12013: वा गमः ============= **Padacheda:** वा | S | 0 | 0 | गमः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Optionally after the verb गम् , the लिङ् and the सिच् beginning with झल् consonants, in the आत्मनेपद , are कित्। Vasu English Translation ------------------------ Optionally after the verb गम् , the लिङ् and the सिच् beginning with झल् consonants, in the आत्मनेपद , are कित्। The verb गम् 'to go' is *Atmanepadi* after the preposition सम् by Rule (1.3.29). The result of its being *kit* is that the nasal is dropped in the *Atmanepada*, in forming the Aorist with सिच्, and the Bencdictive. Thus we have the forms :- संगंसीष्ट or संगसीष्ट in the Benedictive; and समगत or समगंस्त in the *sich* Aorist. These forms are thus evolved :- सम् + गम् + सीष्ट = सम् + ग + सीष्ट (6.4.37) = संगसीष्ट 'may he combine.' Here the nasal म् of गम् is elided by treating the affix सीष्ट as कित् by Rule (6.4.37). In the alternative we have संगंसीष्ट. So in the aorist सम् + गम् + सिच् + त = सम् + अट् + गम् + त (6.4.37) = समगत. The सिच् being elided by (8.2.27) (after a short inflective base, there is elision of सिच्, if a *jhal* follows). So when म् of गम् is elided by (6.4.37), there remains only ग which is a base ending in short अ, hence, the elision of सिच्. But in the alternative we have समगंस्त. Kashika ------- लिङ्सिचावात्मनेपदेष्विति वर्तते। गमेर्धातोः परौ लिङ्सिचावात्मनेपदेषु झलादी वा कितौ भवतः। संगंसीष्ट, संगसीष्ट। सिचः खल्वपि — समगंस्त, समगत। कित्त्वपक्षेऽनुनासिकलोपो भवति — **अनुदात्तोपदेशवनतितनोत्यादीनाम्०** (६.४.३७) इति॥ Siddhanta Kaumudi ----------------- गमः परौ झलादी लिङ्सिचौ वा कितौ स्तः । संगसीष्टा - संगंसीष्ट । समगत - समगंस्त । समृच्छिष्यते । अकर्मकाभ्यां किम् ? ग्रामं संगच्छति । (वार्तिकम्) ॥ वेत्तेरेव ग्रहणम् । संवित्ते । संविदाते ॥ Balamanorama ------------ **वा गमः** - वा गमः । 'इको झल्' इत्यतो झलिति,लिङ्सिचावात्मनेपदेषु॑ इत्यतो लिङ्सिचाविति, 'असंयोगाल्लिट्' इत्यतः किदिति चानुवर्तते । तदाह — गमः परावित्यादि । समगतेति । लुङि रूपम् । सिचः कित्तवपक्षे 'अनुदात्तोपदेशे' ति मकारलोपेह्रस्वादङ्गादि॑ति सिचो लुक् । समृच्छते इति ।ऋच्छ गतीन्द्रियप्लयमूर्तिभावेषु॑ इति तौदादिकस्य रूपम् । अत्र तौदादिकस्य ऋच्छतेरेव ग्रहणं, नतु ऋच्छादेशस्येति सूचयितुं लृडन्तमप्युदाहरति — समृच्छिष्यते इति । विदिप्रच्छिस्वरतीनामिति । सम इत्यनुवर्तते । संपूर्वेभ्यो विदिप्रच्छिस्वरतिभ्य आत्मनेपदमित्यर्थः । वेत्तेरिति । लुग्विकरणस्यैव विदेग्र्रहणमित्यर्थः । व्याख्यानादिति भावः । Tattvabodhini ------------- **वा गमः** - ॒असंयोगाल्लिट्कि॑त्यतः किदनुवर्तते ,इको झ॑लित्यतो झल्ग्रहणं,लिङ्सिचौ॑ इत्यतो लिङ्सिचाविति चानुवर्तते । कित्त्वपक्षेअनुदात्तोपदेशे॑ ति मलोपः ।समृच्छिष्यते॑ इति लृटः प्रयोगस्तु तौदादिकऋच्छेरत्र ग्रहणं न तु ऋच्छादेशस्येति ध्वननार्थम् । ग्रामं सङ्गच्छतीति ।तच्चैक्यं समगच्छते॑त्यत्र तु एकं जातमित्यर्थाद्गमेरकर्मकत्वमेवेति तङ् । एकमेवेक्यम् । स्वार्थे ष्यञ् । * विदिप्रच्छि । परस्मैपदसाहचर्यादाह - वेत्तेरेवेति । Nyaas ----- `संगसीष्ट` इति। `समो गमृच्छि` (1.3.29) इत्यादिनात्मनेपदम्। `समगत` इति। ह्रस्वाङ्गात्` (8.2.27) इति सिचो लोपः। Prakriyasarvasvam ----------------- गमेः परौ झलादी लिङ्सिचौ तङि वा कितौ स्तः । कित्वेऽनुनासिकलोपः । अगसाताम्, अगंसाताम् । अगसत, अगंसत । 'ह्रस्वादङ्गात्' । अगथाः, अगंस्थाः । अगध्वम् अगन्ध्वम् । लिटि जगाम । 'गमहन-' (६-४-९८) इत्यल्लोपः । स्थानिवत्त्वाद् द्वित्वम् । जग्मतुः जग्मुः । 'उपदेशेऽत्वत' इति वेट् । जगमिथ, जगन्थ । जग्म । जगाम, जगम । जग्मिव । कर्मणि जग्मे । जग्मिषे । जग्मिध्वे । जग्मिवहे । गम्यात् । 'वा गमः' । गसीष्ट, गंसीष्ट । गसीध्वम् गंसीध्वम् । गन्ता । लुटि । Sutra Prayogas -------------- * **समगंस्त** (शिशुपालवधम्): `वा गमः` इति सिचः पक्षे कित्त्वाभावात्।