12047: ह्रस्वो नपुंसके प्रातिपदिकस्य ==================================== **Padacheda:** ह्रस्वः | S | 1 | 1 | नपुंसके | S | 7 | 1 | प्रातिपदिकस्य | S | 6 | 1 | Sutrartha --------- **अजन्तस्य नपुंसकस्य प्रातिपदिकस्य ह्रस्वः भवति ।** यदि कस्यचन प्रातिपदिकस्य अन्ते दीर्घः स्वरः अस्ति, तर्हि नपुंसकलिङ्गस्य विवक्षायाम्तस्य ह्रस्वादेशः भवति । **अचश्च** (1.2.28) इत्यनेन अच्-वर्णस्य ह्रस्वादेशः भवति । **अलोऽन्त्यस्य** (1.1.52) इत्यनेन अन्तिम-वर्णस्य अयं ह्रस्वादेशः विधीयते । यथा - 1. 'श्रीम् पाति तत्' अस्मिन् अर्थे 'श्रीपा' शब्दस्य नपुंसकलिङ्गस्य विवक्षायामाकारस्य ह्रस्वादेशे अकारः जायते, अतः 'श्रीप' इति प्रातिपदिकं सिद्ध्यति । ततः अस्य शब्दस्य रूपाणि 'फल' शब्दवत् भवन्ति । यथा - श्रीपम्, श्रीपे श्रीपाणि । 2. 'अतिरै' (इत्युक्ते अत्यन्तम् यस्य मूल्यमस्ति सः) इदं विशेषणम् नपुंसकलिङ्गशब्दस्य विषये यदि प्रयुज्यते, तर्हि नपुंसकलिङ्गस्य विवक्षायामस्य शब्दस्य **ह्रस्वो नपुंसके प्रातिपदिकस्य** (1.2.47) इत्यनेन ह्रस्वादेशः भवति । **एचः इग्घ्रस्वादेशे** (1.1.48) इत्यनेन एच्-प्रत्याहारस्य वर्णस्य ह्रस्वादेशे अन्तरतमः इक्-प्रत्याहारस्य वर्णः जायते । अतः अत्र ऐकारस्य स्थाने तादृशः तालव्यः इकारः आदेशरूपेण आगच्छति, अतः 'अतिरि' इति प्रातिपदिकम् सिद्ध्यति । अस्य रूपाणि 'वारि' शब्दवत् भवन्ति । यथा - अतिरि रत्नम्, अतिरीणि रत्नानि । 3. अतिनौ (इत्युक्ते, यस्मात् नौका निर्गता, सः) इदं विशेषणम् नपुंसकलिङ्गे प्रयुज्यते चेत् **ह्रस्वो नपुंसके प्रातिपदिकस्य** (1.2.47) इत्यनेन अस्य ह्रस्वादेशः भवति । **एचः इग्घ्रस्वादेशे** (1.1.48) इत्यनेन एच्-प्रत्याहारस्य वर्णस्य ह्रस्वादेशे अन्तरतमः इक्-प्रत्याहारस्य वर्णः जायते । अतः अत्र औकारस्य स्थाने तादृशः औष्ठ्यः उकारः आदेशरूपेण आगच्छति, अतः 'अतिनु' इति प्रातिपदिकम् सिद्ध्यति । अस्य रूपाणि मधु-शब्दवत् भवन्ति । यथा, अतिनु तटम् , अतिनूनि तटानि । ज्ञातव्यम् - हलन्त-नपुंसकलिङ्गशब्दानां विषये अस्य सूत्रस्य प्रसक्तिः नास्ति, यतः तेषामन्ते अच्-वर्णः एव नास्ति । यथा - जगत्, हृद्, नामन्, स्वनडुह् - आदयः । Sutrartha (English) ------------------- The last letter of an अजन्त प्रातिपदिक is becomes हस्व in context of नपुंसकलिङ्ग. Vasu English Summary -------------------- The short vowel is substituted in the neuter, for the final vowel, of a प्रातिपदिक। Vasu English Translation ------------------------ The short vowel is substituted in the neuter, for the final vowel, of a प्रातिपदिक। In the neuter gender, the *pratipadika* that would have ended in a long vowel, changes it into short. Thus अति + रै = अतिरि 'extravagant', as अतिरि = कुलम् 'an extravagant family'; अति लो = अतिलु 'very hairy', अतिलुं कुलं 'a very hairy family.' There is no substitution of short vowel, if the noun is not in the neuter gender, as ग्राम + नी = ग्रामणी, nom case ग्रामणीः 'the leader of a village or head-borough.' Similarly सेनानीः 'the leader of an army.' A word may be in the neuter gender, but if it is not a *pratipadika*, the vowel is not shortened. As काण्डे तिष्ठतः 'two cantos remain.' Here the ए of काण्डे is formed by the coalescence of अ (of the *pratipadika* काण्ड) and इ (the dual case termination); thus काण्ड + इ = काण्डे. Now it might be urged that here one letter ए replaces two letters अ and इ. Therefore this substitute is equivalent to each of those letters separately, and consequently ए is the vowel of the *pratipadika* and ought to be shortened. But this is not to be so, because the word *pratipadika* has been especially mentioned in the text, and therefore this *ekadesa* is not treated as the final of the form which precedes it. Bhashya ------- ह्रस्वो नपुंसके प्रातिपदिकस्य ॥ प्रातिपदिकपदप्रयोजनाधिकरणम् ॥ प्रातिपदिकग्रहणं किमर्थम्? - नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणं तिब्निवृत्त्यर्थम् - नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणं क्रियते तिब्निवृत्त्यर्थम् तिबन्तस्य ह्रस्वत्वं मा भूत्- काण्डे कुड्ये। रमते ब्राह्मणकुलमिति। - अव्ययप्रतिषेधः - अव्ययानां प्रतिषेधो वक्तव्यः। इह मा भूत्- दोषा ब्राह्मणकुलम्। दिवा ब्राह्मणकुलमिति। स तर्हि वक्तव्यः? न वक्तव्यः। नात्राऽव्ययं नपुंसके वर्तते। किं तर्हि? अधिकरणमत्राव्ययं नपुंसकस्य। इह तर्हि प्राप्नोति- काण्डीभूतं वृषलकुलम्, कुड्यीभूतं वृषलकुलमिति। - न वा लिङ्गाऽभावात् - न वा वक्तव्यम्। किं कारणम्? लिङ्गाऽभावात्। अलिङ्गमव्ययम्। किं पुनरयमव्ययस्यैव परिहार अहोस्वित्तिबन्तस्यापि परिहारः? तिबन्तस्यापि इत्याह। कथम्? अव्ययं हि किञ्चिद्विभक्त्यर्थप्रधानं किञ्चित्क्रियाप्रधानम्। उच्चैर्नीचैरिति विभक्त्यर्थप्रधानम्, हिरुक् पृथगिति