11067: तस्मादित्युत्तरस्य ========================= **Padacheda:** तस्मात् | S | 5 | 1 | इति | S | 0 | 0 | उत्तरस्य | S | 6 | 1 | Sutrartha --------- **सूत्रेषु पञ्चमीविभक्तेः साहाय्येन यस्य शब्दस्य उल्लेखः क्रियते, तस्मात् अव्यवहितस्य परस्य कार्यम् भवति ।** अष्टाध्याय्याः इदम् परिभाषासूत्रम् अस्ति । भिन्नेषु सूत्रेषु यत्र पञ्चमीविभक्तेः प्रयोगः कृतः दृश्यते, तत्र निर्दिष्टम् कार्यम् तस्मात् पञ्चम्यन्तशब्दात् अव्यवहितस्य परस्य भवति (इत्युक्ते, पञ्चम्यन्तशब्दात् विना व्यवधानम् अनन्तरं यः शब्दः यत् वा शब्दस्वरूपं विद्यते, तस्यैव एतत् कार्यं भवति इत्याशयः) । सप्तमीविभक्तेः एतादृशः कृतः प्रयोगः एव **परसप्तमी** नाम्ना अपि ज्ञायते । अस्य सूत्रस्य प्रयोगस्य कानिचन उदाहरणानि एतादृशानि — 1) **झयो होऽन्यतरस्याम्** (8.4.62) इत्यस्मिन् सूत्रे 'झयः' इति पञ्चम्यन्तम् पदमस्ति । अतः अनेन सूत्रे झय्-वर्णात् **अव्यवहितस्य** परस्यैव हकारस्य विकल्पेन पूर्वसवर्णः भवति । यथा, 'तद्धित' इति शब्दस्य सिद्धौ अस्य सूत्रस्य प्रयोगः भवति — .. code-block:: text तस्मै हितम् [**चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः** (2.1.36) इति चतुर्थीतत्पुरुषसमासः] → तद् हित [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लोपः] → तद् धित [दकारात् (झय्-वर्णात्) अव्यवहितरूपेण परः यः हकारः, तस्य **झयो होऽन्यतरस्याम्** (8.4.62) इति सूत्रेण विकल्पेन पूर्वसवर्णः धकारादेशः] → तद्धित । 2) **हलः** (6.4.2) इत्यस्मिन् सूत्रे 'हलः' इति पञ्चम्यन्तं पदम् अस्ति । अतः हल्-वर्णात् **अव्यवहितरूपेण** परस्य सम्प्रसारणसंज्ञकवर्णस्य अनेन सूत्रेण दीर्घः भवति । यथा — .. code-block:: text ह्वे (स्पर्धायां शब्दे च, भ्वादिः, (1.1163) ) → ह्वा [**आदेच उपदेशेऽशिति** (6.1.45) इति आकारादेशः] → ह्वा + क्त [**निष्ठा** (3.2.102) इति क्तप्रत्ययः] → ह् उ आ + त [कित्-प्रत्यये परे वकारस्य **वचिस्वपियजादीनां किति** (6.1.15) इति सम्प्रसारणम् । वकारस्य सम्प्रसारणे **इग्यणः सम्प्रसारणम्** (1.1.45) इति उकारः] → ह् उ + त [**सम्प्रसारणाच्च** (6.1.108) इति पूर्वरूप-एकादेशः] → हूत [**हलः** (6.4.2) इति हल्-वर्णात् अव्यवहितरूपेण उत्तरस्य संप्रसारणसंज्ञक-उकारस्य दीर्घः] 3) **अतोऽम्** (7.1.24) इति सूत्रे 'अतः' इति 'अत्' इत्यस्य पञ्चम्येकवचनम् अस्ति । ह्रस्व-अकारान्त-नपुंसकलिङ्गशब्दात् **अव्यवहितरूपेण** परस्य सुँ-प्रत्ययस्य अनेन सूत्रेण अम्-आदेशः भवति इति अस्य सूत्रस्य अर्थः । यथा, 'फल' शब्दात् अव्यवहितस्य सुँ-प्रत्ययस्य अम्-आदेशे कृते 'फलम्' इति प्रथमैकवचनस्य रूपं सिद्ध्यति । प्रक्रिया इयम् — .. code-block:: text फल + सुँ [**स्वौजस्...