11059: द्विर्वचनेऽचि
====================
**Padacheda:** द्विर्वचने | S | 7 | 1 |
अचि | S | 7 | 1 |
Sutrartha
---------
**अच्-वर्णस्य स्थाने क्रियमाण: आदेशः अजादिनिमित्ते द्वित्वे कर्तव्ये स्थानिवद् भवति ।**
यत्र कस्यचन स्थानिनः कश्चन आदेशः विधीयते, तत्र —*स्थानिनः गुणधर्माः आदेशे अपि अतिदिश्यन्ते वा ?* — इति प्रश्ने जाते, अष्टाध्याय्याम् आहत्य चतुर्भिः सूत्रैः मिलित्वा अस्य उत्तरम् दीयते । **स्थानिवदादेशोऽनल्विधौ** (1.1.56) इत्यतः आरभ्य **द्विर्वचनेऽचि** (1.1.59) इति यावन्ति एतानि चत्वारि सूत्राणि **स्थानिवद्भावप्रकरणम्** नाम्ना ज्ञायन्ते । अस्य प्रकरणस्य इदं चतुर्थम् सूत्रम् । **यस्य द्वित्वस्य निमित्तम् अजादिः अस्ति, तस्मिन् द्वित्वे कर्तव्ये अजादेशः स्थानिवद् भवति** — इति अस्य सूत्रस्य आशयः ।
प्रकृतसूत्रेण निर्दिष्टः स्थानिवद्भावः **षष्ठाध्यायस्य प्रथमपादे पाठितस्य द्वित्वस्य कृते** उक्तः अस्ति । **न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु** (1.1.58) इति पूर्वसूत्रे विद्यमानम् द्वित्वम् तु अल्विधिः अस्ति, अतः तत् **अष्टमाध्यायस्य द्वित्वम्** ज्ञेयम् ।
वस्तुतस्तु, इदम् सूत्रम् काशिकायाम् कौमुद्यां च भिन्नाभ्याम् प्रकाराभ्याम् उपस्थापितम् वर्तते । द्वयोः अपि प्रकारयोः अन्ते तु समानानि एव रूपाणि सन्ति, परन्तु प्रक्रियायां कश्चन भेदः जायते । उभयोः अपि पक्षयोः क्रमेण विवरणम् इत्थम् —
प्रकृतसूत्रस्य काशिकाव्याख्यानम् अनुसृत्य अर्थः
**यदि प्रक्रियायाः कस्मिंश्चित् सोपाने - (1) अजादेशः, तथा च (2) अजादिनिमित्तकम् द्वित्वम् — एते द्वे कार्ये युगपत् प्राप्नुतः, तर्हि आदौ अजादेशं कृत्वा, ततः जायमानस्य द्वित्वकार्यस्य कृते अयम् अजादेशः स्थानिवद् भवति** — इति अस्य सूत्रस्य काशिकाकारेण अर्थविधानम् क्रियते । काशिकाकारेण अत्र '**रूपातिदेशः च अयम् नियतकालः**' इति निर्देशः कृतः अस्ति । इत्युक्ते, अयम् अजादेशः केवलम् द्वित्वकार्यस्य कृते एव (नियतकालः = for a fixed time) स्थानिवद् भवति — इति काशिकाकारस्य अत्र आशयः ।
यथा, "पा"-धातोः लिट्लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रियायाम् "पा + अतुस्" इत्यत्र द्वे कार्य युगपत् प्राप्नुतः — (1) **आतो लोप इटि च** (6.4.64) इत्यनेन अजादिप्रत्यये परे "पा"-इत्यस्य आकारलोपः (= अजादेशः), तथा च (2)**लिटि धातोरनभ्यासस्य** (6.1.8) इति "अतुस्-"प्रत्ययनिमित्तकम् (= अजादिनिमित्तकम्) द्वित्वम् । एताभ्याम् द्वाभ्याम् कार्याभ्याम् आकारलोपः नित्यः अस्ति, अतः सः आदौ प्रवर्तते । आकारलोपे कृते "प् + अतुस्" इत्यत्र अच्-वर्णस्य अभावात् **एकाचो द्वे प्रथमस्य** (6.1.1) इत्यस्मिन् प्रकरणे उक्तम् द्वित्वम् नैव सम्भवति । परन्तु अस्य द्वित्वस्य निमित्तम् अजादिः अस्ति, अतः द्वित्वस्य कृते अजादेशः (आकारलोपः) स्थानिवद् भवति । इत्युक्ते, द्वित्वस्य कृते "प्" इत्यस्य स्थाने "पा" इत्येव दृश्यते । अस्यां स्थितौ "पा"-इत्यस्य द्वित्वे कृते "पा प् + अतुस्" इति सिद्ध्यति । अग्रे अभ्यासकार्यं कृत्वा "पपतुः" इति रूपं सिद्ध्यति । सम्पूर्णा प्रक्रिया इयम् —
.. code-block:: text
पा (पाने, भ्वादिः, (1.1074))
→ पा + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट् । ]
→ पा + अतुस् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति प्रथमपुरुषद्विवचनस्य अतुस्-प्रत्ययः । **असंयोगाल्लिट् कित्** (1.2.5) इत्यनेन अयम् किद्वत् भवति ।]
→ प् + अतुस् [अजादौ किति-प्रत्यये परे **आतो लोप इटि च** (6.4.64) इति आकारलोपः विधीयते । नित्यत्वात् अयम् द्वित्वं बाधते ]
→ पा प् + अतुस् [आकारलोपे कृते अपि, अजादिप्रत्ययनिमित्तके (अतुस्-प्रत्ययनिमित्तके) द्वित्वे कर्तव्ये लुप्तः आकारः स्थानिवद् भवति । अतः अत्र एकाच्-प्रकृतेः द्वित्वं सम्भवति ।]
→ प प् + अतुस् [**ह्रस्वः** (7.4.59) इति अभ्यासस्य ह्रस्वः]
→ पपतुः [**ससजुषो रुः** (8.2.66), **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
अनेन प्रकारेण काशिकाकारस्य पद्धत्या यदा प्रक्रिया लिख्यते, तदा **आदौ अजादेशं कृत्वा, तस्य स्थानिवद्भावं स्वीकृत्य द्वित्वकार्यम् करणीयम्** ।
प्रकृतसूत्रस्य कौमुदीव्याख्यानम् अनुसृत्य अर्थः