क्रियाप्रधानम्। तिबन्तं चापि किञ्चिद्विभक्त्यर्थप्रधानं, किञ्चित्क्रियाप्रधानम्। काण्डे कुड्ये इति विभक्त्यर्थप्रधानं, रमते ब्रह्मणकुलमिति क्रियाप्रधानम्। न चैतयोरर्थयोलिङ्गसङ्ख्याभ्यां योगोऽस्ति। अवश्यं चैतदेवं विज्ञेयम्। क्रियमाणेऽपि हि प्रातिपदिकग्रहणे इह प्रसज्येत - काण्डे कुड्ये। द्वे ह्यत्र प्रातिपदिकसञ्ञ्ज्ञे। अवयवस्यापि समुदायस्यापि । गृह्यते च प्रातिपदिकाऽप्रातिपदिकयोरेकादेशः प्रातिपदिकग्रहणेन। तस्मादुभाभ्यामिति वक्तव्यं स्यात्- ह्रस्वो नपुंसके यत्तस्य इति। किं च नपुंसके? नपुंसकं यस्य गुणः। कस्य च नपुंसकं गुणः प्रातिपदिकस्य। - यञेकादेशदीर्घैत्त्वेषु प्रतिषेधः - यञ्ञैकादेशदीर्घेत्त्वेषु प्रतिषेधो वक्तव्यः। युगवरत्राय युगवरत्रार्थम् युगवरत्रेभ्यः। - यञ्ञेकादेशदीर्घैत्त्वेषु बहिरङ्गलक्षणत्वात्सिद्धम् - बहिरङ्गा एते विधयः। अन्तरङ्गं ह्रस्वत्वम्। असिद्धं बहिरङ्गमन्तरङ्गे। - उपसर्जनह्रस्वत्वे च - किम्? यञ्ञेकादेशदीर्घैत्वेषु प्रतिषेधो वक्तव्यः। अतिखट्वाय। अतिखट्वार्थम्। अतिखट्वेभ्यः। बहिरङ्गलक्षणत्वात्सिद्धम् इत्येव। बहिरङ्गा एते विधयः। अन्तरङ्गं ह्रस्वत्वम्। असिद्धं बहिरङ्गमन्तरङ्गे ॥ ह्रस्वो नपुंसके प्रातिपदिकस्य ॥ 47 ॥ Kashika ------- नपुंसकलिङ्गेऽर्थे यत् प्रातिपदिकं वर्तते, तस्य ह्रस्वो भवत्यादेशोऽलोऽन्त्यस्याचः। अतिरि कुलम्। अतिनु कुलम्। नपुंसक इति किम्? ग्रामणीः। सेनानीः। प्रातिपदिकस्येति किम्? काण्डे तिष्ठतः। कुड्ये तिष्ठतः। प्रातिपदिकग्रहणसामर्थ्यादेकादेशः पूर्वस्यान्तवद् न भवति॥ Siddhanta Kaumudi ----------------- क्लीबे प्रातिपदिकस्याऽजन्तस्य ह्रस्वः स्यात् । श्रीपम् । ज्ञानवत् । श्रीपाय । अत्र संनिपातपरिभाषया आतो धातोः (SK240) इत्याकारलोपो न ॥ Laghu Siddhanta Kaumudi ----------------------- अजन्तस्येत्येव । श्रीपं ज्ञानवत् ॥ द्वे २ । त्रीणि २ । Balamanorama ------------ **ह्रस्वो नपुंसके प्रातिपदिकस्य** - अथ आदन्ताः । श्रियं पातीति श्रीपाशब्दो विआपाशब्दवद्विजन्तः क्विबन्तो वा । तस्य न पुंसकत्वे ह्रस्वविधानमाह — ह्रस्वो नपुंसके । ह्रस्वश्रुत्योपस्तितेनाऽच इत्यनेन प्रातिपदिकस्य विशेषणात्तदन्तविधिरित्याह — क्लीब इत्यादिना । नच कुले इति द्विवचने एकादेशस्य पूर्वान्तत्वेन ग्रहणादजन्तप्रातिपदिकत्वाद्ध्रस्वः स्यादिति वाच्यम्, अर्थवदधातुरित्यतः प्रातिपदिकग्रहणानुवृत्तौ पुनः प्रातिपदिकग्रहणेनाऽन्तवद्भावतः प्रातिपदिकत्वे ह्रस्वाऽभावबोधनात् । ज्ञानवदिति । ह्रस्वविधानाद्दीर्घान्तत्वप्रयुक्तो न कश्चिद्विशेष इति भावः ।