11075: एङ् प्राचां देशे ======================= **Padacheda:** एङ् | S | 1 | 1 | प्राचाम् | S | 6 | 3 | देशे | S | 7 | 1 | Sutrartha --------- **पूर्वदिशि विद्यमानस्य देशस्य नाम्नः प्रथमस्वरः 'ए' उत 'ओ' इति अस्ति चेत् तस्य 'वृद्धम्' इति संज्ञा भवति ।** व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'वृद्धम्' इति संज्ञा । **वृद्धिर्यस्याचामादिस्तद् वृद्धम्** (1.1.73) इत्यतः **एङ् प्राचां देशे** (1.1.75) इति त्रिभिः सूत्रैः इयं संज्ञा पाठ्यते । अस्य सूत्रसमूहस्य इदं तृतीयम् (अन्तिमम्) सूत्रम् । ** 'शरावती'-इत्याख्याः नद्याः पूर्वदिशि विद्यमानः यः देशः, तस्य नाम्नि आदिवर्णः एकारः ओकारः वा अस्ति चेत् तस्य शब्दस्य 'वृद्धम्' इति संज्ञा भवति** - इति अस्य सूत्रस्य आशयः । यथा, 'एणीपचन', 'भोजकट', 'गोनर्द' - एते सर्वे शरावतीनद्याः पूर्वदिशि विद्यमानाः प्रदेशाः सन्ति, तथा च एतेषाम् आदिवर्णः एकारः उत ओकारः अस्ति, अतः एतेषाम् सर्वेषाम् प्रकृतसूत्रेण 'वृद्धम्' इति संज्ञा भवति । **वृद्धसंज्ञायाः प्रयोजनम्** 'वृद्ध' संज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्याम् भिन्नाः विधयः पाठ्यन्ते । यथा, **वृद्धाच्छः** (4.2.114) इत्यनेन वृद्धसंज्ञकशब्देभ्यः 'छ' इति तद्धितप्रत्ययः भवितुम् अर्हति ।अयं प्रत्ययः प्रकृतसूत्रेण सिद्धानाम् वृद्धसंज्ञकशब्दानां विषये अपि विधीयते । यथा — .. code-block:: text एणीपचनीये / भोजकटे / गोनर्दे जातः [तद्धितवृत्तिः] → एणीपचन / भोजकट / गोनर्द + छ [**तत्र जातः** (4.3.25) अस्मिन् अर्थे सप्तमीसमर्थेभ्यः **वृद्धाच्छः** (4.2.114) इति 'छ'प्रत्ययः भवति । अग्रे तद्धितान्तस्य **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, ततः च **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति ङि-प्रत्ययस्य लोपः विधीयते ।] → एणीपचन / भोजकट / गोनर्द + ईय [**आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इति छकारस्य ईय्-आदेशः] → एणीपचन् / भोजकट् / गोनर्द् + ईय [**यस्येति च** (6.4.148) इति अकारलोपः] → एणीपचनीय / भोजकटीय / गोनर्दीय ये देशाः शरावतीनद्याः पूर्वदिशि न विद्यन्ते, तेषाम् विषये अनेन सूत्रेण 'वृद्ध'संज्ञा न भवति । यथा, 'देवदत्त' इत्याख्यः कश्चनप्रदेशः वाहिकग्रामे स्थितः अस्ति, सः च शरावतीनद्याः पूर्वदिशि नैव वर्तते । अतः यद्यपि अस्य शब्दस्य आदिस्वरः एकारः अस्ति, तथापि अस्य शब्दस्य वृद्धसंज्ञा न हि भवति । अस्यां स्थितौ, अस्य प्रदेशस्य विषये वृद्धसंज्ञाविशिष्टम् **वाहीकग्रामेभ्यश्च** (4.2.117) इति सूत्रमपि न प्रवर्तते । यथा — .. code-block:: text देवदत्ते (तदाख्ये प्रदेशे) जातः [तद्धितवृत्तिः] → देवदत्त + अण् [**तत्र जातः** (4.3.25) अस्मिन् अर्थे सप्तमीसमर्थात् 'देवदत्ते' इति शब्दात् वृद्धसंज्ञायाः अभावे **वाहीकग्रामेभ्यश्च** (4.2.117) इत्यनेन छ-प्रत्ययः नैव भवति, अतः अत्र **प्राग्दीव्यतोऽण्** (4.1.83) इति औत्सर्गिकः अण्-प्रत्ययः एव विधीयते । अग्रे तद्धितान्तस्य **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा, ततः च **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति ङि-प्रत्ययस्य लोपः विधीयते ।] → दैवदत्त + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → दैवदत्त् + अ [**यस्येति च** (6.4.148) इति अकारलोपः] → दैवदत्त
