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति । नैषः दोषः । नोदिरुपपदम् । किं तर्हि ?। विशेषणं रुजिवहोः । उत्पूर्वाभ्यां रुजिवहिभ्यां कूल उपपद् इति । तच्छीलादिषु धातुत्रिग्रहणेषु ॥ 10 ॥ तच्छीलादिषु धातुत्रिग्रहणेषु दोषो भवति । विदिभिदिच्छिदेः कुरच् (3.2.162) । विदिभिदिच्छिदयस्त्रयः, तच्छीलादयस्त्रयः, तत्र संख्याताऽनुदेशः प्राप्नोति । घञ्ञादिषु द्विग्रहणेषु ॥ 11 ॥ घञ्ञादिषु द्विग्रहणेषु दोषो भवति । निरभ्योः पूल्वोः (3.3.28) निरभी द्वौ, पूल्वौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति ॥ नैषः दोषः । इष्यते चाऽत्र संख्यातानुदेशः,निष्पावः अमिलाव इति ॥ एवं तर्हि - अकर्तरि च कारके भावे चेति द्वौ पूल्वौ द्वौ । तत्र संख्यातानुदेशः प्राप्नोति । अवे तॄस्त्रोः करणाधिकरणयोः ॥ 12 ॥ तॄस्त्रौ द्वौ, करणाधिकरणे द्वे। , तत्र संख्यातानुदेशः प्राप्नोति । कर्तृकर्मणोश्च भूकृञ्ञोः ॥ 13 ॥ कर्तृकर्मणी, द्वे, भूकृञ्ञौ द्वौ । तत्र संख्यातानुदेशः प्राप्नोति । अनवकॢप्त्यमर्षयोरकिंवृत्तेपि ॥ 14 ॥ अनवकॢप्त्यर्षौ द्वौ, किंवृत्ताऽकिंवृत्ते द्वे । तत्र संख्यातानुदेशः प्राप्नोति । कृभ्वोः क्त्वाणमुलौ ॥ 15 ॥ कृभ्वौ द्वौ, क्त्वाणमुलौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति । अधीयानविदुषोश्छन्दोब्राह्मणानि ॥ 16 ॥ छन्दोब्राह्मणानीति द्वे, अधीते वेदिति च द्वौ । तत्र संख्यातानुदेशः प्राप्नोति । रोपधेतोः पथिदूतयोः ॥ 17 ॥ रोपधेतोः प्राचाम् (4.2.123) तद्गच्छति पथिदूतयोः (4.3.85) । रोपधेतौ द्वौ, पथिदूतौ द्वौ, तत्र संख्यातानुपदेशः प्राप्नोति । तत्र भवस्तस्य व्याख्यानः ऋतुयज्ञेभ्यश्च ॥ 18 ॥ तत्र भवस्तस्य व्याख्यानौ द्वौ, क्रतुयज्ञौ द्वौ , तत्र संख्यातानुदेशः प्राप्नोति । संघादिष्वञ्ञ्प्रभृतयः ॥ 19 ॥ संघादिष्वञ्ञ्प्रभृतयः संख्यातानुदेशेन न सिध्यन्ति । नैषः दोषः । घोषग्रहणमपि तत्र कर्तव्यम् । वेशोयशआदेर्भगाद्यत्खौ ॥ 20 ॥ वेशोयशआदी द्वौ, यत्खौ द्वौ। । तत्र संख्यातानुदेशः प्राप्नोति । ङसिङसोः ख्यत्यात्परस्य ॥ 21 ॥ ङसिङसौ द्वौ, ख्यत्यौ द्वौ, तत्र संख्यातानुदेशः प्राप्नोति । न वा समानयोगवचनात् ॥ 22 ॥ न वा एष दोषः । किं कारणम् ?। समानयोगवचनात् समानयोगे संख्यातानुदेशं वक्ष्यामि । तस्य दोषो विदो लटो वा ॥ 23 ॥ तस्यैतस्य लक्षणस्य दोषः विदो लटो वा (3.4.83) इति संख्यातानुदेशो न प्राप्नोति । ध्माधेटोः नाडीमुष्ट्योश्च ॥ 