12053: तदशिष्यं संज्ञाप्रमाणत्वात् ================================== **Padacheda:** तत् | S | 1 | 1 | अ-शिष्यम् | S | 1 | 1 | संज्ञा-प्रमाणत्वात् | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- This (concord or gender and number, of primitive and derivative nouns, and of attributes and substantives need not be taught (or approved), because it has the authority of संज्ञा (conventional term or idiom). Vasu English Translation ------------------------ This (concord or gender and number, of primitive and derivative nouns, and of attributes and substantives need not be taught (or approved), because it has the authority of संज्ञा (conventional term or idiom). The agreement between the number and gender of the nouns and attributes; of primary and secondary words formed by suffix rejection, is not an approved syntax. The gender and number of particular derivatives or adjectives are not blindly to be fixed by the primary words or the governed substantives; but it is a matter more or less of usage or idiom: and no hard and fast rule can be laid down for it. Thus the word दाराः 'wife' has the form of masculine plural, but is always applied to females, similarly आपः 'water' is always feminine plural in form, so also गृहाः वर्षाः सिकताः. This *sutra*, therefore, modifies the former *sutras* and leaves the whole question of syntactic agreement to be decided by usage and idiom. The words like *Panchalas*, *Kaurava*, &c, should not be considered as derivative words formed by the *lup* elision of *Taddhita*; but they must be taken as proper nouns and appellatives of certain countries; consequently the gender and number of such words are fixed by the nature of such words and not by any rule of grammar. Bhashya ------- तदशिष्यं सञ्ज्ञाप्रमाणत्वात् ॥ सञ्ज्ञाशब्दार्थनिर्णयाधिकरणम् ॥ किं या एताः कृत्रिमाष्टिघुभादिसञ्ज्ञास्तत्प्रामाण्यादशिष्यम्? न इत्याह। सञ्ज्ञानं सञ्ज्ञा ॥ तदशिष्यं सञ्ज्ञाप्रमाणत्वात् ॥ 53 ॥ Kashika ------- तदिति प्रकृतं युक्तवद्भावलक्षणं निर्दिश्यते। तदशिष्यम्, न वक्तव्यम्। कस्मात्? संज्ञाप्रमाणत्वात्। संज्ञाशब्दा हि नानालिङ्गसंख्याः प्रमाणम्। पञ्चाला वरणा इति च। नैते योगशब्दाः। किं तर्हि? जनपदादीनां संज्ञा एताः। तत्र लिङ्गं वचनं च स्वभावसिद्धमेव न यत्नप्रतिपाद्यम्। यथा — आपो दाराः गृहाः सिकता वर्षा इति॥ Siddhanta Kaumudi ----------------- युक्तवद्वचनं न कर्तव्यं संज्ञानां प्रमाणत्वात् ॥ Balamanorama ------------ **तदशिष्यं संज्ञाप्रमाणत्वात्** - तदेतत्पूर्वाचार्यसूत्रं पाणिनिः प्रत्याचष्टे — तदशिष्यं । यथा 'दाराः' इत्यादौ शास्त्रीयपुंस्त्वविशिष्टस्यैव स्त्रीरूपार्थस्य भानं, तथा लुपि सति शास्त्रीयप्रकृत्यर्थगतलिङ्गसङ्ख्याविशिष्टस्यैव स्वार्थस्य सोकव्यवहारादेव भानं संभवति, न तु तदंशे शास्त्रव्यापारापेक्षेति भावः । संज्ञानामिति । लोकव्यवहाराणामित्यर्थः । Tattvabodhini ------------- **तदशिष्यं संज्ञाप्रमाणत्वात्** - तदशिष्यमिति । पञ्चालाः, अङ्गाः, वङ्गाः, कलिङ्गाः -इत्यादयो जनपदस्य यथायथं बहुवचनाद्यन्ता एव संज्ञा, न त्वत्र यत्नेन लिङ्गसङ्ख्ये प्रतिपादनीये ।