** (4.1.2) इति सुँ-प्रत्ययः] → फल + अम् [**अतोऽम्** (7.1.24) इति अदन्तात्-अङ्गात् अव्यवहितरूपेण परस्य सुँ-प्रत्ययस्य अम्-आदेशः] → फलम् [**अमि पूर्वः** (6.1.107) इति पूर्वरूपैकादेशः] **सूत्रे 'निर्दिष्टे' शब्दस्य अनुवृत्तेः प्रयोजनम्** अस्मिन् सूत्रे पूर्वस्मात् सूत्रात् 'निर्दिष्टे' इति शब्दः अनुवर्तते; सः च 'उत्तरस्य' इत्यनेन सह अन्वेति । 'निर्दिष्टे उत्तरस्य' इत्यनेन अत्र 'अव्यवहितरूपेण विद्यमानस्य उत्तरस्य' इति अर्थविधानं भवति । 'उत्तर' इति शब्दः 'व्यवहितस्य' उत्तरस्य विषये अपि भवितुम् अर्हति, अतः तत्र 'निर्दिष्टे' इति शब्दम् संयोज्य आचार्यः 'अत्र उत्तरत्वम् अव्यवहितम् एव भवेत्' इति नियमं विदधाति । यत्र एतादृशम् अव्यवहित-उत्तरत्वं न विद्यते, तत्र प्रकृतसूत्रस्य प्रयोगः नैव सम्भवति । यथा, 'दहन' इत्यस्मिन् शब्दे हकारः अवश्यम् झय्-वर्णात् (दकारात्) अनन्तरम् विद्यते, परन्तु सः अव्यवहितः नास्ति, तत्र अकारस्य व्यवधानं वर्तते । अस्यां स्थितौ अत्र **झयो होऽन्यतरस्याम्** (8.4.62) इत्यनेन पूर्वसवर्णादेशः नैव सम्भवति, यतः **झयो होऽन्यतरस्याम्** (8.4.62) इत्यस्य प्रयोगे झय्-वर्णात् अव्यवहिते परे हकारः इष्यते । Sutrartha (English) ------------------- The words in the पञ्चमी विभक्ति are used to indicate that the कार्य happens on an immediately next entity. Vasu English Summary -------------------- An operation caused by the exhibition of a term in the Ablative 5th case, is to be understood to enjoin the substitution of something in the room of that which immediately follows the word denoted by the term. Vasu English Translation ------------------------ An operation caused by the exhibition of a term in the Ablative 5th case, is to be understood to enjoin the substitution of something in the room of that which immediately follows the word denoted by the term. This *sutra* explains the force of words in the ablative case when employed in these aphorisms. As the locative case refers to a preceding word, so the ablative refers to a succeeding word. Thus *sutra* (8.4.61) declares that 'after उद्, of *stha* and *stambha*, the substitute is a letter belonging to the class of the prior.' Thus उद् + स्थानम्. Here the word उदः is exhibited in the original *sutra* in the ablative case, and by the present *sutra* it means that a dental letter थ् must be substituted in the place of *sthana*, and by (1.1.54) *ante*, this dental takes the place of स्; we have उद् + थ्थानम् = उत्थ्-थानम्. Similarly in *sutra* तिङ् ङतिङः(8.2.18), 'a word ending in a conjugational affix, when following after a word ending in a non-conjugational affix, becomes *anudatta*.') Here the word '*atinah*' is exhibited in the ablative case, therefore, the operation directed by this aphorism, namely, the substitution of *anudatta* accent, must take place in the word that follows. Thus ओदनं पचति; but not so in पचत्योदनमिति ॥ Bhashya ------- तस्मादित्युत्तरस्य किमुदाहरणम् ? इह तावत् तस्मिन्निति निर्दिष्टे पूर्वस्येति इको यणचि दध्यत्र,मध्वत्र। इह तस्मादित्युत्तरेति द्वयन्तरूपसर्गेभ्योऽप इर्त्। द्वीपम्। अन्तरीपम्। समीपम्। अन्यथाजातीयकेन शब्देन निर्देशः कियते। अन्यथाजातीयक उदाह्रियते। किं तर्ह्युदाहरणम् ? इह तावत् तस्मिन्निति निर्दिष्टे पूर्वस्येति तस्मिन्नणि च युष्माकास्माकाविति। तस्मादित्युत्तरस्येति। तस्माच्छसो नः पुंसीति। इदं चाप्युदाहरणम् - इको यणचि, द्वयन्तरूपसर्गेभ्योऽप इर्दिति। कथम्? सर्वनाम्नायं निर्देशः क्रियते। सर्वनाम च सामान्यवाची। तत्र सामान्ये निर्दिष्टे विशेषः अप्युदाहरणानि भवन्ति। किं पुनः सामान्यं, को विशेषः ? गौः सामान्यं कृष्णो विशेषः। न तर्हीदानीं कृष्णः सामान्यं गौर्विशेषो भवति। भवति च। यदि तर्हि सामान्यमपि विशेषो विशेषोपि सामान्यं, सामान्यविशेषौ न प्रकल्पेते। प्रकल्पेते च। कथम्? विविक्षातः। यदास्य गौः सामान्येन विविक्षतो भवति कृष्णो विशेषत्वेन, तदा गौः सामान्यं, कृष्णो विशेषः। यदास्य कृष्णः सामान्येन विवक्षितो भवति गौर्विशेषत्वेन तदा कृष्णः सामान्यं, गौर्विशेषः। अपर- आह- प्रकल्पेते च। कथम्? पितापुत्रवत्। तद्यथा स एव कंचित् प्रति पिता भवति। कंचित् प्रति पुत्रो भवति। एवमिहापि स एव कंचित् प्रति सामान्यं कंचित् प्रति विशेषः। एते खल्वपि नैर्द्देशिकानां वार्त्ततरका भवन्ति, ये सवर्नाम्ना निर्देशाः क्रियन्ते। एतैर्हि बहुतरकं व्याप्यते। अथ किमर्थमुपसर्गनिर्देशः क्रियते ? शब्दे सप्तम्या निर्दिष्टे पूर्वस्य कार्यं यथा स्यात्। अर्थे मा भूत्। जनपदे अतिशायने इति। किं गतमेतदुपसर्गेण। आहोस्विच्छब्दाधिक्यादर्थाधिक्यम्। गतमित्याह। कथम्? निरयं बहिर्भावे वर्तते। तद्यथा - निष्क्रान्तो देशात् - निर्देशः। बर्हिर्देश इति गम्यते। शब्दश्च शब्दाद् बहिरभूतः। अर्थोऽबहिर्भूतः। अथ निर्दिष्टग्रहणं किमर्थम् ? निर्दिष्टग्रहणमानन्तर्यार्थम्। निर्दिष्टग्रहणं क्रियते। आनन्तर्यार्थम्। आनन्तर्यमात्रे कार्यं यथा स्यात्। इको यणचि। दध्यत्र। मध्वत्र। इह मा भूत् समिधौ। समिधः। दृषदौ। दृषदः। किमर्थं पुनरिदमुच्यते ? तस्मिंस्तस्मादिति पूर्वोत्तरयोर्योगयोरविशेषान्नियमार्थं वचनं दध्युदकं प्रचत्योदनम्। तस्मिन् तस्मात् इति पूर्वोत्तरयोर्योगयोरविशेषान्नियमार्थोऽयमारम्भः। ग्रामे देवदत्तः। पूर्वः पर इति सन्देहः। ग्रामाद् देवदत्तः पूर्वः पर इति सन्देहः। एवमिहापि दध्युदकं पचत्योदनम्। उभाविकौ। उभावचौ। अचि पूर्वस्य अचि परस्येति संदेहः। तिङि्ङ्तङ इति अतिङः पूर्वस्य अतिङः परस्येति सन्देहः। इष्यते चाचि पूर्वस्य स्यात्। अतिङश्च परस्येति। तच्चान्तरेण यत्नं न सिध्यतीति नियमार्थं वचनम्। एवमर्थमिदमुच्यते। अस्ति प्रयोजनमेतत्। किं तर्हीति? अथ यत्रोभयं निर्दिश्यते किं तत्र? पूर्वस्य कार्यं भवति