12025: तृषिमृषिकृशेः काश्यपस्य ============================== **Padacheda:** तृषि-मृषि-कृशेः | S | 5 | 1 | काश्यपस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The सेट् क्त्वा is optionally कित् , according to the opinion of ऋषि काश्यप after the verbs तृष् 'to be thirsty', मृष् 'to sprinkle' and कृश् 'to become lean'. Vasu English Translation ------------------------ The सेट् क्त्वा is optionally कित् , according to the opinion of ऋषि काश्यप after the verbs तृष् 'to be thirsty', मृष् 'to sprinkle' and कृश् 'to become lean'. As तृषित्वा or तर्षित्वा 'having thirsted,' मृषित्वा or मर्षित्वा 'having sprinkled,' कृशित्वा or कर्शित्वा 'having become lean.' By *sutra* (1.2.18), the *set* *ktva* is never *kit*. This *sutra* adds another exception to that general rule. The special mention of *Kasyapa* is for the sake of showing respect. The वा is already understood in this *sutra* by *Anuvritti* from *sutra* (1.2.23). Bhashya ------- तृषिमृषिकृषेः काश्यपस्य काश्यपग्रहणं किमर्थम्? काश्यपग्रहणं पूजार्थम्। वेत्येव हि वर्तते ॥ तृषिमृषिकृषेः काश्यपस्य ॥ 25 ॥ Kashika ------- न क्त्वा सेट् (१.२.१८) इति प्रतिषेधे प्राप्ते कित्त्वं विकल्प्यते। तृषि मृषि कृशि इत्येतेभ्यः परः क्त्वाप्रत्ययः सेट् काश्यपस्याचार्यस्य मते वा न किद् भवति। तृषित्वा, तर्षित्वा। मृषित्वा, मर्षित्वा। कृशित्वा, कर्शित्वा। काश्यपग्रहणं पूजार्थम्, वेत्येव हि वर्तते॥ Siddhanta Kaumudi ----------------- एभ्यः सेट् क्त्वा किद्वा । तृषित्वा । तर्षित्वा । मृषित्वा । मर्षित्वा । कृशित्वा । कर्शित्वा । रलो व्युपधात्-(SK2617) इति वा कित्वम् । द्युतित्वा । द्योतित्वा । लिखित्वा । लेखित्वा । रलः किम् । सेवित्वा । व्युपधात्किम् । वर्तित्वा । हलादेः किम् । एषित्वा । सेट् किम् । भुक्त्वा । वसतिक्षुधोरिट्-(SK3046) । उषित्वा । क्षुधित्वा । क्षोधित्वा । अञ्चेः पूजायाम् (SK3047) इति नित्यमिट् । अञ्चित्वा । गतौ तु । अक्त्वेत्यपि । लुभित्वा । लोभित्वा । लुभोऽविमोहने-(SK3048) इतीट् । विमोहने तु लुब्ध्वा ॥ Tattvabodhini ------------- **तृषिमृषिकृशेः काश्यपस्य** - तृषिमृषि । ञितृषा पिपासायां, मृष तितिक्षायां, कृश तनूकरणे ।नोपधा॑दित्यतो वेत्यनुवर्तनात्काश्यपग्रहणं पूजार्थम् । अञ्चेरिति ।उदितो वे॑ति विकल्पप्राप्तावयमारम्भः । अञ्चित्वेति ।