24 ॥ ध्माधेटोः नाडीमुष्ट्योश्च संख्यातानुदेशो न प्राप्नोति । खलगोरथादिनित्रकट्यश्च ॥ 25 ॥ संख्यातानुदेशो न प्राप्नोति । सिन्ध्वपकाराभ्यां कन् अणञ्ञौ च ॥ 26 ॥ संख्यातानुदेशो न प्राप्नोति । युष्मदस्मदोश्चादेशाः ॥ 27 ॥ युष्मदस्मदोश्चादेशाः संख्यातानुदेशन्न सिद्ध्यन्ति । तस्माद्यस्मिन्पक्षेऽल्पीयांसो दोषास्तमास्थाय प्रतिविधेयं दोषेषु । अथवैवं वक्ष्यामि - यथासंख्यमनुदेशः समानां स्वरितेन । ततः अधिकारः । अधिकारश्च भवति स्वरितेनेति । एवमपि स्वरितं दृष्ट्वा सन्देहः स्यात् - न ज्ञायते - किमयं समसंख्यार्थः, आहोस्विदधिकारार्थ इति ?। सन्देहमात्रमेतद्भवति, सर्वसन्देहेषु चेदमुपतिष्ठते - व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति। समसंख्यार्थ इति व्याख्यास्यामः ॥ 10 ॥ Kashika ------- संख्याशब्देनात्र क्रमो लक्ष्यते। यथासंख्यं यथाक्रममनुदेशो भवति। अनुदिश्यत इत्यनुदेशः। पश्चादुच्चार्यत इत्यर्थः। समानां समसंख्यानां समं परिपठितानाम् उद्देशिनामनुदेशिनां च यथाक्रममुद्देशिभिरनुदेशिनः संबध्यन्ते। **तूदीशलातुरवर्मतीकूचवाराड् ढक्छण्ढञ्यकः**(४. ३.९४)। प्रथमात् प्रथमः, द्वितीयाद् द्वितीय इत्यादि। तौदेयः। शालातुरीयः। वार्मतेयः। कौचवार्यः। समानामिति किम्? **लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः (१.४.९०)। लक्षणादयश्चत्वारोऽर्थाः, प्रत्यादयस्त्रयः। सर्वेषां सर्वत्र कर्मप्रवचनीयसंज्ञा भवति। इह कस्माद् न भवति — ‘वेशोयशआदेर्भगाद् यल्** (४.४.१३१),**ख च** (४.४.१३२) इति? स्वरितेन लिङ्गेन यथासंख्यम्, यत्र नेष्यते तत्र स्वरितत्वं न प्रतिज्ञायते। **स्वरितेनाधिकारः** (१.३.११) इति स्वरितग्रहणं पूर्वेणापि संबध्यते॥ Siddhanta Kaumudi ----------------- समसम्बन्धी विधिर्यथासङ्ख्यं स्यात् । कियूँह्यः । किंह्यः । किब्ँह्वलयति । किंह्वलयति । किल्ँह्लादयति । किंह्लादयति ॥ Laghu Siddhanta Kaumudi ----------------------- समसंबन्धी विधिर्यथासंख्यं स्यात्। हरये। विष्णवे। नायकः। पावकः॥ Balamanorama ------------ **यथासङ्ख्यमनुदेशः समानाम्** - यथासङ्ख्यम् । साम्यमिह सङ्ख्यातो विवक्षितम् । अनुदेशः=विधानम् । समानामिति यदि कर्मणि षष्ठी स्यात्तर्हि स्थान्यादिभिः समसङ्ख्यानां यत्र विधानं, यथा 'एचोऽयवायाव' इत्यादौ तत्रैव यथासङ्ख्य प्रवृत्तिः स्यात्,समूलाकृतजीवेषु हन्कृञ्ग्रहः॑ इत्यत्र न स्यात्, तत्र विधेयस्य णमुल एकत्वात् । अतःसमाना॑मिति सम्बन्धसामान्ये षष्ठी । एवञ्च समूलाद्युपपदानां हनादिधातूनां च समसङ्ख्यानामुपादानेन एकस्य प्रत्ययस्य विधिरपि समसङ्ख्याकसम्बन्धी विधिरेवेति तत्रापि यथासङ्ख्यप्रवृत्तिनिर्बाधा । तदाह — समसम्बन्धीति । यथासङ्ख्यमिति । सङ्ख्याशब्देनात्र प्रथमत्वद्वितीयत्वादिरूपाः सङ्ख्याघटितधर्मा विवक्षिताः, ताननतिक्रम्य यथासङ्ख्यम् । ततश्च 'एचोऽयवायाव' इत्यादिषु प्रथमस्य स्थानिनः प्रथम आदेशः, द्वितीयस्य द्वितीय इत्येवमक्रमेण स्थान्यादेशतन्निमित्तादीनां समसङ्ख्याकानां क्रमेणाऽन्वयः प्रतिपत्तव्य इति फलितम् । प्रकृ-ते च यपरके हकारे परे मकारस्य यकारः, वपरके वकारः, लपरके लकार इति सिध्यति । किय्#ँ ह्र इति । मस्य यत्वे रूपम् । 'ह्र' इत्यव्ययम्, पूर्वेद्युरित्यर्थः । यत्वाभावे मोऽनुस्वारः । किव्#ँ ह्वलयतीति । मस्य वत्वम् । ह्वल चलने, णिच् । किल्#ँ ह्लादयतीति । मस्य लत्वम्॥ 'ह्लादी सुखे च' णिच् । Tattvabodhini ------------- **यथासङ्ख्यमनुदेशः समानाम्** - यथासङ्ख्यमनुदेशः । अनुदिश्यत इति अनुदेशः । पश्चादुच्चार्यत इत्यर्थः ।समाना॑मिति संबन्धे षष्ठी, तदाह — समसम्बन्धी विधिरिति ।समकर्मकं विधान॑मिति तु नोक्तम्, तथाहि सति यत्रोद्देशिषु समेषु समानां विधानं पाघ्रदिषु पिबादीनां प्रियस्थिरादिषु च प्रस्थादीनां॑ तत्रैव यथाक्रमं प्रवृत्तिः स्यात् । इष्यते तु अनुवाद्ययोरपि यथासङ्ख्यत्वम् ।समूलाकृतजीवेषु हन्कृञ्ग्रहः॑ इत्यत्र यथा । समानामिति किम् ,लक्षणेत्थंभूते॑त्यत्र लक्षणादयश्चत्वारोऽर्थाः, प्रत्यादयस्तु त्रयः, तत्र सर्वेषां सर्वत्र कर्मप्रवचनीयसंज्ञा यथा स्यात् । Padamanjari ----------- सङ्ख्याशब्देनान्न क्रमो लक्ष्यत इति। कथम्? अव्यभिचारात् । यत्रैक एवोद्देश्यनुद्देशी च, यथा'मुद्रादण्' इति, न तत्र नियमप्रसङ्ग इत्यनेकत्वसङ्ख्याया एवेह ग्रहणम्। सा च क्रमं न व्यभिचरति;युगपदनेकस्य शब्दस्योच्चारयितुमशक्यत्वात्। मुख्ये त्वर्थेऽयमर्थः स्यात्समानां समसङ्ख्यानामुद्देशिनां या सङ्ख्या चतुरादिलक्षणा तया उद्देश्यः त्वादेवास्यार्थस्य सिद्धत्वाद्। अतः क्रमपर एव सङ्ख्याशब्द इति । यथाक्रमग्रहणं तु न कृतम्, सङ्ख्याद्वारकं साम्यं यथा विज्ञायेत;अन्यथा स्थानप्रयत्ना दिकृतमपि समत्वं प्रतीयेत। ननु च क्रियमाणमपि सङ्ख्याग्रहणं क्रमपरमिति कथमतः संख्यासाम्यप्रतिपतिः? सत्यम्; क्रमे शब्दः पर्यवस्यति, मुख्योऽप्यर्थः प्रतीयते।