13003: हलन्त्यम्
================
**Padacheda:** हल् | S | 1 | 1 |
अन्त्यम् | S | 1 | 1 |
Sutrartha
---------
**उपदेशस्य अन्तिमव्यञ्जनम् इत्संज्ञकं भवति ।**
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा **उपदेशेऽजनुनासिक इत्** (1.3.2) इत्यस्मात् **लशक्वतद्धिते** (1.3.8) इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् द्वितीयम् सूत्रम् । **उपदेशस्य अन्ते विद्यमानस्य व्यञ्जनस्य अनेन सूत्रेण इत्संज्ञा भवति** इति अस्य सूत्रस्य आशयः ।
**उपदेशः**
'उपदेश:' इति शब्देन आद्यमहर्षीणाम् (महेश्वर-पाणिनि-कात्यायन-पतञ्जलि-इत्येतेषाम्) उच्चारणस्य निर्देशः भवति । महेश्वरेण रचितानि सूत्राणि, पाणिनिना रचिताः शब्दपाठ-धातुपाठ-लिङ्गानुशासनादयः ग्रन्थाः, वार्त्तिककारेण कृतानि वार्त्तिकानि - एतानि सर्वाणि व्याकरणशास्त्रस्य आद्योच्चारणरूपेण स्वीक्रियन्ते । अतएव सर्वाणि माहेश्वरसूत्राणि, अष्टाध्याय्यां विद्यमानाः प्रत्ययाः, आदेशाः, आगमाः, धातुपाठे पाठिताः धातवः - एते सर्व अपि उपदेशाः सन्ति । उपदेश शब्दस्य व्याख्या एकया कारिकया अपि दीयते -
धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् ।
आगमाः प्रत्ययादेशाः उपदेशा प्रकीर्तिताः ।
धातुपाठ, सूत्रपाठः, गणपाठः, उणादिपाठः, वार्त्तिकपाठः, लिङ्गानुशासनम् - एतेषु ग्रन्थेषु पाठिताः शब्दाः, तथा च आदेशाः, आगमाः, प्रत्ययाः - एते सर्वे (तेषाम् मूलस्वरूपे) 'उपदेशः' नाम्ना ज्ञायन्ते — इति अस्याः कारिकायाः अर्थः । कानिचन उदाहरणानि एतानि —
1) **सर्वाणि माहेश्वरसूत्राणि** उपदेशसंज्ञकानि सन्ति । यथा, अइउण्, ऋऌक् - आदयः ।
2) **धातवः यस्मिन् स्वरूपे धातुपाठे निर्दिष्टाः वर्तन्ते, तस्मिन् स्वरूपे उपदेशसंज्ञकाः सन्ति** । यथा, कृ-धातोः धातुपाठे 'डुकृञ्' इति निर्देशः कृतः अस्ति, अतः 'डुकृञ्' इति कृ-धातोः उपदेशः । एवमेव, वन्द्-धातोः 'वदिँ' इति उपदेशः । नी-धातोः 'णीञ्' इति उपदेशः । गम्-धातोः 'गमॢँ' इति उपदेशः । केषाञ्चन धातूनाम् उपदेशः धातोः दृश्यरूपसदृशः एव अस्ति । यथा, 'भू' धातो' 'भू' इत्येव उपदेशः ।
3) **सर्वे प्रत्ययाः प्रत्ययाधिकारे यस्मिन् स्वरूपे पाठ्यन्ते, तस्मिन् स्वरूपे उपदेशसंंज्ञकाः सन्ति** । यथा, 'क्त्वा' इति 'त्वा'प्रत्ययस्य उपदेशः । 'तुमुन्' इति 'तुम्' प्रत्ययस्य उपदेशः ।
4) **सर्वे आदेशाः, आगमा च यथा सूत्रपाठे पाठिताः, तस्याम् अवस्थायाम् उपदेशाः सन्ति** । यथा - लङ्लकारे विहितस्य अकारस्य 'अट्' इति उपदेशः ।
एतादृशेषु सर्वेषु उपदेशेषु यत् अन्तिमम् व्यञ्जनम् तत् प्रकृतसूत्रेण इत्संज्ञकम् भवति ।
**इत्संज्ञा**
उपदेशस्य अन्तिमव्यञ्जनस्य **हलन्त्यम्** (1.3.2) इत्यनेन इत्संज्ञा भवति । कानिचन उदाहरणानि एतानि -
1. 'तुमुन्' प्रत्यये विद्यमानः अन्तिमः नकारः इत्संज्ञकः भवति ।
2. 'डुपचष्' अस्मिन् धातौ विद्यमानः षकारः इत्संज्ञकः भवति ।
3. 'भू' इत्यस्य अन्ते व्यञ्जनम् नैव विद्यते । अतः अस्य धातोः विषये **हलन्त्यम्** (1.3.3) सूत्रस्य प्रसक्तिः नास्ति ।
**इत्संज्ञकवर्णस्य आधारेण उपदेशस्य निर्देशः**
इत्संज्ञकम् वर्णम् आश्रित्य उपदेशस्य विशिष्टरूपेण निर्देशः भवितुम् अर्हति । यथा —
1. यस्मिन् उपदेशे लकारः इत्संज्ञकः अस्ति, सः **लित्** उपदेशः नाम्ना ज्ञायते । यथा, त्रल्, तसिल् एतौ लितौ प्रत्ययौ स्तः । 'लित्' इति शब्दस्य प्रयोगः **लिति** (6.1.193) इति सूत्रे कृतः दृश्यते ।
2. यस्मिन् उपदेशे मकारः इत्संज्ञकः अस्ति, सः **मित्** उपदेशः नाम्ना ज्ञायते । यथा श्नम्, नुम्, मुम् एते मितः उपदेशाः सन्ति । **मिदचोऽन्त्यात्परः** (1.1.47) अस्मिन् सूत्रे 'मित्'विशिष्टम् कार्यम् निर्दिष्टं दृश्यते ।
3. यस्मिन् उपदेशे ककारः इत्संज्ञकः अस्ति, सः **कित्** उपदेशः नाम्ना ज्ञायते । यथा, ठक्, क्त्वा, क्त्ववतुँ - एते कितः प्रत्ययाः । **किति च** (7.2.118), **अदो जग्धिर्ल्यप्ति किति** (2.4.36), **वचिस्वपियजादीनां किति** (6.1.15) एतादृशेषु सूत्रेषु 'कित्'प्रत्ययविशिष्टम् कार्यम् निर्दिष्टं दृश्यते ।
