12034: यज्ञकर्मण्यजपन्यूङ्खसामसु ================================ **Padacheda:** यज्ञकर्मणि | S | 7 | 1 | अ-जप-न्यूङ्ख-सामसु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- In sacrificial works there is Monotony, except in जप (silent repetition of a formula), न्यूङ्ख vowels (16 sorts of ओम्) and the साम Vedas. Vasu English Translation ------------------------ In sacrificial works there is Monotony, except in जप (silent repetition of a formula), न्यूङ्ख vowels (16 sorts of ओम्) and the साम Vedas. In "sacrificial works" or on occasions of sacrifice, the *mantras* of the *Veda* are recited in *Ekasruti* or monotony. But on occasions of ordinary reading, the *mantras* are to be recited with their proper three-fold accents. "*Japa*" is the repetition of *mantras*, and their recitation in a low voice or whisper. *Nyunkha* is the name of certain hymns of the *veda*, and the names of 16 sorts of "*Om*." Some of these are pronounced with *udatta* and others with *anudatta* accent. *Samas* are songs, or the musical cadence in which some vedic hymns are to be uttered. As:- अ॒ग्निर्मूद्धादि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् । अपाम् रेतांसि जिन्वतो३ म् (*Rig* *Veda* VIII.14.16). When a *mantra* is recited as a *japa*, then it must be pronounced with accents :- As समा॑ग्ने वर्चो॑ विह॒वेष्वं॑स्तु (*Rig* *Veda* X. 128. I). When not employed on occasions of sacrifice, but are ordinarily read, the *mantras* must have their proper accent, and there will be no *Ekasruti*. In the *sama* chanting, the *mantras* should have their accent, there can be no *Ekasruti* there. As ए३विस्वं समत्रिणं दहा३. Here there is no *Ekasruti*. Kashika ------- त्रैस्वर्येण वेदे मन्त्राःपठ्यन्ते। तेषां यज्ञक्रियायामपि तथैव प्रयोगे प्राप्त एकश्रुतिर्विधीयते। जपन्यूङ्खसामानि वर्जयित्वा यज्ञकर्मणि मन्त्राणामैकश्रुत्यं भवति। अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम्। अपां रेतांसि जिन्वतो३म् (ऋ० ८.४४.१६)। यज्ञकर्मणीति किम्? संपाठे मा भूत्। अजपेष्विति किम्? ममा॑ग्ने॒ वचो᐀्॑ विह॒वेष्व॑स्तु (ऋ० १०.१२८.१)। जपोऽनुकरणमन्त्रः, उपांशुप्रयोगः। अन्यूङ्खेष्विति किम्? न्यूङ्खा ओकाराः। षोडश (द्र० — आश्व०श्रौ०उत्तरार्द्घ १.११)। तेषु केचिदुदात्ताः केचिदनुदात्ताः। असामस्विति किम्? ए ३ विश्वं॒ सम॒त्रिणं॑ दह (जै०सं० ४.८.६)। सामानि वाक्यविशेषस्था गीतय उच्यन्ते। तत्रैकश्रुतिर्न भवति॥ Siddhanta Kaumudi ----------------- यज्ञक्रियायां मन्त्र एकश्रुतिः स्याज्जपादीन्वर्जयित्वा । अग्निर्मूधा (अ॒ग्निर्मू॒र्धा) । दिवः ककुत् (दि॒वः क॒कुत्) । यज्ञेति किम् । स्वनाध्यायकाले त्रैस्वर्यमेव । अजपेति किम् । ममाग्ने वर्चो विहवेष्वस्तु (ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु) । जपो नाम उपांशुप्रयोगः । यथा जले निमग्नस्य । न्यूङ्खा नाम षोडश ओकाराः । गीतिषु सामाख्या ॥ Padamanjari ----------- ऐकश्रुत्यमिति । बहुव्रीहेर्भावप्रत्ययः, चातुर्वर्ण्यादित्वाद्वा कर्मधारयात्स्वार्थे ष्यञ् । संपाठ इति । स्वाध्यायकाले अग्निर्मूर्धा दिवः ककुत्, ऽअङ्गेर्नलोपश्चऽ इत्यग्निशब्दः प्रत्ययस्वरेणान्तोदातः, ऽमुवÕ बन्धनेऽ, ऽकनिन्युवृषितक्षिऽ इति वर्ततमाने ऽश्वन्नुक्षन्पूषन्तक्षन्ऽ इत्यत्र सूत्रे मूर्धन्शब्दः कनिन्प्रत्यान्तोऽन्तोदातो निपातितः । ऽदिवु क्रीडादौऽ, दिवेरन्तो डिविः षष्ठ।लेकवचनस्य ऽऊडिदम्ऽ इत्युदातम्, ककुच्छब्दः प्रातिपदिकस्वरेणान्तोदातः, ऽपातेर्डतिःऽ,पतिशब्दः प्रत्ययस्वरेणाद्यौदातः, प्रथेः षिवन् संप्रसारणं च षित्वात् ङीष्, षठ।लेकवचनस्य ऽउदातयणो हल्पूर्वात्ऽ इत्युदातत्वम्, इदंशब्दः प्रतिपदिकस्वरेणान्तोदातः, आप्नोतेः क्विब् ह्रस्वश्च, ऽऊडिदम्ऽ इति विभक्तेरुदातत्वम् । ऽरि गतौऽ, ऽस्रुरिभ्यां तुट् चऽ इति असुन्प्रत्ययः, नित्स्वरेणाद्यौदातो रेतः शब्दः । जिन्वतीति । जिन्वतेः प्रीणनार्थस्य तिपि निघातः ऽप्रणवष्टेःऽ इति प्रयोगकाले प्रणयः । ममेत्यादि । ऽयुष्मदस्मदोण्Çóसिऽ इत्याद्यौदातत्वम् । अग्नेशब्दस्यामन्त्रिनिघातः, वर्चशशब्दोसुन्प्रत्ययान्तः, विपूर्वाद् ह्वयतेः ऽह्वः संप्रसारणं चऽ इत्यप्प्रत्यये थाथादिसूत्रेणान्तोदातत्वम् । जपोऽनुकरणमन्त्र इति । यद्यपि स एव मन्त्र उच्चार्यते, तथापि वर्णाभिव्यक्त्यनभिव्यक्तिभ्यां भेदपरिकल्पनयाऽनुकरणव्यवहारः । अत एवाह - उपांशुप्रयोग इति । यथा जले निमग्नस्य पाठः । क्वचिदकरणमन्त्र इति पाठः, अनेनेदं कुर्यादिति चोदितः करणमन्त्रः, ततोऽन्योऽकरणमन्त्रः । प्रसिद्धस्तु पाठोऽन्तः करणमन्त्र इति । ननु वागिन्द्रियेण शब्द उच्चार्यते स कथमन्तः करणेन सर्वेन्द्रियसाधारणेन व्यपदिश्यते, सत्यम्; वागिन्द्रियस्य स्थूलो व्यापार उपांशुप्रयोगे नास्ति, स एव च तद्व्यापारत्वेन प्रसिद्ध इति सूक्ष्मव्यापारे मन एव प्रधानं मन्यते । न्यूङ्खा इत्यादि । षोडशेति पाठः, ओकारा इति च, न त्वेते मकारान्ताः, तेषु प्रथमसप्तमत्रयोदशास्त्रय उदातास्त्रिमात्राः, इतरे त्रयोदशा अनुदाता अर्धौकाराः । एतच्च आश्वलायनेन चतुर्थेऽहनीत्यस्मिन् खण्डे लक्षणेनोक्तमुदाहृतं च । ऽषडोङ्काराःऽ इति पाठे मूलान्तरं मृग्यम् । ए3 विश्वमित्यादि । एशब्दो गीतिपूरणः, निपात इत्यन्ये । विश्वशब्दः क्वन्प्रत्ययान्त आद्यौदातः, विश्वमन्त्रिणं पाप्मानं संदहेति सम्बन्धः, गीतिवशादेशब्दोऽनेकमात्रः । वाक्यविशेषस्था गीतय इति । तदुक्तमृषिणा-ऽगीतिषु सामाख्याऽ इति ॥ Nyaas ----- `अग्निर्मूर्धा दिवः` इत्यादि। `अगि रगि गत्यर्थाः` (धातुपाठः-146,144)। `वीज्याज्वरिभ्यो निः` (द।उ।1।18) इत वर्तमाने `अङ्गेर्निर्नलोपश्च` (द।उ।1।20) इति निप्रत्ययः; नलोपश्च भवति। अग्निशब्दः प्रत्ययस्वरेणान्तोदात्तः। `मुर्वी बन्धने` (धातुपाठः-575),`अकनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः` (द।उ।6।