12065: वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ========================================= **Padacheda:** वृद्धः | S | 1 | 1 | यूना | S | 3 | 1 | तत्-लक्षणः | S | 1 | 1 | चेत् | S | 0 | 0 | एव | S | 0 | 0 | विशेषः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The वृद्ध (or patronymic गोत्र word becomes एकशेष and is retained, when compounded) with a patronymic word युवन् , provided that the specific difference in form between them be in their signs (affix) only. Vasu English Translation ------------------------ The वृद्ध (or patronymic गोत्र word becomes एकशेष and is retained, when compounded) with a patronymic word युवन् , provided that the specific difference in form between them be in their signs (affix) only. The word *sesha* of the previous *sutra* is understood here. The word "*yuna*" in the text is in the instrumental case. The *yuvan* word is dropped when read along with a *Vriddha* word. The word *Vriddha* means *gotra*: the old *acharyas* (grammarians) used the word *Vriddha* for *gotra*. The *vriddha* (or in other words, the gotra) word designates a person between whom and original head of the family a son (or a word formed by an *apatya* affix) intervenes. In using together two words, one formed by a *gotra* affix and the other by a *yuvan* affix, the *Vriddha* is retained, where the difference between those words is in their affixes only. These two words, *gotra* and *yuvan*, are defined in *sutras* (4.1.162) and (4.1.163). (अपत्यं पौत्रप्रभृति गोत्रम् ॥ जीवति तु वंश्ये युवा) ॥ Roughly speaking a *gotra* word is formed from the original noun which is the name of the head of the family when a son of such person is living; and a *vriddha* word represents thus a grandson, or lower than that, but not a son; while a *yuvan* word is derived from such last mentioned *gotra* word by another affix and thus represents persons lower than grandsons. The word '*tad*' in the *sutra* refers to the *gotra* and *yuvan* affixes. The word *lakshana* 'sign' in the *sutra* is synonymous with 'cause' or 'occasion'; meaning the specific difference is caused or occasioned by the *gotra* and *yuvan* affixes. The word चेत् in the *sutra* means 'if.' The word एव 'only' is used to exclude others. The word विशेषः in the *sutra* means the 'dissimilarity of form.' Thus गार्ग्यः + गार्ग्यायणः = गार्ग्यौ. Here the first word denotes a clan called *Gargya* (the offspring or grandsons of *Garga* formed by the affix यञ् (4.1.105) \[1\] the second word denotes a younger branch of the same, and is formed by the *Taddhita* affix denoting a secondary derivative \[2\]. In this then, the first or "*Vriddha*" remains; the second or the *yuvan* is dropped; and the form "*Gargyau*" means both the old and the new clan. Similarly वात्स्यः + वात्स्यायनः = वात्स्यौ ॥ This *Ekasesha* is to be done only in those cases, where the two words have the same radical form, the only difference between them being in their derivative formation. The words must differ only by their affixes, but their radical element must be the same. The rule therefore does not apply to:- गार्ग्यः (a *Vriddha* word + वात्स्यायनः (a *yuvan* word) = गार्ग्यवात्स्यायनौ ॥ This rule of *ekasesha* does not apply if one of the words be not a *Vriddha* word. Thus गर्गः + गार्ग्यायणः = गर्गगार्ग्यायणौ ॥ Similarly vice versa गार्ग्यः + गर्गः = गार्ग्यगर्गौ । Here the one word is *Vriddha*, but the other is not *yuvan*. The word "only" is used in the *sutra* in an exclusive sense, the force being, that two words may stand in the relation of *Vriddha* and *yuvan*, their radical element, i.e. form may be the same; but if the secondary word has another sense over and above the sense of a *yuvan* affix, this rule is not applicable. Thus rule (4.1.148) \[3\] says a "*Vriddha* word may optionally take the affix ठक् to form a *yuvan* word and to indicate contempt and born in the country of *Sauvira*." Thus भागवित्तिः + भागवित्तिकः = भागवित्तिभागवित्तिकौ. Here the second word, though a *yuvan* word, connotes the additional sense of contempt and degradation. The affix ठक् is not merely a *yuvan* affix but conveys the other sense also, the pure *yuvan* word being भागवित्तायनः. N. B.- The system of domestic economy among the ancient *Aryas* was considerably difterent from the prevalent one. The surnames or the *gotras* represented the patriarchal system. Three forms of surnames are constantly met with in ancient literature. The first was most important: it was the patronymic by which the lord of the united family, the patriarch, was known. For example, *Garga* or *Gargacharya* was the recognised head of all the *Gargas* who may be a hundred. His eldest son and heir was called *Gargi*. This is the first form of the patronymic (*apatya*). The grandsons or sons of *Gargi* were named *Gargyas* (*Vriddham* or *Gotra*). On the decease of the old patriarch, *Gargi* began to be called *Garga*; and the eldest of the grandsons was called *Gargi*; and those great-grandsons who belonged to the family, and were designated *Gargayanas* (*yuvan*) were now called *Gargyas*. ## Footnotes - [1] - गर्गादिभ्यो यञ् ॥ - [2] - यञिञोश्च ॥ - [3] — वृद्धाट्ठक्सौवीरेषु बहुलम् ॥ Bhashya ------- वृद्धो यूना तल्लक्षणश्चेदेव विशेषः इह कस्मान्न भवति- अजश्च बर्करश्च, अश्वश्च किशोरश्च, उष्ट्रश्च करभश्चेति? तल्लक्षणश्चेदेव विशेषः इत्युच्यते। न चात्र तल्लक्षण एव विशेषः। तल्लक्षण एव विशेषो यत्समानायामाकृतौ शब्दभेदः ॥ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ॥ 65 ॥ Kashika ------- शेष इति वर्तते। यूनेति सहयोगे तृतीया। वृद्धो यूना सहवचने शिष्यते युवा निवर्तते। वृद्धशब्दः पूर्वाचार्यसंज्ञा गोत्रस्य — अपत्यमन्तर्हितं वृद्धमिति। वृद्धयूनोः सहवचने वृद्धःशिष्यते तल्लक्षणश्चेदेव विशेषः। तदिति वृद्धयूनोर्निर्दशः। लक्षणशब्दो निमित्तपर्यायः। चेच्छब्दो यद्यर्थे। एवकारोऽवधारणे। विशेषो वैरूप्यम्। वृद्धयुवनिमित्तकमेव यदि वैरूप्यं भवति, ततो वृद्धः शिष्यते युवा निवर्तते। समानायामाकृतौ वृद्धयुवप्रत्ययौ भिद्येते। गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ। वात्स्यश्च वात्स्यायनश्च वात्स्यौ। वृद्ध इति किम्? गर्गश्च गार्ग्यायणश्च गर्गगार्ग्यायणौ। यूनेति किम्? गार्ग्यश्च गर्गश्च गार्ग्यगर्गौ। तल्लक्षण इति किम्? गार्ग्यवात्स्यायनौ। एवकारः किमर्थः? भागवित्तिश्च भागवित्तिकश्च भागवित्तिभागवित्तिकौ। कुत्सा सौवीरत्वं च भागवित्तिकस्यापरो विशेषो विद्यते॥ Siddhanta Kaumudi ----------------- यूना सहोक्तौ गोत्रं शिष्यते गोत्रयुवप्रत्यमात्रकृतं चेत्तयोः कृत्स्नं वैरूप्यं स्यात् । गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ । वृद्धः किम् । गर्गगार्ग्यायणौ । यूना किम् । गर्गगार्ग्यौ । तल्लक्षणः किम् । भागवित्तिभागवित्तिकौ । कृत्स्नं किम् । गार्गवात्स्यायनौ ॥ Balamanorama ------------ **वृद्धो यूना तल्लक्षणश्चेदेव विशेषः** - वृद्धो यूना । रूपतोऽर्थश्च भेदेऽपि प्राप्त्यर्थमिदम् । यूनेति ।जीवति तु वंश्ये युवे॑ति वक्ष्यमाणयुवप्रत्ययान्तेनेत्यर्थः । सहोक्ताविति । अध्याहारलब्धमेतत् । गोत्रमिति । वृद्धशब्देनअपत्यं पौत्रप्भृति गोत्र॑मिति सूत्रोक्तं गोत्रं विवक्षितम् ।अपत्यमन्तरिति वृद्ध॑मिति पूर्वाचार्यपरिभाषितत्वादिति भावः । गोत्रप्रत्ययान्त॑मिति यावत् । न चगोत्रं यूने॑त्येव कुतो न सूत्रितमिति वाच्यम्,अपत्याधिकारादन्यत्र गोत्रग्रहणेन लौकिकं गोत्रं विवक्षितमिति सिद्धान्तज्ञापनार्थत्वात् । शिष्यत इति । शेष इति कर्मणि घञन्तमनुवर्तत इति भावः । तल्लक्षण इति । स=गोत्रप्रत्ययो युवप्रत्ययश्च, लक्षणं=निमित्तं यस्येति विग्रहः । विशेषः=वैलक्षणम् । तथाच गोत्रयुवप्रत्ययान्तयोर्विशेषः=वैरूप्यम्, तल्लक्षणश्चेत्=गोत्रयुवप्रत्ययनिमित्तकश्चेदित्यर्थः । अन्यनिमित्तको न चेदित्यर्थः सिद्धः । तदाह — गोत्रयुवेति । कृत्स्नमिति । एवकारलभ्यमिदम् । गाग्र्यश्चेति । गर्गस्य गोत्रपत्यं गार्ग्यः ।गर्गादिभ्यो यञ् । गाग्र्यायण इति । गर्गस्य गोत्रापत्यं गार्ग्यः । तस्यापत्यं युवा गाग्र्यायणः ।यञिञोश्चे॑ति फक् । गाग्र्याविति । अत्र गाग्र्यशब्दस्य गाग्र्यायणशब्दस्य च गोत्रयुवप्रत्ययकृतमेव वैरूप्यमिति गोत्रप्रत्ययान्तो गाग्र्यशब्दः शिष्यत इति भावः । गर्गगाग्र्यायणाविति । गर्गश्च गाग्र्यायणश्चेति विग्रहः । अत्र गर्गशब्दस्य गाग्र्यायणशब्दस्य च युवप्रत्ययमात्रकृतवैरूप्येऽपि गोत्रप्रत्ययान्तत्वाऽभावान्नैकशेष इति भावः । गर्गगाग्र्याविति । अत्र गर्गशब्दस्य गाग्र्यशब्दस्य च गोत्रप्रत्ययमात्रकृतवैरूप्येऽपि गोत्रप्रत्ययान्तो गाग्र्यशब्दो न शिष्यते, यूना सहोक्त्यभावादिति भावः । भागवित्तिभागवित्तिकाविति । भगवित्तस्य गोत्रापत्यं भागवित्तिः । अत इञ् । भागवित्तेः सौवीरस्यापत्यं युवा कुत्सितो भागवित्तिकः ।