अनेनैव प्रकारेण **खित्**, **गित्**, **घित्**, **चित्**,**ञित्**,**टित्**,**णित्**, **तित्**, **नित्**, **पित्**, **रित्**, **लित्**, **सित्** इत्येतेषाम् शब्दानाम् अपि निर्देशः भिन्नेषु सूत्रेषु कृतः दृश्यते ।
उपदेशे विद्यमानस्यैव अन्तिम-हल्-वर्णस्य अनेन सूत्रेण इत्संज्ञा भवति, अन्येषु शब्देषु विद्यमानस्य अन्तिमव्यञ्जनस्य न - इति स्मर्तव्यम् । यथा, 'गम्' इत्यत्र मकारः यद्यपि अन्ते विद्यते, तथापि 'गम्' इति उपदेशः न (गमॢँ इति उपदेशः अस्ति) । अतः अत्र विद्यमानस्य मकारस्य इत्संज्ञा न भवति ।
**इत्संज्ञकवर्णस्य लोपः**
उपदेशेषु विद्यमानानाम् इत्संज्ञकवर्णानाम् प्रक्रियायाः प्रारम्भे एव **तस्य लोपः** (1.3.9) इत्यनेन नित्यम् लोपः भवति । इत्संज्ञकवर्णानां लोपे कृते यः अंशः अवशिष्यते, सः उपदेशस्य 'दृश्यरूपम्' इति नाम्ना ज्ञायते । यथा, 'तिप्' इति उपदेशे विद्यमानस्य इत्संज्ञक-पकारस्य लोपे कृते 'ति' इति यद् अवशिष्यते, तत् तिप्-प्रत्ययस्य दृश्यरूपम् ।
**इत्संज्ञायाः प्रयोजनम्**
अष्टाध्याय्याम् उपदेशेषु इत्संज्ञकवर्णानां संयोजनस्य अनेकानि प्रयोजनानि सन्ति । बहूनि कार्याणि इत्संज्ञकवर्णान् आश्रित्य एव प्रवर्तन्ते । The इत्-letters are like markers that decide whether a certain action will or will not happen in the prakriya. यथा, यस्मिन् तद्धितप्रत्यये ञकारः इत्संज्ञकः अस्ति, तस्मिन् प्रत्यये परे अङ्गस्य आदिवर्णस्य वृद्धिः भवति । यथा, 'दशरथस्य अपत्यम्' इत्यत्र दशरथशब्दात् इञ्-प्रत्यये कृते प्रक्रिया एतादृशी भवति -
.. code-block:: text
दशरथस्य अपत्यम्
= दशरथ + इञ् ['दशरथस्य' इति षष्ठीसमर्थात् **तस्यापत्यम्** (4.1.92) इत्यस्मिन् अर्थे **अत इञ्** (4.1.95) इति सूत्रेण इञ्-प्रत्ययः । ततः तद्धितान्तस्य **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा भवति, ततश्च **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति दशरथशब्दात् विहितस्य षष्ठ्येकवचनप्रत्ययस्य लोपः अपि विधीयते ।]
→ दशरथ + इञ् [ञकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । ततः **तस्य लोपः** (1.3.9) इति ञकारस्य लोपः । ]
→ दाशरथ + इ [ञित्-प्रत्ययः यस्मात् शब्दात् विधीयते, तस्य आदिस्वरस्य **तद्धितेष्वचामादेः** (7.2.117) इति वृद्धिः भवति । अतः अत्र दशरथशब्दस्य दकारोत्तस्य अकारस्य वृद्धिः आकारः विधीयते ।]
→ दाशरथ् + इ [**यस्येति च** (6.4.148) इति अन्तिम-अकारस्य लोपः]
→ दाशरथि
अनेन प्रकारेण सर्वेषाम् अपि इत्संज्ञकवर्णानां भिन्नानि प्रयोजनानि सन्ति ।
**वार्त्तिकम् - **
यदि उपदेशे 'इँर्' इति कश्चन शब्दसमुदायः विद्यते, तर्हि तत्र **उपदेशेऽजनुनासिक इत्** (1.3.2) इति सूत्रेण इँकारस्य, तथा च **हलन्त्यम्** (1.3.3) इति सूत्रेण रेफस्य पृथग् पृथग् इत्संज्ञायाम् प्राप्तायाम्, तद्बाधित्वा, 'इँर्' इति समुदायस्य एकत्ररूपेण इत्संज्ञां कर्तुम् वार्त्तिककारः इति वार्त्तिकं पाठयति । 'इँर्' इति समूहस्य एकत्ररूपेण इत्संज्ञा भवति इति अस्य अर्थः । यथा, 'भिदिँर्' अस्मिन् धातौ 'इँर्' इति समुदायः अन्ते विद्यते । अस्यां स्थितौ अत्र इकारस्य (रेफस्य वा) पृथग् रूपेण इत्संज्ञा न भवति, अपितु 'इँर्' इति समुदायस्यैव इत्संज्ञा भवति, तस्य च अग्रे **तस्य लोपः** (1.3.9) इत्यनेन लोपः क्रियते । इत्युक्ते, 'भिदिँर्' इति धातुः 'इदित्' उत 'रित्' नास्ति, अपितु 'इरित्' अस्ति । अतः अस्य विषये 'इदित्' विशिष्टम् उत 'रित्' विशिष्टम् कार्यम् न प्रवर्तते, अपितु 'इरित्' विशिष्टम् कार्यम् (यथा, **इरितो वा** (3.1.57) इति) भवितुम् अर्हति । एवमेव, 'छिदिँर्', 'ईँशुचिँर्', 'दृशिँर्' एते सर्वे अपि इरितः धातवः ज्ञेयाः ।
1. अष्टाध्याय्याः इत्संज्ञाप्रकरणस्य विषये अत्र विद्यमानः लेखः अपि अवश्यं द्रष्टव्यः ।
2. धातुपाठे left-side-menu मध्ये filters इत्यत्र 'अनुबन्धः' इति filter उपयुज्य आदित्/इदित्/ईदित्... इत्येतेषाम् पृथग् पृथग् आवल्यः द्रष्टुं शक्यन्ते ।
Sutrartha (English)
-------------------
The ending हल् letter of an उपदेश is called 'इत्'.