आहोस्वित् परस्येति। उभयनिर्देशे विप्रतिषेधात् पञ्चमीनिर्देशः। उभयनिर्देशे विप्रतिषेधात् पञ्चमीनिर्देशो भविष्यति। किं प्रयोजनम् ? प्रयोजनमतो लसार्वधातुकानुदात्तत्वे। वक्ष्यति तास्यादिभ्योऽनुदात्तत्वे सप्तमीनिर्देशोऽभ्यस्तसिजर्थ इति। तस्मिन् क्रियमाणे तास्यादिभ्यः परस्य लसार्वधातुकस्य लसार्वधातुके परतस्तास्यादीनामिति सन्देहः। तास्यादिभ्यः परस्य लसार्वधातुकस्य। बहोरिष्ठादीनामादिलोपे। बहोरुत्तरेषामिष्ठेमेयसाम्। इष्ठेमेयःसु परतो बहोरिति सन्देहः। बहोरुत्तरेषामिष्ठेमेयसाम्। गोतो णित्। गोतः परस्य सर्वनामस्थानस्य सर्वनामस्थाने परतो गोत इति सन्देहः। गोतः परस्य सर्वनामस्थानस्य। रुदादिभ्यः सार्वधातुके। रुदादिभ्यः परस्य सार्वधातुकस्य। सार्वधातुके परतो रुदादीनामिति सन्देहः। रुदादिभ्यः परस्य सार्वधातुकस्य। आने मुगीदासः। आस उत्तरस्यानस्य। आने परत आस इति सन्देहः। आस उत्तरस्य आनस्य। आमि सर्वनाम्नः सुट्। सर्वनाम्न उत्तरस्यामः। आमि परतः सर्वनाम्न इति सन्देहः। सर्वनाम्न उत्तरस्यामः। घेर्ङित्याण् नद्याः। नद्या उत्तरेषां ङितां, ङित्सु परतो नद्या इति सन्देहः। नद्या उत्तरेषां ङिताम्। याडापः। आप उत्तरस्य ङितः, ङिति परत आप इति सन्देहः। आप उत्तरस्य ङितः। ङमो ह्रस्वादचि ङमुणम् नित्यम्। ङम उत्तरस्याचः, अचि परतो ङम इति सन्देहः। ङम उत्तरस्माचः। विभक्तिविशेषणिर्देशानवकाशत्वादविप्रतिषेधः। विभक्तिविशेषणिर्देशस्यानवकाशत्वादयुक्तो विप्रतिषेधः। सर्वत्रैवात्र कृतसार्मथ्या सप्तमी। अकृतसार्मथ्या पञ्चमीति कृत्वा पञ्चमीनिर्देशो भविष्यति। यथार्थं वा षष्ठीनिर्देशः। यथार्थं वा षष्ठीनिर्देशः कर्तव्यः। यत्र पूर्वस्य कार्यमिष्यते तत्र पूर्वस्य षष्ठी कर्तव्या। यत्र परस्य कार्यमिष्यते तत्र परस्य षष्ठी कर्तव्या। स तर्हि तथा निर्देशः कर्तव्यः। न कर्तव्यः। अनेनैव प्रकॢप्तिर्भविष्यति। तस्मिन्निति निर्दिष्टे पूर्वस्य षष्ठी। तस्मादित्युत्तरस्य षष्ठीति। तत्तर्हि षष्ठीग्रहणं कर्तव्यम्। न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्? षष्ठी स्थानेयोगेति। प्रकल्पकमिति चेन्नियमाभावः। प्रकल्पकमिति चेत् नियमस्याभावः। उक्तं चैतन्नियमार्थोऽयमारम्भ इति। प्रत्ययविधौ खल्वपि पञ्चभ्यः प्रकल्पिकाः स्युः। तत्र को दोषः? गुप्तिज्किद्भ्यः सन्। गुप्तिज्किद्भ्य इत्येषा पञ्चमी सन्निति प्रथमायाः षष्ठीं प्रकल्पयेत् तस्मादित्युत्तरेति। अस्तु। न कश्चिदन्य आदेशः प्रतिनिर्दिश्यते तत्रान्तर्यतः सनः सन्नेव भविष्यति। नैवं शक्यम्। इत्संज्ञा न प्रकल्पेत। उपदेश इतीत्संज्ञोच्चते। प्रकृतिविकारव्यवस्था च। प्रकृतिविकारयोश्च व्यवस्था न प्रकल्पते। इको यणिचि , अचीत्येषा सप्तमी यणिति प्रथमायाः षष्ठीं प्रकल्पयेत् तस्मिन्निति निर्दिष्टे पूर्वस्येति। सप्तमीपञ्चम्योश्च भावादुभयत्र षष्ठीं प्रकॢप्तिस्तत्रोभयकार्यप्रसङ्गः। सप्तमीपञ्चम्योश्च भावादुभयत्र षष्ठीं प्राप्नोति। तास्यादिभ्य इत्येषा पञ्चमी लसार्वधातुके इत्यस्याः षष्ठीं