13004: न विभक्तौ तुस्माः ======================== **Padacheda:** न | S | 0 | 0 | विभक्तौ | S | 7 | 1 | तुस्माः | S | 1 | 3 | Sutrartha --------- **विभक्तिसंज्ञकप्रत्ययस्य औपदेशिकस्वरूपे विद्यमानाः - (1) तवर्गीयवर्णाः, (2) सकारः (3) मकारः - एते इत्संज्ञकाः न भवन्ति ।** व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा **उपदेशेऽजनुनासिक इत्** (1.3.2) इत्यस्मात् **लशक्वतद्धिते** (1.3.8) इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् तृतीयम् सूत्रम् । एतत् **इत्संज्ञानिषेधसूत्रम्** अस्ति, यतः अनेन सूत्रेण इत्संज्ञायाः निषेधः क्रियते । **'विभक्ति'संज्ञकप्रत्ययानाम् औपदेशिकस्वरूपस्य अन्ते विद्यमानाः तवर्गीयवर्णाः, सकारः तथा मकारः **हलन्त्यम्** (1.3.3) इत्यनेन इत्संज्ञकाः न भवन्ति** - इति अस्य सूत्रस्य आशयः । **विभक्तिसंज्ञा** विभक्तिः इति व्याकरणविशिष्टा काचित् संज्ञा । अष्टाध्याय्यां 'विभक्तिः' इति संज्ञा द्वयोः स्थलयोः पाठिता अस्ति — 1. **विभक्तिश्च** (1.4.104) इति सूत्रेण सर्वे (एकविंशतिः) सुप्-प्रत्ययाः, सर्वे (अष्टादश) तिङ्-प्रत्ययाः च 'विभक्ति'संज्ञां प्राप्नुवन्ति । यथा - जस्, अम्, शस्, भ्याम्, तिप्, तस्, झि - एते सर्वे प्रत्ययाः विभक्तिसंज्ञकाः भवन्ति । 2. तद्धितप्रकरणे **प्राग्दिशो विभक्तिः** (5.3.1) अस्मिन् अधिकारे पाठिताः सर्वे तद्धितप्रत्ययाः विभक्तिसंज्ञकाः भवन्ति । यथा - दानीम्, एद्युस्, द्यस्, आदयः । **विभक्तिसंज्ञकानाम् अन्तिमवर्णस्य इत्संज्ञानिषेधः** सर्वेषाम् विभक्तिसंज्ञकप्रत्ययानाम् औपदेशिकस्वरूपे (मूलस्वरूपे) अन्ते विद्यमानाः तवर्गीयवर्णाः (त्, थ्, द्, ध्, न्), सकारः तथा मकारः - एते इत्संज्ञां नैव प्राप्नुवन्ति - इति अस्य सूत्रस्य आशयः । **हलन्त्यम्** (1.3.3) अनेन सूत्रेण प्राप्तायाः इत्संज्ञायाः अत्र निषेधः कृतः अस्ति । कानिचन उदाहरणानि एतानि — 1. द्वितीयैकवचनस्य प्रत्ययः **अम्** इति अस्ति । अस्य प्रत्ययस्य औपदेशिकस्वरूपे अन्ते मकारः विद्यते, अतः अस्य **हलन्त्यम्** (1.3.3) इत्यनेन इत्संज्ञा भवितुम् अर्हति । परन्तु अयं विभक्तिसंज्ञकःप्रत्ययः, अतः **न विभक्तौ तुस्माः** (1.3.4) सूत्रेण मकारस्य इत्संज्ञानिषेधः भवति । इत्युक्ते, 'अम्' इत्यत्र मकारः इत्संज्ञकः नास्ति । अतएव प्रक्रियायाम् **तस्य लोपः** (1.3.9) इत्यनेन मकारः न लुप्यते, अतश्च द्वितीयैकवचनस्य रूपेषु (यथा, रामम्, मुनिम् इत्यत्र) अस्य श्रवणम् भवति । 2. पञ्चम्येकवचनस्य 'ङसि' प्रत्ययः यदा अकारान्तात् अङ्गात् विधीयते, तदा तस्य 'आत्' इति आदेशः भवति । अत्रापि आदेशस्य औपदेशिकस्वरूपे तकारः अन्ते विद्यते, अतः **हलन्त्यम्** (1.3.3) इत्यनेन अस्य इत्संज्ञा प्राप्नोति । परन्तु 'ङस्' इत्यस्मात् विभक्तिसंज्ञकप्रत्ययात् प्राप्तः 'आत्' इति आदेशः अपि विभक्तिसंज्ञकः एव, अतः अस्मिन् आदेशे विद्यमानस्य तकारस्य **न विभक्तौ तुस्माः** (1.3.4) इत्यनेन इत्संज्ञानिषेधः जायते । अतएव रामशब्दस्य पञ्चम्येकवचने 'रामात्' इत्यत्र तकारस्य उच्चारणम् अवश्यम् भवति । 