12016: विभाषोपयमने ================== **Padacheda:** विभाषा | S | 1 | 1 | उप-यमने | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix सिच् before आत्मनेपद affixes is कित् optionally when यम् means 'to expose'. Vasu English Translation ------------------------ The affix सिच् before आत्मनेपद affixes is कित् optionally when यम् means 'to expose'. Thus उपायत कन्याम् or उपायंस्त कन्याम् 'he espoused the girl,' उपायत or उपायंस्त भार्याम् 'he espoused his wife.' The word '*Upayamana*' in the *sutra* means 'to accept in marriage,' 'to espouse.' The verb यम् preceded by the preposition उप is *Atmanepadi* when it means 'to espouse' by Rule (1.3. 56). Kashika ------- यमः सिजात्मनेपदेष्विति वर्तते। यमेर्धातोरुपयमने वर्तमानात् परः सिच् प्रत्ययो विभाषा किद् भवत्यात्मनेपदेषु परतः। उपायत कन्याम्, उपायंस्त कन्याम्। उपायत भार्याम्, उपायंस्त भार्याम्। उपयमनं स्वीकरणम्, विवाहः, दारकर्म, पाणिग्रहणमित्यर्थः। **उपाद् यमः स्वकरणे** (१.३.५६) इत्यात्मनेपदम्॥ Siddhanta Kaumudi ----------------- यमः सिच् किद्वा स्याद्विवाहे । रामः सीतामुपायत । उपायंस्त वा । उदवोढेत्यर्थः । गन्धनाङ्गे उपयमे तु पूर्वविप्रतिषेधान्नित्यं कित्त्वम् ॥ Nyaas ----- `दारकर्म` इति। कर्मशब्दः क्रियावाची। दारक्रियेत्यर्थः॥17। स्थाघ्वोरिच्च। (1.2.17) सिच्च किद्भवतीति चकारेण कित्त्वं समुच्चीयत इति दर्शयति। किमर्थं पुनः सिचः कित्त्वं विधीयते; यावता गुणप्रतिषेधस्तस्य फलम्, इकारविधानसामर्थ्यादेव गुणो न भविष्यति; अन्यथा ह्रेकारमेव विदध्यात्? नैतदस्ति; लाघवार्थं हीकारविधानं स्यात्। दीर्घोच्चारणाद्ध्रस्वोच्चारणं लघु भवति। `उपास्थित` इति। `समप्रविभ्यः स्थः` (1.3.22) इत्यतः स्थग्रहणेऽनुवर्तमाने **उपान्मन्त्रकरणे** (1.3.25) इत्यत उपादिति तेन `सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य` (व्या।प।12) इतीत्त्वं नोत्सहते सिचं विहन्तुम्, तत् कुतो लोपः? नैतदस्ति;न हीत्त्वं सिचीत्युच्यते, किं तर्हि? इकारश्चान्तादेशो भवति सिच्च किद्भवतीति। अथापि सिज्निमित्तकं स्यात्? एवमप्यदोषः; तस्याः परिभाषायाश्चानित्यत्वात्। अनित्यत्वन्तु सप्तमेऽध्याये ज्ञापयिष्यते(काशिका।7.1.13)।