स हि प्रतीतो लाक्षणिकं गमयति; तस्मात् संख्याग्रहणसामर्थ्यात् तद्द्वारकमेव साम्यं गृह्यते। यथासंख्यमिति।'यथा' साहश्येऽ इति वीप्सायामव्ययीभावः। अनुदेशो भवतीति । सम्बन्धी भवतीति द्रष्टव्यम् । तथा च वभ्यति-अनुदेशिनः सम्बध्यन्ते इति। अनुदिश्यत इत्यनुदेश इति । अकर्तरि च कारके संज्ञायाम् इत्यसंज्ञायापि कर्मपि घञ्। अनुशब्दः पश्चादर्थे, द्दशिरुच्चाक्रिय इत्याह-पश्चच्चार्यत इत्यर्थ इति । यदुक्तं संख्याद्वारकं साम्यं गृह्यते इति तद्दर्शयति-समानां समसंख्यानाम्। अस्यैव विवरणम्-समंपठितानामिति । उद्देशिनामिति। कञ्चिद्धर्मं विधातुं प्रसिद्धवच्छब्दपरामर्शयोग्येन रूपेण उपादानमुद्देशः, तद्वन्त उद्देशिनः, विधेयतया पश्चादुच्चारणमनुदेशः, तद्वन्तोऽनुदेशिनः। यद्यपि सूत्रे उद्देशिनो न श्रुतास्तथाप्यनुदेशशब्दस्य सम्बन्धिशब्दत्वात् समसंख्यत्वस्य च प्रतियोग्यपेक्षत्वात् त एव गम्यन्ते। उद्देशिनामनुदेशिनां चेति यथाक्रममित्येतदपेक्षया षष्ठयौ। यथाक्रममिति। पूर्ववदव्ययीभावस्तृतीयान्तं चैतत्। तदयमत्रार्थः- समसंख्यानामुद्देशिनामनुदेशिनां च योयः क्रमःउप्रथमचरमभवस्तेन तेनानुदेशिनः सम्बध्यन्ते, उद्देशिभिः सहेत्यर्थाद् गम्यते । क्वचित् उद्देशिभिरिति पठ।ल्ते। तत्र सहयोगे तृतीया। प्रथमाद् प्रथम इत्यादिना सूत्रार्थमुदाहरणे योजयति। वहन्ति, वर्षन्ति, नदन्तीत्यादौ लोक एव यथासंख्यसम्बन्धस्य द्दष्टत्वान्नार्थ एतेन ? उच्यते;व्युत्क्रमेणापि सम्बन्धो लोके द्दश्यते-कन्याब्रह्मचारिणौ, दण्डकन्दुकहस्ताविति। योग्यतावशादत्र सम्बन्ध इति चेत्; क्रमेणापि सम्बन्धः, तद्वशादेव योग्या हि नद्यो वहने, घनाश्च वर्षणे। अत एवैकस्य धर्मिणि बहुषु धर्मेषु विहितेषु विधानक्रमेणान्यथा वा योग्यतानुरूप एव सम्बन्धो भवति-अमुमुद्वर्तय, स्नापय, भोजय; भोजय, स्नापयौद्वर्तयेति स्यादेतत्-स्वतः प्राप्तिरियं यदुक्तक्रमेण सम्बन्धः। तथा हि, योग्यताविशेषानवधारणे प्रथमप्रतीतयोः सम्बन्धः, बाधकाभावात्। तावता हि द्वयोरपि चरितार्थत्वम्, द्वितीयस्य धर्मिणो धर्मस्य वा प्रतियोग्ययेक्षायां प्रथमश्रुतस्य चरितार्थत्वाद्, अचरितार्थन द्वितीयेन प्रतियोगिनां सम्बन्धः । एवं सर्वत्र तस्मात् स्वतः प्राप्तः प्राप्त्या क्रमसम्बन्धः सिद्धः इति। यद्येवम्, लक्षणेत्थम्भूताख्यान इत्यादौ वैषम्येऽप्येवमेव स्याद्, यावतां साम्यं तावतामादितः क्रमेण सम्बन्धः, परिशिष्टस्य