3. **दानीं च** (5.3.18) अनेन सूत्रेण 'दानीम्' इति विभक्तिप्रत्ययः दीयते ।अस्य मकारस्य अपि **न विभक्तौ तुस्माः** (1.3.4) इत्यनेन इत्संज्ञानिषेधः भवति । अतएव 'इदानीम्' इति मकारान्तशब्दः सिद्ध्यति । 4. लट्लकारस्य परस्मैपदस्य प्रथमपुरुषद्विवचनस्य प्रत्ययः 'तस्' इति अस्ति । अस्मिन् विभक्तिसंज्ञके प्रत्यये विद्यमानस्य सकारस्य **न विभक्तौ तुस्माः** (1.3.4) इति इत्संज्ञानिषेधः भवति । अग्रे तस्य विसर्गादेशे कृते 'पठतः / गच्छतः' एतादृशानि रूपाणि सिद्ध्यन्ति । 5. लङ्लकारस्य उत्तमपुरुषैकवचनस्य 'अम्' इति प्रत्ययस्य अन्ते विद्यमानस्य मकारस्य **न विभक्तौ तुस्माः** (1.3.4) इति इत्संज्ञानिषेधः भवति । **न विभक्तौ तुस्माः** (1.3.4) इत्यस्य सूत्रस्य प्रसक्तिः केवलं विभक्तिसंज्ञकप्रत्ययानां विषये एव विद्यते, सर्वेषां विषये न । यथा , 'तुमुन्', 'श्नम्', 'तास्', 'ईयसुँन्' एतेषाम् औपदेशिकस्वरूपस्य अन्तिमवर्णः यद्यपि तवर्गीयवर्णः/सकारः/मकारः अस्ति, तथापि एते विभक्तिसंज्ञकाः न, अतः एतेषाम् अन्तिमवर्णस्य अवश्यम् इत्संज्ञा भवति । **सूत्रस्य अनित्यत्वम्** **न विभक्तौ तुस्माः** (1.3.4) इति सूत्रम् **अनित्यम्** अस्ति । इत्युक्ते, कुत्रचित् प्रत्ययस्य विभक्तिसंज्ञायाम् सत्याम् अपि तस्य अन्ते विद्यमानस्य तवर्गीयवर्णस्य उत मकारस्य इत्संज्ञा अवश्यं कृता दृश्यते । यथा, तद्धिताधिकारे **किमोऽत्** (5.3.12) इत्यत्र पाठितः 'अत्' प्रत्ययः यद्यपि विभक्तिसंज्ञकः अस्ति, तथापि अस्य अन्ते विद्यमानः तकारः इत्संज्ञकः भवति, अतः **तस्य लोपः** (1.3.9) इत्यनेन तस्य लोपः अपि क्रियते । **न विभक्तौ तुस्माः** (1.3.4) इत्यस्य अनित्यत्वस्य ज्ञापकम् अस्ति **इदमस्थमुः** (5.3.24) इति सूत्रम् । अस्मिन् सूत्रे आचार्यः 'थमु' इति विभक्तिसंज्ञकं प्रत्ययं पाठयति । अस्मिन् सूत्रे विद्यमानः मकारोत्तरः अकारः मकारस्य **हलन्त्यम्** (1.3.3) इत्यनेन जायमानायाः इत्संज्ञायाः बाधनार्थम् स्थापितः अस्ति । वस्तुतस्तु मकारस्य विषये **हलन्त्यम्** (1.3.3) इत्यनेन प्राप्ता इत्संज्ञा **न विभक्तौ तुस्माः** (1.3.4) इत्यनेनैव निषिध्यते । अतः 'थमु' इत्यस्य स्थाने 'थम्' इत्युच्यते चेदपि नैव दोषाय । तथापि आचार्यः मकारात् अनन्तरम् व्यर्थम् उकारं स्थापयति । अयम् उकारः व्यर्थः भूत्वा एतत् ज्ञापयति, यत् **न विभक्तौ तुस्माः** (1.3.4) इत्यनेन निर्दिष्टः इत्संज्ञानिषेधः कुत्रचित् विधीयते । **विभक्तिप्रत्ययानाम् आदेशाः** विभक्तिप्रत्ययानाम् ये आदेशाः विधीयन्ते, तेषु विद्यमानानाम् तवर्गीयवर्णानाम्, सकारस्य, मकारस्य च विषये वस्तुतः **न विभक्तौ तुस्माः** (1.3.4) इत्यनेन इत्संज्ञानिषेधः नैव प्रवर्तेत, यतः आदेशविधानसमये तु विभक्तिसंज्ञा नैव विद्यते, अपितु आदेशात् अनन्तरम् स्थानिवद्भावेन विभक्तिसंज्ञाविधानम् भवितुम् अर्हति । इत्युक्ते, आदेशसमये तु **हलन्त्यम्** (1.3.3) इत्यस्य प्रसक्तिः अस्त्येव । यथा, **अतो भिस ऐस्** (7.1.9) इत्यनेन भिस्-प्रत्ययस्य स्थाने जायमानस्य ऐस्-आदेशस्य आदेशविधानसमये विभक्तिसंज्ञा नास्ति अपितु आदेशात् अनन्तरम् स्थानिवद्भावेन विभक्तिसंज्ञा विधीयते । अतः आदेशविधानसमये तु **हलन्त्यम्** (1.3.3) इत्यनेन सकारस्य इत्संज्ञा अवश्यं भवेत् । एवमेव, **टाङसिङसामिनात्स्याः** (7.1.12) इत्यनेन ङसिँ-प्रत्ययस्य जायमानस्य आत्-आदेशस्य तकारः, तथा च **ङेराम्नद्याम्नीभ्यः** (7.3.116) इत्यनेन ङि-प्रत्ययस्य विधीयमानस्य आम्-आदेशस्य मकारः, एवमेव **तस्थस्थमिपां तान्तन्तामः** (3.4.101) इत्यनेन मिप्-प्रत्ययस्य आदेशस्वरूपस्य 'अम्' इत्यस्य मकारः - एते सर्वे वस्तुतः **हलन्त्यम्** (1.3.3) इत्यनेन इत्संज्ञकाः अवश्यं भवेयुः । परन्तु एतेषाम् सर्वेषाम् अपि इत्संज्ञानिषेधः एव इष्यते, नो चेत् 'रामैः, रामात्, नद्याम्, अपठम्' - एतादृशाणि रूपाणि नैव सिद्ध्येयुः । एतादृशः इत्संज्ञानिषेधः शास्त्रपद्धत्या कथं करणीयः इति अत्र प्रश्नः उदेति । अस्मिन् विषये व्याख्यानेषु कुत्रापि किमपि न लभ्यते । कानिचन समाधानानि प्रायः भवितुम् शक्नुयुः - अ) **न विभक्तौ तुस्माः** (1.3.4) इत्यत्र 'विभक्तौ' इत्यस्य अर्थः 'विभक्तिविषये' इति क्रियते चेत् विभक्तिसंज्ञकात् विहितस्य आदेशस्य विषये (आदेशस्य विभक्तिसंज्ञायाः अभावात् अपि) अस्य सूत्रस्य प्रसक्तिः ज्ञापयितुम् शक्यते । अनेन 'आत्', 'अम्' एतादृशेषु विद्यमानस्य अन्तिमवर्णस्य इत्संज्ञानिषेधः सम्भवति । आ) **न विभक्तौ तुस्माः** (1.3.4) इत्यत्र विद्यमानां 'विभक्ति'संज्ञाम् *भाविनीसंज्ञाम्* मत्वा 'यस्य शब्दस्य विभक्तिः इति संज्ञा अग्रे भविष्यति, तस्य विषये प्रारम्भे एव इदं सूत्रं प्रवर्तते' इति अर्थं स्वीकृत्य 'आत्', 'अम्' आदीनाम् आदेशानाम् विषये विभक्तिसंज्ञाविधानात् पूर्वमेव अनेन सूत्रेण इत्संज्ञानिषेधः भवितुम् अर्हति । इ) एतेषु सर्वेषु सूत्रेषु प्रश्लेषस्य आधारेण कश्चन अन्यः वर्णः अन्ते संस्थाप्ययितुम् शक्यते । यथा, **अतो भिस ऐस्** (7.1.9) इत्यस्य स्थाने 'अतो भिस ऐस्स्' इति सकारप्रश्लेषः । **टाङसिङसामिनात्स्याः** (7.1.12) इत्यस्य स्थाने 'टाङसिङसामिनात्त्स्याः' इति तकारप्रश्लेषः । **ङेराम्नद्याम्नीभ्यः** (7.3.116) इत्यत्र 'ङेराम्म्नद्याम्नीभ्यः' इति मकारप्रश्लेषः । **तस्थस्थमिपां तान्तन्तामः** (3.4.101) इत्यत्रापि 'तस्थस्थमिपां तान्तन्ताम्मः' इति मकारप्रश्लेषः । एतादृशाः प्रश्लेषाः क्रियन्ते चेत् प्रक्रियायाः प्रारम्भे प्रश्लिष्टवर्णस्य **हलन्त्यम्** (1.3.3) इत्यनेन इत्संज्ञां कृत्वा ततः अवशिष्टस्य अंशस्य आदेशविधानम् कर्तुम् शक्यते । ई) प्रयोजनं विना कुत्रापि इत्संज्ञा न भवति, अतः 'ऐस्, आत्, आम्, अम्' - एतादृशेषु आदेशेषु अन्तिमवर्णस्य इत्संज्ञाप्रयोजनाभावं मत्वा अपि इत्संज्ञानिषेधः वक्तुं शक्यते । Sutrartha (English) ------------------- The letters - त्, थ्, द्, ध्, न्, स्, म् - occurring in the औपदेशिक form of a विभक्ति are not called 'इत्' । Vasu English Summary -------------------- The final dental consonants and the final स् and म् are not इत् , in affixes called विभक्ति or inflective affixes. Vasu English Translation ------------------------ The final dental consonants and the final स् and म् are not इत् , in affixes called विभक्ति or inflective affixes. This is an exception to the previous *sutra* which declared all final consonants to be इत्. In case terminations, the final त्, थ्, द्, ध्, न्, स्, and म्, are not इत्. Thus the case termination of nominative plural is जस्. Here the final स्, though a consonant is not an इत्; and is not rejected, as in ब्राह्मणाः ॥ The word तु in the *sutra* means the letters of the class त by virtue of *sutra* 69 Chapter I.(see *ante*). The word *vibhakti* will be defined later on in *sutra* (1.4.104). These are terminations applied to nouns in declining them through various cases; and to verbs in conjugating them. Thus in *sutra* (7.1.12), (टाङसिङसामिनात्स्याः) the *vibhaktis* इन्, आत् and स्य replace टा, ङसि and ङस्. Here the final त् of the affix आत् is not indicatory and hence not rejected, as वृक्षात्. Similarly verbal terminations तस् and थस् as पचतः, पचथः ॥ So also the final म् as ताम् and तम् in अपचताम् and अपचतम् ॥ This exception applies only to *vibhaktis* and not to affixes in general. Thus the finals of यत् (III.1.97 अचोयत्;) युस् ((5.2.123), ऊर्णाया युस्) and श्रम् ((3.1.78) रुधादिभ्य श्रम् ।) are इत् and are rejected. This exception, however, does not apply to the *vibhakti* अत् (in (5.3.12) किमोऽत् or (3.4.106), इटोऽत्). In those two *sutras* the final त् of the *vibhakti* is इत्. The reason of this is, that the present *sutra* is an *anitya* *sutra*, i. e. a rule not of general application. In *sutra* (5.3.24), (इदमस्थमुः) we find, 'the word इदम् takes the *vibhakti* थमु in the sense of mode or manner.' As इद् + थमु = इत्थम्, 'in this manner.' Now थमु is a *vibhakti* by (5.3.1). (प्राग्दिशो विभक्तिः), the उ is