Vasu English Summary
--------------------
In उपदेश , the final consonant of roots etc. is इत्।
Vasu English Translation
------------------------
In उपदेश , the final consonant of roots etc. is इत्।
All the final consonants of roots, affixes, &c., are indicatory. As in the *pratyahara* *sutras* अ इ उ ण्; here ण् is इत् ॥ ऋ लृ क्; here क् is इत् ॥ ए ओड्; here ङ् is इत् ॥ ऐ औच्; here च् is इत् ॥ It is only in *upadesa*, that a final consonant is इत्. Not therefore, in अग्निचित् or सोमसुत्, which are complete words.
Bhashya
-------
हलन्त्यम् हलन्त्ये सर्वप्रसङ्गः सर्वान्त्यत्वात् ॥ 1 ॥ हलन्त्ये सर्वप्रसङ्गः । सर्वस्य हल इत्संज्ञा प्राप्नोति । किं कारणम् ? सर्वान्त्यत्वात् । सर्वो हि हल् तं तमवधिं प्रत्यन्तो भवति । सिद्धं तु व्यवसिताऽन्त्यत्वात् ॥ 2 ॥ सिद्धमेतत् । कथम् ? व्यवसितान्त्यत्वात् । व्यवसिताऽन्त्यो हलित्संज्ञो भवतीति वक्तव्यम् । के पुर्नव्यवसिताः ?। धातुप्रातिपदिकप्रत्ययनिपातागमादेशाः । सिध्यति । सूत्रं तर्हि भिद्यते । यथान्यासमेवास्तु । ननु चोक्तम् - हलन्त्ये सर्वप्रसङ्गः सर्वान्त्यत्वादिति । नैषः दोषः । आहायम् - हलन्त्यमित्संज्ञं भवतीति सर्वश्च हल् तं तमवधिं प्रत्यन्त्यो भवति। तत्र प्रकर्षगतिर्विज्ञास्यते - साधीयो योऽन्त्य इति । कश्च साधीयः ?। व्यवसितानां योऽन्त्यः । अथवा सापेक्षोऽयं निर्देशः क्रियते । न चान्यत्किंचिदपेक्ष्यमस्ति, तेन व्यवसितानेवापेक्षिष्यामहे । लकारस्यानुबन्धाऽज्ञापितत्वाद्धल्ग्रहणाऽप्रसिद्धिः ॥ 3 ॥ लकारस्यानुबन्धत्वेन अज्ञापितत्वाद्धल्ग्रहणस्याऽप्रसिद्धिः । हलन्त्यमित्संज्ञं भवतीत्युच्यते, लकारस्यैव तावदित्संज्ञा न प्राप्नोति । सिद्धं तु लकारनिर्देशात् ॥ 4 ॥ सिद्धमेतत् । कथम् ? लकारनिर्देशः कर्तव्यः । हलन्त्यमित्संज्ञं भवति लकारश्चेति वक्तव्यम् । एकशेषनिर्देशाद्वा ॥ 5 ॥ अथ वा एकशेषनिर्देशोयम् । हल्च हल्च हल्, हलन्त्यमित्संज्ञं भवतीति । अथ वा ऌकारस्यैवेदं गुणभूतस्य ग्रहणम्। तत्रोपदेशेऽजनुनासिक इत् (1.3.2) इतीत्संज्ञा भविष्यति । अथवाऽऽचार्यप्रवृत्तिर्ज्ञापयति - भवति लकारस्येत्संज्ञेति यदयं णलं लितं करोति । प्रातिपदिकप्रतिषेधोऽकृत्तद्धिते ॥ 6 ॥ अकृत्तद्धितान्तस्य प्रातिपदिकस्य प्रतिषेधो वक्तव्यः । उदश्वित् शकृत् इति । अकृत्तद्धितान्तस्येति किमर्थम् ? कुम्भकारः नगरकारः औपगवः कापटव इति। । इदर्थाऽभावात्सिद्धम् ॥ 7 ॥ इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति । इदमस्तीत्कार्यम् - तित्स्वरितम् (6.1.185) इति स्वरितत्वं यथा स्यात् । नैतदस्ति प्रत्ययग्रहणं तत्र चोदयिष्यति । इह तर्हि राजा तक्षा, ञ्ञ्नितीत्याद्युदात्तत्वं यथा स्यात् । ञ्ञ्नितीत्युच्यते, तत्र व्यपवर्गाऽभावान्न भविष्यति । इदं तर्हि - स्वर् । उपोत्तमं रिति (6.1.217) इत्येष स्वरो यथा स्यात् । स्वरितकरणसार्मथ्यान्न भविष्यति न्यङ्स्वरौ स्वरितौइति । इह तर्हि - अन्तर् । उत्तमशब्दस्त्रिप्रभृतिषु वर्तते, न चात्र त्रिप्रभृतयः सन्ति । इह तर्हि - सनुतर् । उपोत्तमं रितीत्येष स्वरो यथा स्यात् । अन्तोदात्तनिपातनं करिष्यते, स निपातनस्वरो रित्स्वरस्य बाधको भविष्यति । एतच्चात्र युक्तम् - यदित्कार्याऽभावादित्संज्ञा न स्यात्, यत्रेत्कार्यं भविष्यति, तत्रेत्संज्ञा । तद्यथा - आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् (2.4.70) इति ॥ 3 ॥