51) इत्यतः कनिन्निति वर्तमाने `आन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विआप्सन्परिज्मन्मातरिआन्मघवन्` (द।उ।6।55) इति मूर्धन्शब्दः कनिन्प्रत्यान्तो निपातित इति निपातनादाद्युदात्तः। वकारस्य धकारोऽत्र निपातनादेव। `दिवु क्रीडादौ` (धातुपाठः-1107) डिविन् प्रत्ययः। इकार उच्चारणार्थः। डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् `ट#ए#ः` (6.4.143) इति टिलोपः। `दिव्` इति स्थिते **ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः** (6.1.171) इति विभक्तेरन्तोदात्त्वम्। ककुच्छब्दः `{फिषोन्त उदात्तः- #इति मुद्रितं सूत्रम्}प्रातिपदिकमन्तोदात्तं भवति` (फि।सू। 1।1)इत्यन्तोदात्तः। पतिशब्दः `पातेर्डतिः` (द।उ।1।27) इति डतिप्रत्ययान्तः प्रत्ययस्वरेणाद्युदात्तः, ततः ककुदः पतिः ककुत्पतिरिति षष्ठीसमासः, स**समासस्य** (6.1.223) इत्यन्तोदात्तत्वम्। `प्रथ प्रख्याने` (धातुपाठः-1553), `प्रथेः षिवन् संप्रसारणञ्च` (द।उ।8।124)। **षिद्गौरादिभ्यश्च** (4.1.41) इति पृथिवशब्दान्ङीष्। प्रत्ययस्वरेण धातुप्रत्यङीष आद्युदात्तोदात्तः। षष्ठऐकवचनम् ङस्। `आण्नद्याः`इत्यनुदात्तत्वम्। सवर्णदीर्घः। **इको यणचि** (6.1.77) इति यणादेशः। **उदात्तयणो हल्पूर्वात्** (6.1.174) इति विभक्तिरुदात्ता। `अयम` इति। `इदि परमैआर्ये` (धातुपाठः-63) **इदितो नुम् धातोः** (7.1.58) इति नुम्, `इन्देः कमिर्नलोपश्च` (पं।उ।596) इति कमिप्रत्ययो नलोपश्च; इदम्शब्दः कमिप्रत्ययेनान्तोदात्तः। सौ परतः `इदोऽय् पुंसि` इतीदम इद्रूपस्यादेशः। `अपाम्` इति। `आप्लृव्याप्तौ` (धातुपाठः-1260), `आप्नोतेह्र्यस्वश्च` (द।उ।1।127) इति क्विप्, ह्रस्वश्च, षष्ठीबहुवचनम्। `ऊडिदं पद` (6.1.165) इति विभक्तेरुदात्तत्वम्। तेनापामित्यस्यान्तोदात्तत्वम्। `रि गतौ` (धातुपाठः-1404), `स्त्रुरिभ्यां तुट् च` (द।उ।9।62) इत्यसुन् प्रत्ययः। तुडागमः। `रेतांसि` इति नित्स्वरेणाद्युदात्तः। `जिन्वति` इति। `जि जये` (धातुपाठः-561) लट्,शत्रादेशः। **व्यत्ययो बहुलम्** (3.1.85) इति व्यत्ययेन श्नुप्रत्ययः।**हुश्नुवोः सार्वधातुके** (6.4.87) इति यणादेशः। **उगितश्च** (6.3.45) इति ङीप्। `अम्बार्थनद्योह्र्यस्वः` (7.3.107) इति ह्रस्वः। **एङ्ह्रस्वात् सम्बुद्धेः** (6.1.69) इति सुलोपः। **ये यज्ञकर्मणि** (8.2.88) इति वर्तमाने **प्रणवष्टेः** (8.2.89) इति प्रणवादेशः। स च प्लुतउदात्तश्च,**वाक्यस्य टेः प्लुत उदात्तः** (8.2.82) इत्यधिकरात्। प्रणव इत्योकारम्, ओङ्कारं वाऽऽचक्षते। प्रणवस्योदात्तविधानसामर्थ्यादसिद्धत्वाच्च पदादुत्तरस्य **आमन्त्रितस्य च** (8.1.19) इत्यनुदात्तं न भवति; शेषस्य तु भवति। एषु स्वरेषु प्राप्तेष्वेकश्रुतिर्विधीयते।`संपाठे मा भूत्` इति। संपाठ= स्वाध्यायकालः। `ममाग्ने` इत्यादि। `असु क्षपणे` (धातुपाठः-1209), `युष्यसिम्यां मदिक्` (द।उ।6।50) इति मदिक्। अस्मच्छब्दः प्रत्ययस्वेरणान्तोदात्तः। षष्ठएकवचनस्य `युष्मदसमद्भ्यां ङसोऽश्` (7.1.27) इत्यशादेश-, **तवममौ ङसि** (7.2.96) इत्यस्मदो ममादेशः। स्था4निवद्भावादन्तोदात्तः। **अतो गुणे** (6.1.97) पररूपत्वम्। **एकादेश उदात्तेनोदात्तः** (8.2.5) अग्निशब्दस्य **आमन्त्रितस्य च** (8.1.19) इति निघातः। `वर्च दीप्तौ` (धातुपाठः-162), `असुन्` (द।