इत्, the real *vibhakti* is थम्. Now had the present *sutra* been of universal application, then there would have been no necessity of adding this उ as indicatory letter, which has been evidently added to save the म् of थम् from becoming an इत्. This *sutra* is consequently an *antiya* *sutra*. Bhashya ------- न विभक्तौ तुस्माः विभक्तौ तवर्गप्रतिषेधोऽतद्धिते ॥ 1 ॥ विभक्तौ तवर्गप्रतिषेधोऽतद्धित इति वक्तव्यम् । इह मा भूत् - किमोऽत् (5.3.12) क्व प्रेप्सन्दीव्यसे क्वार्द्धमासा इति । स तर्हि प्रतिषेधो वक्तव्यः ? न वक्तव्यः । आचार्यप्रवृत्तिर्ज्ञापयति - न विभक्तौ तद्धिते प्रतिषेधो भवतीति, यदयम् - इदमस्थमुः (5.3.24) इति मकारस्येत्संज्ञापरित्राणार्थमुकारमनुबन्धं करोति । यद्येतज्ज्ञाप्यते इदानीमित्यत्रापि प्राप्नोति। । इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति । इदमस्तीत्कार्यं - मिदचोन्त्यात्परः (1.1.47) इति । आचामन्त्यात्परो यथा स्यात् । इश्भावे कृते नास्ति विशेषः मिदचोऽन्त्यात्परः इति वा परत्वे, प्रत्ययः परः इति वा । स एव तावदिश्भावो न प्राप्नोति । किं कारणम् ? प्राग्दिशः प्रत्ययेष्वित्युच्यते । कः पुनरर्हतीश्भावं प्राग्दिशः प्रत्ययेषु वक्तुम् । किं तर्हि ?। प्राग्दिशोऽर्थेष्विश्भावः, किं सर्वनामबहुम्योऽद्व्यादिभ्यः (5.3.2) प्रत्ययोत्पत्तिः । एवं तर्हि ततोऽप्ययं वक्तव्यः । ततश्च मिदचोन्त्यात्परत्वेन न सिध्यति । ननु चाऽत्राप्यत्वे कृते नास्ति विशेषः मिदचोऽन्त्यात्परः इति वा परत्वे, प्रत्ययः परः इति वा । तद्ध्यत्वं न प्राप्नोति । किं कारणम् ?। विभक्तावित्युच्यते । एवं तर्हि यकारान्तोदानीं करिष्यते। किं यकारो न श्रूयते ?। लुप्तनिर्दिष्टो यकारः ॥ 4 ॥ Kashika ------- पूर्वण प्राप्तायामित्संज्ञायां विभक्तौ वर्तमानानां तवर्गसकारमकाराणां प्रतिषेध उच्यते। तवर्ग — **टाङसिङसामिनात्स्याः** (७.१.१२) — वृक्षात्। प्लक्षात्। सकार — जस् — ब्राह्मणाः। तस्, थस् — पचतः, पचथः। मकार — अपचताम्। अपचतम्। विभक्ताविति किम्? **अचो यत्** (३.१.९७)। **ऊर्णाया युस्** (५.२.१२३)। **रुधादिभ्यःश्नम्** (३.१.७८)। **किमोऽत्** (५.३.१२), **इटोऽत्** (३.४.१०६) इत्यत्र प्रतिषेधो न भवति, अनित्यत्वादस्य प्रतिषेधस्य। **इदमस्थमुः** (५.३.२४) इत्युकारानुबन्धनिर्देशादनित्यत्वमुपलक्ष्यते॥ Siddhanta Kaumudi ----------------- विभक्तिस्थास्तवर्गसकारमकारा इतो न स्युः । इति सकारस्य नेत्त्वम् ॥ Laghu Siddhanta Kaumudi ----------------------- विभक्तिस्थास्तवर्गसमा नेतः। इति सस्य नेत्त्वम्। रामाः॥ Balamanorama ------------ **न विभक्तौ तुस्माः** - अथ जसः सकारस्यहलन्त्यम्मितीत्संज्ञायां लोपमाशङ्क्याह — न विभक्तौ । तु स् म एतेषां द्वन्द्वः । 