Kashika
-------
उपदेश इति वर्तते। अन्ते भवमन्त्यम्। धात्वादेः समुदायस्य यदन्त्यं हल्, तदित्संज्ञं भवति। अइउण् — णकारः। ऋऌक् — ककारः। एओङ् — ङकारः। ऐऔच् — चकारः। उपदेश इत्येव — अग्निचित्। सोमसुत्। हस्य ल् हलिति द्वितीयमत्र हल्ग्रहणं तन्त्रेणोपात्तं द्रष्टव्यम्। तेन प्रत्याहारपाठे हलित्यत्र लकारस्येत्संज्ञा क्रियते। तथा च सति हलन्त्यमित्यत्र प्रत्याहारे नेतरेतराश्रयदोषो भवति॥
Siddhanta Kaumudi
-----------------
हल् (माहेश्वरसूत्रम् 14) इति सूत्रेऽन्त्यमित्स्यात् ॥
Laghu Siddhanta Kaumudi
-----------------------
उपदेशेऽन्त्यं हलित्स्यात्। उपदेश आद्योच्चारणम्। सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र॥
Laghu Shabdendushekhar
----------------------
भाष्येऽप्यन्योन्याश्रयमाशङ्कय — **हलन्त्यमित्सञ्ज्ञं भवति, लकारश्चेद्भवतीति वक्तव्यमि** इत्युक्त्वा — **एकशेषनिर्देशाद्वा सिद्धम्, हल् च हल् च हल्— हलन्त्यमित्** इत्युक्तम् । तस्यायं भावः— **कृतैकशेषेण हल्पदेन सम्बन्धसामान्यषष्ठ्या — समासोऽन्त्यशब्दस्य च द्वन्द्वान्ते श्रूयमाणस्येवोभयत्रान्वयः, एवञ्च हल्सूत्रान्त्यं हल्रूपान्त्यञ्चेति बोध:, अन्त्ये— 'राहोः शिर' इतिवत्षष्ठी** इति । अत्रोच्चारयितुरेकशेषनिर्देशो बोद्धस्त्वावृत्त्या बोधः । **हसमीपो लकार इत्, हल्रूपान्त्यञ्च** इति कैयटोक्तव्याख्यायान्तु— **हल् इत्सञ्जं भवति, हलन्त्यञ्चेद** इति वदेदूह्यम् ।
नन्वेवमपि **न विभक्तौ** (1.3.4) इति विभक्तिपदबोद्ध्यसुप्तिङ्बोधो **हलन्त्यम्** (1.3.3) इति वाक्यार्थबोधोत्तरं, तद्बोधश्चापवादवाक्यार्थबोधोत्तरमित्यन्योन्याश्रयस्तदवस्थ एवेति चेन्न, अपवादवाक्यार्थबोधात्पूर्वं पदपदार्थोपस्थितावुत्सर्गवाक्यार्थबोधे प्रतिबन्धकाभावात् । न ह्यभावज्ञाने प्रतियोगिज्ञानस्येव प्रतियोगिज्ञानेऽभावज्ञानस्य कारणता कस्यापि सम्मता, प्रतियोगिज्ञानं विना निषेधवाक्यार्थासम्भवाच्च ।
**पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः** इत्यस्य त्वयं भाव: — लक्षणैकचक्षुष्कस्य उद्देश्यतावच्छेदकावच्छिन्ने सर्वत्रोत्सर्ग कृतसंस्कार बुद्धावुत्सर्गापवादयोर्विषयव्यवस्थानापत्त्या— **भुक्तवन्तम्प्रति मा भुक्था** इति वाक्यस्येव अपवादशास्त्रवैयर्थ्यापत्त्या चापवादशास्त्रपर्यालोचनेन तद्विषयलक्ष्यसंस्कारं निर्णीय तदविषयं तत्तल्लक्ष्यं तत्तद्विषयवाक्योपप्लवद्वारोत्सर्गेण संस्करोति, अन्यथा विकल्पापत्ति: — इति ।
यद्यपि **भुक्तवन्तं प्रति** इति न्यायो लुगादिना जातनिवृत्ते र्व्यभिचरितस्तथापि तत्राप्यनुत्पत्तिरेवेति न दोषः, न्यायानङ्गीकारेऽपि विकल्पापत्ते: सत्त्वाच्च। **अभिनिविशन्ते** इत्यस्य — बुद्ध्यारूढा भवन्तीत्यर्थः । लक्ष्यैकचक्षुष्कस्तु — तत्तच्छास्त्रपर्यालोचनं विनापि अपवादविषयं परित्यज्योत्सर्गेण लक्ष्यसंस्कारञ्जा नीते, तस्यापि शास्त्रप्रक्रियास्मरणपूर्वकप्रयोग एव धर्मोत्पत्तेः । तदुक्तम्— **प्रकल्प्य चापवादविषयं तत उत्सर्गः प्रवर्तते** इति । प्रकल्प्य = परित्यज्य ।
