12036: विभाषा छन्दसि ==================== **Padacheda:** विभाषा | S | 1 | 1 | छन्दसि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The monotony is optional in the recitation of the Vedas or they may be recited with accents. Vasu English Translation ------------------------ The monotony is optional in the recitation of the Vedas or they may be recited with accents. In the *Chhandas* or the Vedas there is option either to use the *Ekasruti* tone or the three tones. Even on the occasion of ordinary reading, the *Chhandas* might be uttered either with the three accents or monotonously. Some say this is a limited option (*vyavasthita*-*vibhasha*). The option allowed by this *sutra* is to be adjusted in this way. In reading the *Mantra* portion of the *Veda*, every word must be pronounced with its proper accent: but in the *Brahmana* portion of the *Veda* there might be *Ekasruti*; while some say there must be *Ekasruti* necessarily and not optionally in the recitation of the *Brahmanas*. Thus:- अ॒ग्निमी॑ले पु॒रोहि॑तं or simply अग्निमीले पुरोहितं. "I praise *Agni* the *purohita*." The word वा "optionally" of the last *sutra* could easily have been read into this *sutra* by the rule of *anuvritti*; why then use the word विभाषा "optional" again ? To this we reply, this apparently redundant repetition is for the sake of indicating that the *anuvritti* of the word यज्ञकर्मणि, which was understood in the last *sutra*, does not extend to this. Had we taken the *anuvritti* of वा, the other word also would have been attracted; hence the separate use of the word विभाषा. Kashika ------- छन्दसि विषये विभाषैकश्रुतिर्भवति, पक्षान्तरे त्रैस्वर्यमेव भवति। वेति प्रकृते विभाषाग्रहणं यज्ञकर्मणीत्यस्य निवृत्त्यर्थम्। तेनायं स्वाध्यायकालेऽपि पाक्षिक ऐकश्रुत्य — विधिर्भवति। इ॒षे त्वो॒र्जे त्वा॑, इषे त्वोर्जे त्वा (मा०सं० १.१)। अग्न आ याहि वीतये, अग्न आ याहि वीतये (कौ०सं० १.१.१) । अ॒ग्निमी॑ळे पु॒रोहि॑तम्, अग्निमीळे पुरोहितम् (ऋ० १.१.१)। शन्नो॑ दे॒वीर॒भिष्टये॑, शन्नो देवीरभिष्टये (शौ०सं०१.६.१)॥ Siddhanta Kaumudi ----------------- छन्दसि विभाषा एकश्रुतिः स्यात् । व्यवस्थितविभाषेयम् । संहितायां त्रैस्वर्यम् । ब्राह्मणे एकश्रुतिर्बह्वृचानाम् । अन्येषामपि यथासंप्रदायं व्यवस्था ॥ Nyaas ----- `इषे त्वा` इत्यादि। `इषु इच्छायाम्` (धातुपाठः-1351), **अन्येभ्योऽपि दृश्यते** (3.3.130) इति क्विप्। इडस्यास्तीति लुगधिकारस्य `अप्रत्ययः` (वा। 