13009: तस्य लोपः ================ **Padacheda:** तस्य | S | 6 | 1 | लोपः | S | 1 | 1 | Sutrartha --------- **इत्संज्ञकवर्णस्य लोपः भवति ।** व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा **उपदेशेऽजनुनासिक इत्** (1.3.2) इत्यस्मात् **लशक्वतद्धिते** (1.3.8) इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । एतैः सर्वैः सूत्रैः जायमानानाम् इत्संज्ञकवर्णानाम् **तस्य लोपः** (1.3.9) इति प्रकृतसूत्रेण लोपः विधीयते । लोपे कृते यः अंशः अवशिष्यते, तस्यैव अग्रे प्रक्रियायाम् प्रयोगः भवति । कानिचन उदाहरणानि एतानि - 1) 'डुपचँष्' इत्यस्मिन् धातौ 'डु' इत्यस्य **आदिर्ञिटुडवः** (1.3.5) इत्यनेन ; ठकारोत्तरस्य अकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इत्यनेन, तथा च 'ष्' इत्यस्य **हलन्त्यम्** (1.3.3) इत्यनेन इत्संज्ञा भवति । एतेषां सर्वेषाम् प्रक्रियायाः प्रारम्भे एव **तस्य लोपः** (1.3.9) इत्यनेन लोपः जायते । लोपे कृते 'पच्' इति यद् अवशिष्यते, तस्यैव अग्रे प्रक्रियायाम् प्रयोगः भवति । यथा, 'पच्' धातोः अनीयर्-प्रत्ययान्तरूपस्य प्रक्रिया इयम् — .. code-block:: text डुपचष् (पाके, भ्वादिः) → पच् [ 'डु' इत्यस्य **आदिर्ञिटुडवः** (1.3.5) इत्यनेन ; चकारोत्तरस्य अकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इत्यनेन, तथा च 'ष्' इत्यस्य **हलन्त्यम्** (1.3.3) इत्यनेन इत्संज्ञा । एतेषां सर्वेषाम् **तस्य लोपः** (1.3.9) इत्यनेन लोपः भवति ।] → पच् + अनीयर् [**तव्यत्तव्यानीयरः** (3.1.96) इति अनीयर्-प्रत्ययः] → पच् + अनीय [अनीयर्-प्रत्यये विद्यमानस्य रेफस्यापि **हलन्त्यम्** (1.3.3) इत्यनेन इत्संज्ञा, तथा च **तस्य लोपः** (1.3.9) इत्यनेन लोपः भवति । ] → पचनीय 2) 'षाकन्'-इति कृत्संज्ञकप्रत्ययस्य आदौ षकारस्य **षः प्रत्ययस्य** (1.3.6) इत्यनेन तथा च अन्तिनकारस्य **हलन्त्यम्** (1.3.2) इत्यनेन इत्संज्ञा भवति, अतः द्वयोः अपि **तस्य लोपः** (1.3.9) इत्यनेन लोपे कृते 'आक' इति दृश्यरूपम् अग्रे प्रक्रियायां भागं गृह्णाति । यथा — .. code-block:: text जल्पति इति शीलमस्य (कृद्वृत्तिः) → जल्पँ (व्यक्तायां वाचि) → जल्प् [पकारोत्तरस्य अकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः] → जल्प् + षाकन् [**जल्पभिक्षकुट्टलुण्टवृङः षाकन्** (3.2.155) इति सूत्रेण जल्प्-धातोः ताच्छीलिकः षाकन्-प्रत्ययः] → जल्प् + आक [षकारस्य **षः प्रत्ययस्य** (1.3.6) इति इत्संज्ञा । नकारस्य **हलन्त्यम्** (1.3.2) इति इत्संज्ञा । द्वयोः अपि **तस्य लोपः** (1.3.9) इति लोपः] → जल्पाक 3) 'ण' इति तद्धितप्रत्ययस्य आदौ विद्यमानस्य णकारस्य **चुटू** (1.3.7) इत्यनेन इत्संज्ञा भवति, ततः च **तस्य लोपः** (1.3.9) इत्यनेन लोपः विधीयते । णकारस्य लोपे कृते अवशिष्टः 'अ' इति अंशः एव प्रक्रियायाम् अग्रे प्रयुज्यते । यथा, 'छत्रम् अस्य शीलम्' इत्यस्मिन् अर्थे 'छत्र' शब्दात् **छत्रादिभ्यो णः** (4.4.62) इत्यनेन ण-प्रत्यये कृते इयम् प्रक्रिया भवति‌ — .. code-block:: text छत्रम् शीलम् अस्य इति = छत्र + ण [ **छत्रादिभ्यो णः** (4.4.62) इत्यनेन प्रथमासमर्थात् 'छत्रम्' इति शब्दात् ण-प्रत्ययः भवति । अग्रे तद्धितान्तस्य **कृत्तद्धितसमासाश्च** (1.2.46) इत्यनेन प्रातिपदिकसंज्ञायां कृतायाम्, **सुपो धातुप्रातिपदिकयोः** (2.4.71) इत्यनेन छत्र-शब्दात् विहितस्य सुँ-प्रत्ययस्य लोपः भवति ] → छत्र + अ [ण-प्रत्ययस्य आदौ विद्यमानस्य णकारस्य **चुटू** (1.3.7) इत्यनेन इत्संज्ञा भवति । **तस्य लोपः** (1.3.9) इत्यनेन अयम् इत्संज्ञकवर्णः लुप्यते ।] → छात्र + अ [णित्-प्रत्यये परे **तद्धितेष्वचामादेः** (7.2.117) इति अङ्गस्य आदिवृद्धिः] → छात्र् + अ [रेफोत्तरस्य अकारस्य **यस्येति च** (6.4.148) इति लोपः] → छात्र 4) 'घञ्' इति कृत्प्रत्ययस्य आदौ विद्यमानस्य घकारस्य **लशक्वतद्धिते** (1.3.8) इत्यनेन, तथा च अन्ते विद्यमानस्य ञकारस्य **हलन्त्यम्** (1.3.3) इत्यनेन इत्संज्ञा भवति । द्वयोः अपि **तस्य लोपः** (1.3.9) इत्यनेन लोपः विधीयते । लोपे कृते अवशिष्टम् 'अ' इति दृश्यरूपम् एव अग्रे प्रक्रियायाम् प्रयुज्यते । यथा, 'पच्'धातोः घञ्-प्रत्यये परे 'पाक' इति रूपम् एतादृशं सिद्ध्यति — .. code-block:: text पचनम् इत्येव = पच् + घञ् [**भावे** (3.3.18) इत्यनेन भावे घञ्-प्रत्ययः] → पच् + अ ['घञ्'प्रत्यये विद्यमानस्य घकारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा । ञकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । द्वयोः अपि **तस्य लोपः** (1.3.9) इति लोपः] → पाच् + अ [ञित्-प्रत्यये परे **अत उपधायाः** (7.2.116) इति उपधावृद्धिः] → पाक् + अ [घित्-प्रत्यये परे **चजोः कु घिण्ण्यतोः** (7.3.52) इति चकारस्य कुत्वम् ककारः] → पाक 5) 'दृशिँर्' इत्यस्य 'इँर्' इति समुदायस्य अनेन वार्त्तिकेन इत्संज्ञा भवति । अग्रे अस्य इत्संज्ञकसमुदायस्य **तस्य लोपः** (1.3.9) इत्यनेन लोपः अपि भवति । 