स्मर्तव्यम् — वाहिकग्रामे स्थितस्य देवदत्तप्रदेशस्य नाम्नः इत्यनेन विकल्पेन अपि वृद्धसंज्ञा न भवति, यतः तेन वार्त्तिकेन केवलम् आधुनिकशब्दानाम् एव वृद्धसंज्ञा दीयते । अद्यतनकाले 'घग्गर' इत्याख्या या नदी भारतदेशस्य उत्तरपश्चिमसीमायां वहति, (wikipedia link) तस्याः एव प्राचीनं नाम शरावती इति स्वीक्रियते ।अस्याः नद्याः पूर्वदिशि विद्यमानाः प्रदेशाः पाणिनिना 'प्राचां देशाः' नाम्ना स्वीकृताः सन्ति । इदानींतन काले कर्नाटकप्रदेशे अपि काचित् 'शरावती' इति नदी विद्यते, परन्तु सा भिन्ना अस्ति । Sutrartha (English) ------------------- A word that represent the name of an eastern country and whose first स्वर is ए or ओ is called 'वृद्ध'. Vasu English Summary -------------------- A word that has the letters ए and ओ as the first among its vowels, gets also the designation of वृद्धम्। Vasu English Translation ------------------------ A word that has the letters ए and ओ as the first among its vowels, gets also the designation of वृद्धम्। As गोनर्द is a country of the east, it is a *vriddham* word and we have गोनर्द + छ् = गोनर्दीयः; similarly एणीपचनीयम्, भोजकटीयः. The word *prak* in the *sutra* has been differently interpreted. The Grammarian *Kunin* takes the word *prak* as an epithet qualifying the word *acharya*, 'professor' understood. In that case the *sutra* will be thus translated:- 'In the opinion of the Eastern (or ancient) professors, a word that has the letters e and o as the first among its vowels, and is the name of a country, is called *vriddham*.' Under this interpretation, this will be an optional rule only, giving the opinion of eastern or ancient grammarians. Others however take the word *prak* as qualifying the word *desa* and the meaning then is as given in the text. Why do we say 'having the letters ए and ओ'? If a simple vowel is first among the vowels, of a word, that word will not be called *vriddham*: and as such will not take the affix छ्; as आहिच्छत्रः, कान्यकुब्जः. Why do we say of 'Eastern country'? Because this rule does not apply to a word like देवदत्तः which is the name of a town in the *Punjab*, which is not an eastern country. Its secondary derivative will be दैवदत्तः, born in *Devadatta*. Why do we say 'country'? The rule will not apply to rivers &c. Thus from गोमति we have गौमताः 'fish born in the river *Gomati*.' Bhashya ------- एङ् प्राचां देशे एङ् प्राचा देशे शैषिकेष्विति वक्तव्यम्। सैपुरिकी सैपुरिका, स्कौनगरिकी, स्कौनगरिकेति ॥75 ॥ Kashika ------- यस्याचामादिग्रहणमनुवर्तते। एङ् यस्याचामादिस्तत् प्राचां देशाभिधाने वृद्धसंज्ञं भवति। एणीपचनीयः। भोजकटीयः। गोनर्दीयः। एङिति किम्? आहिच्छत्रः। कान्यकुब्जः। प्राचामिति किम्? देवदत्तो नाम वाहीकेषु ग्रामः। तत्र भवो दैवदत्तः। देश इति किम्? गोमत्यां भवा मत्स्या गौमताः। प्रागुदञ्चौ विभजते हंसः क्षीरोदकं यथा। विदुषां शब्दसिद्ध्यर्थं सा नः पातु शरावती॥ ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य प्रथमः पादः॥ Siddhanta Kaumudi ----------------- एङ् यस्याचामादिर्तद्वृद्धसंज्ञं वा स्याद्देशाभिधाने । एणीपचनीयः । गोनर्दीयः । भोजकटीयः । पक्षे अणि । ऐणीपचनः । गौनर्दः । भौजकटः । एङ् किम् । आहिच्छत्रः । कान्यकुब्जः । (वार्तिकम्) ॥ दैवदत्तः । देवदत्तीयः ॥ Balamanorama ------------ **एङ् प्राचां देशे** - एङ् प्राचां । देशविशेषणाम्नश्चेदेङादिरेव वृद्धसंज्ञक इति नियमार्थमिदम् ।वा नामधेयस्येति । रूढशब्दत्वमिह नामत्वं, न त्वाधुनिकसंकेतितत्वमेव । तेन घटीयमित्यादि सिद्धम् । Padamanjari ----------- प्राचां देशाभिधान इति । प्राचि देशे ये वसन्ति ते प्राचः पुरुषास्तेषां सम्बन्धी यो देशस्तदबिधान इत्यर्थः । एतेन श्रुतस्य विशेषणं प्राचां ग्रहणं नाचार्याणामिति दर्शयति । तथा हि सति मतेनेत्यध्याहार्यं स्यादिति भावः । एणीपचनीय इत्यादि । एणीपचनादिभ्यश्च्छः । दैवदता इति । 'वाहीकग्रामेभ्यश्च' इति वृद्धादिति विहितौ ठञ्ञिठौ न भवतः । काश्यादिपाठादपि न भवतः; तत्रापि वृद्धाधिकारात् । एवं क्रोडो नाम ग्रामस्तत्र भवः क्रौड इत्यणेव भवति । कुणिना तु प्राचांग्रहणमाचार्यनिर्देशार्थं व्याख्यातम्, बाष्यकारोऽपि तथैवाशिश्रियत् । तेन सेपुरं स्कोनगरं च वाहीकग्रामौ, तत्र 'वाहीकग्रामेभ्यश्च' इति ठञ्ञिठौ भवतः - सैपुरिकी, सौपुरिका; स्कौनागरिकी, स्कौनगरिका । अस्य व्यवस्थितविभाषाविज्ञानाच्च क्रोडदेवदतशब्दयोरप्राग्देशवाचिनोष्ठञ्ञिठौ न भवतः । शैषिकेष्वेवार्थेष्वियं वृद्धिसंज्ञेष्यते । तेनापत्यविकारयोः 'उदीचां वयवस्थितविभाषयैव सिद्धम् । वृत्तिकारपक्षे त्वेत्सर्वं वचनात्साध्यम् । गौमता इति । गोमती प्रग्देशे नदी देशग्रहणेन न गृह्यते, ङदीदेशोऽग्रामाः' इति नद्याः पृथग्ग्रहणात् 'एड् प्राचां देशे' 'उदीचां वृद्धादगोत्राद्' इत्यादिषु प्रागुदञ्चौ श्रुतौ, तयोर्विभागज्ञानार्थमाह-प्रागुदञ्चाविति । शरावती नाम नदी उतरपूर्वाभिमुखी, तस्या दक्षिणपूर्वंस्यां दिशि व्यवस्थितो देशः प्राग्देश; उतरपरस्यामुदग्देशः, तौ शरावती विभजते; तया मर्यादया तयो र्विभागो ज्ञायते । क्षीरोदकमिति । 'जातिरप्राणिनाम्' इत्येकवद्भावः । क्वचित् 'क्षीरोदके' इति पाठातत्र नियतव्यक्तिविवक्षया जातिपरत्वाभावाद् द्विवचनम् । किमर्थं विभजते ? विदुषां शब्दसिद्ध्यर्थम् । यद्यपि नद्या एवमुद्देशो न भवति - विदुषां शब्दा व्यवस्थिताः सिद्ध्यन्ति; तथापि तया हेतुभूतया व्यवस्थितं शब्दसाधुत्वमिति उद्देशोऽध्यारोप्यते । सैवंभूता सा नोऽस्मान् पातु । क्वचित् प्रागुदीचाविति पाठः, तत्र 'अच्प्रत्यन्ववपूर्वात्' इत्यत्राजितियोगविभागादच्प्रत्ययः । 'उद ईत्' इतीत्वम् । प्रगुदीचमिति पाठे समाहारद्वन्द्वः । 