आपः॑दारा॑ इत्यादिषु यथा । न हि तत्र शास्त्रेण लिङ्गसङ्ख्ये प्रतिपाद्येते इति भावः । उपजीवकं प्रत्याख्यायोपजीव्यं प्रत्याचष्टे — । Padamanjari ----------- संज्ञाप्रमाणत्वादिति । प्रमाणानाÄ हि प्रमाणत्वं प्रतिपादकत्वं स्वार्थप्रत्यायनलक्षणम् । एतच्च सर्वेषामेव शब्दानामस्ति, न संज्ञाशब्दानामेव । उच्यते चेदं तत्र विशेषो विज्ञायत इत्याह - संज्ञाशब्दा हीत्यादि । ये संज्ञाशब्दास्ते नानालिङ्गसंख्या अपि स्वाभिधेयगतलिङ्गसंख्यापेक्षया भिन्नलिङ्गसंख्या अपि प्रमाणम्, स्वार्थस्य प्रतिपादका इत्यर्थः । भवतु संज्ञाशब्दानामेवंविधं प्रमाणत्वम्, किमायातं यौगिकानां पञ्चालादिशब्दानामित्य आह-पञ्चाला वरणा इत्यादि । तदनेन पक्षधर्मत्वं हेतोरुक्तम्, पूर्वं तु दृष्टान्तगतो हेतुर्व्याख्यातः । दृष्टान्तमाह - यथेति । युक्तवद्भावमारभमाणोऽपि नात्र कञ्चिद्यत्नं करोति, तदवश्यमयं शब्दस्वभाव एवाश्रयणीयः । कश्चिद्धि शब्दः स्वभावात् समुदायसंख्यामभिधते, कश्चिदवयवसंख्याम्, यथा-वनं वृक्षा इति । एवं लिङ्गेऽपि द्रष्टव्यम् ॥ Nyaas ----- `तदशिष्यम्` इति प्रतिज्ञा, `संज्ञाप्रमाणत्वात्` - इति हेतुः। यस्मात् संज्ञाभूतानां पञ्चालादिशब्दानां प्रमाणत्वम्, तस्मात् तदशिष्यम्। प्रमाणत्वं पुनः प्रत्ययलक्षणम्। सर्वेषामेव शब्दानामेवं विधे स्वविषये प्रमाणत्वमस्ति, उच्यते चेदम्, तत्र विशेषो विज्ञायते, स पुनरभिधेयगतलिङ्गसंख्यानपेक्षया भिन्नलिङ्गसंख्यानामपि तेषां स्वार्थे प्रत्यायकत्वम्। अत एवाह - `संज्ञाशब्दा हि नानालिङ्गसंख्याः` इति। `प्रमाणम्िति। प्रमाणं प्रत्यायका वाचका इत्यर्थः। तत्रैतत् स्यात् - संज्ञाशब्दा एवामी पञ्चालादयो न भवन्ति, किं तर्हि? योगनिमित्तका इत्यत आह - `पञ्चाला वरणाः` इत्यादि। योगनिमित्तकाः शब्दा योगशब्दाः। न हि पञ्चालादयः शब्दाः क्षत्रियादिसम्बन्धेन जनपदादौ वर्तन्ते; किं तर्हि? संज्ञा एता जनपदादीनाम्। यदि संज्ञाशब्दा एते, ततः किमिति? तदशिष्यमित्यत आह - `तत्र लिङ्गं वचनञ्च` इत्यादि। कुत एतत्? यत् संज्ञाशब्दानां लिङ्गं वचनञ्च तत्स्वभावसिद्धमित्यत आह - `यथा` इत्यादि। एकस्यामपि जलकणिकायां बहुवचनान्तः स्त्रीलिङ्गोऽप्शब्दः प्रयुज्यते, एकस्यामपि योषिति दारशब्दः पुंल्लिङगो बहुवचनान्तः, गृहशब्दश्चैकस्मिन् वेश्मनि बहुवचनान्तः पुंल्लिङ्गश्च, एकस्यामपि वालुकायां बहुवचनान्तः सिकताशब्दः स्त्रीलिङ्गः, वर्षा इत एकस्मिन् विशिष्टकालेऽपि प्रवर्तमानः स्त्रीलिङ्गो बहुवचनान्तश्च वर्तते। तस्मात् यथैवेषामप्प्रभृतिशब्दानां स्वाभाविकं लिङ्गं वचनञ्च तथा पञ्चालादिशब्दानामपीति नार्थो युक्तवद्भावचनेन। यद्येवम्, कस्मात् पूर्वं तदुक्तम्? प्रतिषेधविषयोपदर्शनार्थम्। न ह्रनिर्दिष्टविषयस्य प्रतिषेधः शक्यते कर्त्तु ज्ञातुं वा॥ Prakriyasarvasvam ----------------- लुपि प्रकृतिवल्लिङ्गवचने इत्येतन्न विधेयम् । दारा इत्यादिवत् कुरव इत्यादीनामपि संज्ञाप्रामाण्यादेव सिद्धेः ॥