तु सर्वैरनन्तरेण वेत्यतः समानामिति वक्ष्यामीत्यारम्भः। स्वरितेनेति विशेषं वक्ष्यामीति। क्वचिद्धि साम्येऽपि नेष्यते। अथारभ्यमाणेऽप्यस्मिन् परम्सैपदानां णलादयः, लुटः प्रथमस्य डारौरसः,ठेचोऽयवायावऽइत्यत्र कथमस्य प्रवृत्तिः, यावता परस्मैपदादिसंज्ञया युगपदेव संज्ञिनां प्रतीतिः, न क्रमेण? सत्यम्; तिबादिसूत्रे, अक्षरमाम्नाये च तिबादयः क्रमेण प्रतीतिः, स एव क्रमो नियामको भविष्यति। एवं द्वन्द्वेऽपि । पाघ्रेत्यादौ युगपदधिकरणवचनतायां द्वन्द्वेऽपि क्रमस्य प्रतीतेः स एव नियामकः। ननु च तिपो णल्, तसोऽतुस, पः पिबः, जिघ्रः-इत्येवं भिन्नवाक्यतयोपदेशोऽस्तु, एवं हीदं न वक्तव्यं भवति?सत्यम्; एवं तु गौरवं स्यात् तस्य रूपेणानिदशात्, तत्र विभक्तेर्भेदेनोच्चारणाच्च। तथा'विदो लटो वा ' इत्यत्रानन्तर्यान्मसोमेत्येव सम्बध्येत, तदाह - संज्ञासमासनिर्देशात् सर्वप्रसङ्गोऽनुदेशस्य। तत्र यथासंख्यवचनं नियमार्थम्, संज्ञासमासनिर्देशच्च पृथग्विक्तिसंज्ञ्यनुच्चारणार्थः, प्रकरणे च सर्वसम्प्रत्यार्थः इति। तौदेय इत्यादौ'सो' स्याभिजनःऽ इत्यत्रार्थेप्रत्ययः। इहेत्यादि। एकयोगत्वपक्षे चोद्यम्, भिन्नयोगपक्षे तु योगविभागो यथासंख्यनिरासार्थ इति वक्ष्यति। केचितु विभज्य योगं पठन्ति, अन्ये त्वेकमेव। स्वरितेनेत्यादि परिहारः। कथं पुनरयं विशेषो लभ्यत इत्याह - स्वरितेनाधिकार इत्यादि। यद्येवम्, स्वरिते द्दष्टे सन्देहः स्यात्, न ज्ञायते - किमयं यथासंख्यार्थः? आहोस्विदधिकारार्थः?इति। सन्देहमात्रमेतद्, भवति, सर्वसन्देहेषु चेदमुपतिष्ठते -'व्याख्यानतो विशेषप्रतिपतिर्न हि सन्देहादलक्षणम्' इति । तत्र व्याख्यानान्निर्णयो भविष्यति॥ Nyaas ----- `संख्याशब्देनात्र क्रमो लक्ष्यते` इति। यत्रानेके उद्देशिनोऽनुदेशिनश्च, तत्रानियमेन सम्बन्धे प्राप्ते नियमार्थंमिदमारभ्यते। यत्रोद्देशिनोऽनुदेशिनोऽनेकसंख्याः; तत्रावश्यं संख्याभेदेन भवितव्यम्। यत्र च संख्याभेदः, तत्र नियतभावी क्रमः ; संख्याभेदवतां युगपदुच्चारयितुमशक्यत्वात्। अतः साहचर्यात् संख्याशब्देन क्रमो लक्ष्यते। अर्थधर्मत्वं तु शब्दे समारोप्य संख्याशब्देन क्रमो लक्ष्यत इत्युक्तम्। यथाक्रमग्रहणं कथं न कृतम्? वैचित्र्यार्थम्।