12069: नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ============================================ **Padacheda:** नपुंसकम् | S | 1 | 1 | अनपुंसकेन | S | 3 | 1 | एकवत् | S | 0 | 0 | च | S | 0 | 0 | अस्य | S | 6 | 1 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A neuter noun, which has the same form, only differing in affix, is optionally retained and the other is dropped and it is like a singular number. Vasu English Translation ------------------------ A neuter noun, which has the same form, only differing in affix, is optionally retained and the other is dropped and it is like a singular number. A neuter prevails over a masculine or feminine noun when spoken of along with them, provided that the words differ in gender signs only; but radically they be the same. Thus आलस्यो मैथुनं निद्रा सेव्यमानं विवर्द्धते 'Idleness, lust, and sleep, indulged in, increase.' Here the adjective '*sevyyamanam*' is in the neuter gender, though it qualifies the words '*alasya*' which is in the masculine, '*maithunam*' which is in the neuter, and '*nidra*' which is in the feminine gender. The rule, therefore, may be stated in these words, that where one adjective qualifies several nouns, in different genders, but one of which must be neuter, the adjective agrees with the neuter. The above illustration also shows that the neuter *ekasesha* may be in the singular number. If the neuter is compounded with another neuter, this rule does not apply. Thus शुक्लं + शुक्लं + शुक्लं = शुक्लानि; the word is in the plural; there is no *ekavadbhava*. The words तल्लक्षणश्चेदेव विशेषः of *sutra* (1.2.65) governs this *sutra* also: thus शुक्लश्च कम्बलः, शुक्ला च वृहतिका, शुक्लं च वस्त्रं. "The white (masc.) blanket, the white (fem) wrapper, and the white (neut.) garment," may all he spoken of collectively as शुक्लं (neut.). Bhashya ------- नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्यामयं योगः शक्योऽवक्तुम्। कथं- शुक्लश्च कम्बलः शुक्लं च वस्त्रं तदिदं शुक्लम्, ते इमे शुक्ले। शुक्लश्च कम्बलः शुक्ला च बृहतिका शुक्लं वस्त्रं तदिदं शुक्लम्, तानीमानि शुक्लानि? - प्रधाने कार्यसम्प्रत्ययाच्छेषः - प्रधाने कार्यसम्प्रत्ययाच्छेषो भविष्यति। किं च प्रधानम्? नपुंसकम्। कथं पुनर्ज्ञायते नपुंसकं प्रधानम् इति? एवं हि दृश्यते लोके- अनिर्ज्ञातेऽर्थे गुणसन्देहे च नपुंसकलिङ्गं प्रयुज्यते। किं जातम् इत्युच्यते। द्वयं चैव हि जायते- स्त्री वा पुमान्वा। तथा- विदूरेऽव्यक्तरूपं दृष्ट्वा वक्तारो भवन्ति- महिषीरूपमिव ब्राह्मणीरूपमिव। प्रधाने कार्यसम्प्रत्ययान्नपुंसकस्य शेषो भविष्यति। इदं तर्हि प्रयोजनम्- एकवच्चास्यान्यतरस्यामिति वक्ष्यामि इति। एतदपि नास्ति प्रयोजनम्। - आकृतिवाचित्वादेकवचनम् - आकृतिवाचित्वादेकवचनं भविष्यति। यदा द्रव्याभिधानं तदा द्विवचनबहुवचने भविष्यतः ॥ नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ॥ 69 ॥ भ्रातृपुत्रौ स्वसृदुहितृभ्याम् Kashika ------- तल्लक्षणश्चेदेव विशेष इति वर्तते। नपुंसकानपुंसकमात्रकृते विशेषेऽनपुंसकेन सहवचने नपुंसकं शिष्यते, एकवच्चास्य कार्यं भवत्यन्यतरस्याम्। शुक्लश्च कम्बलः शुक्ला च बृहतिका शुक्लं च वस्त्रं तदिदं शुक्लम्। तानीमानि शुक्लानि। अनपुंसकेनेति किम्? शुक्लं च शुक्लं च शुक्लं च शुक्लानि। एकवच्चेति न भवति॥ Siddhanta Kaumudi ----------------- अक्लीबेन सहोक्तौ क्लीबं शिष्यते तच्च वा एकवत्स्यात्तल्लक्षण एव विशेषश्चेत् । शुक्लः पटः । शुक्ला शाटी । शुक्लं वस्त्रम् । तदिदं शुक्लम् । तानीमानि शुक्लानि ॥ Balamanorama ------------ **नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्** - नपुंसकम् । अन्यतरस्याङ्ग्रहणमेकवदित्यनेनैवान्वेति, आनन्तर्यात्, नत्वेकशेषेणेत्याह — तच्चेति । तल्लक्षण एवेति । नपुंसकत्वाऽनपुंसकत्वमात्रकृतवैरूप्यं चेदित्यर्थः । शुक्लः पटः शुक्ला शाटी शुक्ल वस्त्रमिति । पटशब्दसमभिव्याहाराच्छुक्लशब्दः पुंलिह्गः, शाटीशब्दसमभिव्याहारात्स्त्रीलिङ्गः, वस्त्रशब्दसमभिव्याहारे तु नपुंसकलिङ्गः,गुणे शुक्लादयः पुंसि गुणिलिह्गास्तु तद्वती॑त्यमरोक्तेरिति भावः । स च सा च तच्च तत् ।अयं च इयं च इदं च इदम् । शुक्लश्च शुक्ला च शुक्लं च शुक्लम् । अत्र नपुंसकान्येव शिष्यन्ते एकवच्चा भवन्ति॥ तानीमानि शुक्लानीति । नपुंसकत्वे एकशेषे सति एकवत्त्वाऽभावे रूपाणि । न चेतरेतरयोगविवक्षायां द्विबहुवचनान्तयोः, समाहाद्वन्द्वविवक्षायामेकवचनस्य च सिद्धत्वादेकवदिति व्यर्थमिति वाच्यम्, अत एवैकशेषप्रकरणस्य समाहारेऽप्रवृत्तिज्ञापनात् । तेन ओदनश्च ओदनं च तयोः समाहारे ओदनमिति न भवति । ओदनशब्दो ह्रर्धर्चादिः । ओदनश्च ओदनं चेति इतरेतरयोगद्वन्द्वेऽपि ओदनमिति न, अनभिधानात् । एवंच । क्वचिदनभिधानस्यावश्याश्रयणीयतया द्वन्द्वमात्रस्यैकशेषविषयेऽनभिधानमाश्रित्य एकस्य शब्दस्यानेकार्थत्वं च#आश्रित्य एकशेषप्रकरणं भाष्ये प्रत्याख्यातम् । Padamanjari ----------- शुक्ला च शुक्लं चेति । विभक्तौ विभक्त्यन्तयोश्चासारूप्यादप्राप्त एकशेषः, शुक्लं च शुक्लश्चेति विभक्त्यन्तयोरसारूप्यम् । विभक्तौ सारूप्येऽपि पुंनपुंसकयोः पर्यायः स्यादिति वचनम्, एकवद्भावार्थं च । तल्लक्षणश्चेदेव विशेष इति वर्तत इति । शुक्लं च कृष्णश्चेत्यत्र मा भूत् । एवाकारस्तु हिमहिमान्यौ अरण्यारण्यान्यावित्यत्र मा भूदिति । ऽअत्र हिमारण्ययोर्महत्वेऽ इति महत्वमपरो विशेषः, अन्यतरस्यांग्रहणमानन्तर्यादेकवच्चेत्यनेन सम्बन्ध्यते, न त्वेकशेषेण चेत्याह-एकवच्चेत्यादि । अस्य ग्रहणमेकवच्चेत्यस्योतरत्रानुवृत्तिर्मा भूदिति । इह शुक्लेन च वस्त्रेण शुक्लेन च कम्बलेन तेनानेन शुक्लेनेति तल्लक्षणविशेषाभावादेकशेषो न प्राप्नोति, सामान्यविवक्षायामेकशब्दत्वमेकवचनं नपुंसकत्वं च भविष्यति । यद्येपम्, तदिदं शुक्लमित्यत्राप्येवमेव भविष्यति, नार्थ एतेन ? द्वन्द्वनिवृत्यर्थं तु वचनम् । अनपुंसकेनेति किमिति । नपुंसकेनापि सहवचने सरूपाणामित्येकशेषेण भवितव्यमिति प्रश्नः, तेन यथा स्यादेनेन मा भूदिति प्रत्युतरम् । को न्वत्र विशेष इत्यत्र आह- एकवच्चेति ॥ Nyaas ----- `अनपुंसकेन` इति। `किम` इत्यादि। ननु च विना नपुंसकेनापि सहवचनेन सरूपाणामित्यादिनैकशेषो भवत्येव; तत् कोऽत्र विशेषः, यस्तेनैकशेषो विधीयमानः, अनेनैव चेत्यत आह - `एकवच्चेति न भवति` इति। यद्यनेनैकशेषः स्यात्, पक्ष एकवद्भावः स्यात्। तेन त्वेकशेषे सति न भवति। अथास्येति किमर्थमुच्यते? यद्यस्येति नोच्येत, उत्तरत्राप्येकवच्चेत्यनुवृत्तिः स्यात्। ततश्चोत्तरत्र तु यस्यैकशेषः करिष्यते, तस्यैकवद्भावः प्रसज्येत। तस्मादस्यैव नपुंसकस्यैकवद्भावो यथा स्यात्। उत्तरत्र तु यस्यैकशेषः करिष्यते, तस्य मा भूदित्येवमर्थमस्येति वचनम्। अस्येति हि वचने सति मा भूदस्य वैयथ्र्यमित्युत्तरत्राप्येकवच्चेति नानुवर्तते। ननु चास्वरितत्वादेव नानुवर्तष्यते। एवं तर्हि तदेवास्वरितत्वमनेन प्रकारेणाख्यायते विस्पष्टार्थम्। एकारोऽत्रानुवर्तते। तेन हिमञ्च हिमानी च हिमहिमान्यौ, अरण्यञ्चारण्यानी चारण्यारण्यान्यावित्यत्र न भवति। इन्द्रवरुणादिसूत्रेण (4.1.49) `हिमारण्ययोर्महत्वे` (वा। 352) इति वचनात् महत्त्वमपरो विशेषः॥ Sutra Prayogas -------------- * **भास्वन्ति** (कुमारसम्भवम्): `नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्` इति नपुंसकैकशेषः। * **विविधम्** (किरातार्जुनीयम्): `नपुंसकमनपुंसकेनैकवच्चान्यतरस्याम्` इत्यादिना नपुंसकैकशेषत्वम्। * **अविहितहरिसूनुविक्रियाणि** (किरातार्जुनीयम्): `नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्` इति नपुंसकैकशेषः। * **मूर्छितानि** (किरातार्जुनीयम्): `नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्` इति नपुंसकैकशेषः। * **स्वरूपशोभैकफलानि** (शिशुपालवधम्): `नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्` इति नपुंसकैकशेषः।