यत्तु — **प्रकल्प्य च** इत्यस्यायमर्थः **यथा **न सम्प्रसारणे** (6.1.37) इति वचनात्परस्य यणः पूर्वं सम्प्रसारणं, पूर्वस्य तु तन्निमित्तः प्रतिषेधः** इति — अभ्यस्तसञ्ज्ञासूत्रे कैयटः, तन्न; **न सम्प्रसारणे** (6.1.37) इति सूत्रस्थभाष्यविरोधात् । तत्र हि **एतदेव ज्ञापयति परस्य — न पूर्वस्येति, यद्वा सम्प्रसारणाश्रयस्य प्रतिषेधः** इत्याद्युक्तम् । न हि न्यायेन सिद्धे एवमुक्तिरुचिता, तस्मान्न्यायस्य मदुक्त एव विषय इति बोद्ध्यम् । यदपि — **अपवादवाक्यार्थं विना नोत्सर्गवाक्यार्थ इति तदर्थः** इति, तदपि न उक्तयुक्तेः । **न विभक्तौ तुस्माः** (1.3.4) इति शास्त्रस्थतुस्मपदार्थज्ञानमात्रेण पादीनामेव तद्विषयत्वाभावबुद्ध्या तेषु हलन्त्यसूत्रप्रवृत्त्या सुप्तिङ्रूपविभक्तिपदार्थज्ञानं सुलभमिति दिक् । अत्राप्युपदेश इति सम्बद्ध्यते, तद्बललभ्यार्थमाह — **सूत्रे इति** ।
Balamanorama
------------
**हलन्त्यम्** - ततः किमित्यत आह — हलन्त्यम् । आवृत्तयोर्द्वितीयं सूत्रमेतत् । हल् अन्त्यमितिच्छेदः । हल्शब्दो नपुंसकलिङ्गोऽप्यस्ति, अन्त्यमिति नपुंसकसामानाधिकरण्यात् ।उपदेशेऽजनुनासिक इ॒दिति पूर्वसूत्रादुपदेश इति॑ इदिति चानुवर्तते । तदाह — उपदेशेऽन्त्यमित्यादिना । धातुप्रातिपदिकनिपातप्रत्याहारसूत्रप्रत्ययादेशागमानामन्त्यमिति भाष्यम् । अथ कोऽयमुपदेशो नाम॑ तत्राह — उपदेश आद्योच्चारणमिति । उपशब्द आद्यर्थकः । दिशिरुच्चारणक्रियायाम् । भावे घञिति भावः । एतच्च 'आदेच उपदेशे' इत्यादासूत्रे भाष्ये स्पष्टम् । धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् । आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः॥ — इति प्राचीनकारिका तु प्रौढमनोरमायां बहुधा दूषिता । उपदेशे किम्-॒इदमस्थमुः॑ इति थमुप्रत्यये उकारस्योच्चारणार्थस्य निवृत्तौ मकारस्य प्रत्ययान्तत्वेऽपि इत्संज्ञा मा भूत् । तदेवं हलन्त्यमिति आवृत्तद्वितीयसूत्रेण चतुर्दशसूत्र्यामन्त्यणकारादिवर्णानामित्संज्ञा सिद्धेति स्थितम् । ततः किमित्यत आह-ततोऽण् अजित्यादिसंज्ञासिद्धाविति । ततः णकारादिनामित्संज्ञासिद्ध्यनन्तरमादिरन्त्येनेत्यणादिसंज्ञा सिद्धेत्यर्थः ।
Tattvabodhini
-------------
**हलन्त्यम्** - अन्तेऽवसाने भवमन्त्यम् । दिगादित्वाद्यत् ।उपदेशेऽजनुनासिक इत् इत्यतउपदेशे॑ इति,इ॑दिति चाऽत्रानुवर्तते ।आदिरन्त्येन-॑ इति सूत्रेण सहाऽन्योन्याश्रयमाशङ्क्य आवृत्त्या तं परिहरति-हलिति सूत्रेऽन्त्यमिति । हलि अन्त्यमिति विग्रहेसप्तमी॑ इति योगविभागात् सुप्सुपा॑ इति वा समास इति भावः । यद्वा षष्ठीतत्पुरुषोऽयं,हलिति सूत्रस्यान्त्यमित्स्यात् ॑ इति व्याख्यानसम्भवात् ।
Padamanjari
-----------
अन्तशब्दोऽत्र समाप्तौ वर्तते;नावयवे;नावयवे असम्भवात्। न समीपे;अतिप्रसङ्गात् । येन समाप्यते समुदायस्तदन्ते भवमन्त्य्, दिगादित्वाद्यत्। हलन्त्ये सर्वप्रसङ्गः, सर्वस्य हलः सांज्ञा प्राप्नोति। सर्वो हि हल् तं तमवधिं प्रत्यन्तो भवति, अन्त्यग्रहणं त्वादिनिवृत्यर्थं स्याद्, अत आह-धात्वादेरिति। आदिशब्दन सूत्रप्रातिपदिकप्रत्ययनिपातागमादेशानां ग्रहणम्। शीङ्, लण्,नदट्, सन्, आङ्, त्रपुजतुनोः षुक्, चक्षिडः ख्याञ् इति योऽयं धात्वादिरूपः समुदायस्तदर्थः स उपदेशः, न तु नान्तरीयकावान्तरसमुदायार्थ इत्यन्त्यस्य समुदायापेक्षायां प्राधान्याद्धात्वादेरेव ग्रहणमिति भावः। अग्निचिदिति। अत्रेत्संज्ञायां लोपः स्यात्। न च तुको वैयर्थ्यम्;आगत्येत्यादौ चरितार्थत्वात्। न च क्विपः पित्वस्य वैयर्थ्यम्, आग्निचितावित्यादौ चरितार्थत्वात्। यद्यप्यत्रोभयत्रापि