**यदि प्रक्रियायाः कस्मिंश्चित् सोपाने - (1) अजादेशः, तथा च (2) अजादिनिमित्तकम् द्वित्वम् — एते द्वे कार्ये युगपत् प्राप्नुतः, तर्हि आदौ द्वित्वकार्यं कृत्वा, ततः अजादेशः कर्तव्यः** — इति अस्य सूत्रस्य कौमुदीकारेण अर्थविधानम् क्रियते । अत्र कौमुदीकारः वदति — **अचः आदेशः न स्याद् द्वित्वे कर्तव्ये** । यावद् द्वित्वम् न कृतम्, तावत् अजादेशः अपि न करणीयः, परन्तु द्वित्वं क्रियते चेत् अग्रिमसोपाने एव अजादेशः करणीयः — इति अत्र आशयः ।
यथा, "पा"-धातोः लिट्लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रियायाम् "पा + अतुस्" इत्यत्र द्वे कार्य युगपत् प्राप्नुतः — (1) **आतो लोप इटि च** (6.4.64) इत्यनेन अजादिप्रत्यये परे "पा"-इत्यस्य आकारलोपः (अजादेशः) , तथा च (2) **लिटि धातोरनभ्यासस्य** (6.1.8) इति "अतुस्-"प्रत्ययनिमित्तकम् (अजादिनिमित्तकम्) द्वित्वम् । एताभ्याम् द्वाभ्याम् कार्याभ्याम् यद्यपि आकारलोपः नित्यः अस्ति, तथापि द्वित्वे प्राप्ते सः नैव प्रवर्तते; अतः आदौ द्वित्वं कृत्वा "पा पा + अतुस्" इति सिद्धे ततः आकारलोपः करणीयः । सम्पूर्णा प्रक्रिया इयम् —
.. code-block:: text
पा (पाने, भ्वादिः, (1.1074))
→ पा + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट् । ]
→ पा + अतुस् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति प्रथमपुरुषद्विवचनस्य अतुस्-प्रत्ययः । **असंयोगाल्लिट् कित्** (1.2.5) इत्यनेन अयम् किद्वत् भवति ।]
→ पा पा + अतुस् [द्वित्वे कर्तव्ये अजादेशः न क्रियते, अतः अत्र आदौ **लिटि धातोरनभ्यासस्य** (6.1.8) इत्यनेन द्वित्वं विधीयते ।]
→ पा प् + अतुस् [अजादौ किति-प्रत्यये परे **आतो लोप इटि च** (6.4.64) इति आकारलोपः जायते । द्वित्वे कृते अयम् अजादेशः अवश्यं प्रवर्तते । ]
→ प प् + अतुस् [**ह्रस्वः** (7.4.59) इति अभ्यासस्य ह्रस्वः]
→ पपतुः [**ससजुषो रुः** (8.2.66), **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
अनेन प्रकारेण कौमुदीकारस्य पद्धत्या यदा प्रक्रिया लिख्यते, तदा **आदौ द्वित्वं कृत्वा, ततः अजादेशः करणीयः** ।
कयाचित् अपि पद्धत्या प्रक्रिया लिख्यते चेत् अन्ते रूपम् तु समानम् एव भवति । अतः केवलम् सौलभ्यार्थम् अग्रे सर्वेषु उदाहरणेषु कौमुदीकारस्य पद्धत्या प्रक्रिया लिखिता वर्तते ।
**प्रकृतसूत्रस्य प्रयोगस्थलानि**
यद्यपि प्रकृतसूत्रेण अजादेशस्य अपेक्षया द्वित्वकार्यस्य प्राधान्यम् उक्तम् अस्ति (अथ वा, काशिकामतेन द्वित्वे कर्तव्ये अजादेशः स्थानिवत् स्वीकृतः अस्ति), तथापि बहुषु स्थलेषु प्रकृतसूत्रस्य प्रयोगं विना अपि इष्टरूपाणि सिद्ध्यन्ति । इत्युक्ते, एतेषु स्थलेषु द्वित्वकार्यम् आदौ कृत्वा ततः अजादेशः क्रियते चेत् तु साधुरूपम् सिद्ध्यति एव, परन्तु अजादेशं आदौ कृत्वा, तस्य स्थानिवद्भावं विना एव द्वित्वं क्रियते चेदपि साधुरूपम् एव सिद्ध्यति । यथा, "हन्"-धातोः लिट्लकारस्य प्रथमपुरुषस्य एकवचनस्य 'जघान' इत्यस्य रूपसिद्धौ, **अत उपधायाः** (7.2.116) इति उपधावृद्धिः (अजादेशः) तथा च **लिटि धातोरनभ्यासस्य** (6.1.8) इत्यनेन द्वित्वम् — एतयोः युगपत् प्राप्तौ सत्याम् आदौ किमपि कार्यं क्रियते चेदपि तत्र समानमेव रूपं सिद्ध्यति —
.. code-block:: text
****द्विर्वचनेऽचि** (1.1.59) इति सूत्रम् अनुसृत्य आदौ द्वित्वे कृते प्रक्रिया —**
हन् (हिंसागत्योः, अदादिः, (2.2))
→ हन् + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट् ।]
→ हन् + णल् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति प्रथमपुरुषैकवचनस्य णल्-प्रत्ययः]
→ हन् हन् + अ [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम् । ]
→ हन् हान् + अ [**अत उपधायाः** (7.2.116) इति उपधावृद्धिः]
→ ह हान् + अ [**हलादिः शेषः** (7.4.60) इति अभ्यासस्य हलादिः अवशिष्यते ।]
→ ज हान् + अ [**कुहोश्चुः** (7.4.62) इति चुत्वम्]
→ ज घान् + अ [**अभ्यासाच्च** (7.3.55) इति अभ्यासात् उत्तरस्य हन्-धातोः हकारस्य कवर्गादेशः भवति ।]
→ जघान
****द्विर्वचनेऽचि** (1.1.59) इति सूत्रस्य साहाय्यं विना, आदौ अजादेशे कृते प्रक्रिया —**
हन् (हिंसागत्योः, अदादिः, (2.2))
→ हन् + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट् ।]
→ हन् + णल् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति प्रथमपुरुषैकवचनस्य णल्-प्रत्ययः]
→ हान् + अ [**अत उपधायाः** (7.2.116) इति अजादेशः]
→ हान् हान् + अ [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम् । ]
→ हा हान् + अ [**हलादिः शेषः** (7.4.60) इति अभ्यासस्य हलादिः अवशिष्यते ।]
→ ह हान् + अ [**ह्रस्वः** (7.4.59) इति अभ्यासस्य ह्रस्वः]
→ ज हान् + अ [**कुहोश्चुः** (7.4.62) इति चुत्वम्]
→ ज घान् + अ [**अभ्यासाच्च** (7.3.55) इति अभ्यासात् उत्तरस्य हन्-धातोः हकारस्य कवर्गादेशः भवति ।]
→ जघान
अत्र प्रकृतसूत्रं विना, आदौ नित्यत्वात् अजादेशे कृते स्थानिवद्भावं विना अपि इष्टरूपम् अवश्यम् सिद्ध्यति । अतः *इष्टरूपसिद्ध्यर्थम् प्रकृतसूत्रस्य प्रयोगः कुत्र कुत्र आवश्यकः वर्तते?*' इति प्रश्नः अत्र उपतिष्ठति । भाष्यकारः अस्मिन् सन्दर्भे इत्थं स्पष्टी करोति — **** । इत्युक्ते, भाष्यकारस्य मतेन प्रकृतसूत्रस्य प्रयोगः आहत्य पञ्चसु स्थलेषु आवश्यकः अस्ति — **आकारलोपः, उपधालोपः, णिलोपः, यणादेशः, अयाद्यादेशः** — इति । एतेषाम् पञ्चानाम् स्थलानाम् क्रमेण उदाहरणानि एतानि —