जश्शसोः शिः॑ । श्रीपाणीति रूपम् । भिन्नपदस्थत्वेऽपि 'एकाजुत्तरपदे णः' इति णत्वप्रवृत्तेः । श्रीपेण । इनादेशे गुणे तस्य पूर्वान्तत्वादुत्तरपदस्य एकाच्त्वात्स्यादेव णत्वम् । श्रीपायेति । श्रीपाशब्दस्य 'ह्रस्वो नपुंसके' इति ह्रस्वत्वे ङेर्यादेशेसुपि चे॑ति दीर्घे रूपम् । संनिपातपरिभाषा तु कष्टायेति निर्देशान्न प्रवर्तत इति प्रागुक्तम् । नन्वत्र ह्रस्वत्वे कृतेऽपिपे॑त्यस्य एकदेशविकृतन्यायेन धातुत्वानपायाद्दीर्घे कृते आकारान्तत्वाच्च 'आतो धातोः' इत्याल्लोपः स्यात्, यादेशस्य स्वतो यकारादितया स्थानिवत्त्वेन स्वादिप्रत्ययतया च तस्मिन् परे भत्वस्यापि सत्त्वादित्यत आह-अत्र संनिपातेति । ननूपजीव्यविघातकं प्रति उपजीवकं निमित्तं न भवतीति संनिपातपरिभाषया लभ्यते । प्रकृतेच अदन्तमुपजीव्य प्रवृत्तस्य यादेशस्य आल्लोपं प्रति कथं न निमित्तत्वम् । यादेशस्य आकारमुपजीव्य प्रवृत्तत्वाऽभावेन आकारलोपं प्रति निमित्तत्वे बाधकाऽभावादिति चेत्, मैवम्-यादेशस्तावद्ध्रस्वमवर्णमुपजीव्य प्रवर्तते, तद्विधावत इत्यनुवृत्तेः । ततश्च ह्रस्वत्वमवर्णत्वं च समुदितं यादेशस्योपजीव्यम् । तत्र कष्टायेति निर्देशात्संनिपातपरिभाषां बाधित्वा कृते ।ञपि दीर्घे ह्रस्वत्वांश एव निवृत्तः । अवर्णत्वांशस्त्वनुवृत्त एव । तस्याप्याल्लोपेन निवृत्तौ उपजीव्यविघातः स्यादेवेति भवेदेव संनिपातपरिभाषाविरोधः । अतो न भवत्याल्लोप इति कौस्तुभे समाहितम् 'इको गुणवृद्धी' इत्यत्र । वस्तुतस्त्वातो धातोरित्यत्र लक्षणप्रतिपदोक्त परिभाषया प्रतिपदोक्त एवाकारान्तदातुर्गृह्रते । इह तु पाधातोह्र्यस्वत्वे तु पुनर्दीर्घे सति अवगम्यमानं पास्वरूपं लाक्षणिकमेवेति न तस्यात्र ग्रहणमित्यास्तां तावत् । इत्यादन्ताः । Tattvabodhini ------------- **ह्रस्वो नपुंसके प्रातिपदिकस्य** - ह्रस्वो नपुंसके । इह ह्रस्वश्रुत्योपस्थितेनाऽच इत्यनेन प्रातिपदिकविशेषमात्तदन्तविधिरित्यह — अजन्तस्येति । प्रातिपदिकस्याचेति वैयधिकरण्येन व्याख्यायां तुसुवाग्ब्राआहृआणकुल॑मित्यत्रातिप्रसङ्गः स्यात् । एतच्च अचश्चे॑ति सूत्र एवास्माभिः स्पष्टीकृतम् । प्रातिपदिकस्येति किम् । काण्डे । कुडए । ज्ञानवादिति । श्रीपाणी॑त्यादौएकाजुत्तरपदे॑इति णत्वं तु विशेषः । श्रीपेणे॑ त्यत्रापीनादेशेन सहाद्गुणे कृते एकादेशस्य पूर्वान्तत्वेन ग्रहणात्अचः परस्मि॑न्निति सूत्रे पूर्वस्माद्विधिः पूर्वविधिरिति पञ्चमीसमासपक्षाश्रयेण स्थानिवत्त्वाद्वा एकाजुत्तरपदमस्तीति स्यादेव णत्वम् । संनिपातेति । अवर्णमाश्रित्य कृतो यादेशः कथमवर्णलोपे निमित्तं स्यात् । न चसुपि चे॑ति दीर्घार्थं संनिपातपरिभाषाया अनित्यात्वाभ्युपगम आवश्यक एवेति वाच्यम्,कष्टाये॑ति निर्देशेन दीर्घविधौ अनित्यात्वाभ्युपगमेऽप्यवर्णलोपे कार्ये तदनभ्युपगमात् । कृतेऽपि दीर्घे ह्रस्वव्यक्त्यपायेऽप्यत्वजातेरनपायादिति दिक् । एतेनश्रीपशब्दान्ङयि श्रीत्ये॑ति केषाञ्चिद्व्याख्यानं परास्तम् । Padamanjari ----------- सूत्रे नपुंसकशब्देन तद्वद्द्रव्यं विवक्षितं न लिङ्गमात्रमित्याह-नपुंसकलिङ्गेऽर्थे इति । नपुंसकं लिङ्गमस्येति बहुव्रीहिः । ग्रामणीरिति । ऽसत्सूदिषऽ इत्यादिना क्विप् । प्रातिपदिकस्येति किमिति । नपुंसकलिङ्गं द्रव्यस्यैव धर्मः, द्रव्यवाचित्वं च प्रातिपदिकस्यैव, न सुबन्तस्य; शक्तिसङ्ख्याप्राधान्यात् । न धातोस्तिडन्तस्य वाक्यस्य वा; क्रियाप्रधानत्वात् । वर्णास्त्वनर्थकाः, स्त्रीप्रत्ययानां तु विरुद्धेन नपुंसकेनायोग इति प्रश्नः । काण्डे कुण्ड।ले इति । अत्र ऽअप्रत्ययःऽ इति निषेधात् प्रतिपदिकत्वं नास्ति । ननु च एकादेशः पूर्वं प्रत्यन्तवद्भावात् प्रातिपदिकग्रहणेन गृह्यते इति क्रियमाणेऽपि प्रातिपदिकग्रहणे ह्रस्वत्वं स्यादेवात् आह-प्रातिपदिकग्रहणसामर्थ्यादिति । कथं पुन सामर्थ्यम्, यावता यत्रान्तवद्भावो नास्ति-वाः वारी त्रपुणी इत्यादौ, तद्व्यावर्त्यं स्यात् ? अथ शक्तिसङ्ख्याप्रधानत्वात् तत्र नपुंसकेनायोगः, काण्डे इत्यादावपि एवमपे न भविष्यति । न ह्यन्तवद्भावेन प्रातिपदिकत्वे सत्यपि शक्तिसङ्ख्याप्राधान्यं हीयते । एवं मन्यते-ऽअसति प्रातिपदिकग्रहणे नपुंसकवृतेरनपुंसकवृतेश्च य एकादेशः स नपुंसकवृत्तिग्रहणेन गृह्यते नपुंसक इति स्यात्प्रसङ्गः । प्रातिपदिकग्रहणे तु मुख्यप्रातिपदिकग्रहणार्थत्वाद् अतिदिष्टप्रातिपदिकत्वस्य ह्रस्वस्याभावःऽ इति । उतार्थं च प्रातिपदिकग्रहणम् । इह वनाय, वनाभ्याम्, वनार्थम्, वनेभ्य इति ह्रस्वो न भवति, बहिरङ्गयोर्दीर्घत्वयोरसिद्धत्वात् । काण्डीभूतमित्यत्र पूर्वं नपुंसकत्वेऽपि च्व्यन्तदशायामव्ययत्वेनालिङ्गत्वाद् ह्रस्वाभावः ॥ Nyaas ----- `नपुंसकलिङ्गे` इति। नुपुंसकं लिङ्गं यस्येति बहुव्रीहिः। स पुनर्नपुंसकलिङ्गोऽर्थो द्रव्यभूतो वेदितव्यः; न पुंसकिलिङ्गस्य द्रव्यधर्मत्वात्। `अलोऽन्त्यस्य` इति। **अलोऽन्त्यस्य** (1.1.52) इति परिभाषा।`ग्रामणीः` इति। `सत्सूद्विष` (3.2.61) इत्यादिना क्विप्। `अग्रग्रामाभ्यां च` (का।वा।