तावतोऽवधेस्तकारोऽन्त्यः, तथापि मुख्यसमुदायस्य नान्त्य इति नास्ति प्रसङ्गः। इह च दण्डिन्निति नकारस्येत्संज्ञायां सत्याम्'न ङिसंबुद्ध्योः' इति निषेधाल्लोपाभावेऽपि समुदायस्य नित्वादाद्यौदातत्वप्रसङ्गः, यथा-श्रोत्रियशब्दे वाक्यार्थे पदवचनमिति पक्षे । अथोपदेशानुवृतावपि सनुतरित्यस्य रेफस्य कस्मान्न भवति? स्वरादिष्वन्तोदातपाठसामर्थ्यात्। इह'शषसर्' 'हल्' इति यो लकारस्तस्येत्संज्ञायां सत्यां हलित्ययं प्रत्याहार उपपद्यते, सति च प्रत्याहारे लणित्यत्र लकारस्य हल्त्वातस्यैव'शषसर्हल्' ,इत्यत्रान्ते निर्दिष्टत्वादित्संज्ञा, तदाश्रयश्च प्रत्याहार इति इतरेतराश्रयत्वात् प्रत्याहारो नोपपन्नः। ततश्च सर्वेषामेव णकारादीनामित्संज्ञा न स्यादिति सर्व एव प्रत्याहारव्यवहारोऽनुपपन्नः, ठादिरन्त्येनऽइत्येतस्यापि वैयर्थ्यम्? स्यादेतथलित्यत्र हकारात् पर ऌकारः, तस्य ऌकारस्यैकादेशो लपरः, तस्य ठुपदेशेऽजनुनासिकःऽइति इत्संज्ञा, स एव'हलन्त्यम्' इत्यत्राप्येकादेशेन लपरेण निर्दिष्ट इति। एवमपीतरेतराश्रयमेव, ऌकारस्येत्संज्ञेति तस्माद्वक्तव्योऽत्र परिहारस्तमाहहस्य ल् हलित्यादि। साधारणं भवेतन्त्रम्, यथा-तुल्यकक्ष्ययोर्भुञ्चानयो प्रदीपः। स चेह प्रयत्नविशेषः, यथा-श्वेतो धावतीत्यत्र साधारणेनैकेनैव प्रयत्नेन द्वयोर्वाक्ययोरुच्चारितयोः फलं सम्पद्यते, तथेहाप्येकेन तन्त्रेण प्रबलेन द्वितीयं हल्ग्रहणमुपातं परिगृहीतं वेदितव्यम् । तस्य द्वितीयस्यार्थमाह-हस्येति। समीपसमीपिसम्बन्धे षष्ठीसमास इत्यर्थः। ततःकिमित्याह-तेनेत्यादि। एतद् दर्शयति-हकारसमीपवर्तिनो लकारस्य न प्रत्याहारसमाश्ययोणएनेत्संज्ञा, किं तर्हि? साक्षादुपादानेनेति। प्रमाणम्? अगृह्यमाणविशेषत्वमेव। ननु गृह्यते विशेषः-ठ्कृत्रिमाकृत्रिमयोः कृत्रिमस्य ग्रहणम्ऽइति, कृत्रिमो हि प्रत्याहारः सत्यम्;स एवासति तन्त्रेऽनुपपन्न इति त्वयैवोक्तम्॥
Nyaas
-----
`अन्ते भवमन्त्यम्` इति। दिगादित्वाद्यत्। अन्तशब्दोऽयं समाप्तौ वर्तते। यथा - एतदन्तं वनमिति। येन च समाप्यते समुदायः सोऽन्तः। त्तरान्ते = समाप्तौ भवमन्त्यम्। हलिति हल्शब्दस्योभयलिङ्गत्वादन्त्यमिति नपुंसकेन निर्देशः। `धात्वादेः` इत्यादि। आदिशब्देन सूत्रप्रातिपदिकप्रत्ययागमादेशानां ग्रहणम्। तत्र धातोः - `डुकृञ्` (धातुपाठः-1472) इति ञकारः; सूत्रस्य - `ऐउण्` (मा।सू।1) इति णकारः; प्रातिपदिकस्य - `नवट्` इति टकारः; नदडिति पचादिषु पठते। प्रत्ययस्य - **गुप्तिज्किद्भ्यः सन्** (3.1.5) इति नकारः; आगमस्य **त्रपुजतुनोः षुक्** (4.3.138) इति ककारः; आदेशस्य च - `चक्षिङः ख्याञ्` (2.4.54) इति ञकारः।`अग्निचित्, सोमसुत्` इति। चिनोतेः सुनोतेश्चाग्न चितवान् सोमं सुतवानिति क्विप्, तुक्।ननु च हलिति प्रत्याहारपाठे योऽन्त्यो लकारस्तस्येत्संज्ञा न प्राप्नोति; इतरेतराश्रयत्वात्। तथा हि - इत्संज्ञायाम् **आदिरन्त्येन सहेता** (1.1.71) इति हलिति प्रत्याहारग्रहणं भवति। तस्मश्च तस्य लकारस्य हलन्त्यमितीत्संज्ञा। तदिदमितरेतराश्रयत्वं स्फुटतरमेव। `इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्प्यन्ते` (व्या।प।