1. द्वित्वे कर्तव्ये "आकारलोपः" स्थानिवद् भवति ।
उपरिनिर्दिष्टायाम् "पपतुः"-शब्दस्य प्रक्रियायाम् अस्य प्रयोगः दृश्यते । तत्र **आतो लोप इटि च** (6.4.64) इत्यनेन प्राप्तः अजादेशः द्वित्वे कर्तव्ये स्थानिवद् भवति । आदौ द्वित्वं कृत्वा ततः अजादेशः करणीयः — इति कौमुदीमतेन अस्य अर्थः ।
2. द्वित्वे कर्तव्ये "उपधालोपः" स्थानिवद् भवति ।
"हन्"-धातोः लिट्लकारस्य प्रथमपुरुषद्विवचनस्य रूपसिद्धौ **गमहनजनखनघसां लोपः क्ङित्यनङि** (6.4.98) इत्यनेन हकारोत्तस्य अकारस्य प्राप्तः लोपः द्वित्वे कर्तव्ये स्थानिवद् भवति । प्रक्रिया इयम् —
.. code-block:: text
हन् (हिंसागत्योः, अदादिः, (2.2))
→ हन् + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट् ।]
→ हन् + अतुस् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति प्रथमपुरुषद्विवचनस्य अतुस्-प्रत्ययः । **असंयोगाल्लिट् कित्** (1.2.5) इत्यनेन अयम् किद्वत् भवति ।]
→ हन् हन् + अतुस् [**गमहनजनखनघसां लोपः क्ङित्यनङि** (6.4.98) इति अत्र उपधा-अकारलोपः प्राप्नोति । तस्मिन्नेव समये **लिटि धातोरनभ्यासस्य** (6.1.8) इत्यनेन द्वित्वस्य अपि प्राप्तिः अस्ति । अत्र यद्यपि उपधा-अकारलोपः नित्यः अस्ति, तथापि द्वित्वे कर्तव्ये **द्विर्वचनेऽचि** (1.1.59) इति सूत्रेण इति सूत्रबलात् अयम् अजादेशः न प्रवर्तते । अत्र आदौ **लिटि धातोरनभ्यासस्य** (6.1.8) इत्यनेन द्वित्वं विधीयते । (अथ वा, काशिकामतेन अकारलोपे कृते अपि सः द्वित्वार्थम् स्थानिवद् भवति ।)]
→ हन् ह् न् + अतुस् [अजादौ किति-प्रत्यये परे **गमहनजनखनघसां लोपः क्ङित्यनङि** (6.4.98) इति उपधा-अकारलोपः विधीयते । द्वित्वे कृते अयम् अजादेशः अवश्यं प्रवर्तते । ]
→ ह ह् न् + अतुस् [**हलादिः शेषः** (7.4.59) इति अभ्यासस्य हलादिः शिष्यते]
→ घ घ् न् + अतुस् [**कुहोश्चुः** (7.4.62) इति अभ्यासस्य चुत्वम् । संवारनादघोषमहाप्राणवतः हकारस्य स्थाने तादृशः घकारः आदेशरूपेण विधीयते ।]
→ घ घ् न् + अतुः [**<ससजुषो रुः** (8.2.66), **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
→ जघ्नतुः [**अभ्यासे चर्च** (8.4.54) इति अभ्यासस्य जश्त्वे जकारः]
3. द्वित्वे कर्तव्ये "णिलोपः" स्थानिवद् भवति ।
"अट्"-धातोः णिच्-प्रत्यये कृते ततः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् "चङ्"-इति विकरणप्रत्ययं निमित्तरूपेण स्वीकृत्य णिच्-प्रत्ययस्य लोपः प्राप्नोति । तस्मिन्नेव समये चङ्-प्रत्ययनिमित्तकम् द्वित्वम् अपि प्राप्नोति । अस्यां स्थितौ, णिलोपात् पूर्वम द्वित्वम् क्रियते (इति कौमुदी); अथ वा णिलोपे कृते तं स्थानिवत् स्वीकृत्य द्वित्वं क्रियते (इति काशिका) । एतादृशं क्रियते चेदेव **अजादेर्द्वितीयस्य** (6.1.2) इत्यनेन द्वितीय-एकाच्-अवयवस्य द्वित्वं सम्भवति । प्रक्रिया इयम् —
.. code-block:: text
अटँ (गतौ, भ्वादिः, (1.332))
→ अट् + णिच् [**हेतुमति च** (3.1.26) इति णिच्-प्रत्ययः । ]
→ अटि [णिजन्तस्य **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा]
→ अटि + लुङ् [**लुङ्** (3.2.110) इति लुङ्लकारः]
→ आट् + अटि + लुङ् [**आडजादीनाम्** (6.4.72) इति आडागमः]
→ आ + अटि + च्लि + लुङ् [**च्लि लुङि** (3.1.43) इति च्लि-विकरणप्रत्ययः]
→ आ + अटि + चङ् + लुङ् [**णिश्रिद्रुस्रुभ्यः कर्तरि चङ्** (3.1.48) इति च्लेः चङ्-आदेशः]
→ आ + अटि + अ + तिप् [**तिप्तस्झि...** (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ आ + अटि + अ + त् [**इतश्च** (3.4.100) इति इकारलोपः]
→ आ + अटि टि + अ + त् [अत्र **चङि** (6.1.11) इत्यनेन अङ्गस्य द्वित्वम् प्राप्नोति । तस्मिन्नेव समये **णेरनिटि** (6.4.51) इत्यनेन णिलोपः अपि प्राप्नोति । अत्र **द्विर्वचनेऽचि** (1.1.59) इत्यनेन णिलोपः द्वित्वस्य कृते स्थानिवद् भवति । इत्युक्ते, (कौमुदीमतेन) अत्र णिलोपात् पूर्वम् द्वित्वम् करणीयम् । एतादृशम् क्रियते चेदेव **अजादेर्द्वितीयस्य** (6.1.2) इत्यनेन द्वितीयस्य-एकाच्-अवयवस्य द्वित्वं सम्भवति । यदि णिलोपः आदौ भवेत्, तर्हि एकाच्कत्वात् **एकाचो द्वे प्रथमस्य** (6.1.1) इत्यनेन अट्-इत्यस्य द्वित्वं प्रसज्येत् ।]
→ आ + अटि ट् + अ + त् [द्वित्वे कृते **णेरनिटि** (6.4.51) इति णिलोपः क्रियते]
→ आटिटत् [**आटश्च** (6.1.90) इति वृद्ध्येकादेशः]
4. द्वित्वे कर्तव्ये "यणादेशः" स्थानिवद् भवति ।