'द्वन्द्वाच्चुदषहान्तात्समाहारे' इति टच् । क्वचित् प्रागुदीचेति पाठः, तत्रावयवबहुत्वस्य समुदाय आरोपः प्राग्देशान्नुदग्देशाÄश्चेत्यर्थः ॥ Nyaas ----- `प्राचां देशाभिधाने` इति। प्राचां सम्बन्धी यो देशस्तदभिधान इत्यर्थः। एतेन प्राचामिति देशविशेषणं न विकल्पार्थमिति दर्शयति। प्राचां मतेनेत्यस्याविवक्षितत्वादित्याख्यातं भवति। `एणीपचनीयः` इत्यादि। एणीपचन इत्यादिभ्यच्छः। `आहिच्छत्रः` इति, `कान्यकुब्जः` इति अहिच्छत्रकान्यकुब्जशब्दाभ्यामणेव भवति। `देवदत्तः` इति। वृद्धा-धिकारे विहितो **वाहीकग्रामेभ्यश्च** (4.2.117) इति ठञ्ञिठौ न भवतः, काश्यपादि-पाठादपि तौ न भवतः; क्रियानिमित्तको हि देवदत्तशब्दस्तत्र पठते संज्ञाशब्दस्य चेदं प्रत्युदाहरणम्। एतच्च यदा `वा नामधेयस्य` (वा। 15) इति वृद्धसंज्ञा नास्ति;तदा वेदितव्यम्। `गौमताः`इति। अत्र सर्वमस्ति न तु देशाभिधानम्। तथा हि गोमती नदी प्रग्देशे, न देशः। न हि नदी देशग्रहणेन गृह्रते;`नदीदेशोऽग्रामाः` (2.4.7) इत्यत्र नद्याः पृथग्ग्रहणात्।`एङ् प्राचां देशे` इति। `उदीचां वृद्धादगोत्रात्` (4.1.157) इत्येवमादिषु प्रागुदञ्चौ श्रूयेते, तयोश्च विभागो न विज्ञायते। अतस्तत्परिज्ञानायाह - `प्रागुदञ्चौ` इत्यादि। शरावती नाम नदी , तस्याः पूर्वेण व्यवस्थितो देशः प्राग्देशः, उत्तरेण उदग्देशः। तौ शरावती विभजते = विभागेन व्यवस्थापयति तस्यां हि मर्यादायां सत्यां तयोर्विभागः परिज्ञायते। किमर्थं विभजते? `विदुषां शब्दसिद्ध्यर्थम्` इति। पण्डितानां वैयाकरणानां शब्दव्युत्पत्त्यर्थम्। कतं विभजते? `हंसः क्षीरोदकं यथा`। क्षीरोदकमिति `जातिरप्राणिनाम्` (2.4.6) इत्येकवद्भावः। क्वचित् क्षीरोदके इति पाठः। सः `सर्वो द्वन्द्वो विभाषयैकवद्भवति` (व्या।प।91) इति वेदितव्यः। यथा हंसः क्षीरमुदकं च मिश्रीभावमुपगतं पृथगसङ्करेण व्यवस्थापयति, तथा शरावती प्रागुदञ्चौ। यत्-तदोर्नित्याभिसम्बन्दात् सेति वचनादनुक्तमपि येत्येतल्लभ्यते। या विभजते सा नोऽस्मान् पातु रक्षतु। प्रसिद्धस्तु पाठो यत्र श्लोके प्रागुदीचाविति, तत्राऽचः `उद ईत्` (6.4.139) इति भसंज्ञकस्योच्यमानः कथमीकारः? कथं च **उगिदचां सर्वनामस्थानेऽधातोः** (7.1.70) इति नुम न भवतीति चिन्त्यम्। अत्र वर्णयन्ति - `अच्प्रत्यन्ववपूर्वात् सामलोम्नः` (5.4.75) इत्यत्राजितियोगविभागेनाच्प्रत्ययः कृतः, तेनात्राचि परतो भसंज्ञामीत्वं भवति। नुम् न भवति; अचा सर्वनामस्थानस्य व्यवहितत्वादिति।अनये तु प्रागुदीचमिति समाहारे कुर्वन्ति। तेषां `द्वन्द्वाच्चुदषहान्तात् समाहारे` (5.4.106) इति टचि समासान्ते कृते पूर्ववदीकारो नुमभावश्च भवति। क्वचित्तु प्रागुदीचेति पाटः। तत्रावयवदेशापेक्षया बहुत्वविवक्षायां बहुवचनम्।प्राग्देशानुदग्देशाश्च विभजत इत्यर्थः।श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धपादविरचितायांकाशिकाविवरणपञ्जिकायांप्रथमाध्यायस्यप्रथमः पादः Prakriyasarvasvam ----------------- एङ् यस्याचामादिः स प्राग्देशवाचकः शब्दो वृद्धसंज्ञः । भोजकटैयः । 'वा नामधेयस्य वृद्धसंज्ञा' (वा० १-१-७३) इति नलीयः । नालः ॥ Vartika ------- शैषिकेष्विति वक्तव्यम् ।