वृद्धाठ्ठक् सौवीरेषु॑ इति ठक् । अत्र भागवित्तिशब्दस्य च न [गोत्र]युवप्रत्ययमात्रकृतं वैरूप्यं, कुत्सासौवीरत्वकृतस्यापि वैरूप्यस्य सत्त्वात् । अतो गोत्रप्रत्ययान्तो भागावित्तिशब्दो न शिष्यत इति भावः । गाग्र्यवात्स्यायनाविति । गर्गस्य गोत्रापत्यं गार्ग्यः, वत्सस्य गोत्रापत्यं वात्स्यः । गर्गादित्वाद्यञ् । वत्सस्यापत्यं युवा वात्स्यायनः ।यञिञोश्चे॑ति फक् । गाग्र्यश्च वात्स्यायनवश्चेति विग्रहः । अत्र गाग्र्यशब्दस्य वात्स्यायनशब्दस्य च न गोत्रयुवप्रत्ययमात्रकृतं वैरूप्यं, प्रकृतिवैरूप्यस्य गोत्रयुवप्रत्ययमात्रकृतत्वाऽभावात् । अतो गोत्रप्रत्ययान्तो गाग्र्यशब्दो न शिष्यत इति भावः । Tattvabodhini ------------- **वृद्धो यूना तल्लक्षणश्चेदेव विशेषः** - वृद्धो यूना ।अपत्य मन्तर्हितं वृद्ध॑मिति पूर्वाचार्यैः परिभाषितस्य पाणिन्युक्तगोत्राऽपरपर्यायस्येह ग्रहणं, कृत्रिमेण यूना साहचर्यात् । तदाह -गोत्रं शिष्यत इति ।गोत्रं यूना॑इत्येव तु न सूत्रितम्,अपत्याधिकारादन्यत्र लौकिकं गोत्रग्रहण॑मिति सिद्धान्तात् । तेन आपगवश्चानन्तरः, औपगविश्च युवेत्यत्र नैकशेषः । भागवित्तीति । भगवित्तस्य गोत्रापत्यं भागवित्तिरित्यस्माद्यूनिवृद्धाठ्ठक्सौवीरेषु बहुल॑मिति कुत्सायां ठक् । इह कुत्सा सौवीरत्वं चाधिकमपेक्ष्यते नतु युवत्वमात्रकृतं वैरुप्यम् । गाग्र्यवात्स्यायनाविति । इह प्रकृत्यंशे वैरूप्यं, न गोत्रादिकृतम् । Padamanjari ----------- वृद्धशब्दोऽयं लोके चरमे वयसि प्रसिद्धः,युवशब्दो द्वितीये, तयोरिह ग्रहणे तरुणश्च वृद्धश्च युवा च स्थविरश्चेत्यादौ स्यात् । ऽवृद्धिर्यस्याचामादिस्तद्वृद्धम्ऽऽजीवति तु वंश्ये युवाऽ- -अनयोः शास्त्रीययोर्ग्रहणे औपगवश्चानन्तर औपगविश्च युवेत्यादावपि स्यात् । अतो युवशब्दस्य तावत्कृत्रिमस्य व्यवहितापत्यवाचिनोऽत्र ग्रहणम्, तत्साहचर्याद्वृद्धशब्दस्यापि व्यवहितापत्यवाचिनः शास्त्रान्तरे प्रसिद्धस्य ग्रहणमित्याह - वृद्धशब्द इत्यादि । गोत्रग्रहणे त्वपत्याधिकारादन्यत्र लौकिकस्य ग्रहणमित्यपत्यमात्रस्य ग्रहणं स्यात् । क्वचित्पुनरधिकोऽपि ग्रन्थः पठ।ल्ते - यूनेति सहयोग एषा तृतीयेति । स इदानीन्तनैः प्रक्षिप्तः, यूना सह वचन इति सहशब्दं प्रयुञ्जानः सूत्रे सहयोगे तृतीयेति दर्शयति । अत एव ज्ञाप्यते-सहविवक्षायामेकशेष इति । विशेषो वैरूप्यमिति । शब्दस्य वृद्धयुवनिमितस्य ग्रहणान्नान्य इति भावः । पदार्थं दर्शयित्वा तदयमर्थ इत्याह-वृद्धयुवनिमितकमेवेत्यादि । समानायामाकृताविति । आकृतिः शब्दस्य प्रवृत्तिनिमितं गर्गापत्यत्वादि । क्वचितु प्रकृताविति पाठः, प्रकृतिः मूलप्रकृतिर्गर्गशब्दादिः । गार्ग्यश्चेत्यादि । गर्गवत्सशब्दाभ्यां गर्गादित्वाद्यञन्ताभ्यां यूनि ऽयञिञोश्चऽ इति फक् । गार्ग्यायणाविति । प्रकरणादिनात्र जीवद्वंश्यतावसायः; शब्दस्य गोत्रद्वयस्यापि साधारणत्वाद् । यद्येवम्, गार्ग्यश्च गार्ग्यश्चेति गोत्रशब्दयोरेव पूर्वेणैकशेषोऽस्ति प्रकरणादिनैव युवत्वमन्यतरस्य गंस्यते । यूनो हि द्वावाकारौ-जीवद्वंश्यत्वम्, पौत्रप्रभृत्यपत्यत्वं च; तत्र विशेषाविवक्षायां सामान्यशब्दो न निवर्तते, यथा-वस्तुतो भूतानद्यतनेऽपि ऽअभून्नृपो विबुधसखःऽ इति लुङ् भवति, तस्मान्नार्थ एतेन ? उच्यते; प्रकरणानपेक्षेण शब्देन जीवद्वंश्यत्वं प्रतिपादयितुकामो द्वन्द्वं प्रयुञ्जीत गार्ग्यायणाविति । अतो द्वन्द्वनिवृत्यर्थं वचनम् । प्रत्युदाहरणे तु सर्वत्र द्वन्द्वो भवति - गार्ग्यवात्स्यायनाविति । नन्वत्र विशेषान्तरसद्भावेऽपि