12029: उच्चैरुदात्तः
====================
**Padacheda:** उच्चैः | S | 0 | 0 |
उदात्तः | S | 1 | 1 |
Sutrartha
---------
**यस्य स्वरस्य उच्चारणम् तस्य उच्चारणस्थानस्य ऊर्ध्वभागात् भवति, तस्य 'उदात्तः' इति संज्ञा भवति ।**
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमाः सन्ति 'उदात्तः, अनुदात्तः, स्वरितः' इति तिस्रः संज्ञाः । स्वराणां बाह्यप्रयत्नस्य निर्देशः एताभिः तिसृभिः संज्ञाभिः क्रियते । एतासु 'उदात्तः' इति संज्ञा प्रकृतसूत्रेण विधीयते । यस्य स्वरस्य उच्चारणम् उच्चारणस्थानस्य केवलम् ऊर्ध्वभागात् भवति (इत्युक्ते, उच्चारणसमये उच्चारणस्थानस्य ऊर्ध्वभागे एव वायोः चलनम् भवति) , तस्य स्वरस्य 'उदात्तः' इति संज्ञा भवति — इति प्रकृतसूत्रस्य आशयः । तदित्थम् —
1) अवर्णस्य उच्चारणस्थानम् कण्ठः । अतः कण्ठस्य ऊर्ध्वभागात् सम्पद्यमानः 'अ', 'आ' उत 'अ3' इति स्वरः उदात्तसंज्ञकः भवति ।
2) इवर्णस्य उच्चारणस्थानम् तालु । अतः तालुनः ऊर्ध्वभागात् सम्पद्यमानः 'इ', 'ई' उत 'इ3' इति स्वरः उदात्तसंज्ञकः भवति ।
3) उवर्णस्य उच्चारणस्थानम् ओष्ठौ । अतः ओष्ठयोः ऊर्ध्वभागात् सम्पद्यमानः 'उ', 'ऊ' उत 'उ3' इति स्वरः उदात्तसंज्ञकः भवति ।
4) ऋवर्णस्य उच्चारणस्थानम् मूर्धा । अतः मूर्ध्नः ऊर्ध्वभागात् सम्पद्यमानः 'ऋ', 'ॠ' उत 'ऋ3' इति स्वरः उदात्तसंज्ञकः भवति ।
5) एवर्णस्य, ऐवर्णस्य च उच्चारणस्थानम् कण्ठतालु । अतः कण्ठस्य तालुनः च ऊर्ध्वभागात् सम्पद्यमानाः 'ए', 'ए3', 'ऐ', 'ऐ3' एते स्वराः उदात्तसंज्ञकाः भवन्ति ।
6) ओवर्णस्य औवर्णस्य च उच्चारणस्थानम् कण्ठोष्ठम् । अतः कण्ठस्य ओष्ठयोः च ऊर्ध्वभागात् सम्पद्यमानाः 'ओ', 'ओ3', 'औ', 'औ3' एते स्वराः उदात्तसंज्ञकाः भवन्ति ।
अनेन प्रकारेण निर्दिष्टस्य स्थानस्य **केवलम् ऊर्ध्वभागात्** यस्य स्वरस्य उच्चारणम् भवति, सः स्वरः 'उदात्तः' नाम्ना ज्ञायते ।
1. वस्तुतः उदात्त-अनुदात्त-स्वरित-संज्ञाः वेदानाम् उच्चारणस्य सन्दर्भे प्रसिद्धाः वर्तन्ते । तत्र उदात्तः = medium pitch, अनुदात्तः = low pitch, स्वरितः = high pitch इति भेदः कृतः अस्ति । एतासाम् एव संज्ञानाम् विधानम् पाणिनिमहर्षिणा अष्टाध्याय्यां **उच्चैरुदात्तः** (1.2.29), **नीचैरनुदात्तः** (1.2.30) तथा च **समाहारः स्वरितः** (1.2.31) एतैः त्रिभिः सूत्रैः **उच्चारणस्थानस्य प्रभागानाम् आधारेण** कृतम् अस्ति । अतः, एतेषु सूत्रेषु विद्यमानाः 'उच्चैः', 'नीचैः', तथा 'समाहारः' एते शब्दाः pitch-विषये निर्देशं न कुर्वन्ति अपितु उच्चारणस्थाने वायोः गतिः कस्मिन् प्रभागे विद्यते इत्येतस्य निर्देशं कुर्वन्ति इति अवश्यम् स्मर्तव्यम् ।