28) इत्यत आह - `हस्य ल् हल्` इत्यादि। यदेकमावृत्तिभेदमन्तरेणाप्यनेकेषामुपकारं करोति तत् तन्त्रम्। यथा - प्रदीपः सुप्रज्वलितो बहूनां छात्राणामुपकारं करोति। इह तु प्रयत्नविशेषस्तन्त्रशब्देन विवक्षितः। तेन तन्त्रेण द्वितीयमत्र हल्ग्रहणमुपात्तं परिगृहीतं वेदितव्यम्। यथा ओतो धावतीत्येकेन प्रयत्नेन द्वे वाक्ये उच्चारिते भवतः, तथेहाप्येकेनैव प्रयत्नेन द्वौ हल्शब्दावुच्चारितावित्यभिप्रायः। हस्य ल् हलिति समीपिसामीप्यसम्बन्धे षष्ठी। `तेन` इत्यादि। यतस्तन्त्रेण न्यायेन द्वितीयं हल्ग्रहणं कृतम्, तेन प्रत्याहारपाठे हलित्यस्य लकारस्य हकारसमीपवर्तिनः साक्षादेव संज्ञित्वेनोपात्तस्येत्संज्ञा क्रियते, न तु प्रत्याहारसमाश्रयणेन। एवञ्च सति **हलन्त्यम्** (1.3.3) इत्यत्र प्रत्याहारपाठे इतरेतराश्रयद#ओषो न भवति। बाल-मनोरमाहलन्त्यम् 2, 1.3.3 एकपदं सूत्रम्। हलि अन्त्यं हलन्त्यमिति विग्रहः। शौण्डादेराकृतिगणत्वात् `सप्तमी शौण्डैः` इति सप्तमीसमासः, सुप्सुपेति समासो वा। हल्पदमिह सूत्रपरम्। `उपदेशेऽजनुनासिक इत्` इति पूर्वसूत्रादिदित्यनुवर्तते। तदाह - हलिति सूत्र इत्यादिना। इत्स्यादिति। इत्संज्ञकः स्यादित्यर्थः, संज्ञाप्रस्तावात्। एवं च अनेन सूत्रेण हल्सूत्रे लकारस्य हल्संज्ञामनुपजीव्यैव इत्संज्ञा सिद्धेति नान्योन्याश्रय इति भावः। बाल-मनोरमाहलन्त्यम्(बि) 4, 1.3.3 ततः किमित्यत आह - हलन्त्यम्। आवृत्तयोर्द्वितीयं सूत्रमेतत्। हल् अन्त्यमितिच्छेदः। हल्शब्दो नपुंसकलिङ्गोऽप्यस्ति, अन्त्यमिति नपुंसकसामानाधिकरण्यात्। `उपदेशेऽजनुनासिक इ`दिति पूर्वसूत्रादुपदेश इति` इदिति चानुवर्तते। तदाह - उपदेशेऽन्त्यमित्यादिना। धातुप्रातिपदिकनिपातप्रत्याहारसूत्रप्रत्ययादेशागमानामन्त्यमिति भाष्यम्। अथ कोऽयमुपदेशो नाम` तत्राह - उपदेश आद्योच्चारणमिति। उपशब्द आद्यर्थकः। दिशिरुच्चारणक्रियायाम्। भावे घञिति भावः। एतच्च `आदेच उपदेशे` इत्यादासूत्रे भाष्ये स्पष्टम्। धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम्। आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः॥ - इति प्राचीनकारिका तु प्रौढमनोरमायां बहुधा दूषिता। उपदेशे किम्-`इदमस्थमुः` इति थमुप्रत्यये उकारस्योच्चारणार्थस्य निवृत्तौ मकारस्य प्रत्ययान्तत्वेऽपि इत्संज्ञा मा भूत्। तदेवं हलन्त्यमिति आवृत्तद्वितीयसूत्रेण चतुर्दशसूत्र्यामन्त्यणकारादिवर्णानामित्संज्ञा सिद्धेति स्थितम्। ततः किमित्यत आह-ततोऽण्? अजित्यादिसंज्ञासिद्धाविति। ततः णकारादिनामित्संज्ञासिद्ध्यनन्तरमादिरन्त्येनेत्यणादिसंज्ञा सिद्धेत्यर्थः।
Praudhamanorama
---------------
**सूत्रेऽन्त्यमिति।** हलि अन्त्यमिति विग्रहे 'सप्तमी' इति योगविभागात् **सुप्सुपा** (2.1.4) इति वा समास इति भावः। यद्वा षष्ठीतत्पुरुषोऽयम्। स्यादेतत्, हलित्येकशेषस्यैव तन्त्रावृत्त्येकशेषान्यतममस्तु। हस्य ल् इति च व्याख्यास्यते। सामीप्यं षष्ठ्यर्थः। यद्वा, मास्तु तन्त्रादि, अस्तु समाहारद्वन्द्वो हल् च ल् चेति। लकारस्य संयोगान्तस्य लोप इति चेत्? मैवम्, आद्ये समासस्य क्लिष्टत्वात्। न हि 'ब्राह्मणकम्बल' इत्यादौ ब्राह्मणसमीपवर्त्यन्यदीयः कम्बलः प्रतीयते, न वा चित्रगुशब्दाच्चित्रगवीणां समीपवर्ती वृक्षादिः प्रतीयते। अत एव अनन्तरादिषु न समासोऽनभिधानादिति स्पष्टमाकरे। किं बहुना 'ब्राह्मणस्य कम्बलः' 'चित्रा गावोऽस्य' इति व्यस्तप्रयोगोऽपि तत्रानिष्टः। द्वितीयेऽपि संयोगान्तलोपो दुर्लभः, यणः प्रतिषेधारम्भात्। तत्प्रत्याख्यानपक्षेऽपि **झलो झलि** (8.2.26) इत्यतो झल्ग्रहणमपकृष्य झलो लोपविधानाच्च। किंच पदार्थबोधं विना वाक्यार्थबोधासम्भवेन हल्प्रत्याहारसिद्धेः प्रागेतत्सूत्रार्थाबोधे प्रसक्ते तदुद्धारार्थोऽयं यत्नः। अस्यां चावस्थायां हल्शब्दार्थाप्रसिद्धौ द्वन्द्व एव दुर्लभः सहविवक्षाया असम्भवात्। तस्माद्यथोक्तमेव न्याय्यम्।
Prakriyasarvasvam