"कृ"-धातोः लिट-लकारस्य प्रथमपुरुषद्विवचनस्य प्रक्रियायाम् "कृ + अतुस्" इत्यत्र **इको यणचि** (6.1.77) इत्यनेन यणादेशः प्राप्नोति; तस्मिन्नेव स्थले **लिटि धातोरनभ्यासस्य** (6.1.8) इत्यनेन "अतुस्"-प्रत्ययनिमित्तकं द्वित्वम् अपि प्राप्नोति । अत्र यणादेशः नित्यः अस्ति यतः यणादेशे कृते अज्-वर्णस्य अभावात् द्वित्वं नैव प्राप्नोति, परन्तु द्वित्वे कृते अकृते अपि यणादेशः अवश्यं प्राप्नोति । अतः वस्तुतः अत्र यणादेशः आदौ भवेत् । परन्तु **द्विर्वचनेऽचि** (1.1.59) इत्यनेन अस्मात् यणादेशात् पूर्वम् द्वित्वं भवति (अथ वा, काशिकामतेन यणादेशे कृते अपि सः द्वित्वार्थम् स्थानिवद् स्वीक्रियते) । प्रक्रिया इयम् —
.. code-block:: text
डुकृञ् (करणे, तनादिः, (8.1))
→ कृ + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट् । ]
→ कृ + अतुस् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति प्रथमपुरुषद्विवचनस्य अतुस्-प्रत्ययः । **असंयोगाल्लिट् कित्** (1.2.5) इति अयम् किद्वत् भवति ।]
→ कृ + कृ + अतुस् [**सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन अङ्गस्य गुणादेशे प्राप्ते **क्ङिति च** (1.1.5) इत्यनेन सः निषिध्यते । अतः अत्र **इको यणचि** (6.1.77) इत्यनेन यणादेशः प्राप्नोति । तस्मिन्नेव समये **लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम् अपि विधीयते । अत्र **द्विर्वचनेऽचि** (1.1.59) इति सूत्रम् अनुसृत्य यणादेशस्य अपेक्षया द्वित्वम् आदौ क्रियते ।]
→ कृ + क् र् + अतुस् [**इको यणचि** (6.1.77) इति यणादेशः । द्वित्वात् अनन्तरम् अयम् अवश्यम् विधीयते ।]
→ कर् + क् र् + अतुस् [**उरत्** (7.4.66) इति अभ्यासस्य ऋकारस्य अकारादेशः । सः **उरण् रपरः** (1.1.51) इति रपरः]
→ क + क् र् + अतुस् [**हलादिः शेषः** (7.4.60) इति अभ्यासस्य हलादिः शिष्यते]
→ च + क् र् + अतुस् [**कुहोश्चुः** (7.4.62) इति अभ्यासस्य चुत्वम्]
→ चक्रतुः [**ससजुषो रुः** (8.2.66), **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
5. द्वित्वे कर्तव्ये "अय्/अव्/आय्/आव्-आदेशः" स्थानिवद् भवति ।
"नी"-धातोः लिट्लकारस्य उत्तमपुरुषस्य एकवचनस्य प्रक्रियायाम् एकस्मिन् एव सोपाने द्वित्वे तथा च अयादेश/आयादेशे प्राप्ते; प्रकृतसूत्रेण द्वित्वस्य कृते अयादेशः/आयादेशः स्थानिवद् भवति । प्रक्रिया इयम् —
.. code-block:: text
णीञ् (प्रापणे, भ्वादिः, (1.1049))
→ नी + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्]
→ नी + णल् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति उत्तमपुरुषैकवचनस्य णल्-प्रत्ययः]
→ (ने / नै) + अ [**णलुत्तमो वा** (7.1.91) इति उत्तमपुरुषैकवचनस्य णल्-प्रत्ययः विकल्पेन णिद्वत् भवति । णित्वपक्षे **अचो ञ्णिति** (7.2.115) इति अङ्गस्य वृद्धिः विधीयते, णित्वाभावे **सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन अङ्गस्य गुणादेशः भवति ।]
→ (ने ने / नै नै) + अ [**एचोऽयवायावः** (6.1.78) इति अयादेशे / आयादेशे प्राप्ते, **द्विर्वचनेऽचि** (1.1.59) इति सूत्रेण तस्मात् पूर्वम् द्वित्वम् विधीयते । (अथ वा, काशिकामतेन अयादेशे / आयादेशे कृते अपि द्वित्वार्थम् आदेशः स्थानिवद् भवति ।)]
→ (ने नय् / नै नाय्) + अ [द्वित्वे कृते **एचोऽयवायावः** (6.1.78) इति अयादेशः / आयादेशः विधीयते ।]
→ (नि नय् / नि नाय्) + अ **ह्रस्वः** (7.4.59) इति अभ्यासस्य ह्रस्वः । **एच इग्घ्रस्वादेशे** (1.1.48) इति एकार-ऐकारयोः ह्रस्वः इकारः]
→ निनय / निनाय
एवमेव, पूञ् (पवने, क्र्यादिः, (9.14)) इत्यस्य प्रक्रियायाम् अवादेशात् / आवादेशात् पूर्वम् द्वित्वं भवति —
.. code-block:: text
पूङ् (पवने, क्र्यादिः, (9.14))
→ पू + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्]
→ पू + णल् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति उत्तमपुरुषैकवचनस्य णल्-प्रत्ययः]
→ (पो / पौ) + अ [**णलुत्तमो वा** (7.1.91) इति उत्तमपुरुषैकवचनस्य णल्-प्रत्ययः विकल्पेन णिद्वत् भवति । णित्वपक्षे **अचो ञ्णिति** (7.2.115) इति अङ्गस्य वृद्धिः विधीयते, णित्वाभावे **सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन अङ्गस्य गुणादेशः भवति ।]
→ (पो पो / पौ पौ) + अ [**एचोऽयवायावः** (6.1.78) इति अवादेशे / आवादेशे प्राप्ते, **द्विर्वचनेऽचि** (1.1.59) इति सूत्रेण तस्मात् पूर्वम् द्वित्वम् विधीयते । (अथ वा, काशिकामतेन अवादेशे / आवादेशे कृते अपि द्वित्वार्थम् आदेशः स्थानिवद् भवति ।)]
→ (पो पव् / पौ पाव्) + अ [द्वित्वे कृते **एचोऽयवायावः** (6.1.78) इति अवादेशः / आवादेशः विधीयते ।]
→ (पु पव् / पु पाव्) + अ **ह्रस्वः** (7.4.59) इति अभ्यासस्य ह्रस्वः । **एच इग्घ्रस्वादेशे** (1.1.48) इति ओकार-औकारयोः ह्रस्वः उकारः]
→ पुपव / पुपाव