प्रकल्पयेत्। तस्मादित्युत्तरस्येति। तथा लसार्वधातुके इत्येषा सप्तमी तास्यादिभ्य इति पञ्चम्याः षष्ठीं प्रकल्पयेत् तस्मिन्निति निर्दिष्टे पूर्वस्येति। तत्र को दोषः। तत्रोभयकार्यप्रसङ्गः। तत्र उभयोः कार्ये प्राप्नोति। नैष दोषः। यत्तावदुच्चते प्रकल्पकमिति चेन्नियमाभाव इति। मा भून्नियमः। सप्तमीनिर्दिष्टे पूर्वस्य षष्ठीं प्रकल्पयते पञ्चमीनिर्दिष्टे परस्य। यावता सप्तमीनिर्दिष्टे पूर्वस्य षष्ठीं प्रकल्पयते पञ्चमीनिर्दिष्टे परस्य नोत्सहते सप्तमीनिर्दिष्टे परस्य कार्यं भवितुम्। नापि पञ्चमीनिर्दिष्टे पूर्वस्य। यदप्युच्चते प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः स्युरिति। सन्तु प्रकल्पिकाः। ननु चोक्तं गुप्तिज्किद्भ्यः सन् इत्येषा पञ्चमी सन्निति प्रथमायाः षष्ठीं प्रकल्पयेत् तस्मादित्युत्तरस्येति। परिहतमेतत्। न कश्चिदन्य आदेशः प्रतिनिर्दिश्यते तत्रान्तर्यतः सनः सन्नेव भविष्यति। ननु चोक्तं नैवं शक्यमित्संज्ञा न प्रकल्पेत। उपदेश इति इत्संज्ञोच्यते। स्यादेष दोषो यदीत्संज्ञा आदेशं प्रतीक्षेत। तत्र खलु कृतामित्संज्ञायां लोपे च कृते आदेशो भविष्यति। उपदेश इति हीत्संज्ञोच्यते। अथवा - ननुपन्ने सनि प्रकॢप्त्या भवितव्यम्। यदा चोत्पन्नः सन् तदा कृतस्मार्थ्या पञ्चमीति कृत्वा प्रकॢप्तिर्न भविष्यति। यदप्युच्चते प्रकृतिविकारव्यवस्था चेति। अत्रापि प्रकृतौ षष्ठी इक इति। विकृतौ प्रथमा यणिति। यत्र च नाम सौत्री षष्ठी नास्ति तत्र प्रकॢप्त्या भवितव्यम्। अथवा- अस्तु तावदिको यणिति यत्र नाम सौत्री षष्ठी। यदि चेदानीमचीत्येषा सप्तमी यणिनि प्रथमायाः षष्ठी नास्ति तत्र प्रकल्पयेत् तस्मिन्निति निर्दिष्टे पूर्वस्येति। अस्तु। न कश्चिदन्य आदेशः प्रतिनिर्दिश्यते तत्रान्तर्यतो यणो यणेव भविष्यति। यदप्युच्चते सप्तमीपञ्चम्योश्च भावादुभयत्र षष्ठीप्रकॢप्तिस्तत्रोभयकार्यप्रसङ्ग इति नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति नोभे युगपत् प्रकल्पिके भवतीति। यदयमेकः पूर्वपरयोरिति पूर्वपरग्रहणं करोति। Kashika ------- निर्दिष्टग्रहणमनुवर्तते। तस्मादिति पञ्चम्यर्थनिर्देश उत्तरस्यैव कार्यं भवति, न पूर्वस्य। **तिङ्ङतिङः** (८.१.२८) — ओ॒द॒नं प॑चति। इह न भवति — पच॑त्यो॒दनम् इति॥ Siddhanta Kaumudi ----------------- पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम् ॥ Laghu Siddhanta Kaumudi ----------------------- पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम्॥ Laghu Shabdendushekhar ---------------------- **तस्मादित्युत्तरस्य** (1.1.67) इति सूत्रे निर्दिष्टे इति निर्दिष्टादित्यर्थकं विभक्तिविपरिणामात् सा चोत्तरस्येति दिग्योगलक्षणा इति दिग्योगलक्षणपञ्च म्यामेव तत्प्रवृत्तिः **उद:स्था…** (8.4.61) इत्यादौ च "उद" इति दिग्योगलक्षणा पञ्चमी । तत्रानियतदिक्शब्दाध्याहारे प्रसक्ते परशब्दस्यैवाध्याहार इति "तस्मात्" इत्यनेन नियम्यते । अव्यवहितोच्चारितात्पञ्चम्यन्तात्परस्येति