'इत' इत्यनुवृत्तं बहुवचनान्ततया विपरिणम्यते । तदाह — विभक्तिस्था इत्यादिना । Tattvabodhini ------------- **न विभक्तौ तुस्माः** - न विभक्तौ ।हलन्त्य॑मितीत्संज्ञाप्राप्तौ निषेधारम्भः ।तु॑ इत्यस्योदाहरणं रामात्, पचेरन् । मकारस्य तु — रामम्, अद्राक्षम् । विभक्तौ किम् ।अचो यत् ऊर्णायां युस्,रुधादिभ्यः श्नम् । एतेष्वन्त्यस्येत्संज्ञा यथा स्यात् ।इदमस्थमु॑रित्यत्र मकारपरित्राणार्थमुकारानुबन्धासञ्जनादनित्योऽयमिति ज्ञायते । अन्यथाप्राग्दिशो विभक्ति॑-रिति थमो विभक्तित्वाद्दानीमो मकारस्येवानेनैव सूत्रेणेत्त्वनिषेधसिद्धेः किं तेनेति । तेनकिमोऽत् क्वेति सिद्धम् । Padamanjari ----------- वृक्षादिति तकारस्येत्संज्ञायाम्'तित्स्वरितम्' स्यात्। ननु चादेशोतरकालं स्थानिवद्भावेनास्य विभक्तिसंज्ञा, उपदेशानन्तरमेवेत्संज्ञा प्राप्नेति? सत्यम्; प्रतिषेधसामर्थ्यतु भाविन्यपि विभक्तित्वे प्रतिषेधो भविष्यति। वर्गग्रहणं किम्?वृक्षानित्यत्रापि यथा स्यात् क्व पुनरुपदेशे नकारोऽयमन्त्यः, म तावतस्य क्वचिदुपदेशः?'शसो न' इत्यत्र त्वकारो नकारस्येत्संज्ञापरित्राणार्थ इति शक्यं वक्तुम्। इह तर्हि'झस्य रन्' पचेरन्निति। ब्राह्यणा इति। रूपोदाहरणमेतत्। कार्योदाहरणं तु भवतः इति। अत्र'सिति च' इति पदत्वे जश्त्वं स्यात्। पचतः पचथ इत्यत्र प्रयोजनाभावादेव न भविष्यतीति शक्यं वक्तुम्। अपचतामित्यादि। तामादयस्तसादीनामन्त्यादचः परे स्युः। किमोऽत् इत्यस्य प्राग्दिशो विभक्तिः इति विभक्तित्वम्। इटोऽत् इत्यस्यापि स्थानिवद्भावेनेति तयोरपि प्रतिषेधः प्राप्नोति, तत्राह-किमोऽदित्यादि। अनित्यत्वं तु ठिदमस्थमुःऽ इति थमोरुकारोऽनुबन्धाद्विज्ञायते। क्वचितु वृतावेव ठिदमस्थमुःऽइत्युकारानुबन्धनिर्दशादनित्यत्वमुपलक्ष्यते इति पठ।ल्ते। इदानीं तदानीमिति। दानीमस्तु प्रतिष्रेधो भवत्येव। अनित्यत्वं हि ज्ञापितम्, न पुनः प्राग्दिशीयेष्वस्याप्रवृत्तिः॥ Nyaas ----- `वृक्षात्` इत्यत्र तकारस्येत्संज्ञायां सत्याम् `तित्स्वसितम्` ( (6.1.179) इति स्वरितत्वं स्यात्।`अपचतात्, अपचतम्` इति। पचेर्लङ्, `तस्तथस्थमिपां तान्तन्तामः` (3.4.101) इति तान्तमादेशौ भवतः। `किमोऽत्` (5.3.12) इत्यत्राच्छब्दस्य `प्राग् दिशो विभक्तिः` (5.3.1) इत्यस्य मकारस्येत्संज्ञापरित्राणार्थादुकारानुबन्धाद्विज्ञायते। नित्यत्वे हि सत्येतस्मादेव प्रतिषेधान्मकारस्येत्संज्ञा न भविष्यतीत्युकारानुबन्धग्रहणमनर्थकं स्यात्। Prakriyasarvasvam ----------------- विभक्तिस्थास्तवर्गसकारमकारा इतो न स्युः । अस्य निषेधस्यानित्यत्वात् । ‘किमोऽत्’ (५-३-१२) इति तकारास्तित्वदेव ॥ Sarala ------ **उपदेशेऽजनुनासिक इत्** (१.३.२) इत्यतः "इत्" इत्यनुवृत्तेराह - **इत इति** । इत्सञ्ज्ञका इत्यर्थः ॥ Sutra Prayogas -------------- * **श्रीमन्-मन्यो** (भट्टिकाव्यम्): `न विभक्तौ तुस्माः` इति इत्संज्ञानिषेधः।