5064) इत्युपसंख्यानाण्णत्वम्। काण्डे, कुडए - इत्यत्रापि `अप्रत्ययः` इति प्रतिषेधात्प्रातिपदिकसंज्ञा नास्ति, तेन ह्रस्वत्वं न भवति। ननु च प्रातिपदिकाप्रातिपदकयोरेकादेशोऽन्तादिवद्भावात् प्रातिपदिकग्रहणेन गृह्रते, ततश्च क्रियमाणे प्रातिपदिकग्रहणे ह्रस्वत्वं प्राप्नोतीत्यत आह - `प्रातिपदिकगर्हणसमथ्र्यात्` इत्यादि। इह यदन्तवद्भावः स्यात्, प्रातिपदिकगर्हणमनर्थकं स्यात्,व्यवच्छेद्याभावादिति भावः॥ Praudhamanorama --------------- इह ह्रस्वश्रुत्या 'अचः' इत्येतदुपस्थितम्। तेन प्रातिपदिकस्य विशेषणात् तदन्तविधिरित्याह- **अजन्तस्येति।** प्रातिपदिकस्याच इति तु न व्याख्यातम्, सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वात्, सुवाग्ब्राह्मणकुलमित्यादौ अतिव्याप्तेश्च। **सन्निपातेति।** अवर्णमाश्रित्य कृतो यादेशः तल्लोपे निमित्तं स्यात्। एतच्च 'एओङ' सूत्रे 'इको गुणवृद्धी' इति सूत्रे च भाष्ये ध्वनितं कैयटेन प्रतिपादितं शब्दकौस्तुभे निष्कर्षं प्रापितमिति तत एवावधार्यम्। एवं च याधातौ शुभंयाशब्दस्य क्लीबस्य ङयि शुभंय इति माधवेनोदाहृतं तन्नादर्तव्यमिति भावः। Sarala ------ (अजन्तस्येत्येव क्लीबे प्रातिपदिकस्याऽजन्तस्य ह्रस्वः स्यात्) ॥ Sudha ----- ह्रस्वो नपुंसके । इह ह्रस्वश्रुत्योपस्थितेन अच इत्यनेन प्रातिपदिकविशेषणात्तदन्तविधिरित्याह - अजन्तस्यति । श्रीपमिति । 'श्रीपा सु' अत्र **ह्रस्वो नपुंसके प्रातिपदिकस्य**(1.2.47) इति ह्रस्वत्वे **अतोऽम्**(7.1.24) इति सोरमि **अमि पूर्वः**(6.1.107) इति पूर्वरूपैकादेशे 'श्रीपम्' इति रूपम् । ज्ञानवदिति । ह्रस्वविधानात् दीर्घान्तत्वप्रयुक्तो न कश्चिद्विशेष इति भावः । जश्शसोः शिकृते श्रीपाणीति रूपम् । श्रीपेण, श्रीपाय, श्रीपात्, इत्यादि । द्वे । 'द्वि औ' अत्र **त्यदादीनामः**(7.2.102) इत्यकारान्तादेशे **नपुंसकाच्च**(7.1.19) इति 'औ' इत्यस्य स्थाने श्यादेशे शकारस्येत्संज्ञायां लोपे च कृते **आद्गुणः**(6.1.87) इति गुणे कृते 'द्वे' इति रूपम् । त्रीणीति । त्रिशब्दात् जसि कृते **जश्शसोः शिः**(7.1.20) इति जसः स्थाने श्यादेशे कृते **शि सर्वनामस्थानम्**(1.1.42) इति सर्वनामस्थानसंज्ञायां शकारस्येत्संज्ञायां लोपे च कृते **नपुंसकस्य झलचः**(7.1.72) इति नुमागमे मित्त्वादन्त्यादचः परे जाते उमोर्लोपे 'त्रिन् इ' इति जाते **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति नान्तोपघायाः दीर्घे कृते **अट्कुप्वाङ्नुम्व्यवायेऽपि**(8.4.2) इति णत्वे 'त्रीणि' इति रूपम् । Sutra Prayogas -------------- * **यथायथं** (किरातार्जुनीयम्): `ह्रस्वो नपुंसके प्रातिपदिकस्य` इति ह्रस्वत्वम्।