न क्त्वा से॑डिति कित्त्वाऽभावान्नलोपो न । एवं चेहनाञ्चेः पूजाया॑मिति नलोपो नेति प्रसादकारोक्तिर्वृथेत्याहुः । Padamanjari ----------- ऽञितृषा पिपासायाम्ऽ,ऽमृष तितिक्षायाम्ऽ, ऽकृशतनूकरणेऽ । काश्यपग्रहणं पूजार्थमिति । ऽकाश्यपस्यैतद्विषयं विज्ञानं नान्येषाम्ऽ इत्यसाधारणज्ञानोद्भावनमाचार्यस्य पूजाद्वारेण शास्त्रस्यापि पारम्पर्यप्रतिपादनेन प्रामाण्यप्रितपादनात् पूजा भवति ॥ Nyaas ----- `ञितृषा पिपासायाम्` (धातुपाठः-1228), `मृष तितिक्षायाम्` (धातुपाठः-1164), `कृश तनूकरणे` (धातुपाठः-1227)।`काश्यपग्रहणं पूजार्थम्` इति। `काश्यपस्यैवैतद्विषयकं ज्ञानं नान्येषाम्` इत्यसाधारणज्ञानोद्भावनमेव पूजा। तस् तत्पूजाद्वारेण शास्त्रस्यापि महार्थतोद्भावनलक्षणा पूजा कृता भवति। एवन्नाम शास्त्रस्य महार्थत्वं येन तथाविधा मुमुक्षवोऽप्याद्रियन्त इति। तेन विकल्पार्थं काश्यपग्रहणं कस्मान्न भवतीत्यत आह - वेत्येव हि वर्तते` इति॥ Prakriyasarvasvam ----------------- एभ्यः सेट् क्त्वा वा न कित् स्यात् । काश्यपोक्तिः पूजार्था । तृषित्वा तर्षित्वा । मृषित्वा मर्षित्वा । कृशित्वा कशित्वा ।। ८६३. रलो व्युपधाद्धलादेः संश्च (१. २. २६) उश्च इश्च वी । व्युपधाद् रलन्ताद्धलादेः परौ सेटौ क्त्वासनौ वा कितौ स्तः । मुदित्वा मोदित्वा । चितित्वा चेतित्वा । देवित्वेत्यरलन्तत्वाद् विकल्पोऽयं न जायते । वर्त्तित्वा व्युपधाभावादेषित्वेत्यहलादितः ॥ १६७ ॥ अथेत्कथा । 'श्र्युकः किति' (७-२-११) इति इडभावः । श्रित्वा भूत्वा । ऋत इत् । दीर्घः । तीर्त्वा । स्वरत्यादावप्युगन्तानां 'श्र्युकः किति' (७-२-११) इति इण्निषेध एवेष्टः । स्वृत्वा । सूत्वा । धूत्वा । ऊविनां तु वेट् स्यादेव । 'अशू व्याप्तौ' । छशां षः । अष्ट्वा अशित्वा । एवं रधादिविकल्पे रद्ध्वा रधित्वा इत्यादि । 'क्लिशः क्त्वानिष्ठयोः (७-२-५०) इति वेट् । क्लिष्ट्वा क्लिशित्वा । अस्य 'मृडमृद—' (१-२-७) इति कित्त्वम् । पूङश्च पूत्वा पवित्वा । 'वसतिक्षुधोरिट् (७-२-५२) इति नित्यमिट् । मृडादिना कित्त्वादुत्वमुक्तम् । उषित्वा । 'रलो व्युपधात्—' (१-२-२६) इति वा कित्त्वम् । क्षुधित्वा क्षोधित्वा । 'अञ्चेः पूजायाम्' (७-२-५३) इतीट् । अञ्चित्वा । गतौ तु अक्त्वा । अत्रानिट्त्वेन कित्त्वान्नलोपः । लुभोऽविमोहने त्विट् स्याद् वा कित्वं रल इत्यपि । लोभित्वा वा लुभित्वा वा केशान् नृत्यति बालिका ॥ १६८ ॥ अन्यत्र 'तीषसह—' (७-२-४२) इति इड्विकल्पाद् रसः कित्त्वविकल्पाच्च लुब्ध्वा लुभित्वा लोभित्वा ॥ Sutra Prayogas -------------- * **तृषित्वेवा** (भट्टिकाव्यम्): `तृषि मृषि` इत्यादिना कित्त्वविकल्पः।