तल्लक्षणो विशेषो विद्यत इति स्यादेकशेषः, नैष दोषः; एवमर्थवचनं व्यज्यते-योऽसौ विशेषो यस्य सद्भावात्पूर्वेणापप्राप्तिः, स तल्लक्षणश्चेदिति । एवं च यावदुद्देश्यं विधेयसम्बन्धात् सूत्रारम्भहेतुभूतस्य कृत्स्नस्य विशेषस्य तल्लक्षणत्वविधानात् कुतोऽत्र प्रसङ्गः ! इह तु प्राप्नोति - भागवितिभागवितिकाविति, कृत्स्नस्य विशेषणस्य तल्लक्षणत्वात् ? एवकारेण तु व्यावर्त्यते, न ह्यत्र तल्लक्षण एव विशेषस्तदाह - कुत्सा सौवीरत्वं चापरो विशेष इति । विशेषहेतुरित्यर्थः ॥ Nyaas ----- वृद्धशब्दोऽयमस्ति लौकिकः, यश्चरमे वयसि वर्तते; अस्ति च शास्त्रीयः - **वृद्धिर्यस्याचामादिस्तद् वृद्धम्** (1.1.73) इति; अस्ति च पूर्वाचार्यसंज्ञा - अपत्यमन्तर्हितं वृद्धमिति। तत्र यदि लौकिको गृह्रेत? युवशब्दस्यापि तत्साहचर्याल्लौकिकस्यैव वयोविशेषवाचिनो ग्रहणं स्यात्, ततश्चाजश्च वर्करश्चेत्येवमादौ प्रसज्येत। वृद्धावस्थो हि पशुविशेषोऽज इत्युच्यते, युवा तु वर्करः। अथ शास्त्रीय उपादीयते? औपगवश्चौपगविश्चेत्यादावपि स्यादित्येतदालोच्याह - `वृद्धशब्दः` इत्यादि। एतेन पूर्वाचार्यप्रणीतायाः संज्ञाया वृद्धस्येदं ग्रहणमिति दर्शयति। कथं पुनरेतल्लभ्यते? उपदेशात्। अथ वा एवं मन्यते - युवशब्दो यद्यपि लोके द्वितीये वयसि रूढः, तथापि **जीवति तु वंश्ये युवा** (4.1.163) इति परिभाषाबलादपत्ये यो वर्तते स एव गृह्रते। तेन तत्साहचर्यात् वृद्धशब्दस्यापत्यार्थवृत्तेरेव ग्रहणं युक्तमिति। गोत्रग्रहणं तु न कृतम्, वैचित्र्यार्थम्। `यूना सह वचने` इति। सहग्रहणेन यूनेति सहयोग एषा तृतीयेति दर्शयति। अत ए सहयोगे तृतीयाविधानादवगम्यते- सहभावविवक्षायामेकशेषो भवतीति। `समानायाम्` इत्यादिना यत्र वृद्धयुनिमित्तमेव वैरूप्यं तद्व#इषयं दर्शयति। आकृतिः= शब्दस्य प्रवृत्तिनिमित्तम्, गाग्र्यात्वादि, तस्यां समानायाम् = अभिन्नायां यत्र वृद्धयुवप्रत्ययादेव केवलं भिद्येते, नान्यत् प्रकृत्यादिकम्, तत्र वृद्धयुवप्रत्ययनिमित्तमेव वैरूप्यं भवतीति भावः। `गाग्र्यश्च` इत्यादि। गर्गवत्सशब्दाभ्यां गर्गादित्वाद् यञ्, गार्ग्यः, वात्स्यः, ताभ्यां यून्यपत्ये **यञिञोश्च** (4.1.101) इति फक्। गाग्र्यश्च गाग्र्यायणश्च गार्ग्यौ, वात्स्यश्च वात्स्यायनश्च वात्स्यौ। प्रकरणादिनात्र युवार्थो गम्यते। `गर्गश्च` इति। गर्गशब्दोऽयं मूलप्रकृततिः; न वृद्धे वर्तते, नापि यूनि। `गाग्र्यवात्स्यायनौ` इति। अत्र न केवलं वृद्धयुवप्रत्ययनिमित्तको विशेषोऽस्ति, अपि तु प्रकृतिनिमित्तकोऽपि। भागवित्तिशब्दो गोत्रापत्ये भगवित्तशब्दादिञन्तः। `भागवित्तिकश्च` इति। भागवित्तिशब्दाद्यून्यपत्ये **गोत्रस्त्रियाः कुत्सने ण च** (4.1.147) इत्यतः `कुत्सने` इत्यनुवृत्तौ **वृद्धाट्ठक् सौवीरेषु बहुलम्** (4.1.148) इति ठक्॥ Prakriyasarvasvam ----------------- यूना सहोक्तौ गोत्रं शिष्यते, गोत्रयुवप्रत्ययकृतमेव चेद् वैरूप्यम् । गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ । तल्लक्षणश्चेदेव विशेष इत्युक्तेर्गार्ग्यवात्स्यायनावित्यत्र न । Sutra Prayogas -------------- * **दयितैः** (किरातार्जुनीयम्): `वृद्धो यूना तल्लक्षणश्चेदेव विशेषः` इति निर्देशात्सहशब्दाप्रयोगेऽपि सहार्थे तृतीया। * **दिशा** (शिशुपालवधम्): `वृद्धो यूना` इति सूत्रादौ सहाप्रयोगात्सहार्थानामप्रयोगेऽपि तृतीया।