तदर्थः । तत्फलितमाह — **सप्तमीनिर्देशेनेत्यादि** । यदि तु अर्धमात्राधिककालेन वर्णान्तरेण वा व्यवधाने उपश्लेष एव नेत्युच्यते तदा निर्दिष्टपदं संहिताधिकारश्च विफल इति **संहितायाम्** (6.1.72) इति सूत्रे भाष्ये स्पष्टम् । अवग्रहे च सम्प्रदाय एव शरणमिति आनङादिविषये आदेशोत्तरमेवावग्रहोऽन्यत्र ततः प्राक् । अकृतव्यूहपरिभाषा त्वनित्या, नास्त्येव वा। **न लक्षणेन पदकारा अनुवर्त्याः, पदकारैर्नाम लक्षणमनुवर्त्यम्** इति भाष्येण तदनुरोधेन शास्त्रासङ्कोचस्य शास्त्रकरणाभावस्य च स्पष्टमुक्तत्वाच्च । एतेन संहिताधिकारस्तद्बहिर्भूतानामर्धमात्राधिककालव्यवाये प्रवृत्तिज्ञापनार्थ:, तेन 'अग्नाविष्णू' इत्यादाववग्रहे आनङादिसिद्धिरित्यपास्तम् । **प्रत्ययः** (3.1.1), **परश्च** (3.1.2) इत्यादौ तूत्तरांशविकला **तस्मात्…** (1.1.67) इति परिभाषा प्रवर्त्तते । तेन न प्रत्यया व्यवहिताः । अत्र एव **छन्दसि परेऽपि** (1.4.81), **व्यवहिताश्च** (1.4.82) इति सूत्रं सार्थकम् । आगमविधावपि **आने मुक्**(7.2.82) इत्यादौ **तस्मिन्…** (1.1.66) इति परिभाषया पूर्वसम्बन्धित्वनिर्णयः । अत एवात्र पूर्वस्येत्यादि न स्थानषष्ठी । तत्तद्विधिभिरेव सम्बन्धस्य निर्णीतत्वेन **षष्ठी स्थानेयोगा** (.1.149) इत्यस्याप्रवृत्तेः । **गाङ्कुटादिभ्यः** (1.2.1) इत्यादावपि षष्ठ्यंशविकलैतत्परिभाषाप्रवृत्तिर्बोद्ध्या । परिभाषाणां नियमत्वन्तु यदि परि भाषासूत्रं न स्यात्तदा व्यवहितादावपि प्रवृत्तिः स्यादित्येतावतेति दिक् । Balamanorama ------------ **तस्मादित्युत्तरस्य** - तस्मादित्युत्तरस्य । द्व्यन्तरुपसर्गेभ्योऽप ईत्उदस्थारतम्भोः पूर्वस्ये॑त्यादिसूत्रगतपञ्चम्यन्तस्यानुकरणंतस्मा॑दिति । 'इति' शब्दानन्तरं 'गम्येऽर्थे' इति शेषः । 'निर्दिष्टे' इत्यनुवर्तते । निरिति नैरन्तर्ये । दिशिरुच्चारणेद्व्यन्त॑रित्यादिसूत्रेषु पञ्चम्यन्तगम्येऽर्थे=द्व्यन्तरादिशब्दे निर्दिष्टे= अव्यवहितोच्चारिते सत्येव ततः परस्यैव ईत्वं भवति, न तु व्यवहितोच्चारिते द्व्यादिशब्दे, नापि ततः पूर्वस्य भवतीति नियमार्थमिदम् । तदाह — पञ्चमीनिर्देशेनेत्यादिना । उत्तरस्य किम् तिङ्ङतिङ॑ इति निघात उत्तरस्यैव भवति — अग्निमीले । नेह ईले अग्निम् । अव्यवहिते किम्, उत्प्रस्थानम् । उदःस्थास्तम्भोरिति पूर्वसवर्णो न भवति । Tattvabodhini ------------- **तस्मादित्युत्तरस्य** - तस्मादिति । उत्तरस्येति किम् , तिङ्ङतिङः॑ इति निघात उत्तरस्यैव यथा स्यात् । अग्निमीले । नेह-ईले अग्निम् । अव्यवहितस्येति । एतच्च निर्दिष्टग्रहणानुवृत्त्या लभ्यते । तेन उत्संस्थानं उत्संस्तम्भनमित्यादौउदस्थे॑ति पूर्वसवर्णो न प्रवर्तते । Padamanjari ----------- निर्दिष्टग्रहथणमनुवर्तत इति । तेनात्रापि व्यवहिते कार्यं न भवतीति भावः । अत्रापि इतिपरत्वादनुकरणमिति कस्याचिद् भ्रान्ति स्यात्; 'तस्मान्नुड् द्विहलः' इत्यत्र 'अत आदेः' इति दीर्घत्पूर्वस्याङ्गस्यासम्भवात् प्रयोजनाभावात् यद्यपि