492) इत्यनेनोपसंख्यानेन अकारप्रत्ययः, प्रत्ययस्वरेणाद्युदात्तः, इषशब्दात् सप्तम्येकवचनम्, **आद्गुणः** (6.1.87) , **एकादेश उदात्तेनोदात्तः** (8.2.5) । युष्मच्छब्दस्य द्वितीयान्तस्य **त्वामौ द्वितीयायाः** (8.1.23) इति त्वामादेशः, स त्वनुदात्तः; **अनुदात्तं सर्वमपादादौ** (8.1.18) इत्यधिकारात्। `अग्ने` इति। **आमन्त्रितस्य च** (8.1.19) इति षाष्ठिकमाद्युदात्तत्वम्। आङपूर्वात् `या प्रापणे` (धातुपाठः-1049) इत्यस्माल्लोट, सिप्,सेर्हिरादेशः, आङ `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इत्युदात्तः। `तिङङतिङ` (8.1.28) इति याहीत्यस्य निघातः। `वी गत्यादिषु` (धातुपाठः-1019) `मन्त्रेवृषेषपच` (3.3.96) इत्यादिना क्तिन्नुदात्तः, चतुर्थ्येकवचने प्रत्यये **घेर्ङिति** (7.3.111) इति गुणः, अयादेशः, द्वावपि स्थानिवद्भावेनोदात्तौ, शेषमनुदात्तम्। अग्निशब्दः पूर्ववन्निप्रत्ययस्वरेणान्तोदात्तः। द्वितीयैकवचनेऽमि पूर्वत्वम्। **एकादेश उदात्तेनोदात्तः** (8.2.5) । `ईड स्तुतौ` (धातुपाठः-1019)। अनुदात्तेत्त्वादात्मनेपदम्। `तिङङततिङः` (8.1.28) इतीडेशब्दस्य निघातः। पुरः पूर्वस्मिन् देश इति विगृह्र `पूर्वापराधरावराणामसि पुरधवश्चैषाम्` (5.3.39) इत्यसिप्रत्ययः, पूर्वशब्दस्य पुरादेशः। पुरः शब्दः प्रत्ययस्वरेणान्तोदात्तः। दधातेर्निष्ठायां **दधातेर्हिः** (7.4.42) इति हिरादेशः। **पुरोऽव्ययम्** (1.4.67) इति गतिसंज्ञायां सत्यां **कुगतिप्रादयः** (2.2.18) इति समासः। समासस्यान्तोदात्तत्वे प्राप्ते **गतिरनन्तरः** (6.2.49) इति पूर्वपदप्रकृतिस्वरेण पुरः शब्दोऽन्तोदात्तः। शंशब्दश्चादित्वान्निपातः। निपातस्वरेणाद्युदात्तः। अस्मच्छब्दस्य षष्ठी, `बहुवचनस्य वस्न सौ` (8.1.21) इत#इ नसादेशोऽनुदात्तः,अनुदात्ताधिकारात्। दिवः पचाद्यच्॥ पचादिषु देवडिति पठते। `टिड्ढाणञ्` (4.1.15) ङीप् अनुदात्तः,**यस्येति च** (6.4.148) इत्यकारलोपः। **अनुदात्तस्य च यत्रोदात्तलोपः** (6.1.161) इति ङीबुदात्तः। द्वितीयाबहुवचने **प्रथमयोः पूर्वसवर्णः** (6.1.102) इति पूर्वसवर्णदीर्घत्वम्। **एकादेश उदात्तेनोदात्तः** (8.2.5) । `ष्टुञ् स्तुतौ` (धातुपाठः-1043), अभिपूर्वात्ृदोरप्` (3.3.57) इत्यप्, गुणावादेशौ। वर्णव्यत्ययेन वकारस्य यकारः। `गतिकारक` (6.2.138) इत्त्युत्तरपदप्रकृतिस्वरत्वे प्राप्ते `अन्तः` (6.2.142) इति वर्तमाने **थाथघञ्क्ताजबित्रकाणाम्** (6.2.144) इत्त्युत्तरपदान्तोदात्तत्वम्। सप्तम्येकवचम्। **आद्गुणः** (6.1.87) **एकादेश उदात्तेनोदात्तः** (8.2.5) तस्मात् `अभिष्टये` शब्दोऽन्तोदात्तः॥ Prakriyasarvasvam ----------------- वेदे सर्वत्र वा प्रचयः स्यात् । पक्षे त्रैस्वर्यम् । तेन बह्वचादीनां ब्राह्मणा- द्यध्ययने एकस्वरत्वम् । विभाषा छान्दसीत्येष विकल्पो लौकिकेष्वपि । इष्टस्ततो लौकिकानां स्वराभावेऽपि साधुता ॥ ९१३ ॥