-----------------
उपदेशेऽन्त्यं हलित्संज्ञं स्यात् । इति णकारस्येत्संज्ञा ।
Sarala
------
**हलन्त्यम् इति** । **हल्** - प्रथमान्तम्, **अन्त्यं** - प्रथमान्तम् । द्विपदमिदं सूत्रम् । तत्र हल्शब्दो नपुंसकलिङ्गोऽप्यस्ति, "अन्त्य"मिति नपुंसकपदसामानाधिकरण्यात् । **उपदेशेऽजनुनासिक इत्** (१.३.२) इति पूर्वसूत्रादुपदेशे इति इदिति चानुवर्त्तते । तदाह - **उपदेशे इति** । इत्यस्यात् = इत्सञ्ज्ञकं स्यात् । सञ्ज्ञाप्रकरणात् । अत्राऽन्योन्याश्रयपरिहारस्तु हलन्त्यमित्यस्याऽऽवृत्त्या हल्प्रत्याहारमादौ संसाध्य सिद्धान्तकौमुद्यां प्रदर्शितस्तत एवावगन्तव्यः । यद्यपि भाष्ये वृत्त्यादौ च - **उपदिश्यतेऽनेनेत्युपदेशः = शास्त्रम् । तच्च शासनकरणं, प्रत्यासत्त्या एतच्छास्त्रीयधात्वागमप्रातिपदिकप्रत्याहारसूत्रप्रत्ययादेशरूपम्** इत्येव व्याख्यातं, तथापि तन्नादत्तव्यं, ल्युटा बाधेन करणे घञो दुर्लभत्वात् । असञ्ज्ञात्वात्पुंसि सञ्ज्ञायामिति घस्याऽपि च दुर्लभत्वात् । असञ्ज्ञात्वादेव "हलश्चे"ति घञोऽप्यप्रवृत्तेश्च । एवञ्च भावे घञा उपदेशनम् - उपदेश इत्येवार्थः । उपशब्दश्च आद्यार्थः, दिशिरुच्चारनार्थः । एवञ्च **उपदेश आद्योच्चारणम्** इति फलितमित्याह - आद्योच्चारणमिति । आद्यमुच्चारमित्यर्थः । तच्च-प्रत्यासत्त्या व्याकरणशास्त्रप्रवर्त्तकानामाचार्याणां तत्रभवतां पाणिनि-कात्यायन-पतञ्जलि-महेश्वराणामेव ग्राह्यम् । आद्यत्वञ्च - अज्ञातस्वस्वरूपज्ञापकत्वम् । तच्च "अइउण्" इत्यादीनामस्त्येवेति भावः । केचित्तु - उपदेशपदे करणकर्मोभयव्युत्पत्त्या **धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् । आगमप्रत्ययादेशा उपदेशाः प्रकीर्त्तिताः ॥** इति परिगणनमाहुः, तन्न युक्तम्, एषामुपदेशसञ्ज्ञाया भाष्यादावनुक्तेः । योगस्य स्वीकारे तु परिगणनस्यैव व्यर्थत्वम् । "लोपश्चेतिद्विशकारको निर्देशः, द्वितीयः शकार इ"दिति भाष्यविरोधश्च । नह्यनेन किञ्चिदुपदिश्यते । एवञ्च मूलोक्तमेव युक्तम् । **आदेच उपदेशेऽशिति** (६.१.४५) "उपदेशेऽत्वत" इत्यादावाद्योच्चारणस्यैवोपदेशपदार्थतायाः प्रसिद्धेश्च । शेखरकृतस्तु - करणे घञा धातुप्रत्ययनिपातागमादेशपरमेवात्रोपदेशपदमित्यभिप्रयन्ति । ननु **हलन्त्यम्** (१.३.३) इति सूत्रस्य - **उपदेशेऽन्त्यं हलित्स्यात् इति** वृत्तिरधिकाऽत आह - **सूत्रेषु इति** । व्याकरणसूत्रेषु - "हलन्त्य"मित्यादिषु, अदृष्टं यत्पदं (उपदेशे इत् इत्यादि) - तत् - सूत्रान्तरात् = पूर्वसूत्रात्, (क्वचिदुत्तरसूत्राच्च) - अनुवर्त्तनीयमित्यर्थः । एवञ्च "उपदेशेऽजनुनासिक" इति पूर्वसूत्रादुपदेशपदेत्पदयोरनुवृत्तिरत्रेति न वृत्तेरसङ्गतिरिति भावः ॥
Sudha
-----
**उपदेशेऽन्त्यमिति । ** आद्योच्चारणविषयीभूतो यः शब्दस्तस्यान्त्यं हल् इत्संज्ञकः स्यादिति फलितोऽर्थः । **आद्योच्चारणमिति ।** आद्यानां शिवपाणिनिप्रभृतीनामाद्यमुच्चारणमुपदेशः । यद्वा आद्यञ्च तदुच्चारणञ्चेत्याद्योच्चारणम्, प्रथममुच्चारणमित्यर्थः । शिवपाणिनिप्रभृतीनामाद्यमुच्चारणमुपदेशः । केचित्तु — धातुसूत्रगणोणादिवाक्यलिङ्गानुशासनम् । आगमप्रत्ययादेशा उपदेशाः प्रकीर्तिताः — इत्याहुः ।