'दृश्' इति अवशिष्टः अंशः अग्रे प्रक्रियायाम् भागं स्वीकरोति । यथा, दृश्-धातोः अनीयर्-प्रत्यये परे 'दर्शनीय' इति रूपम् एतादृशं सिद्ध्यति — .. code-block:: text दृशिँर् (प्रेक्षणे, भ्वादिः) → दृश् [दृशिँर्-धातौ विद्यमानस्य 'इँर्' इति अंशस्य अनेन वार्त्तिकेन इत्संज्ञा भवति । **तस्य लोपः** (1.3.9) इत्यनेन अग्रे तस्य लोपः जायते ] → दृश् + अनीयर् [**तव्यत्तव्यानीयरः** (3.1.96) इति अनीयर्-प्रत्ययः] → दृश् + अनीय [अनीयर्-प्रत्यये विद्यमानस्य रेफस्यापि **हलन्त्यम्** (1.3.3) इत्यनेन इत्संज्ञा, तथा च **तस्य लोपः** (1.3.9) इत्यनेन लोपः भवति । ] → दर्श् + अनीय [**पुगन्तलघूपधस्य च** (7.3.86) इति उपधागुणः । **उरण् रपरः** (1.1.51) इति सः रपरः] → दर्शनीय **सूत्रे 'तस्य' इति ग्रहणस्य प्रयोजनम्** **तस्य लोपः** (1.3.9) इति सूत्रे 'तस्य' इति शब्दः प्रयुक्तः अस्ति । अस्य प्रयोजनम् अस्ति — सम्पूर्णस्य इत्संज्ञासमुदायस्य लोपविधानम् । यदि अत्र केवलम् 'लोपः' इत्येव सूत्रम् क्रियते, तर्हि **अलोऽन्त्यस्य** (1.1.52) इत्यनेन इत्संज्ञकसमुदायस्य (इत्युक्ते, ञि/टु/डु/इँर्-इत्येतेषाम्) केवलम् अन्तिमवर्णस्यैव लोपः सम्भवेत्, न हि सम्पूर्णस्य समुदायस्य । तादृशम् मा भूत्, अतः अस्मिन् सूत्रे 'तस्य' इति शब्दस्य ग्रहणं कृतं दृश्यते । वस्तुतस्तु, अत्र कश्चन अन्यः अपि शास्त्रविषयः अस्ति । **अलोऽन्त्यस्य** (1.1.52) इति सूत्रस्य भाष्ये भाष्यकारैः **नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे** (परिभाषा 105) इति काचित् परिभाषा पाठिता दृश्यते । अनया परिभाषया — *अनर्थकस्य समुदायस्य स्थाने उक्तः आदेशः सर्वस्यैव समुदायस्य स्थाने भवति, न केवलं तस्य अन्तिमवर्णस्य स्थाने * — इति कश्चन सिद्धान्तः दीयते । अस्य सिद्धान्तस्य पक्षे अस्मिन् सूत्रे 'तस्य' ग्रहणम् विना अपि 'ञि', 'टु', 'डु', 'इँर्' इत्यत्र सर्वत्र सम्पूर्णस्यैव समुदायस्य लोपः सम्भवति, यतः एते सर्वे अनर्थवर्णसमुदायाः सन्ति । अतः अस्य सिद्धान्तस्य पक्षे प्रकृतसूत्रे 'तस्य' इति ग्रहणम् अपि अनावश्यकम् एव वर्तते । Sutrartha (English) ------------------- The इत् letter is elided during the प्रक्रिया. Vasu English Summary -------------------- Of this, (namely of that which has been called इत् ), there is elision. Vasu English Translation ------------------------ Of this, (namely of that which has been called इत् ), there is elision. This *sutra* declares the function of इत्; namely it is a