**एतेषु पञ्चसु स्थलेषु परनिमित्तकः अजादेशः आदौ क्रियते चेत् अनिष्टं रूपं सिद्ध्यति, अतः अत्र एतेषां विषये प्रकृतसूत्रम् उपयुज्य द्वित्वम् आदौ क्रियते । अन्येषु स्थलेषु परनिमित्तकः अजादेशः आदौ क्रियते चेदपि रूपसिद्धौ न कश्चन दोषः जायते; परन्तु तत्रापि प्रकृतसूत्रम् अनुसृत्य द्वित्वमेव आदौ करणीयम्** ।
**दलकृत्यम्**
**1. द्विर्वचने इति किमर्थम् ?** अन्यकार्याणां कृते अजादेशः स्थानिवद् न भवति । यथा, "ग्लै"-धातोः भावे लिट्लकारस्य प्रथमपुरुषैकवचनस्य रूपसिद्धौ आकारलोपः वृद्धिकार्यस्य कृते स्थानिवद् न भवति । प्रक्रिया इयम् —
.. code-block:: text
ग्लै (हर्षक्षये, भ्वादिः)
→ ग्ला [**आदेच उपदेशेऽशिति** (6.1.45) इति आकारादेशः]
→ ग्ला + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्लकारः ।]
→ ग्ला + त [**भावकर्मणोः** (1.3.13) इति आत्मनेपदम्, अतः प्रथमपुरुषैकवचनस्य विवक्षायाम् **तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इत्यनेन त-प्रत्ययः । अत्र धातोः अन्ते संयोगः नास्ति, अतः **असंयोगाल्लिट् कित्** (1.2.5) इत्यनेन अयम् किद्वत् भवति ।]
→ ग्ला + ए [**लिटस्तझयोरेशिरेच्** (3.4.81) इति त-प्रत्ययस्य एश्-आदेशः ।**अनेकाल्शित्सर्वस्य** (1.1.55) इति सर्वादेशः]
→ ग्ला ग्ला + ए [**आतो लोप इटि च** (6.4.64) इत्यनेन आकारलोपे प्राप्ते; तस्मात् पूर्वम् द्वित्वम् क्रियते ।]
→ ग्ला ग्ल् + ए [अत्र **आतो लोप इटि च** (6.4.64) इत्यनेन आकारलोपः तथा च **वृद्धिरेचि** (6.1.88) इत्यनेन वृद्ध्येकादेशः - एतौ युगपत् प्राप्नुतः अत्र परत्वात्, अङ्गकार्यत्वात् च **आतो लोप इटि च** (6.4.64) इत्येव कार्यम् आदौ क्रियते]
→ ग्ला ग्ले [आकारलोपे कृते **वृद्धिरेचि** (6.1.88) इत्यनेन वृद्ध्येकादेशः नैव सम्भवति । **वृद्धिकार्यार्थम् अत्र आकारलोपः स्थानिवद् न भवति** ।
→ गा ग्ले [**हलादिः शेषः** (7.4.60)]
→ ग ग्ले [**ह्रस्वः** (7.4.59)]
→ जग्ले [**कुहोश्चुः** (7.4.62) इति चुत्वम्]
**2. अचि इति किमर्थम् ?** यत्र द्वित्वस्य निमित्तम् अजादिः नास्ति, तत्र प्रकृतसूत्रेण उक्तः स्थानिवद्भावः नैव प्रवर्तते । यथा, "घ्रा"-धातोः यङ्-प्रत्यये परे यत् द्वित्वकार्यं भवति, तत्र द्वित्वस्य निमित्तम् 'यङ्' इति हलादिः अस्ति, अतः तत्र अजादेशः स्थानिवत् न स्वीक्रियते । अतएव नित्यत्वात् आदौ अजादेशं कृत्वा ततः सिद्धस्य शब्दरूपस्य एव द्वित्वं भवति । प्रक्रिया एतादृशी —
.. code-block:: text
घ्रा (गन्धोपादाने घ्राणे च, भ्वादिः, (1.1075))
→ घ्रा + यङ् [**धातोरेकाचो हलादेः क्रियासमभिहारे यङ्** (3.1.22) इति यङ् ।
→ घ्री + य [**ई घ्राध्मोः** (7.4.31) इति अङ्गस्य ईकारादेशः । अत्र यङ्-प्रत्ययनिमित्तकम् द्वित्वम् अपि युगपत् प्राप्नोति, परन्तु नित्यत्वात् अत्र ईकारादेशः एव आदौ क्रियते । अस्मिन् आदेशे कृते प्रकृतसूत्रेण स्थानिवद्भावः नैव प्रवर्तते, यतः अत्र द्वित्वम् हलादिनिमित्तकम् अस्ति ।]
→ घ्री घ्री य [**यङोऽचि च** (2.4.74) इति द्वित्वम्]
→ घी घ्री य [**हलादिः शेषः** (7.4.60) इति हलादिः शिष्यते ।]
→ घि घ्री य [**ह्रस्वः** (7.4.59) इति अभ्यासस्य ह्रस्वः]
→ घे घ्री य [**गुणो यङ्लुकोः** (7.4.82) इति अभ्यासस्य गुणः]
→ जेघ्रीय [**अभ्यासे चर्च** (8.4.54) इति अभ्यासस्य जश्त्वम् । **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा । अस्मात् अग्रे यथायोग्यम् तिङ्/कृत्-प्रत्ययाः विधीयन्ते ।]
अस्मिन्नेव सन्दर्भे अन्यद् एकम् प्रत्युदाहरणम् इत्थम् — "दिव्"-धातोः सन्-प्रत्यये परे इडागमे कृते यद्यपि "दिव्" धातोः अग्रे इडागमस्य इकारः विद्यते, तथापि अयम् इडागमः द्वित्वस्य निमित्तम् नास्ति, अपितु सन्-प्रत्ययः द्वित्वस्य निमित्तम् अस्ति, अतः अत्र प्रकृतसूत्रेण स्थानिवद्भावः न प्रवर्तते । अतएव यणादेशे कृते सः द्वित्वार्थम् स्थानिवत् न भवति । प्रक्रिया इयम् —
.. code-block:: text
दिवुँ (क्रीडादिषु, दिवादिः, (4.1))
→ दिव् + सन् [**धातोः कर्मणः समानकर्तृकादिच्छायां वा** (3.1.7) इति सन्-प्रत्ययः]
→ दि ऊठ् + स [**च्छ्वोः शूडनुनासिके च** (6.4.19) इति ऊठ्]
→ द्यु + स [**इको यणचि** (6.1.77) इति यणादेशः । अयम् अन्तरङ्गात् द्वित्वं बाधते ]
→ द्यु द्यु + स [**सन्यङोः** (6.1.9) इति द्वित्वम् । इदं द्वित्वम् हलादिप्रत्ययनिमित्तकम् अस्ति । अतः अत्र अजादेशः (यणादेशे कृते प्राप्तः यकारः) स्थानिवद् न भवति । ]
→ दु द्यु + स [**हलादिः शेषः** (7.4.60)]
→ दुद्युष [**आदेशप्रत्यययोः** (8.3.59) इति षत्वम् । **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा । अस्मात् अग्रे यथायोग्यम् तिङ्/कृत्-प्रत्ययाः विधीयन्ते ।]
Sutrartha (English)
-------------------
An आदेश done in place of an अच् letter acts like a स्थानी for the द्वित्वकार्य, provided that such a द्वित्वकार्य is caused by an अजादि षनिमित्त.
