12035: उच्चैस्तरां वा वषट्कारः ============================== **Padacheda:** उच्चैस्तराम् | S | 0 | 0 | वा | S | 0 | 0 | वषट्कारः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The pronunciation of the word वषट् , may optionally be by raising the voice (acutely accented), or it may be pronounced with monotony. Vasu English Translation ------------------------ The pronunciation of the word वषट् , may optionally be by raising the voice (acutely accented), or it may be pronounced with monotony. The phrase "*yajna*-*karma*" is understood here. Even in *yajna*-*karmas* or sacrifices the word वौषट् may optionally be pronounced in a raised tone. The word वषट् in the *sutra* signifies वौषट्. But why was not the word वौषट् used in the text? It could have been used with as much case as वषट्. To this natural query, the only answer is, विचित्राः हि सूत्रस्य कृतिः पाणिनेः strange and wonderful is the structure of *Panini*'s aphorisms, Thus सोमस्याग्ने वीही३ वौ३ षट् or सोमस्याग्ने वीही३ वौ३ षट्. Kashika ------- यज्ञकर्मणीति वर्तते। यज्ञकर्मणि वषट्कार उच्चैस्तरां वा भवति एकश्रुतिर्वा। वषट्शब्देनात्र वौषट्शब्दो लक्ष्यते। वौषड् इत्यस्यैवेदं स्वरविधानम्। यद्येवं वौषड्ग्रहणमेव कस्माद् न कृतम्? वैचित्र्यार्थम्। विचित्रा हि सूत्रस्य कृतिः पाणिनेः। सोमस्याग्ने वीही३ वौ३षट्। सोमस्याग्ने वीही३ वौ३षट् (तु० — ऐ०ब्रा० ३.५,६)॥ Siddhanta Kaumudi ----------------- यज्ञकर्मणि वौषट्शब्द उच्चैसत्रां वा स्यादेकश्रुतिर्वा ॥ Padamanjari ----------- वषट्शब्देन चात्र वौषट्शब्दो लक्ष्यते इति । समानार्थत्वाद् द्वावपि हि तौ देवतासंप्रदानस्य द्योतकौ । कारग्रहणं तु ज्ञापकम्-अवर्णादपि कारप्रत्ययो भवतीति । तेन एवकार इत्यादि सिद्धं भवति । यद्येवमिति । लक्षणायां हि प्रतिपतिगौरवं भवतीति भावः । विचित्रा हीति । क्वचिदक्षरलाघवमाश्रीयते, क्वचित्प्रतिपतिलाघवमिति वैचित्र्यम् । उच्चैस्तरामिति । उच्चैःशब्द उदातभवने वर्तते, तत्र भवनक्रिययापेक्षया प्रत्ययः । उदाततर इत्यर्थो विवक्षितः, प्रकर्षश्च वौषट्शब्दे ऽब्रूहिप्रेषयश्रौषड्वहानामादेःऽ इति यः प्लुतो विहितः तदपेक्षया वेदितव्यः । सन्त्युदाताः, अयं तूदाततरः । अन्त्यसदेशस्येत्येके । प्लुतोदातस्य च विधानसामर्थ्याच्छेषनिघाताभावोऽसिद्धत्वाद्वा द्वयोरप्यचोरुदाततरो भवतीत्येके । तदा याज्यान्तापेक्षः प्रकर्षः स्वार्थि कस्तरबित्यन्ये । ततो ह्युदातमात्रम्प्रथमस्य सिद्धमिति द्वितीयस्याचो विधीयते । वषट्कारशब्दोऽयं मन्त्रब्राह्ममयोः कल्पसूत्रेषु वौषट्शब्दे निरूढः । वषट् क्रियतेऽनेनेति वषट्कारः । ऽमा मान्प्रमृजऽ इति मन्त्रे, ऽत्रयो वै वषट्काराः वौषडिति वषट्करोतिऽ इति ब्राह्मणे च वषट्कारोऽन्त्यः । ऽसर्वत्रोच्चैस्तरां बलीयान्याज्यायाऽ इति सूत्रे उच्चैस्तरामिति श्रुतिप्रकर्षो विधीयत इत्याहुः ॥ Nyaas ----- `वषट्शब्देनात्र वौषट्शब्दो लक्ष्यते`इति। समानाथ्र्वादित्यभिप्रायः। द्वावपि तौ देवानां दानवचनौ। यथा `वषट्` शब्देन देवानां दानं दीयते तथा वौषट्शब्देनापि। तस्मात् समानार्थत्वात् `वषट्` शब्दो `वौषट्` शब्दं लक्षयति। कारशब्दग्रहणमर्थपदार्थकत्वं विहाय शब्दपदार्थकत्वेन दानक्रियायामुपयुज्यमानस्य तस्योदात्ततरत्वं यथा स्यादित्येवमर्थम्। कारग्रहणे शब्दपदार्थतया दृष्टा, यथा एवकार इति।अन्ये कारग्रहणमन्यस्यापि यथा स्यादिति वर्णयन्ति। तेन `अस्तु श्रौषट्` इत्यत्रायमुदात्ततरो भवति। उच्चैस्तरामिति प्रकर्षप्रत्ययो वौषट्शब्दे `ब्राऊहिप्रेष्यश्रौषडावहानामादेः` (8.2.91) इति यः प्लुतो विहितस्तदपेक्षया वेदितव्यः; स ह्रुदात्तः, `याज्यान्तः` (8.2.90) इत्यनेन य उदात्तः प्लुतो विहितस्तदपेक्षया प्रकर्षस्य सत्त्वात्। अथ वा - प्रकर्षप्रत्यान्तः स्वरूपशब्दान्तरमेवैतदिति।अपरे त्वाहु - **अनुदात्तं पदमेकवर्जम्** (6.1.158) इति वचनेन प्लुतश्चोदात्तः। अन्यस्त्वनुदात्ततर इति। Prakriyasarvasvam ----------------- यज्ञे वौषट् शब्दः उच्चैस्तरां, प्रचयो वा स्यात् । प्रचयात् किञ्चिदुच्चत्व- मुच्चैस्तरत्वम् । जिह्वामग्ने चक्रुषे हव्यवाहना वौषट् । अत्र 'याज्यान्तः' (८-२-९०) 'ब्रूहिप्रेष्यश्रौषट्वौषडावहानामादेः' (८-२-९१) इति च प्लुतयोः प्राग्वदुच्चत्वम् । वौषट् शब्दस्य तु प्रचयपक्षे षकारस्य प्रचय एव ।