mere indicatory letter, and must be rejected. It is useful only as a mnemonic and is not a part of the term. The word *tasya* in the *sutra* indicates that the substitution of *lopa* must be in the place of the whole term called इत्, and not only in the place of the final letter, which last is the general rule (see. (1.1.52)). Therefore, the whole of ञि, टु and डु is rejected and not only their finals. Bhashya ------- तस्य लोपः तस्यग्रहणं किमर्थम् ?। इत्संज्ञकः प्रतिनिर्दिश्यते । नैतदस्ति प्रयोजनम् । प्रकृतमिदिति वर्तते । क्व प्रकृतम् ?। उपदेशेऽजनुनासिक इद् (1.3.2) इति । तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः । अर्थाद्विभक्तिविपरिणामो भविष्यति । तद्यथा - उच्चानि देवदत्तस्य गृहाणि, आमन्त्रयस्वैनम् । देवदत्तमिति गम्यते । देवदत्तस्य गावोऽश्वा हिरण्यं च, आढ्यो वैधेयः । देवदत्त इति गम्यते । पुरस्तात्षष्ठीनिर्दिष्टं सदर्थाद् द्वितीयानिर्दिष्टं, प्रथमानिर्दिष्टं च भवति । एवमिहापि पुरस्तात्प्रथमानिर्दिष्टं सदर्थात्षष्ठीनिर्दिष्टं भविष्यति । इदं तर्हि प्रयोजनम् । येऽनेकाल इत्संज्ञास्तेषां लोपः सर्वादेशो यथा स्यात् । अथ क्रियमाणेपि वै तस्यग्रहणे कथमिव लोपः सर्वादेशो लभ्यः । लभ्य इत्याह । कुतः ?। वचनप्रामाण्यात् । तस्यग्रहणसार्मथ्यात् । इतो लोपे णल्क्त्वानिष्ठासूपसंख्यानमित्प्रतिषेधात् ॥ 1 ॥ इतो लोपे णत्क्त्वानिष्ठासूपसंख्यानं कर्तव्यम् । णल् - अहं पपच । क्त्वा - देवित्वा सेवित्वा । निष्ठा - शयितः शयितवान् । किं पुनः कारणं न सिद्ध्यति ? इत्प्रतिषेधात् । प्रतिषिध्यतेऽत्रेत्संज्ञा । णलुत्तमो णिद्वा भवति । क्त्वा सेण्न किद्भवति । निष्ठा सेण्न किद्भवतीति । सिद्धं तु णलादीनां ग्रहणप्रतिषेधात् ॥ 2 ॥ सिद्धमेतत् । कथम् ? णलादीनां ग्रहणानि प्रतिषिध्यन्ते । णलुत्तमो वा णिद्ग्रहणेन गृह्यते । क्त्वा सेण्न किद्ग्रहणेन गृह्यते । निष्ठा सेण्न किद्ग्रहणेन गृह्यत इति । निर्दिष्टलोपाद्वा ॥ 3 ॥ निर्दिष्टलोपाद्वा सिद्धमेतत् । अथवा निर्दिष्टस्याऽयं लोपः क्रियते तस्मात्सिद्धमेतत् । तत्र तुस्मानां प्रतिषेधः ॥ 4 ॥ तत्र तुस्मानां प्रतिषेधो वक्तव्यः । तस्मात् तस्मिन् । यस्मात् यस्मिन् । वृक्षाः प्लक्षाः । अचिनवम्। असुनवम्। अकरवम् । न वोच्चारणसार्मथ्यात् ॥ 5 ॥ न वा वक्तव्यः । किं कारणम् ? उच्चारणसार्मथ्यादत्र लोपो न भविष्यति । अनुबन्धलोपे भावाभावयोर्विप्रतिषेधादप्रसिद्धिः ॥ 6 ॥ अनुबन्धलोपे भावाभावयोर्विरोधादप्रसिद्धिः । न ज्ञायते केनाऽभिप्रायेण प्रसजति, केन निवृत्तिं करोतीति । सिद्धं त्वपवादन्यायेन ॥ 7 ॥ सिद्धमेतत् । कथम् ?। अपवादन्यायेन ॥ किं पुनरिह तथा यथोत्सर्गापवादौ ?। भावो हि कार्यार्थोऽनन्यार्थो लोपः ॥ 8 ॥ कार्यं करिष्यामीत्यनुबन्ध आसज्यते, कार्यादन्यन्मा भूदिति लोपः । अथ यस्यानुबन्ध आसज्यते किं स तस्यैकान्तो भवत्याहोस्विदनेकान्तः ?। एकान्तस्तत्रोपलब्धेः ॥ 8 ॥ एकान्त इत्याह । कुतः ?। तत्रोपलब्धेः । तत्रस्थो ह्यसावुपलभ्यते । तद्यथा - वृक्षस्था शाखा वृक्षैकान्त उपलभ्यते । तत्राऽसरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशोऽनाकारान्तत्वात् ॥ 9 ॥ तत्राऽसरूपविधौ दोषो भवति - कर्मण्यण् (3.2.1) आतोऽनुपसर्गे कः (3) इति कविषयेऽणपि प्राप्नोति। ॥ सर्वादेशे च दोषो भवति - दिव औत् औत्सर्वादेशः प्राप्नोति ॥ दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः - अदाब्दैपौइति वक्तव्यम् । किं पुनः कारणं न सिद्ध्यति ?। अनाकारान्तत्वात् । ननु चात्त्वे कृते भविष्यति । तद्ध्यात्त्वं न प्राप्नोति । किं कारणम् ? अनेजन्तत्वात् ॥ अस्तु तर्ह्यनेकान्तः । अनेकान्ते वृत्तिविशेषः ॥ 10 ॥ यद्यनेकान्तो वृत्तिविशेषो न सिद्ध्यति । किति णितीति कार्याणि न सिद्ध्यन्ति । किं हि स तस्येद्भवति, येनेत्कृतं स्यात् ?। एवं तर्ह्यनन्तरः । अनन्तर इति चेत्पूर्वोत्तरयोरित्कृतप्रसङ्गः ॥ 11 ॥ अनन्तर इति चेत्पूर्वोत्तरयोरित्कृतं प्राप्नोति । वुञ्ञ्छण् । सिद्धं तु व्यवसितपाठात् ॥ 12 ॥ सिद्धमेतत् । कथम् ?। व्यवसितपाठः कर्तव्यः । वुञ्ञ् छण् ॥ स चावश्यं पाठः कर्तव्यः । इतरथा ह्येकान्तेऽपि सन्देहः ॥ 13 ॥ अक्रियमाणे व्यवसितपाठे एकान्तेऽपि सन्देहः स्यात् । तत्र न ज्ञायते किमयं पूर्वस्य भवत्याहोस्वित्परस्येति ॥ सन्देहमात्रमेतद्भवति, सर्वसन्देहेषु चेदमुपतिष्ठते व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति, पूर्वस्येति व्याख्यास्यामः । वृत्ताद्वा ॥ 14 ॥ वृत्ताद्वा सिद्धमेतत् । वृद्धिमन्तमाद्युदात्तं दृष्ट्वा ञ्ञिदिति व्यवसेयम् । अन्तोदात्तं दृष्ट्वा किदिति। । युक्तं पुनर्यद्वृत्तनिमित्तको नामाऽनुबन्धः स्यान्नाऽनुबन्धनिमित्तकेन नाम वृत्तेन भवितव्यम् । वृत्तनिमित्तक एवानुबन्धः । वृत्तज्ञो ह्याचार्योऽनुबन्धानासजति । उभयमिदमनुबन्धेषूक्तमेकान्ता अनेकान्ता इति, किमत्र न्याय्यम् ?। एकान्ता इत्येव न्याय्यम् । कुत एतत् ? अत्र हि हेतुर्व्यपदिष्टो यच्च नाम सहेतुकं तन्न्याय्यम् । ननु चोक्तं तत्राऽसरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशोऽनाकारान्तत्वादिति । असरूपविधौ तावन्न दोषः । आचार्यप्रवृत्तिर्ज्ञापयति - नानुबन्धकृतमसारूप्यं भवतीति, यदयं ददातिदधात्योर्विभाषा (3.1.13) इति शास्ति ॥ यदप्युक्तम् - सर्वादेश इति । तत्राप्याचार्यप्रवृत्तिर्ज्ञापयति - नानुबन्धकृतमनेकाल्त्वं भवतीति, यदयं शित्सर्वस्य (1.1.55) इत्याह ॥ यदप्युक्तम् - दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः इति । न कर्तव्यः । आचार्यप्रवृत्तिर्ज्ञापयति नानुबन्धकृतमनेजन्तत्वं भवतीति, यदयमुदीचां माङो व्यतीहारे (3.4.19) इति मेङः सानुबन्धकस्याऽऽत्त्वभूतस्य ग्रहणं करोति ॥ 9 ॥ Kashika ------- तस्येत्संज्ञकस्य लोपो भवति। तथा चैवोदाहृतम्। तस्यग्रहणं सर्वलोपार्थम्। अलोऽन्त्यस्य मा भूत् — **आदिर्ञिटुडवः** (१.३.५) इति॥ Siddhanta Kaumudi ----------------- तस्येतो लोपः स्यात् । इति यवयोर्लोपो न । उच्चारणसामर्थ्यात् । एवं च इत्संज्ञापीह न भवति । हरये । विष्णवे । नायकः । पावकः ॥ Laghu Siddhanta Kaumudi ----------------------- तस्येतो लोपः स्यात्। णादयोऽणाद्यर्थाः॥ Laghu Shabdendushekhar ---------------------- **तस्य लोपः** । **उपदेशेऽजनुनासिक इत्** (१.३.२) इत्यत इदित्यनुवृत्त्या विभक्तिविपरिणामेन च सिद्धौ तस्य ग्रहणं सर्वलोपार्थम् । तेन ञिटुडूनामन्त्यस्य लोपो न । "नानर्थके" (** नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे ** (PB१०५)) इति परिभाषा तु भाष्ये प्रत्याख्यातैवेति दिक् । **न भवतीति** । फलाभावादिति भावः ॥ Balamanorama ------------ **तस्य लोपः** - एतेष्वादेशेषु यकारवकारयोर्हलन्त्यमितीत्संज्ञायां लोपमाशङ्कितुमाह — तस्य लोपः । इत्संज्ञाप्रकरणान्ते इदं सूत्रम् । तत्र तच्छब्दः सन्निहितमितं परामृशति । तदाह — तस्येतीति । इत्यनेन सूत्रेण यवयोर्लोपो न शङ्कनीय इत्यर्थः । कुत इत्यत आह — उच्चारणेति । यद्यत्र यवयोर्लोपः स्यात्तर्हि तयोः सूत्रेऽनुच्चारणमेव स्यात्,प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वर॑मिति न्यायादिति भावः । तर्हि किमनयोरित्संज्ञयेत्यत आह — एवंचेति । उक्तप्रकारेण लोपाऽभावे सतीत्संज्ञापीह यकारे वकारे च न भवति, फलाऽभावादित्यर्थः । क्रमेणोदाहस्ति — हरय इत्यादिना । हरे — ए,विष्णो-ए, नै-अकः, पौ-अक इति स्थितेषु एकारादीनां क्रमादयादयः । Padamanjari ----------- तस्य ग्रहणं किमर्थम्, यावताऽभावो लोपः, स च कस्यचिदेव भवति,तत्र प्रकरणादित्संज्ञकस्यैव लोपो भविष्यतीत्यत आह-तस्य ग्रहणमित्यादि। आदिर्ञिटुअडव इति । असति तस्य ग्रहणे येऽनेकाल इत्संज्ञका ञिप्रभृतयस्तेष्वलोऽन्त्यस्य लोपः स्यात्, तस्य ग्रहणसामर्थ्यातु सर्वस्य भविष्यति। एतच्च'नानर्थके' लोन्त्यस्य विधीःऽ इत्यनाश्रित्योक्तम्॥ Nyaas ----- अथ किमर्थम् `तस्य` इत्युच्यते, यवातेत्संज्ञायाः प्रकृतत्वाद्यस्येत्संज्ञा विहिता सामर्थ्यात्तस्यैव लोपो भविष्यतीति आह - `तस्यग्रहणम्` इत्यादि। कः पुनरित्संज्ञको योऽलोन्त्यस्य निवृत्त्यर्थं तस्यग्रहणं प्रयोजनतीत्याह - `आदिर्ञिटुडवः` इति। असति तस्यग्रहणे, एषामपि ञिप्रभृतीनाम् **अलोऽन्त्यस्य** (1.1.52) इति वचनादन्त्यस्य लोपः स्यात्। तस्यग्रहणेन तु प्रकृत इत्संज्ञके सन्निधापिते सर्वस्य लोपो भवति, नान्त्यस्य; अन्यथा हि तस्यग्रहणमनर्थकं स्यात्। यदि तु `नानर्थकेऽलोऽन्त्यविधिः` (व्या।प।62) इत्येषा परिभाषाऽऽश्रीयते, तदा तस्यग्रहणमकर्तुं शक्यते। तत् क्रियते विस्पष्टार्थम्। Prakriyasarvasvam ----------------- इति लोपः । यस्येत्संज्ञा तस्य लोपः स्यादित्यर्थः । Sarala ------ **तस्येति** । **तस्य** - षष्ठ्यन्तम्, **लोपः** - प्रथमान्तम् । इत्सञ्ज्ञाप्रकरणान्ते हि इदं सूत्रम्, तत्र तच्छब्दः सन्निहितमितं परामृशति, तदाह - **तस्येत इति** । तस्य इत्यस्यार्थः "इत" इति । इत्सञ्ज्ञकस्येत्यर्थः । **उपदेशेऽजनिनासिक इत्** (१.३.२) इति सूत्रादित्पदानुवृत्त्या षष्ठ्या विपरिणामेन च "इतो लोप" इत्यर्थस्य सम्भवेऽपि "तस्ये"ति ग्रहणं - यस्य इत्सञ्ज्ञा तस्य सर्वस्य लोपार्थम् । तेन **आदिर्ञिटुडवः** (१.३.५) इत्यनेनेत्सञ्ज्ञकानां ञिटुडूनां सर्वेषां लोपः सिद्ध्यति । अन्यथाऽलोन्त्यपरिभाषयाऽन्त्यस्यैव (इकारोकारादेः) लोपः स्यात् । नच "नानर्थकेऽलोन्त्यविधि"रिति निषेधादेव नान्त्यस्य लोप इति "तस्ये"ति पदं व्यर्थमिति वाच्यं, तस्याः परिभाषाया भाष्ये प्रत्याख्यातत्वात् । ननु णादीनां हलन्त्यमित्यनेन इत्सञ्ज्ञायां लोपापत्तिरत आह - **णादय इति** । "अइउण्" "ऋलृक्" इत्यादिचतुर्दशसूत्रीघटका इत्सञ्ज्ञका अन्त्या णादयो लकारान्ता वर्णाः - **अणाद्यर्थाः** = अण्-अक्-अच्-इत्यादिप्रत्याहारसिद्ध्यर्थाः, न तु लोपार्था इत्यर्थः । एवञ्च तेषु "तस्य लोप" इति लोपो न प्रवर्त्तते इत्याशयः ॥ Sudha ----- **णादयोऽणाद्यर्था इति ।** अण् आदिर्येषां तेऽणादयस्तेऽर्थाः प्रयोजनं येषान्तेऽणाद्यर्थाः । णादयः — ण्-क्-ङ्-च्-प्रभृतयः — इत्संज्ञावर्णाः अणादिप्रत्याहारप्रयोजका इति यावत् ॥