12049: लुक् तद्धितलुकि ====================== **Padacheda:** लुक् | S | 1 | 1 | तद्धित-लुकि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- When a तद्धित affix is elided by the word लुक् there takes place the elision by लुक् of feminine affix of the उपसर्जन। Vasu English Translation ------------------------ When a तद्धित affix is elided by the word लुक् there takes place the elision by लुक् of feminine affix of the उपसर्जन। The word लुक् defined in *sutra* 61, Chapter I, is twice used in this *sutra*. Where a *Taddhita* affix is elided by the word लुक्, there the feminine suffix of the *pratipadika* is also dropped, or becomes *luk*. Thus there are certain *Taddhita* suffixes by which patronymics are formed (one of them being अण्) from other nouns. Before this अण् the initial vowel of the word is *vriddhied* and the final is *gunated*. Thus सिन्धु 'ocean', forms सिन्धु + अण् = सैन्धो + अ = सैन्धव 'born in ocean or oceanic.' But there are certain words, e. g. श्रविष्ठा, फल्गुणी &c., which are all feminine gender (see *sutra* (4.3.34) \[1\] after which the patronymic suffix is totally elided, without leaving any trace of its action, by using the word *luk*. Thus श्रविष्ठा + (अण्लुक्) = श्राविश्ठः ॥ Here then the present *sutra* finds its scope. The *Taddhita* suffix being *luked*; the original feminine termination आ also becomes *luk*. Therefore the 'patronymic derivative of श्रविष्ठा (is not a longer word, as might have been expected) but actually a shorter word, namely श्रविष्ठः; similarly from फल्गुनी if we have फल्गुनः &c. Thus there is a feminine suffix called ङीष् (actually ई) and certain words like इन्द्र &c., (4.1.49) \[2\] take an additional suffix called आनुक् (actually आन्). Thus the feminine of इन्द्र will be इन्द्र + आनुक् + ङीष् = इन्द्र + आन् + ई = इन्द्राणी. Now in forming *Dvigu* compound (Numeral Determinative compound), the *Taddhita* suffixes are dropped. Thus पंचकपालः 'an offering (*purodash*) made in a dish with five compartments.' In this compound the *Taddhita* suffix अण् is dropped. Otherwise the form would have been कापालः ॥ Similarly when the word इन्द्राणी forms a *Dvigu* compound, the *Taddhita* suffixes are dropped. But not only that, even the original radical affixes are also dropped by force of the present *sutra*. Thus पंचेन्द्रः which means the cake sacred to the five goddesses इन्द्राणी. Here the full form was पंच + इन्द्राणी + अण्. (The suffix अण् has the force of "sacred to God." Thus इन्द्र + अण् = ऐन्द्रं To sacred to God *Indra*). In the above expression, first the *Taddhita* suffix अण् is *luked* by rule contained in *sutra* (4.1.88) \[3\] relating to *Dvigu* compounds: we have the remaining पंच + इन्द्राणी. In this stage, the present *sutra* comes into force and declares that where a *Taddhita* suffix has been *luked*, the final feminine suffixes of the *upasarjana* *pratipadika* are also *luked*. Therefore, the feminine suffixes आनुक् and ङीष् are also dropped, and we have पंचेन्द्रः which means "cake sacred to the five *Indranis* (goddesses)." The word स्त्री and *upasarjana* of the last *sutra* are understood in this. By the last *sutra*, a word ending in a feminine affix was told to be shortened when it was an *upasarjana*; this *sutra* teaches the total suppression of such an affix in special cases. To take another example: Thus Rule (4.3.163) declares फलेलुक् "*luk* takes the place of an affix signifying modification or product when fruit is meant." Thus यत् is an affix which means modification. Thus गो + यत् = गव्यम् 'cow's milk or the product of cow.' This affix is suppressed when applied to a tree, in the sense of the fruit of the tree. Thus the fruit of the tree आमलकी will be called आमलकं, i. e. first the *Taddhita* affix is *luked*, and then the feminine affix is also dropped. Similarly fruits of वदरी or बकुली trees are बदरं or बकुलं. This rule only applies when a *Taddhita* affix is elided; and not so when any other affix is *luked*. Thus गार्ग्याः + कुलं = गार्गीकुलम् 'the family of *Gargi*.' Here in forming the *samasa*, the case affix of the word *gargi* is *luked* by (2.4.71) \[3\]. But this suppression of the genitive termination does not necessitate the elision of the feminine affix ई of *gargi*. This rule would not also apply if there is no elision by *luk* of a *Taddhita* affix, as in गार्गीत्वम्. Nor will the rule apply when the word is not an *upasarjana*. As अवन्ती, कुन्ती, कुरूः. ## Footnotes - [1] - श्रविष्ठाफल्गुन्यनुराधास्वातितिष्य पुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् ॥ - [2] - इन्द्रवरुणभवशर्वरुद्रमृडीहमारण्ययवयवनमातुलाचार्याणामानुक् ॥ - [3] - द्विगोर्लुगनपत्ये ॥ - [4] - सुपो धातुप्रातिपदिकयोः ॥ Bhashya ------- लुक्तद्धितलुकि ॥ अनिष्टपरिहाराधिकरणम् ॥ - तद्धितलुक्यवन्त्यादीनां प्रतिषेधः - तद्धितलुक्यवन्त्यादीनां प्रतिषेधो वक्तव्यः। अवन्ती। कुन्ती। कुरूः। - तद्धितलुक्यवन्त्यादीनामप्रतिषधोऽलुक्परत्वात् - तद्धितलुक्यवन्त्यादीनामप्रतिषेधः। अनर्थकः प्रतिषेधोऽप्रतिषेधः। लुक्कस्मान्न भवति? अलुक्परत्वात्। लुकि इत्युच्यते, न चाऽत्र लुकं पश्यामः। लुकि इति नैषा परसप्तमी शक्या विज्ञातुम्। नहि लुका पौर्वापर्यमस्ति। का तर्हि? सत्सप्तमी। लुकि सतीति। सत्सप्तमी चेत् प्राप्नोति। एवं तर्हीदमिह व्यपदेश्यं सदाचार्यो न व्यपदिशति। किम्? उपसर्जनस्येति वर्तते इति। न च जातिरुपसर्जनम् ॥ लुक्तद्धितलुकि ॥ 49 ॥ Kashika ------- स्त्रीग्रहणमनुवर्तत उपसर्जनस्येति च। पूर्वेण ह्रस्वत्वे प्राप्ते लुग् विधीयते। तद्धितलुकि सति स्त्रीप्रत्ययस्योपसर्जनस्य लुग् भवति। पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः। दशेन्द्रः। पञ्चभिः शष्कुलीभिः क्रीतः पञ्चशष्कुलः। आमलक्याः फलमामलकम्। बदरम्। कुवलम्। तद्धितग्रहणं किम्? गार्ग्याः कुलं गार्गीकुलम्। लुकीति किम्? गार्गीत्वम्। उपसर्जनस्येत्येव — अवन्ती। कुन्ती। कुरूः॥ Siddhanta Kaumudi ----------------- तद्धितलुकिसत्युपसर्जनस्त्रीप्रत्ययस्य लुक् स्यात् । श्रविष्ठासु जातः श्रविष्ठः । फल्गुन इत्यादि ॥ (वार्तिकम्) ॥ चित्रायां जाता चित्रा । रेवती । रोहिणी । आभ्यां लुक्तद्धितलुकि (SK1408) इति लुकि कृते पिप्पल्यादेराकृतिगणत्वात्पुनर्ङीष् । (वार्तिकम्) ॥ स्त्रियामित्येव । फल्गुनी । अषाढा । (वार्तिकम्) ॥ अस्त्रियामपि । श्राविष्ठीयः । आषाढीयः ॥ Balamanorama ------------ **लुक् तद्धितलुकि** - लुक्तद्धितलुकि । प्रथमस्य द्वितीये इदं सूत्रम् । उपसर्जनस्त्रीप्रत्ययस्येति ।गोस्त्रियोरुपसर्जनस्ये॑त्यतस्तदनुवृत्तेरिति भावः । श्रविष्ठ इति । ऋत्वणो लुकि स्त्रीप्रत्ययस्य निवृत्तिः ।लुक्तद्धितलुकी॑त्यत्र अप्रधानमेवोपसर्जनम्, नतु शास्त्रीयम्, असंभवादिति भावः । फल्गुन इति । फल्गुन्योर्जात इत्यर्थः । णो लुकि स्त्रीप्रत्ययनिवृत्तिः । इत्यादीति । अनुराधासु जातोऽनुराधः । नक्षत्राऽणो लुकि स्त्रीप्रत्ययनिवृत्तिः । एवमग्रे लुकि स्त्रीप्रत्ययनिवृत्तिः । इत्यादीति । अनुराधासु जातोऽनुराधः । नक्षत्राऽणो लुकि स्त्रीप्रत्ययनिवृत्तिः । एवमग्रेऽपि ।अनुराधान् हविषा वर्धयन्तः॑ इत्यादौ छान्दसं पुंस्त्वम् । स्वात्यां जातः-स्वातिः । तिष्ये जातस्तिष्यः । पुनर्वस्वोर्जातः — पुनर्वसुः । पस्ते जातो-हस्तः । विशाखयोर्जातो-विशाखः । अषाढासु जातोऽषाढः । बहुलासु जातो बहुलः । चित्रेति । चित्रादिभ्यः परस्य स्त्रीरूपजातार्थकप्रत्ययस्य लुगित्यर्थः । रेवती रोहिणीति । जातायां नक्षत्राऽणो लुकि सति प्रकृतेर्गौरादिस्त्रीप्रत्ययनिवृत्तौ जातार्थगतस्त्रीत्वे पुनर्ङीष् । ननु 'रेवती नक्षत्रे' 'रोहिणी नक्षत्रे' इति गौरादौ पाठादिह जातार्थवृत्तिभ्यां कतं ङीषित्यत आह — आभ्यामिति । रेवतीरोहिणीशब्दाभ्यामित्यर्थः ।परस्य स्त्रीत्वविशिष्टजातार्थप्रत्ययस्ये॑ति शेषः । आकृतिगणत्वादिति । स्त्रीत्वविशिष्टजातार्थवृत्त्योरनयोः पिप्पल्यादौ निवेसे बाष्योदाहरणमेव प्रमाणम् । स्त्रियामित्येवेति । तथा भाष्यादिति भावः । फल्गुनी, आषाढा इत्याभ्यां क्रमाट्टः अन् च स्त्रीत्वविशिष्टजातार्थे वक्तव्यावित्यर्थः । फल्गुनीति । फल्गुन्योर्जातेत्यर्थः । नक्षत्राऽणोऽपवादष्टप्रत्ययः ।यस्येति चे॑ति ईकारलोपः । जातार्थस्त्रीत्वे टित्त्वान्ङीप् । अषाढेति । अषाढासु जातेत्यर्थः । नत्रत्राऽणोऽपवादोऽन् । 'यस्येति च ' इत्याकारलोपः । जातार्थे स्त्रीत्वे टाप् । 