2. उदात्तस्वरस्य लेखनसमये स्वरस्य अधः उत उपरि किमपि चिह्नम् न दीयते । यथा - अ इति उदात्तः स्वरः ।
**उदात्तसंज्ञायाः सूत्रेषु प्रयोगः**
भिन्नेषु सूत्रेषु स्वराणाम् उच्चारणविशेषं दर्शयितुम् 'उदात्त'संज्ञायाः प्रयोगः कृतः दृश्यते । कानिचन उदाहरणानि एतानि —
1) **लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति सूत्रेण लङ्/लुङ्/लृङ्लकाराणाम् रूपेषु दृश्यमानः 'अट्' इति आगमः उदात्तसंज्ञकः अस्ति ।
2) **आद्युदात्तश्च** (3.1.3) इति सूत्रेण प्रत्ययस्य आदिस्वरस्य औत्सर्गिकम् उदात्तत्वम् विधीयते ।
3) **वाक्यस्य टेः प्लुत उदात्तः** (8.2.82) इत्यस्मिन् अधिकारे उक्तैः भिन्नैः सूत्रैः यः प्लुत-आदेशः भवति, सः उदात्तसंज्ञकः ज्ञेयः ।
Sutrartha (English)
-------------------
A vowel that is pronounced using the upper-half portion of its उच्चारणस्थान is known as उदात्त.
Vasu English Summary
--------------------
The vowel that is perceived as having a high tone is called उदात्त or acutely accented.
Vasu English Translation
------------------------
The vowel that is perceived as having a high tone is called उदात्त or acutely accented.
With this *sutra* begins the description of the three sorts of vowel accents. The accent placed on a vowel by raising the voice is called *udatta* or acute accent. As अग्निः *agnih*, here *i* has the acute accent. The *udatta* is not marked in writing. The word 'vowel' of the previous *sutra* is understood in this also. These accents are the qualities of letters, and are well known in the sacred and secular literature. The vowel which is perceived as having a high tone is called *udatta*. This tone depends upon the organ from which the vowel is pronounced. In the various organs, such as the throat, palate, &c., if a vowel is pronounced from a higher part of that organ, it is called *udatta*. The vowel in the pronouncing of which there is the restraining and checking of the bodily parts, and in which there is dryness and roughness of tone as well as a contraction of the larynx, is said to have the acute accent. The word is used in *sutra* (3.1.3) \[1\] "The first vowel of an affix has the *udatta* accent." As कृ + तव्यम् = कर्तव्यम् *kartavyam*.
## Footnotes
- [1] - आद्युदात्तश्च ॥
