12008: रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च ======================================= **Padacheda:** रुद-विद-मुष-ग्रहि-स्वपि-प्रच्छः | S | 5 | 1 | सन् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affixes क्त्वा and सन् (3.1.7) are कित् after रुद् 'to weep', विद् 'to know', मुष् 'to steal', गृह् 'to seize', स्वप् 'to sleep' and प्रच्छ् 'to ask'. Vasu English Translation ------------------------ The affixes क्त्वा and सन् (3.1.7) are कित् after रुद् 'to weep', विद् 'to know', मुष् 'to steal', गृह् 'to seize', स्वप् 'to sleep' and प्रच्छ् 'to ask'. After the above mentioned verbs the *ktva* though taking an intermediate इ, and the affix सन् are कित्. The affix सन् is employed in forming desiderative verbs. The न् of सन् is इत्, the real affix being स. The root is reduplicated before this सन् affix. Thus रुदित्वा 'having cried,' रुरुदिषति 'he wishes to cry'; विदित्वा 'having known,' विविदिषति 'he wishes to know'; गृहीत्वा (6.1.16) 'having taken,' जिघृक्षति 'he wishes to take'; मुषित्वा 'having stolen,' मुमुषिषति 'he wishes to steal'; सुप्त्वा (6.1.15) 'having slept,' सुषुप्सति 'he wishes to sleep,' पृष्ट्वा (6.1.16) 'having asked' पिपृच्छिषति 'he wishes to ask.' The verb ग्रह् is changed into गृह्, स्वप् into सुप्, प्रच्छ् into पृच्छ before *kit* affixes by *samprasarana* (6.1.16) The *ktva* and *san* would have been optionally *kit* after the verbs रुद्, विद् and मुष् by virtue of Rule 26 of this chapter, but this *sutra* makes them necessarily so, after these three verbs. In the case of the verb ग्रह्, these affixes are *kit* by virtue of this *sutra* only. In the case of the verbs स्वप् and प्रच्छ् the affix क्त्वा is of course *kit*, because these two verbs are *anit*, that is, they do not take the intermediate इ; and therefore the क्त्वा being directly affixed to them, and rule 18 not applying, the indicatory k would make it *kit*. In reference to these verbs, therefore, the present *sutra* teaches something new, only with regard to the affix सन्, by making that also *kit*. The verb प्रच्छ् takes the intermediate इ when the affix सन् follows, by virtue of *sutra* (7.2.75). Kashika ------- रुद विद मुष ग्रहि स्वपि प्रच्छ् इत्येतेभ्यः संश्च क्त्वा च कितौ भवतः। रुदविदमुषीणां **रलो व्युपधाद्०** (१.२.२६) इति विकल्पे प्राप्ते नित्यार्थं ग्रहणम्। ग्रहेर्विध्यर्थमेव। स्वपिप्रच्छ्योः सन्नर्थं ग्रहणम्। किदेव हि क्त्वा। रुदित्वा, रुरुदिषति। विदित्वा, विविदिषति। मुषित्वा, मुमुषिषति। गृहीत्वा, जिघृक्षति। सुप्त्वा, सुषुप्सति। पृष्ट्वा, पिपृच्छिषति। ग्रहादीनां कित्त्वात् संप्रसारणं भवति। **किरश्च पञ्चभ्यः** (७.२.७५) इति प्रच्छेरिडागमः॥ Siddhanta Kaumudi ----------------- एभ्यः सन् क्त्वा च कितौ स्तः । रुरुदिषति । विविदिषति । मुमुषिषति ॥ Laghu Siddhanta Kaumudi ----------------------- मुखसहतिनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात्। तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः। ऌवर्णस्य द्वादश, तस्य दीर्घाभावात्। एचामपि द्वादश, तेषां ह्रस्वाभावात्॥ Balamanorama ------------ **रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च** - रुदविद । इका निर्देशात् संप्रसारणे गृहीति निर्देशः । स्वपीति इकारस्तु उच्चारणार्थः, न त्विका निर्देशः, सुपीति संप्रसारणप्रसङ्गात् । चकारात्मृडमृदगुधे॑ति पूर्वसूत्रस्थं क्त्वेति समुच्चीयते । तदाह — सन् क्त्वा चेति । किताविति ।असंयोगाल्लि॑डित्यतस्तदनुवृत्तेरिति भावः । रुदसाहचर्याद्वेत्तेरेव ग्रहणमिति केचित् । अविशेषात्सर्वस्येत्यन्ये ।हलन्ताच्चे॑ति सिद्धे रुदविदमुषां ग्रहणंरलो व्युपधा॑दिति विकल्पबाधनार्थम् । ग्रहेस्तु क्त्वायांन क्त्वा से॑डिति निषेधबाधनार्थम् ।स्वपिप्रच्छयोस्तु क्त्वायां कित्त्वेऽपि सनोऽप्राप्तकित्तवविधानार्थम् । रुरुदिषतीत्यादौ सनः कित्वाल्लघूपधगुणाऽभावः । Tattvabodhini ------------- **रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च** - रुदसाहचर्याद्वेत्तेरेव ग्रहणम् । इह रुदविदमुषाणां ग्रहणंरलो व्युपधा॑दिति विकल्पे प्राप्ते, ग्रहेःन क्त्वा से॑डिति निषेधाक्त्वाया अप्राप्ते, स्वपिप्रच्छयोस्तु क्त्वः कित्त्वेऽपि सनः कित्त्वस्याऽप्राप्तौ वचनम् । रुदित्वा । विदित्वा । मुषित्वा.सुप्त्वा । पृष्ट्वा । एतेषु संप्रसारणमपि फलम् । Padamanjari ----------- सन्नर्थमिति । तत्र चरितार्थत्वादनिटः क्त्वाः कित्वाविधानं नियमार्थं न भवति ॥ Nyaas ----- `रुदिर् अश्रुविमोचने` (धातुपाठः-1067), `विद ज्ञाने` (धातुपाठः-1064), `मुष स्तेये` (धातुपाठः-1530), `ग्रह उपादाने` (धातुपाठः-1533), `ञिष्वप् शये (धातुपाठः- 1068) `प्रच्छ ज्ञीप्सायाम्` (धातुपाठः-1413)। `ग्रहेर्विध्यर्थमेव` इति। `न क्त्वा सेट` (1.2.18) इति प्रतिषिद्धस्य कित्त्वस्य पुनर्विधिर्यथा स्यात्। `स्वपिर्विध्यर्थमेव` इत्यादि। `सन्नर्थम्` इति। अथ क्त्वार्थं वचनं कस्मान्न भवतीत्याह - `किदेव हि क्त्वा` स्वपिप्रच्छयोर्हि `एकाच उपदेशेऽनुदात्तात्` (7.2.10) इतीट्प्रतिषेधात् क्त्वा सेड् न भवतीत्यतः **न क्त्वा सेट्** (1.2.18) इति निषेधो न प्रवर्तते। तेन किदेव हि क्त्वेति। `रुदित्वा` इति। **समानकर्तृकयोः पूर्वकाले** (3.4.21) इति क्त्वा। `गृहीत्वा` इति। **ग्रहोऽलिटि दीर्घः** (7.2.37) ग्रह्रादिसूत्रेण (6.1.16) संप्रासरणम्। `जिघृक्षति` इति। `हो ढः` (8.2.31) इति तत्वम्, **षढोः कः सि** (8.2.41) इति कत्वम्; `एकाचो बसो भष्` (8.2.37) इत्यादिना गकारस्य घकारः, **सनि ग्रहगुहोश्च** (7.2.12) इतीट्प्रतिषेधः। `सुषुप्सति` इति। वच्यादिसूत्रेण (6.1.15) संप्रसारणम्। `पिपृच्छिषति` इति। अत्रापि ग्रह्रादिसूत्रेण (6.1.16) संप्रसारणम्; `छे च` (6.1.71) इति तुक्, **स्तोः श्चुना श्चुः** (8.4.40) इति श्चुत्वम्॥ Prakriyasarvasvam ----------------- एभ्यः क्त्वा संश्च कित् स्यात् । रुदित्वा । विदित्वा । मुषित्वा । कित्त्वाद् ग्रहादेः प्रसारणम् । 'ग्रहोऽलिटि—' (७-२-३७) इति दीर्घः । गृहीत्वा । सुप्त्वा । छशां षः । पृष्ट्वा । स्वपिप्रच्छयोः सनर्थमुक्तिः । अत्रानिट्त्वात् कित्त्वमनिषिद्धम् ।। Sutra Prayogas -------------- * **सुषुप्सुना** (शिशुपालवधम्): `रुदविद-` इत्यादिना सनः कित्त्वात्। * **रुदित्वेव** (भट्टिकाव्यम्): `रुद - विद` इति कित्त्वम् । * **सुषुप्सवः** (भट्टिकाव्यम्): `रुद- विद` इति सनः कित्त्वे सम्प्रसारणम् ।