`यथासंख्यम्` इति। `यथाऽसादृश्ये` (2.1.7) इति वीप्सायामव्ययीभावः। `अनुदिश्यत इत्यनुदेशः` इति। **अकर्तरि च कारके संज्ञायाम्** (3.3.19) इति घञ्। `पश्चादुच्चार्यते` इति। अनुशब्दस्य पश्चादर्थवृत्तित्वाद्दिश्चोच्चारणक्रियत्वात्। `समसंख्यानम्` इति। समसंख्यतया समानत्वं दर्शयति। `{समं परिपठितानाम्िति मूल (काशिका) पाठः। }समगणनपरिपठितानाम` इति। तमेवार्थं शब्दान्तरेण व्यक्तीकरोति। `उद्देशिनामनुदेशिनाञ्च्` इति। यथाक्रममित्येतदपेक्षया षष्ठी। उद्देशिनो यद्यपि सूत्रे न श्रूयन्ते, तथापि सम्बन्धित्वात् पश्चाद्भावस्यानुदेशग्रहणाल्लभ्यन्ते। `यथाक्रमम्` इति। पूर्ववद्वीपसायामव्ययीभावः, तृतीयान्तञ्चैतत्; तदयमत्रार्थः- उद्देशिनामनुदेशिनाञ्च योऽयं क्रमस्तेन क्रमेणानुदेशिनः सम्बध्यन्त उद्देशिभिः सहेति। यद्यप्युद्देशिनामिति षष्ठन्तं प्रकृतम्, तथाप्यर्थाद्विभक्तेर्विपरिणामो भविष्यतीति तृतीयान्तं सम्पद्यते। `प्रथमात् प्रथमः` इत्यादिना यथाक्रमसम्बन्धं दर्शयति। आदिशब्दस्तृतीयात् तृतीयः, चतुर्थाच्चतुर्थ इत्यादिपरिग्रहाय। तौदेय इत्यादौ `सोऽस्याभिजनः` (4.3.90) इत्यत्रार्थे तद्धितः।`इह` इत्यादि। `वेशोयशाअदेर्भगात्` 94.4.132) इति द्वे प्रकृती, `यल्खौ` इति प्रत्ययावपि द्वावेव; अतो यथासंख्येन भवितव्यमित्यभिप्रायः। इह केनचिनदाचार्येण शिष्याः प्रतिग्राहिताः - `वेशो यश आदेर्भगाद्यल् ख च` इत्येको योगः। अन्ये तु द्वावेतौ योगविति- `वेशोयश आदेर्भगात्` इत्येको योगः, `यल् ख च` इति द्वितीयः। तत्र य एक एवायं योग इत्येवं शिष्या ग्राहितास्तान्प्रत्ययं प्रश्नः। वृत्तिकारेणापि तन्मतमेवाश्रित्य`स्वरितेन` इत्यादिना परीहार उक्तः। ये तु द्वावेतौ योगावित्येवं ग्राहितास्तान् प्रत्येष प्रश्नो नास्ति; योगविभागेनैव यथासंख्यस्य स्यात्, योगविभागकरणमनर्थकं स्यादित्यभिप्रायः। कथं पुनः स्वरितेन लिङ्गेन यथासंख्यं लभ्यते, यावता नेह स्वरितग्रहणमस्तीत्याह - `स्वरितेनाधिकारः` इत्यादि। **स्वरितेनाधिकारः** (1.3.11) इति योगं विभज्य `स्वरितेन` इत्येको योगः, `अधिकारः` इति द्वितीयः। तत्र प्रथमो योगः पूर्वेणापि `यथासंख्यम्` इत्यादिना सम्बध्यते। अपिशब्दात् परेणापि `अधिकारः` इत्यनेन। यदि तर्हि स्वरितेन लिङ्गेन यथासंख्यं भवति, एवं हि सति सन्देहः स्यात्। तथा हि - यथासंख्यमिति स्वरितेनाधिकारोऽपि तत्र न ज्ञायते - किमधिकारार्थः स्वरितानुषङ्गः? अथ वा यथासंख्यार्थ इति? सन्देहमात्रमेतत्। सर्वनसन्देहेष्विदमुच्यते - `भवति व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्` (व्या।प।75) इति॥ Praudhamanorama --------------- **समसम्बन्धी विधिरिति॥