Bhashya
-------
उच्चैरुदात्तः ॥ अथ षष्ठीनिर्दिष्टाज्ग्रहणानुवृत्तिविचाराधिकरणम् ॥ किं षष्ठीनिर्दिष्टमज्ग्रहणमनुवर्तते, उताहो न? किं चातः? यद्यनुवर्तते हल्स्वरप्राप्तौ व्यञ्जनमविद्यमानवद्भवति इत्येषा परिभाषा न प्रकल्पते। कथं हलो नाम स्वरप्राप्तिः स्यात्। एवं तर्हि निवृत्तम्। बहून्येतस्याः परिभाषायाः प्रयोजनानि। ॥ अथ प्रथमानिर्दिष्टामज्ग्रहणानुवृत्तिविचाराधिकरणम् ॥ अथ प्रथमानिर्दिष्टमज्ग्रहणमनुवर्तते, उताहो न? किं चार्थोऽनुवृत्त्या? बाढमर्थः। यद्येते व्यञ्जनस्यापि गुणा लक्ष्यन्ते। ननु च प्रत्यक्षमुपलभ्यन्ते- इषे त्वोर्जे त्वा। नैते व्यञ्जनस्य गुणाः, किन्त्वच एव। तत्सामीप्यात्तु व्यञ्जनमपि तद्गुणमुपलभ्यते। तद्यथा- द्वयो रक्तयोर्वस्त्रयोर्मध्ये शुक्लं वस्त्रं तद्गुणमुपलभ्यते। बदरपिटके रिक्तको लोहकंसस्तद्गुण उपलभ्यते। कुतो नु खल्वेतत्- अच एते गुणाः, तत्सामीप्यात्तु व्यञ्जनमपि तद्गुणमुपलभ्यते, न पुर्नव्यञ्जनस्यैते गुणाः स्युस्तत्सामीप्यात्त्वजपि तद्गुण उपलभ्येत इति? अन्तरेणापि व्यञ्जनमच एवैते गुणा लक्ष्यन्ते, न पुनरन्तरेणाचं व्यञ्जनस्योच्चारणमपि भवति। अन्वर्थं खल्वपि निर्वचनम्- स्वयं राजन्त इति स्वराः, अन्वग्भवति व्यञ्जनमिति। - उच्चनीचस्यानवस्थितत्वात्सञ्ज्ञाऽप्रसिद्धिः - इदमुच्चनीचमनवस्थितपदार्थकम्, तदेव हि कञ्चित्प्रत्युच्चैर्भवति, कञ्चित्प्रति नीचैः। एवं हि कश्चित्कञ्चिदधीयानमाह- किमुच्चै रोरूयसे शनैर्वर्ततामिति। तमेव तथाऽधीयानमपर आह किमन्तर्दन्तकेनाधीषे उच्चैर्वर्ततामिति। एवमुच्चनीचमनवस्थितपदार्थकम्, तस्यानवस्थितत्वात्सञ्ज्ञाया अप्रसिद्धिः। एवं तर्हि लक्षणं करिष्यते- आयामो दारुण्यमणुता खस्येति उच्चैःकराणि शब्दस्य। आयामो गात्राणां निग्रहः। दारुण्यं स्वरस्य दारुणता रूक्षता। अणुता खस्य कण्ठस्य संवृतता। उच्चैः कराणि शब्दस्य। अन्ववसर्गो मार्दवमुरुता खस्येति नीचैः कराणि शब्दस्य। अन्ववसर्गो गात्राणां शिथिलता। मार्दवं स्वरस्य मृदुता स्निग्धता। उरुता खस्य महत्ता कण्ठस्येति नीचैःकराणि शब्दस्य। एतदप्यनैकान्तिकम्। यद्ध्यल्पप्रमाणस्य सर्वोच्चैस्तद्धि महाप्राणस्य सर्वनीचैः। - सिद्धं तु समानप्रक्रमवचनात् - सिद्धमेतत्। कथम्? समाने प्रक्रम इति वक्तव्यम्। कः पुनः प्रक्रमः? उरः कण्ठः शिर इति ॥ उच्चैरुदात्तः ॥ 29 ॥
Kashika
-------