`इच्च` इत्यादि। हेतुशब्दोऽत्राध्याहार्यः। तेन **षष्ठी हेतुप्रयोगे** (2.3.26) इति हेतुशब्दप्रयोगे कस्येति षष्ठी भवति। तकार इत् तकारेत्, तकार एव वा इद् यस्य स तकारेत्, तकारेतो भावस्तकारेत्त्वम्। इच्चेत्यत्र निर्देशे कस्य हेतोरिकारस्य तकारेत्त्वं क्रियते? किमर्थमिकारस्तपरः क्रियत इत्यर्थः। शेषलक्षणा वा कार्यसम्बन्धविवक्षायां षष्ठीयम्। कस्य कार्यस्य निष्पत्त्यर्थमिकारस्तपरः क्रियत इति यावत्। `दीर्घो मा भूत` इति, असति हि तपरत्वेऽण् गृह्रमाणः सवर्णान् गृह्णातीतीकारेण सवर्णानां ग्रहणे सति स्थानेन्तरतमपरिभाषयोपास्थित, अदितेत्यत्र दीर्घस्थाने दीर्घो भवति, स मा भूदिति तपरत्वं क्रियते।`ऋतेऽपबि सः` इति। स इत्यनेन दीर्घस्य प्रत्यवमर्शः। ऋतेऽप्यस्मादेव वचनाद् घुमास्थादिसूत्रेण (6.4.66) दीर्घः सिद्धः, तस्माद् वचनसामर्थ्याद्दीर्घो न भविष्यतीत्यभिप्रायः। `भाव्यमानोऽण् सवर्णान् न गृह्णाति` (व्या।प।30) इत्यतो दीर्घो न भविष्यतीति। एष तु परिहारो नोक्तः, भाव्यमानेनाप्यणा क्वचित् सवर्णानां ग्रहणात्। तथा हि - अदस औप्रत्यये परतस्त्यदाद्यत्वे **वृद्धिरेचि** (6.1.88) इति वृद्धौ कृतायाम् भवति। **अदसोऽसेर्दादु दो मः** (8.2.80) इत्युकारो विधीयमानः सवर्णानां ग्रहणादौकारस्य दीर्घस्य स्थाने दीर्घ एव भवति - अमू इति।`अनन्तरे प्लुतो मा भूत्` इति। अनन्तरार्थे विसदृशार्थ आरम्भे सति।कुत एतत्? विसदृशस्य आकारस्य स्थाने क्रियमाणो ह्रस्वो भवति, न पुनः प्लुतः। तस्मात् प्लुतबाधनार्थं तपरत्वं कर्तव्यम्। एतदपि नास्ति प्रयोजनम्। `प्लुतश्च विषये स्मृतः` इति। चशब्दो हेतौ। प्लुतो हि दूराद्धूतादिविषयविशेषे (8.2.84) उक्त एव। तत्र यद्यनेन प्लुतो विधीयते तदा सर्वत्र दूराद्धूतादिविषयेऽन्यत्र चानेन भवितव्यम्, ततश्च दूराद्धूतादिविषयेऽपि तस्मिन् भवत्युक्तानुवाददोषः स्यात्; तस्य कृतस्य करणात्। तस्मात् पक्ष उक्तानुवाददोषो मा भूदिति ह्रस्व एव भविष्यति, न प्लुतः इति प्रत्याख्यातं भाष्ये तपरत्वम्।अन्ये तु वर्णयन्ति - `प्लुतश्च विषये स्मृतः` इत नानेन तपरत्वं प्रत्याख्यायते, किं तर्हि? तस्य प्रयोजनमाख्यायते। दूराद्धूतादिविषये प्लुत इष्टोऽभिप्रेतः, स न प्राप्नोति। स्थानेऽन्तरतमपरिभाषया( 1.1.51) दीर्घस्यैव स्थाने दीर्घ एव विधीयते। ननु चोक्तं सिद्ध एव दीर्घ इति? सिद्धस्य पुनर्वचनं प्लुतस्य बाधनार्थं स्यात्। इष्यते च प्लुतो दूरादधूतादिविषये। तस्मात् तस्य बाधको दीर्घो मा भूदिति तपरत्वं कर्तव्यम्। तेन विचार्यमाणानामित्याष्टमिको भवत्येव प्लुत इति। Prakriyasarvasvam ----------------- विवाहार्थात् यमेः परः सिज्वा कित् स्यात् । उपायस्त उपायसाताम् । उपायंस्त, उपायंसाताम् इत्यादि । शेषं लिङादि कर्मोक्तवत् । गम्ल गतौ । 'इषु³गमि—' इति छः । गच्छति । कर्मणि गम्यते । लुङि । Sutra Prayogas -------------- * **उपायंस्त** (भट्टिकाव्यम्): `विभाषोपयमने` इति विकल्पः। * **उपायंसत** (भट्टिकाव्यम्): `विभापोपयमने` इत्यकित्त्वपक्षे रूपम्।