Vasu English Summary
--------------------
Before an affix having an initial vowel, which causes reduplication, the substitute which takes the place of a vowel is like the original vowel even in form, only for the purpose of reduplication and no further.
Vasu English Translation
------------------------
Before an affix having an initial vowel, which causes reduplication, the substitute which takes the place of a vowel is like the original vowel even in form, only for the purpose of reduplication and no further.
This *sutra* has been explained in different ways by the authors of the *Kasika* and of the *Siddhanta* *Kaumudi*. According to the latter, the *sutra* means:-- 'when an affix beginning with a vowel follows, that is a cause of reduplication, a substitute shall not take the place of a preceding vowel, whilst the reduplication is yet to be made : but the reduplication having been made, the substitution may then take place.' The explanation given by *Kasika* is more in harmony with the Great Commentary. For all practical purposes, the two explanations lead to the same conclusion. According to *Kasika*, the vowel-substitute is *sthanivat*, in the sense, that it is exactly of the same form as the original, and retains this form only for a fixed time viz., so long as the reduplication is being made; but as soon as the reduplication has been made, the substitute takes its proper form. This rule has its scope in the rules relating (a) to the elision of long आ, (b) to the elision of the penultimate, (c) to the elision of the affix णिच्, (d) to the substitution of semi-vowels for vowels, and lastly (e) to the substitution of अय्, अव्, आय् and आव् for ए, ओ ऐ and औ respectively by the rules of *sandhi*.
(a). Elision of आ. Let us form the 2nd person perfect tense of the root पा 'to drink.' The termination of 2nd person perfect is अतुस्. This is, therefore, a termination beginning with a vowel, and it causes the reduplication of the root. The conditions of the present *sutra* all exist in this. Thus we have पा + अतुस् = प् + ० + अतुस् (6.4.64). Here the आ is elided by (6.4.64) which teaches that 'the आ of the root is elided before *ardhadhatuka* affixes beginning with a vowel and which are कित् or ङित् and before इट्.' The affix अतुस् is such an affix (1.2.5), (3.4.115).
Now comes the rule about reduplication which is contained in *sutra* (6.1.8), and teaches that a root consisting of a single vowel is reduplicated before the terminations of the perfect. Here, by the elision of आ, the only visible root left to us is प् which is a consonant without any vowel. The rule of reduplication, therefore, would not have applied to it, because there is no vowel in it, but for the present *sutra*, which solves the difficulty. Here the vowel-substitute zero must be considered *sthanivat* i. e. as if it were the very आ itself. Thus we have पा + प् + ० + अतुस् = पपतुस् (7.4.59). The long आ of the reduplicative syllable has been shortened by (7.4.59). So also पपुः ।
(b). The elision of the penultimate. Let us form the same tense of हन् 'to kill.' हन् + अतुस् = ह् + ० + न् + अतुस् (6.4.98).
Here also the preliminary conditions are all fulfilled, the affix begins with a vowel and it causes the reduplication of the root. The penultimate अ of हन् is replaced by the substitute *lopa* by (6.4.98), which teaches that the roots गम् 'to go' हन् 'to kill' and a few others lose their penultimate before affixes beginning with a vowel and which are also कित् or ङित्. We know अतुस् to be such an affix. For the reasons already given, we can not reduplicate the consonants हन् as they have no vowel. However, this reduplication is effected by virtue of the present rule, and we have:- ह + हृ + अतुस् = जघ्नतुः (7.4.62), (7.3.55). The first ह् is changed into ज् by (7.4.62) and the second ह् into घ् by (7.3.55).
The elision of the affix णिच् . Let us form the Aorist (*lun*) of the causative form of अट्. The causative is formed by adding the affix णिच् to the root; and the aorist takes the augment अ. Thus we have :- अ + अट् + णिच् + त् = आट् + इ + त्= आट् + इ + चङ् + त्. The affix चङ् (3.1.48) is added in forming the aorist of causatives. The letters च् and ङ् are indicatory, the real affix being अ. Now by (6.4.51), the affix णिच् is elided before an *ardhadhatuka* affix that does not take the intermediate इ. Now चङ् is such an affix. Therefore we have आट् + ० + अत् .
At this stage, comes into operation another rule (6.1.11), which declares that 'the root is reduplicated before the affix चङ्.' The चङ् is, thus, an affix which causes reduplication; it is an affix which also begins with a vowel. Therefore, it satisfies the conditions of this *sutra*. Therefore, the zero which was a substitute in place of the vowel इ, becomes *sthanivat* to इ; as if it were the very इ itself. Thus we have the reduplicative syllable टि, by rule (6.1.2), which says that a verb beginning with a vowel reduplicates its second syllable. But as soon as the reduplication is over, the *adesa* takes up its original form of zero. Thus आटिट् + ० + अत् = आटिटत्.