अज् इति वर्तते। उदात्तादिशब्दाः स्वरे वर्णधर्मे लोकवेदयोः प्रसिद्धा एव। त इह तद्गुणेऽचि परिभाष्यन्ते। उच्चैरुपलभ्यमानो योऽच् स उदात्तसंज्ञो भवति। उच्चैरिति च श्रुतिप्रकर्षो न गृह्यते। उच्चैर्भाषते। उच्चैः पठतीति। किं तर्हि? स्थानकृतम् उच्चैस्त्वं संज्ञिनो विशेषणम्। ताल्वादिषु हि भागवत्सु स्थानेषु वर्णा निष्पद्यन्ते। तत्र यः समाने स्थान ऊर्ध्वभागनिष्पन्नोऽच् स उदात्तसंज्ञो भवति। यस्मिन्नुच्चार्यमाणे गात्राणामायामो निग्रहो भवति, रूक्षता अस्निग्धता स्वरस्य, संवृतता कण्ठविवरस्य। ये । ते। के। उदात्तप्रदेशाः — **आद्युदात्तश्च** (३.१.३) इत्येवमादयः॥
Siddhanta Kaumudi
-----------------
ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसंज्ञः स्यात् । आ ये ॥
Laghu Shabdendushekhar
----------------------
**उच्चैरुदात्तः** । नात्र श्रुतिकृतमुच्चैस्त्वमुपांशुप्रयोगेऽव्याप्तेः । श्रुतिप्रकर्षस्याऽव्यवस्थितत्वाच्च । किन्तु स्थानकृतम् । 'उच्चैरि'त्यधिकरणशक्तिप्रधानम् । अधिकरणत्वञ्चोच्चारणं प्रति । तच्च ताल्वादीनां सभागत्वे एवेत्याशयेनाह — **ताल्वादीति** । इदं प्राचामनुरोधेन । वर्णसमाम्नायेऽकारस्य प्राथम्यात्कण्ठादीति वक्तुमुचितम्, एवमन्यत्रापि बोद्ध्यम् । प्रयत्नप्रेरितो वायुर्यदोर्ध्वभागे प्रतिहतोऽचं व्यञ्जयति तदा स उदात्त इति भावः । **अजिति** । 'ऊकाल' इत्यतस्तदनुवर्तते । उदात्तत्वादीनामज्धर्मताया एव लोकप्रसिद्धत्वेन हल्स्वरप्राप्तौ व्यञ्जनस्याविद्यमानत्वाच्चेदं स्वरूपकथनपरं बोद्ध्यम् ।
**आये इति** । यच्छब्दः **फिषोऽन्त** (फिट्-१.१) इत्यन्तोदात्तः, जस्सुप्त्वादनुदात्तः, **एकादेश उदात्तेन** (8.2.5) इत्येकार उदात्तः ।
Balamanorama
------------
**उच्चैरुदात्तः** - उदात्तसंज्ञामाह — उच्चैरुदात्तः । नादधर्मविशेष उच्चैस्त्वं नेह विवक्षितम्, उपांशूच्चार्यमाणे अव्याप्तेः । किन्तूच्चैश्शब्दोऽधिकरणशक्ति प्रधान ऊध्र्वभागे इत्यर्थे वर्तते । ऊध्र्वावयवस्य चावयव्यपेक्षायां तालुकण्ठादिवर्णाभिव्यक्तिस्थानानामित्यर्थाल्लभ्यते । उकालोऽजिति सूत्रादजित्यनुवर्तते, तदेतदाह-ताल्वादिष्वित्यादिना । सभागेष्विति । ताल्वादीनां सावयवत्वकथनमूध्र्वभागे इत्यस्योपपादनार्थम्, तेषामखण्डत्वे 'ऊध्र्वभागे' इत्यनुपपत्तेः । उदात्तमुदाहरति-आ ये इति । 'आये मित्रावरुणा' इत्यृचि आकार एकारश्च उदात्त इत्यर्थः ।
Padamanjari
-----------
उदातादिशब्दा इत्यादि । सत्यं प्रसिद्धा एव ते, कुत्र प्रसिद्धाः ? धर्ममात्रे स्वरे, न तु तद्वत्यचि । ततस्च ऽउदातादनुदातस्य स्वरितःऽ इति स्वरिताख्यस्य धर्मस्यैव विधिः स्यात्, न च धर्मधर्मिणोः स्थान्यादेशभावः संभवतीति ऽषष्ठी स्थानेयोगाऽ इत्यस्यानुपस्थानात् तदङ्गभूतम् ऽतस्मादित्युतरस्यऽ इत्येतदपि न प्रवर्तेतेति पूर्वस्याप्यचः स्वरितप्रसङ्गः । स्यादेतत्-यथा