** समकर्मकं विधानमिति तु नोक्तम्। अनुवाद्ययोरपि यथासंख्यस्येष्टत्वात्। **समूलाकृतजीवेषु हन्कृञ्ग्रहः** (3.4.36) इत्यत्र यथा॥ Prakriyasarvasvam ----------------- समसङ्ख्यानां यथाक्रममेव विधि स्यात् । सर्वपुरुषाभ्यां णढञौ' (५-१-१०) इत्युक्ते सर्वाण्णः पुरुषाड्डञ् । Sarala ------ "क्रमा"दित्यस्य लाभायाह - **यथासङ्ख्यमिति** । सम्यक् ख्यानं - सङ्ख्या = क्रमवैशिष्ट्येन ज्ञानम् । सङ्ख्यामनतिक्रम्य यथासङ्ख्यम् । (**यथासंख्यं** - प्रथमान्तम्, **अनुदेशः** - प्रथमान्तं, **समानां** - षष्ठ्यन्तम् । यद्वा यथासङ्ख्यमिति - यथा स्यात्तथा भवतीत्येवं रीत्या क्रियाविशेषणत्वाद्द्वितीयान्तम्) । अनुदिश्यते इति - **अनुदेशः** = पश्चाद्भववाक्यार्थबोधकालिकः सम्बन्धः । (पदज्ञानाद्यनन्तरं जायमानस्य शाब्दबोधस्य विषयः सम्बन्धः) । साम्यं - सङ्ख्यया, योग्यत्वात्, उपस्थितत्वाच्च । एवञ्च - समसङ्ख्यावतां सम्बन्धो यथाक्रमं - (**यथासङ्ख्यं**) भवति । अर्थात् - येन क्रमेण पदज्ञानं पदादुपस्थितिर्वा तेनैव क्रमेण समसङ्ख्यानां वाक्यार्थबोधविषयः सम्बन्धो भवतीत्यर्थः । तत्फलितमाह - **समसम्बन्धीति** । "हरये नमः" इत्येतद्घटकं **हरये** इति चतुर्थ्यन्तम् । एवं "विष्णवे नमः" इत्येतद्घटकं **विष्णवे** इति पदम् । नयतीति **नायकः** = प्रभुः । **पावकः** = अग्निः ॥ Sudha ----- **समसम्बन्धीति ।** समानामिति यदि 'कर्मणि षष्ठी', तर्हि स्थान्यादिभिः समसंख्यानां यत्र विधानं तत्रैव यथासंख्यमित्यस्य प्रवृत्तिः, यथा, **एचोऽयवायावः** (6.1.78) इत्यत्र, न तु **समूलाकृतजीवेषु हन्कृञ्ग्रहः** (3.4.36) इत्यत्र । तत्र विधेयस्य णमुल्-इत्यस्य एकत्वात् । अतः समानामिति 'सम्बन्धे षष्ठी' इति भावः । **हरये इति ।** "हरे-ए" इति स्थिते, **एचोऽयवायावः** (6.1.78) इत्यनेन एच्-प्रत्याहारघटकः 'हरे' इत्यत्र रेफोत्तरवर्ती एकारः, तस्य स्थाने 'अय' आदेशो जातः, अच्-प्रत्याहारघटक एकारे परे । तेन "हरय्-ए" इति जाते , अज्झीनं परेण संयोज्यम्, "हरये" इति सिद्धम् । **विष्णवे इति** । "विष्णो-ए" इति स्थिते **एचोऽयवायावः** (6.1.78) इत्यनेन अचि एकारे परे "विष्णो" अत्रस्थो य ओकारः, तस्य स्थाने अव्-आदेशः कॄतः । "विष्णव्-ए" इति जाते मिलित्वा "विष्णवे" इति रूपं सिद्धम् । **नायक इति ।** "नै-अक:" अत्र आय्-आदेशः, "पौ-अकः" अत्र आव्-आदेशः **एचोऽयवायावः** (6.1.78) इत्यनेन इति भावः ॥