तस्यानुकरणं न भवति; 'तस्माच्छसो नः पुंसि' 'तस्मान्नु डचि' इत्यत्र तु व्यवच्छेद्यमस्ति, उच्चारितोऽनुपलभ्यते, गौरनश्व इति पूर्वस्य मा भूदिति, अतस्तयोरेवेदमनुकरणमिति तामिमा भ्रान्तिपाकरोति-तस्मादिति पञ्चम्यर्थनिर्देश इति । एतेन पूर्वससूत्रवत् स्वतन्त्रस्य सर्वनाम्नोऽयं निर्देशः । तद्वदेव च तस्मादिति सामान्यमतिङ् इत्यादीनां विशेषाणामुपलक्षणम्, न त्वनुकरणमिति दर्शयति । एतच्छेतिकरणाल्लभ्यत इत्युक्तम् । किमर्थंम पुनरिदमारभ्यते ? 'तिङ्ङतिङः' इत्यादौ कारकविभाक्तेरसम्भावद्दिग्योगलक्षणा पञ्चमीति, दिक्च्छब्दस्त्वध्याहार्यः; तत्र पूर्वोतरशब्दयोरध्याहारः सम्भवतीति नियमार्था परिभाषेयम् । तदाह - उतरस्यैव कार्यमिति । तदेवं पूर्वस्य चास्य च वृत्तिकारेण नियमार्थत्वं दर्शितम् । षष्ठीप्रकॢप्तिपक्षोऽपि भाष्ये प्रदर्शितः । कथम् ? 'षष्ठी' इति वर्तते, सप्तम्यर्थनिर्देशे पूर्वस्यानन्तरस्य षष्ठी । पञ्चम्यर्थनिर्देशे, उतरस्यानन्तरस्य षष्ठीति; तत्र 'इको यणचि' इत्यादौ यत्र पूर्वमेव षष्ठी विद्यते तत्र पूर्वस्यानन्तरस्य, नोतरस्यानन्तरस्य सा षष्ठीत्युच्यते । 'आने मुक्' 'ईदासः' इत्यादौ तु यत्र षष्ठी नास्ति, तत्र षठ।ल्पि प्रकल्प्यते सा चानियतयोगत्वात् स्थानषष्ठी भवति । यस्य च स्थानषष्ठी स्यैव कार्यमिति सर्वत्र कार्यनियमोऽपि सिध्यति । यत्र तूभयनिर्देश स्तत्र याऽनवकाशा सा इतरस्याः षष्ठआआ प्रकल्पयति, यथा-'आने मुक्' इति सप्तमी ङिरवकाशा 'अतो येयः' इति पञ्चम्याः पूर्वसूत्रे सावकाशायाः । एवम् ' ई दासः' इति पञ्चमी 'आने मुक्' थैति सप्तम्याः,उभयोस्त्वनवकाशयोः परत्वात्पञ्चमी सप्तम्याः षष्ठी प्रकल्पयति, यथा-'आमि सर्वनाम्नः सुट्' इति सर्वनाम्न इति पञ्चम्यनवकाशामीति सप्तम्या अनवकाशायाः । अथ सप्तम्युतरार्था तथाप्यादित्यनुवृतया पञ्चम्या समानाधिकरणा शर्वानाम्नः' इति पञ्चम्यपि सावकाशा षष्ठआआ प्रकल्पयति । एवं नियमपक्षेऽपि परत्वानवकाशत्वाभ्यां व्यवस्थां द्रष्टव्य । 'दीर्घाच्छे तुग्भवति' इत्यत्र षष्ठयाः स्थाने पञ्चमीव्याख्यानाद् दीर्घस्यैव तुक् भवति, न तु च्छस्य; तथा च शुराच्छाया' इति निर्देश उपपद्यते ॥ Nyaas ----- किमर्थमिदम्? **तिङ्ङतिङः** (8.1.28) इति याऽत्र सा तु न कारकविभक्तिः, किंतर्हि? `दिक्शब्दादञ्चूत्तरपद` (2.3.29) इति दिग्योगलक्षणा। दिक्शब्दस्त्वध्या-हार्यः, तत्र किं पूर्वशब्दमध्याह्मत्यातिङः पूर्वस्य निघातः क्रियते? उत परशब्दम-ध्याह्मत्य परस्य? इति सन्देहे सति परिभाषेयं नियमार्ताऽऽरभ्यते।`निर्दिष्टग्रहणमनुवर्तते`इति। तेन तस्यानन्तर्यार्थत्वाद्वयवहितस्य कार्यं न भवतीति भावः। इहापीतिकरणोऽर्थनिर्देशार्थः क्रियते। तेन पञ्चम्यर्थग्रहणं भवति, न तु शब्दस्वरूपस्येत्यभिप्रायेणाह - `तस्मात्` इति। `पञ्चम्यर्थनिर्देशः` इति। ननु च पूर्वसूत्रादेवेतिकरणोऽनुवर्तिष्यते, तत् किमर्थः पुनरिहेतिकरणः? अनेन प्रकारेण पूर्वसूत्रादेकदेशोऽनुवर्तत इति ज्ञापनार्थ-। तेनेतिशब्दवन्निर्दिष्ट-ग्रहणमनुवर्तेतेत्येतदाख्यातं भवति।