ऽकृपो रो लःऽ इत्यत्र ऋकारस्य रेफस्य ऌकारस्थे लकारेऽपि विहिते कृत्स्नस्य वर्णस्य कृत्स्न एव वर्णो भवति, तद्वदिहापि धर्मिणोरेव स्थान्यादेशभावो भविष्यतीति युक्तं तत्र रेफलकारावृकारऌकारयोरात्मभूतौ न तावन्तरेण तावुच्चारयितुं शक्यौ, इह तूदातादिकमन्तरेणाप्यच उच्चारणं शक्यम्, दृष्ट्ंअ च भाषायामिति धर्ममात्रमेवादेशः स्यात् । नन्वेवं स्थिते स्थान्यपि धर्म एवेति युक्त एव परिभाषाव्यापारः, सत्यम्; वर्णमात्रधर्मोऽयमुदातादिरिति व्यामोहनिवर्तनेनाचामेवायं धर्मो न हलामिति दर्शयितुमिदमारब्धम् । अत एव वर्णधर्मे इति सामान्येनोक्तम् । तद्गुणेऽचीति । स उदातादिर्गुणो यस्य । एतेन वस्तुतोऽज्धर्मत्वमुदातादेर्दर्शितम् । तथा हि, अन्तरेणापि हलमच एष धर्मा दृश्यते-आ ते पितर्मरुतां सुम्नमेरु, यथा आकारस्य, नान्तरेणयं व्यञ्जनस्योच्चारणमपि भवति, कुत एव स्वरः ! यदि च हलामप्येते गुणास्ततो हलामचां च पृथक् स्वरोऽप्युपलभ्येत । यतस्तु खल्वचामेव स्वरमनुविदधति हलस्ततो निश्चीयते-अजुपरागादेषु स्वरप्रतिभासो न स्वत इति । अजुपरगश्च पूर्वपरसंनिधानेऽपि परेणैव भवति, न पूर्वेण । परिभाष्यन्त इति । केचिदाहुः-प्रदेशे लोकप्रसिद्ध्या हलामचां च ग्रहणे प्राप्तेऽचामेव ग्रहणं नियम्यते इति परिभाषेयमिति । अन्ये तु -धर्मिण्यप्रसिद्धत्वात् संज्ञात्वेन परिभाष्यन्ते इति व्याचक्षते । उच्चै रित्यस्याधिकरणप्रधानत्वात् क्रियापेक्षत्वाच्चाधिकरणस्योपलभ्यमान इत्युक्तम् ॥ श्रुतिप्रर्षो न गृह्यत इति । यदि गृह्यते उपांशुप्रयोगे न स्यादित्यव्याप्तिः, श्रुतिप्रकर्षस्य चानवस्थितत्वाद्यदेव कञ्चित्प्रत्युच्चैस्तदेव कञ्चित्प्रति नीचैरिति सर्वमुदातं स्यात्, सर्वं चानुदातमित्यमतिव्याप्तिव्यस्था च स्याद् इति भावः । स्थानकृतमित्यादि । उच्चता नाम प्रमाणविशेष ऊर्ध्वतापर्यातः, तत्र ताल्वादिबसंन्धो वर्णानामन्तरङ्ग इति स्थानसंबन्धिन्युच्चता गृह्यते, तत्कृतमुच्चैस्त्वं संज्ञिनो विशेषणम् । ननु पूर्वमुच्चैरुपलभ्यमान इति ताल्वादिस्थानवृत्तिरुच्चैः-शब्दो दर्शितः, इह तूच्चैःस्थाननिषपन्नत्वाद् अजेवोच्चैरित्युच्यते इति उक्तिविरोधः, न; पूर्वमक्षरार्थ उक्तः, इह तु वस्त्वर्थो व्याख्यातः । ननु चोच्चैः स्थान उपलभ्यमान इत्याश्रितेऽपि प्रांशुपुरुषोच्चारितोऽनुदातोप्युदात एव स्याद्, वामनपुरुषोच्चारित उदातोऽप्यमुदातः स्यात्; तत्रान्योऽन्यमुच्चतानीचतायोगाद्, अत आह-ताल्वादिषु हीति । ताल्वादीनि स्थानानि भागवन्ति, भागाश्चौतराधर्येण व्यवस्थिताः । तत्र यः समान इति । एकपर्यायोऽयं समान शब्दः । तेनायमर्थः-एकस्मिंस्ताल्वादिके स्थाने ऊर्ध्वाधरभगयुक्ते