(d). The fourth class of cases, where this *sutra* has scope, is the substitution of यण् for vowels. Thus let us form the perfect and 2nd person singular of कृ 'to do' :- कृ + अतुस् = क्र् + अतुस्, the semi-vowel र् taking the place of ॠ by the general rule of *sandhi* (6.1.77). Now we have already learned that अतुस् is an affix which causes reduplication and it begins with a vowel. Now र् is a substitute which comes in the place of a vowel (i.e., ॠ), it will therefore be *sthanivat* by this *sutra*. Had it not been *sthanivat*, the consonants क्र् could not be reduplicated, as they have no vowel. The substitute र् being taken equal to ॠ, we reduplicate कृ; in reduplication the क is changed into च् by (7.4.62), and ॠ into अ by (7.4.66). Thus we have:- चक्रतुः; similarly चक्रुः ।
(e). The fifth case is the substitution of अय् &c. Let us form Ist person singular of the perfect of नी 'to lead:' नी + णल् = नै + अ = नाय् + अ. The ई is *vriddhied* before the termination अ of the perfect (7.2.115), and then changed into आय् by the general rule of *sandhi* (6.1.78). Now the अ of the perfect causes reduplication, and it is an affix which begins with a vowel. It satisfies the conditions of this *sutra*. Therefore the आय् which was a substitute for ऐ, being a vowel substitute, becomes *sthanivat* to ऐ in form. In reduplicating the word नाय्, we reduplicate as if it were still नै. Thus we have the form निनाय and not ननाय. Similarly निनय, लुलव, and लुलाव.
Why have we used the word "*dvirvachane*" in the *sutra*? Without it, the aphorism would have stood thus:-"Before an affix having an initial vowel which causes reduplication, the substitute which takes the place of a vowel is like the original vowel." Let us form जग्ले the 3rd per. sing, perfect tense (लिट्) of the root ग्लै "to be exhausted," in the *atmanepada*. The affix of 3rd per. sing. *atm*. of *lit*, is एश् (3.4.81). Thus ग्लै + एश् = ग्ला + एश् (6.1.45). Now here ऐ is changed into आ, on account of the affix एश्; this affix causes reduplication, but still आ is not to be considered as *sthanivat* to ऐ. For if आ be considered so, then in the next stage ग्ला + एश् = ग्ला + ० + एश् (6.4.64) the *lopa* will be regarded as *sthanivat* to ऐ and the reduplicative syllable will be जि and not ज; the form being जिग्ले and not जग्ले. But आ is not *sthanivat* to ऐ, because for the purposes of reduplication, the change of ऐ into आ is immaterial; it is the second and further change of आ into zero which is directly connected with reduplication, (for if zero be not considered *sthanivat*, there can be no reduplication); and therefore, this substitute zero should be regarded as *sthanivat* to आ.
Why do we say "which causes reduplication?" Without these words the *sutra* would have stood thus:- "Before an affix having an initial vowel, the substitute which takes the place of a vowel is like the original vowel, for the purposes of reduplication." In that case we could not get the form दुद्यूषति, 3rd per. sing, desiderative present tense of दिव् 'to shine, to play.' This form is thus evolved :- दिव् + सन् (3.1.7) = दि + ऊ + सन् (6.4.19) = द्य् + ऊ + सन् (6.1.77). Here, the change of इ into य् is caused by ऊ (tech. ऊठ्), which begins with a vowel; is this य् to be regarded as *sthanivat* to इ? No, because ऊ does not cause reduplication, it is सन् which causes reduplication. Therefore the equation is :- द्यू + सन् = दुद्यूस (6.1.9) = दुद्यूषति. If य् could be regarded like इ, then the form would have been दिद्यूषति.
Why do we say "beginning with a vowel"? Otherwise the *sutra* would have run thus:- "Before an affix which causes reduplication, the substitute which takes the place of a vowel, is like the original vowel, for the purposes of reduplication." The affix यङ् of the Intensive verbs causes reduplication (6.1.9); but as it does not begin with a vowel, the substitute will not be *sthanivat*. Let us form जेघीयते the 3rd per. sing. Intensive of the root घ्रा 'to smell.' Thus घ्रा + यङ् = घ्री + यङ् (7.4.31) = जेघ्रीयते (7.4.82). Here, आ is changed into ई on account of यङ्; but ई is not *sthanivat* to आ; had it been so, the form would have been जघ्रीयते. Similarly देध्मीयते.
Bhashya
-------