'श्रविष्ठाफल्गुनी' त्यादिना टाऽनोर्लुक् तु न, विधानसामर्थ्यात् । छण्वक्तव्य इति । नक्षत्राऽणोऽपवादः । विधिसामर्थ्यादस्यापि न लुक् । अस्त्रियामपीति । अत्र स्त्रियामिति न संबध्यते, भाष्ये तथोदाहरणादिति भावः । श्राविष्ठीय इति । श्रविष्ठासु जात इत्यर्थः । छण् । ईयःयस्येति चे॑त्याकारलोपः । णित्त्वादादिवृद्धिः । आषाढीय इति । अषाढासु जात इत्यर्थः । Tattvabodhini ------------- **लुक् तद्धितलुकि** - लुक्त । उपसर्जनेति । अप्रधानमिहोपसर्जनं गृह्रते , न शास्त्रीयम्, असंभवात् । ननुगोस्त्रियो॑रिति सूत्रेऽप्यप्रधानलक्षणमेवोपसर्जनं गृह्रताम्एकविभक्ति चे॑ति शास्त्रीयं न गृह्रताम् । मैवम् । हरीतक्याः फलानि हरीतक्य इत्यत्र ह्रस्वप्रसङ्गात् । उपसर्जनस्य किम् । अवन्ती, कुन्ती, कुरूः ।श्रविष्ठाऽषाढाभ्यां छण्वक्तव्यः । श्रविष्ठास्विति । श्रविष्ठा=धनिष्ठाः । इत्यादीति । आदिशब्दादनूराधः । स्वातिः । तिष्यः । पुनर्वसुः । हस्तः । विशाखः । अषाढः । बहुलः । कृत्तिकावाची बहुलाशब्दष्टाबन्तः, तस्य समाहारद्वन्द्वेन ह्रस्वनिर्देशः सूत्रे । उपशङ्ख्यानमिति ।लुक॑इति शेषः । चित्रेति ।लुक्तद्धिते॑ति लुकि पुनष्टाप् । टाऽनाविति । विधानसामर्थ्यादनयोर्न लुक् । Padamanjari ----------- स्त्रीग्रहणमनुवर्तते इति । न तु गोग्रहणम्, कुतः ? प्रत्ययादर्शनस्य लुक्संज्ञाविधानाद् गोशब्दस्याव्युत्पन्नत्वाद् व्युत्पत्तिपक्षेऽप्यस्वरितत्वात् । उपसर्जनस्य चेति । ऽअनुवर्ततेऽ इत्यपेक्षते । लौकिकं चात्रोपसर्जनं गृह्यते, न शास्त्रीयम् । पूर्वेण ह्रस्वत्वे प्राप्ते इति क्वचित्पठ।ल्ते, तत्र क्वचिदिति विशेषः । पूर्वसूत्रेण हि शास्त्रीयमुपसर्जनं गृहीतं तस्यावकाशो यत्र न तद्धितलुग्निष्कौशाम्बिरिति; अस्यावकाशो यत्र शास्त्रीयमुपसर्जनम्-आमलकमिति । तद्धितलुक्च यथा - पञ्चेन्द्र इति, अत्र हि समासार्थे नानाविभक्तिके पञ्चेन्द्राणीत्येकविभक्तिकमिति अस्त्युपसर्जनत्वम्; तत्रोभयप्रसङ्गे परत्वादयमेव लुग् ह्रस्वं बाधत इत्यर्थः । केचित्वस्मादेव ग्रन्थात् पूर्वसूत्रेऽपि लौकिकस्योपर्जनस्य ग्रहणं मन्यन्ते, तेषां हरीतक्यः फलानि इति लुब्विषये ह्रस्वप्रसङ्ग इत्युक्तम् । स्यादेवम् - लुपि युक्तवदिति शब्दार्थयोरप्यतिदेशः प्रकृत्यर्थस्य यल्लिङ्गं यश्च तदभिधायी प्रत्ययः तयोर्द्वयोरतिदेशः, तत्रौपदेशिकस्य ह्रस्वत्व आतिदेशिकस्य श्रवणं भविष्यतीति ? यद्येवम्, युवतिरिव पुरुषः ऽलुम् मुनष्येऽ युवतिः, द्वौ तिशब्दौ श्रूयेयाताम्; तस्मात् ऽलुब्योगाप्रख्यानात्ऽ इति लुपः प्रत्याख्यानेन वात्र परिहारो वाच्यः, शास्त्रीयं वोपसर्जनं ग्राह्यम् । ग्रन्थस्य च व्याख्यात एवार्थः । अभावरूपेण लुका पौर्वाभर्यासम्भवाल्लुकीति सत्सप्तमीत्याह-लुकि सतीति । पञ्चन्द्र इति । ऽतद्धितार्थऽ इति समासः,ऽसास्य देवताऽ इत्यणः ऽद्विगोर्लुगनपत्येऽ इति लुक्, ऽइन्द्रवरुणऽ इत्यादिना विहितस्य ङीषोऽनेन लुक्, सन्नियोगविशिष्टानामन्यतराभाव इत्यानुको निवृत्तिः । पञ्चशष्कुल इति । ऽतेन क्रीतम्ऽ इत्यार्हीयस्य ठकः ऽअध्यर्द्धपूर्वऽ इति लुक् । आमलकमिति । ऽनित्यं वृद्धशरादिभ्यःऽ इति मयटः ऽफले लुक्ऽ । बदरीकुवलीशब्दाभायाम् ऽअनुदातादेश्चऽ इति अञ् । शष्कुल्यादयो गौरादिङीषन्ताः । अवन्तीत्यादि । अवन्ति-कुन्ति-शब्दाभ्यामपत्ये ऽ वृद्धेत्कोसलाजादाञ्ञ्यङ्ऽ । कुरोः ऽकुरुनादिभ्यो ण्यःऽ, स्त्रियामवन्तीति लुक्, कुरुशब्दाद् ऽऊणुतःऽ इत्युङ् । इतराभ्याम् ऽइतो मनुष्यजातेःऽ इति ङीष् । अत्रापत्यलक्षणा जातिः स्त्रीप्रत्ययान्तेन प्राधान्येनाभिधीयते ॥ Nyaas ----- अदर्शनं (1.1.59) लुक्, तच्चाभावः। अभावे पौवापर्यन्नोपपद्यते। तस्माल्लुकीति सति सप्तमीयम्, न परसप्तमीति मत्वाहऽऽह - `तद्धितलुकिसति` इति। `पञ्चेन्द्रः` इति। `तद्धितार्थ` (2.1.50) इत्यादिना समासे कृते **सास्य देवता** (4.2.24) इत्यण्, तस्य **द्विगोर्लुगनपत्ये** (4.1.88) इति लुक्, `इन्द्रवरुण` (4.1.49) इत्यादिना विहितस्य ङीषोऽनेन लुक्। तस्मिन्निवृत्ते सन्नियोगशिष्टानामेकतरापाय उभयोरप्यपाय इत्यानुको निवृत्तिः। `पञ्चशष्कुलिः` इति। `अध्यद्र्धपूर्वद्विगोर्लुगसंज्ञायम्` (5.1.28) इत्यार्हीयस्य ठकस्तेन क्रीतार्थे विहितस्य लुक्। `आमलकम्` इति। आमलक्याः फलं विकार इति **नित्यं वृद्धशरादिभ्यः** (4.3.144) इति मयट् । पूर्ववल्लुक्। शष्कुली, बदरी, आमलकी, कुवली - गौरादिपाठदेते ङीषन्ताः।`गार्गीकुलमिति। गर्गशब्दात् `यञश्च` (4.1.16) इति ङीप्; **यस्येति च** (6.4.148) इत्यकारलोपः; **हलस्तद्धितस्य** (6.4.150) इति यकारस्य च लोपः, गार्ग्याः कुलमिति षष्ठीसमासः, षष्ठ्या लुक्। गार्गीशब्दस्य समासशास्त्रे प्रथमानिर्दिष्टत्वाच्छास्त्रीयमुपसर्जनत्वम्, मूलोदाहरणेषु त्विन्द्रणी प्रभृतीनां लौकिकमात्रोपसर्जनमत्वम्। उभयगतिरिह शास्त्रे सम्भवतीति लौकिकमप्रधानत्वमुपसर्जनत्वम्। लोके ह्रप्रधानमुपसर्जनमित्यच्यते। `गार्गीत्वम्` इत्यत्रापि गार्गीशब्दस्य लौकिकमेवोपसर्जनत्वम्। `अवन्ती, कुन्ती कुरूः` इति। अवन्तेरपत्यं गोत्रं स्त्री, कुन्तेरपत्यं गोत्रं स्त्री - **वृद्धेत्कोसलाजादाञ्ञ्यङ्** (4.1.171) । कुरोरपत्यं स्त्री - **कुरुनादिभ्यो ण्यः** (4.1.172) इति ण्यः। **स्त्रियामवन्तिकुन्तिकुरुभ्यश्च** (4.1.176) इति लुक्।अवन्तिकुन्तुशब्दाभ्याम्, **इतो मनुष्यजातेः** (4.1.65) इति ङीष्। कुरुशब्दात् `ऊङुतः` (4.1.66) इत्यूङ। अत्र ङीषा ऊङा च तद्धितार्थो गोत्रापत्यं स्त्रीप्रधानमेवाभिधीयत इत्युपसर्जनत्वं नासति लौकिकम्। शास्त्रीयमपि नास्ति; अप्रथमानिर्दिष्टात् समासशास्त्र इति॥ Prakriyasarvasvam ----------------- तद्धितस्य लुकि सत्यप्रधानस्य स्त्रीप्रत्ययस्य लुक् स्यात् । श्रविष्ठासु जातः, श्रविष्ठः । अत्र जातस्यैव प्राधान्याच्छ्रविष्ठाया अप्राधान्यम् । फल्गुनः । अनूराधः । स्वातिरित्यादि । बहुलाः कृत्तिकाः । तज्जो बहुलः । स्वातीति ङीषन्तस्य ग्रहादङीषन्तादणो लुङ्नेति माधवः । 'न त्वाभ्याम्' (७-३-३) इत्यैच् । स्वातौ जातः, सौवातः । 'चित्रारेवतीरोहिणीभ्यः स्त्रियां लुग् वाच्यः ।' ततः स्त्रीप्रत्ययस्य लुकि पुनष्टाप् गौरादिङीष् च । चित्रायां जाता, चित्रा । रेवती । रोहिणी । पुनर्जातयोः स्त्रीप्रत्यययोः प्राधान्यान्न लुक् । अस्त्रियां लुग् वेति भोजः । चित्रः । चैत्रः । रेवतः । रैवतः । रोहिणः । रौहिणः । 'फल्गुन्यषाढाभ्यां स्त्रियां टानौ वाच्यौ ।' यस्येति लोपे फल्गुनः । टित्त्वाद् ङीप् । फल्गुनी । अषाढा । 'श्रविष्ठाषाढाभ्यां च्छण् वाच्यः ।' श्राविष्ठीयः । आषाढीयः । श्राविष्ठः, आषाढः, फाल्गुन इत्यणपि भोजोक्तः ॥ Sutra Prayogas -------------- * **परिणतजम्बुफलोपभोगहृष्टा** (किरातार्जुनीयम्): `लुक्तद्धितलुकि` इति स्त्रीप्रत्ययनिवृत्तिः।