ऊर्ध्वभागेनोच्चार्यमाणोऽजदातसंज्ञो भवति । एवं चोच्चैरित्यस्योर्ध्वभाग इत्यर्थः । सर्वश्चायमर्थो लोकप्रसिद्धेरेव लभ्यते, सूत्रं तु व्यामोहनिवृत्यर्थम् । ऊर्ध्वभागनिष्पतेरप्रत्यक्षत्वात् तन्निश्चये लिङ्गमाह-यस्मिन्निति । आयाम इत्यस्य विवरणं निग्रहः । रूक्षतेत्यस्य विवरणमस्निग्धतेति । संवृततेति । अणुता । अत एव वायुः शनैर्निष्क्रामन् गलावयवान् शोषयतीति स्वरस्य रूक्षता भवति । ये ते के इति । यतत्किंभ्यो जसि त्यादद्यत्वम्, ऽजसः शीऽ, आद्गुणः,ऽएकादेश उदातेनोदातः ऽ ॥
Nyaas
-----
उदात्तादयो लोकवेदयोः प्रसिद्धाः। तत् किं संज्ञाकरणेनेति यश्चोदयेत् तंप्रत्याह - `उदात्तादिशब्दाः` इत्यादि। आदिशब्देनानुदात्तस्वरितयोः परिग्रहः।एवकारो भिन्नक्रमो वर्णधर्मे इत्यस्यानन्तरं द्रष्टव्यः। लोकवेदयोरुदात्तादयः शब्दा वर्णनां यो धर्मः = गुणस्तत्रैव प्रसिद्धाः, न तु तद्वित्यचि। तस्मादिह व्याकरण उदात्तादयो धर्मा यस्याचस्तद्गुणेऽचि संज्ञाप्यन्ते = परिभाष्यन्ते; अन्यथा प्रदेशेषूदात्तादिशब्दश्रवणाद्वर्णधर्म एव गृह्रेत, न तद्वानजित्यभिप्रायः।उच्चैरिति श्रुतिप्रकर्षेऽस्ति - श्रुतिप्रकर्षवत्युच्चैर्भाषते उच्चः पठतीति। अस्ति च प्रमाणाधिकरणवाची उच्चैः स्थितो देवदत्त इति, उच्चैर्नाम प्रमाणम्, तस्य तदधिकरणं तदिहोच्चैः शब्देनोच्यते। तदिह द्वितीयस्योच्चैः शब्दस्यार्थो गृह्रते, नेतरस्येति दर्शयितुमाह - `उच्चैः` इति। उच्चैर्भाषते इत्येवमादौ तु वाक्ये प्रयुक्तस्योच्चैः शब्दस्य योऽर्थः श्रुतिप्रकर्षः स उच्चैरित्यत्र न गृह्रते। यदि गृह्रेत, उपांशुप्रयोग उदात्तादिसंज्ञा न स्यात्; प्रकर्षाभावात्, प्रकर्षस्थितत्वादुदात्तादयो न विशिष्येरन्। य एव हि कञ्चित् प्रत्युच्चैर्भवति, स एव हि कञ्चित्प्रतति नीचैर्भवति। एवञ्च सर्वमुदात्तं स्यात्, अनुदात्ततमोऽपि चेष्यत इत्यभिप्राय।`स्थानकृतम्` इत्यादि। उच्यता नाम प्रमाणविशेषः, तदधिकरणभूतस्थानमुच्चैर्भवति। एवञ्च सर्वनमुदात्तं न स्यात्। अनुदात्तमुच्चैरुच्यत इत्यर्थः।`भागवत्सु` इति। भागा अवयवा येषां तानि भागवन्ति। ते भागास्ताल्वादिषु स्थानेष्वौत्तराधर्येण व्यवस्थिताः। स्थानमुच्चैः शब्देनोच्यते, तत् कुतः संज्ञिन उच्चैस्त्वविशेषणम्? उच्चैस्थाननिष्पन्नत्वात्। तत्र समाने स्थान उच्चैरूध्र्वभागे योनिष्पन्नः स उदात्तसंज्ञो भवति। यदि स्थाने य ऊध्र्वभागनिष्पन्नोऽच् स उदात्तसंज्ञो भवतीत्येतावदुच्यते, एवञ्च स एवानवस्थितदोषः। तथा हि- अल्पशरीरेषु य एव ताल्वादिभाग उच्चैर्भवति, स एव महाशरीरेषु ताल्वादिभागापेक्षया नीचैर्भवति। अतः `समान` इत्येतत् स्थानविशेषणमुक्तम्। एतच्च् लघ्वर्थत्वात् संज्ञाकरणस्यैकाक्षरायां संज्ञायां कर्तव्यायामनेकाक्षरसंज्ञाकरणाल्लभ्यते। ग्रन्थाधिक्यादर्थाधिक्यं भवतीति। ननु च ग्रन्थाधिक्यादत्र कश्चिदाचार्यस्याधिकोऽर्थोऽभिप्रेत इत्येतावन्मात्रं प्रतीयते, समानत्वमित्येषोऽर्थ विशेषः कुतो लभ्यते? अविच्छिन्नादुपदेशपारम्पर्यात्। तत् पुनः समानत्वं वक्त्रभिन्नत्वाद्वेदितव्यम्; न तु ताल्वादिस्थानस्याभिन्नत्वात्; अन्यथा तालव्यमेवापेक्ष्योदात्तः स्यात्, न तु कण्ठादीन्। वक्तुरभेदात् तद्द्वारेण भिन्नानामपि ताल्वादीनां समानत्वेऽपि विज्ञायमान एष दोषो न भवति। किंलक्षणः पुनरसावुच्चभागनिष्पन्नोऽजित्याह - `यस्मिन्` इत्यादि। `आयामः` इत्यस्य विवरणं `निग्रहः` इति। निग्रहः = स्तब्धता। संवृतकण्ठता = कण्ठविवरस्य संवृतता। अत एव शनैर्निष्क्रामन् वायुर्गलावयवाञ्शोषयति। रूक्षता भवत्यस्निग्धता।`ये ते के` इति। यत्तत्कशब्देभ्यस्त्यदाद्यत्वम्, **अतो गुणे** (6.1.97) पररूपत्वम्,`जसः शी` (7.1.17) , **आद्गुणः** (6.1.87) । अत्र प्रातिपदिकस्वरेण प्रकृतिरूदात्ता। **अनुदात्तौ सुप्पितौ** (3.1.4) इति विभक्तिस्वरः। एकादेशस्तु **एकादेश उदात्तेनोदात्तः** (8.2.5) इति॥
Praudhamanorama
---------------
**आये इति।** 'निपाता आद्युदात्ताः' (फि.सू. 4.12) इत्याकार उदात्तः, यच्छब्दस्तु फिट्सूत्रेण।
Prakriyasarvasvam
-----------------
स्थानेषूर्ध्वभागभवोऽजुदात्तसंज्ञः ।
Sarala
------
(ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसंज्ञः स्यात्) । तत्र उदात्तसञ्ज्ञासूत्रमाह - **उच्चैरिति** । **उच्चैः** - अव्ययपदम्, **उदात्तः** - प्रथमान्तम् । प्रकृते उच्चैस्त्वं न श्रवणकृतम्, उपांशु उच्चरिते उदात्तेऽव्याप्तेः, किन्तु स्थानकृतम् । उच्चैरिति चाधिकरणशक्तिप्रधानम् । अधिकरणत्वञ्च उच्चारणक्रियानिरूपितम् । **ऊकालोऽज्झ्रस्वदीर्घप्लुतः** (१.२.२७) इत्यतोऽजित्यनुवर्त्तते । एवञ्च ताल्वादीनाम् ऊर्ध्वभागे निष्पन्नः - उच्चरितोऽच् उदात्तसञ्ज्ञ - इति लब्धम् । ऊर्ध्वाऽधोभागव्यवहारोहि ताल्वादिस्थानानां सभागत्वे एव सम्भवति ॥
Sudha
-----
उदात्तसंज्ञामाह — **उच्चैरुदात्त** इति । नादधर्मविशेषः उच्चैस्त्वन्त्विह न विवक्षितम्, उपांशूच्चार्यमाणे अव्याप्तेः । किन्तु उच्चैः शब्दः अधिकरणशक्तिप्रधानः ऊर्ध्वभागे इत्यर्थे वर्तते । **ऊकालोऽज्झ्रस्वदीर्घप्लुतः** (1.2.27) इत्यत अच् इत्यनुवर्तते, तदेतदाह ताल्वादिष्वित्यादिना । **सभागेष्विति** । ताल्वादीनां सावयवत्वकथनं ऊर्ध्वभागे इत्यस्योपपादनार्थम् ।। तेषामखण्डत्वे ऊर्ध्वभागे इत्यनुपपत्तेः ।