उ।9।49) इतिअसुन् प्रत्ययः। वर्चशब्दो नित्स्वरेणाद्युदात्तः। `ह्वेञ् स्पर्धायाम्` (धातुपाठः-1008)। `ह्वः संप्रासारणञ्च न्यभ्युपदिषु (3.3.72) इत्यप् प्रत्ययः। `उपपदमतिङ` (2.2.19) इति समासः। **गतिकारकोपपदात् कृत्** (6.2.139) इत्युत्तरपदप्रकृतिस्वरत्वेप्राप्ते, `अन्तः` (6.2.142) इत्यनुवर्तमाने **थाथघञ्क्ताजबित्रकाणाम्** (6.2.144) इत्यन्तोदात्तत्वम्, सप्तमीबहुवचने `बहुवचने झल्येत्` (7.3.103) इत्येत्त्वम्, स्थानिवद्भावादेकारोऽपब्यदात्त एव। `अस भुवि` (धातुपाठः-1065) , लोट्, तिप्, `एरुः` (3.4.86) इत्युत्वम्, अदादित्वाच्छपो लुक्। `तिङङतिङः` (8.1.28) इति निघातेन `अस्तु` शब्दोऽनुदात्तः। `जपोऽनुकरणमन्त्रः` इति। `जप` इत्युक्तेरर्थकथनमनुकरणमन्त्र इति। अनुकृतिः = अनुकरणम्। सर्वत्र मन्त्रे स्फुटमुच्चारणमित्यनुकरणमन्त्रः। अत एवाह - `उपांशुप्रयोगः` इति। यता जले निमग्नस्य पाठः।क्वचिदकरणमन्त्र इति पाठः। तत्रायमर्थः - ईषत् करणमुच्चारणं यस्य सोऽकरणमन्त्र इति; नञ ईषदर्थत्वात्।एशब्दो निपातः। `निपाता आद्युदात्ताः` (फि।सू।4।80)। `विश प्रवेशने` (धातुपाठः-1424),`अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्` (द।उ।125) इति क्वप्रत्ययान्तत्वाद्विआशब्दो नित्स्वरेणाद्युदात्तः। समञ्च तत् अत्रिणञ्चेति विशेषणसमासः। समासान्तोदात्तत्वम्। `दह भस्मीकरणे` (धातुपाठः-991), लोट्,सिप्, सेर्हिरादेशः,**अतो हेः** (6.4.105) इति हेर्लुक्, `तिङङतिङ` (8.1.28) इति निघातविधानात् दहशब्दोऽनुदात्तः। केचिद् वहा3 इति प्लुतान्तं पठन्ति; तेषां साहसमनिच्छतां `सर्वत्र विभाषा प्लुतो वक्तव्यः` (म।भा।3।420) इत्यतो वचनात् प्लुतो वक्तव्यः, स चोदात्तः।अन्ये त्वाकारान्तं पठन्ति, तेषां छान्दसत्वादाकारः। ह्रस्वोऽपि हि वर्णो व्यत्ययेन दीर्घो भवति,`पुरुषः` `नारकः` इति यथा। `वाक्यविशेषस्था गीतयः` इति। यथोक्तं जैमिनिना - `गीतिषु सामाख्या` इति। गीतिः = ध्वनिविशेषः।कर्मग्रहणं किमर्थम्,यज्ञ इत्येवोच्येत, यज्ञमन्त्राणां यज्ञक्रियार्थत्वाद्यज्ञकर्मणि भविष्यति? सत्यमेतत्; विस्पष्टार्थ हि कर्मग्रहणम्। अथ वा - योऽपि न प्रसिद्धो यज्ञः पञ्चयजनादिः, तत्रापि यथा स्यादित्येवमर्थम्; अन्यथा `यज्ञे` इच्युच्यमाने प्रसिद्धो यो यज्ञोऽआमेधादिस्त्तत्रैव स्यात्॥ Prakriyasarvasvam ----------------- यज्ञे जपादेरन्यत्र प्रचयः स्यात् । तेन याज्यापुरोऽनुवाक्यादेरेकस्वरत्वम् । अग्निमू (धर्ना? र्धा) दिव ककुत्पतिः । पृथिव्या अयम् । अपां रेतांसि जिन्वतोम् । अत्रान्त्यस्य प्लुतरूपे प्रणवे 'वाक्यादेः—' (८-१-८) इत्युच्चत्वम् । जपादौ तु यथाप्राप्तः स्वर एव । Sutra Prayogas -------------- * **विधिविहितविरिब्धैः** (शिशुपालवधम्): `यज्ञकर्मण्यजपन्यूङ्खसामसु` इत्यादिशास्त्रोक्तरीत्या एकश्रुत्यादयः। * **विकुर्वाणः** (भट्टिकाव्यम्): `वेः शब्द- कर्मणः` इति तङ्।