अन्यस्त्वाह - `इतिकरणं त्विहावधेरवधिमत्तन्त्रतां निवर्तयति। तेनावधेरे-वोत्तरस्य विज्ञायते, नावधिमतः। स्वरूपग्रहणनिरासार्थस्त्वितिकरणो न भवति; स्वरूपा-भावात्। यदपि **तस्माच्छसो नः पुंसि** (6.1.103) इति, तत्रापि पूर्वसवर्णदीर्घात्पूर्वः शस् न सम्भवतीति न भवति सन्देहः। तस्मादवधेरवधिमत्तन्त्रतानिरासार्थ एवेति-शब्दः` इति, अत्रोच्यते; यद्यवधेरेवोत्तरस्य कार्यं यथा स्यादवधिमतो मा भूदित्येवम-र्थं इतिकरणोऽवधेरवधिमत्तन्त्रतामपाकर्तुं क्रियते, नार्थस्तेन; लोकत एव तत्सिद्धेः; लोके हि तस्माच्छात्रादुत्तरो भोज्यतामित्युक्तेरवधेरेवोत्तरो भोज्यते, नावधिमतः। तदिहापि विनापीतिकरणेनावधेरेवोत्तरस्य कार्यं भविष्यति; नावधिमतः।यदप्युक्तम् - **तस्माच्छसो नः पुंसि** (6.1.103) इत्यत्रापि पूर्वसवर्णदीर्घात् पूर्वः शस् न सम्भवति` इति, तदप्ययुक्तम्;तथा ह्रशब्दादिशब्दाच्च शसि परतः पूर्वसवर्णदीर्घत्वे पूर्वत्र च वृक्षादिशब्दे शसन्ते व्यवस्थापिते गच्छत आन् वृक्षानुपलभते गच्छतो वृक्षानानुपलभत इत्यत्र पूर्वसवर्णदीर्घात् पूरवं शश् सम्भवत्येव।अथ यत्रोभयनिर्देशस्तत्र कस्य कार्येण भवितव्यम्? तत्र यानवकाशा सेतरस्याः षष्ठीं प्रकल्पयिष्यति, अतः षष्ठीनिर्दिष्टस्य कार्यं भविष्यति। यथा **आने मुक्** (7.2.82) इत्यत्र सप्तमी निरवकासा **अतो येयः** (7.2.80) इत्यत इति पञ्चम्याःपूर्वसूत्रे सावकाशायाः षष्ठीत्वं प्रकल्पयिष्यति। तथा `ईदासः` (7.2.83) इति पञ्च-म्याऽऽन इति पूर्वसूत्रे सावकाशायाः सप्तम्याः। यत्रोभे सावकासे तत्र परत्वात् पञ्चमी सप्तम्याः षष्ठीं प्रकल्पयिष्यति। यथा - **आमि सर्वनाम्नः सुट्** (7.1.52) इति**आज्जसेरसुक्** (7.1.50) इत्यत्र पञ्चमी सावकाशा। `आमि` इति सप्तम्युत्तरार्था। तत्रादिति पञ्चमी आमीति सप्तम्याः षष्ठीत्वं प्रकल्पयति, तेन सर्वनाम्न उत्तरस्यामः सुड् भवति। इह तु **दीर्घात्** (6.1.75) **पदान्ताद्वा** (6.1.76) इति, यद्यपि`च्छे च` (6.1.71) इति सप्तमी पूर्वसूत्रे सावकाशा, तथापि तस्याः स्वरित्त्वात् पूर्वयोगादनुवृत्ताया निरवकाशत्वम्। अतः सा च सप्तमी पञ्चम्याः षष्ठीत्वं प्रकल्पयिष्यति। पञ्चमी तु पौर्वपर्यं प्रकल्प्य सावकाशा निवर्तते। तेनायं सूत्रार्थो भवति- दीर्घादुत्तरो यच्छः, तस्मिन् परतः पूर्वस्य दीर्घस्यैव तुग् भवतीति। **सार्वधातुके यक्** (3.1.67) इत्यत्र निरवकाशापि सप्तमी धातोरिति पञ्चम्याः सावकाशाया अपि षष्ठीत्वं न प्रकल्पयति; अन्यथा हि धातोरेवादेशा यगादयः स्युः। ततश्च `परश्च` (3.1.2) इत्यस्यानुवृत्तस्य बाधाद् यगादीनां चानुबन्धकरणस्य वयथ्र्यं प्रसज्येत। न हि धात्वादेशत्वे सति तेषां परत्वमुपपद्यते तु ते धातोः परे भवन्ति॥ Prakriyasarvasvam ----------------- पञ्चम्योक्तौ परस्यैव³ कार्यं स्यात् । Sarala ------ **तस्मिन्निति निर्दिष्टे पूर्वस्य** (१.१.६६) इत्यतः "निर्दिष्टे" इत्यनुवर्तते, अत आह - **अव्यवहितस्येति** ॥