द्विर्वचनेऽचि ॥ आदेशे स्थानिवदनुदेशात् तद्वतो द्विर्वचनम्। ॥ आदेशे स्थानिवदनुदेशात् तद्वतः। किंवतः। आदेशवतो द्विर्वचनं प्राप्नोति। तत्र को दोषः ? ॥ तत्राभ्यासरूपम् ॥ तत्राभ्यासरूपं न सिध्यति। चक्रतुः चकुः इति। ॥ अजग्रहणं ज्ञापकं रूपभावस्यस्थानिवद्भवतीति ॥ यदयमजग्रहणं करोति तज् ज्ञापत्याचार्यः - रूपं स्थानिवद्भवतीति । कथं कृत्वा ज्ञापकम्? अज्ग्रहणस्यैतत् प्रयोजनम् - इह मा भूत् जेघ्रीयते, देध्मीयते। यदि च रूपं स्थानिवद् भवति, ततोऽज्ग्रहणमर्थवद् भवति। अथ हि कार्यं नार्थोऽज्ग्रहणेन। भवत्येवात्र द्विर्वचनम्। ॥ तत्र गाङ्प्रतिषेधः ॥ तत्र गाङः प्रतिषेधो वक्तव्यः। अधिजगे। इवर्णाभ्यासता प्राप्नोति। न वक्तव्यः। गाङ् ल्लिटि इति द्विलकारको निर्देशः। लिटि लकारादाविति। ॥ कृत्येजन्तदिवादिनामधातुष्वभ्यासरूपम् ॥ कृत्येजन्तदिवादिनामधातुष्वभ्यासरूपं न सिध्यति। कृति- अचिकीर्तत्। एजन्त- जग्ले ल्मे। दिवादि- दुद्यूषति सूस्यूषति- दिवादि। नामधातु- भवनमिच्छति भवनीयति। भवनीयतेः सन् बिभनीयिषते। एवं तर्हि प्रत्यय इति वक्ष्यामि। ॥ प्रत्यय इति चेत् कॄत्येजन्तनामधातुष्वभ्यासरूपम्। ॥ प्रत्यय इति चेत् कॄत्येजन्तनामधातुष्वभ्यासरूपं न सिध्यति। दिवादय एके परिह्रताः। एवं तर्हि द्विर्वचननिमित्ते अचि अजादेशः स्थानिवदिति वक्ष्यामि। स तर्हि निमित्तशब्द उपादेयः। नह्यन्तरेण निमित्तशब्दं निमित्तार्थो गम्यते। अन्तरेणापि निमित्तशब्दं निमित्तार्थो गम्यते। तद्यथा - दधित्रपुसं प्रत्यक्षो ज्वरः। ज्वरनिमित्तमिति गम्यते। नड्वलोदकं पादरोगः। पादरोगनिमित्तमिति गम्यते। आयुः धृतमायुषो निमित्तमिति गम्यते। अथवा - अकारो मत्वर्थीयः। द्विर्वचनमस्मिन् अस्ति सोऽयं द्विर्वचनः, द्विर्वचने-इति। एवमपि न ज्ञायते - कियन्तमसौ कालं स्थानिवद्भवतीति। यः पुनराह द्विर्वचने कर्तव्ये इति, कृते तस्य द्विर्वचने स्थानिवन्न भविष्यति। एवं तर्हि प्रतिषेधः प्रकृतः सोऽनुवर्तिष्यते। क्व प्रकृतः? न पदान्तद्विर्वचनेति। द्विर्वचननिमित्ते अचि अजादेशो न भवतीति। एवमपि न ज्ञायते - कियन्तमसौ कालमजादेशो न भवतीति। यः पुनराह द्विर्वचने कर्तव्ये इति। कृते तस्य द्विर्वचने अजादेशो भविष्यति। एवं तर्हि उभयमनेन क्रियते। प्रत्ययश्च विशेष्यते द्विर्वचनं च। कथं पुनरेकेन यत्नेनोभयं लभ्यम्? लभ्यमित्याह। कथम् ? एकशेषनिर्देशात्। एकशेषनिर्देशोऽयम्। द्विर्वचनं च द्विर्वचनश्च द्विर्वचने। द्विर्वचने कर्तव्ये द्विर्वचने अचि प्रत्यये इति। ॥ द्विर्वचननिमित्तेऽचि स्थानिवदिति चेण्णौ स्थानिवद्वचनम्। ॥ द्विर्वचननिमित्तेऽचि स्थानिवदिति चेण्णौ स्थानिवद्भावो वक्तव्यः। अवनुनावयिषति अवचुक्षावयिषति। न वक्तव्यः। ॥ ओः पुयण्जिषु वचनं ज्ञापकं णौ स्थानिवद्भावस्य ॥ यदयमोः पुयण्ज्यपरे इत्याह तज्ज्ञापयत्याचार्यो भवति णौ स्थानिवत्- इति। यद्येत्तज् ज्ञाप्यते - अचिकीर्तत् अत्रापि प्राप्नोति। तुल्यजातीयस्य ज्ञापकम्। कश्च तुल्यजातीयः? यथाजातीयकाः पुयण्जयः। कथं जातीयकाश्चैते ? अवर्णपराः। कथं जग्ले ल्मे ? अनैमित्तिकमात्वं, शिति तु प्रतिषेधः। कानि पुनरस्य योगस्य प्रयोजनानि ? पपतुः, पपुः। तस्थतुः, तस्थुः। जग्मतुः, जग्मुः। आटिटत्। आशिशत्। चक्रतुः, चक्रुरिति। आल्लोपोपधालोपणिलोपयणादेशेषु कृतेष्वनच्कत्वाद् द्विर्वचनं न प्राप्नोति। स्थानिवद्भावाद् भवति। नैतानि सन्ति प्रयोजनानि। पूर्वविप्रतिषेधेनाप्येतानि सिद्धानि। कथम् ? वक्ष्यति ह्याचार्यः- द्विर्वचनं यणयवायावादेशाल्लोपोपधालोपणिलोपकिकिनोरुत्वेभ्यः इति। स पूर्वप्रतिषेधो न पठितव्यो भवति। किं पुनरत्र ज्यायः ? स्थानिवद्भाव एव ज्यायान्। पूर्वप्रतिषेधे हीदं वक्तव्यं स्यात् ओदौदादेशस्य उद् भवति चुटुतुशरादेरभ्यासस्येति। ननु च त्वयापीत्त्वं न वक्तव्यम्। परार्थं मम भविष्यति सन्यत इद् भवतीति। ममापि तर्हि उत्त्वं परार्थे भविष्यति। उत्परस्यातस्ति चेत्। इत्वमपि त्वया वक्तव्यम्। यत् समानाश्रयम्। उत्पिपविषते संयियविषतीत्येवमर्थम्। तस्मात् स्थानिवदित्येष एव पक्षो ज्यायान् ॥59 ॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाषये प्रथमस्याध्यायस्य प्रथमे पादेऽष्टमाह्निकम्।
Kashika
-------
द्विर्वचननिमित्तेऽचि अजादेशः स्थानिवद् भवति द्विर्वचन एव कर्तव्ये। रूपातिदेशश्चायं नियतकालः। तेन कृते द्विर्वचने पुनरादेशरूपमेवावतिष्ठते। आल्लोपोपधालोपणिलोपयणयवायावादेशाः प्रयोजनम्। आल्लोपः — पपतुः, पपुः। **आतो लोप इटि च** (६.४.६४) इत्याकारलोपे कृते तस्य स्थानिवद्भावाद् **एकाचो०** (६.१.१) इति द्विर्वचनं भवति। उपधालोपः — जघ्नतुः, जघ्नुः। **गमहनजनखनघसाम्०** (६.४.९८) इत्युपधालोपे कृतेऽनच्कत्वाद् द्विर्वचनं न स्यात्, अस्माद् वचनाद् भवति। णिलोपः — आटिटत्। अटतेर्णिचि लुङि चङि णिलोपे कृते तस्य स्थानिवत्त्वाद् **अजादेर्द्वितीयस्य** (६.१.२) इति टिशब्दस्य द्विर्वचनं भवति। यण् — चक्रतुः, चक्रुः। करोतेरतुसि उसि च यणादेशे कृतेऽनच्कत्वाद् द्विर्वचनं न स्यात्, स्थानिवत्त्वाद् भवति। अयवायावादेशाः — निनय। निनाय। लुलव। लुलाव। नयतेर्लुनातेश्चोत्तमे णलि गुणे कृते वृद्धौ चायवायावादेशाः, तेषां स्थानिवत्त्वाद् नेनैलोलाविति द्विर्वचनं भवति। द्विर्वचने कर्तव्य इति किम्? जग्ले। मम्ले। श्रवणमाकारस्य न भवति। द्विर्वचननिमित्त इति किम्? दुद्यूषति। ऊठि यणादेशो न स्थानिवद् भवति। अचीति किम्? जेघ्रीयते। देध्मीयते। **ई घ्राध्मोः** (७.४.३१) **यङि च** (७.४.३०) इतीकारादेशः, तस्य स्थानिवद्भावादाकारस्य द्विर्वचनं स्यात्, अज्ग्रहणाद् न भवति॥
Siddhanta Kaumudi
-----------------
द्वित्वनिमित्तेऽचिपरे अच आदेशो न स्याद्द्वित्वे कर्तव्ये ॥
Laghu Siddhanta Kaumudi
-----------------------
द्वित्वनिमित्तेऽचि अच आदेशो न द्वित्वे कर्तव्ये। गोपायाञ्चक्रतुः॥
Balamanorama
------------
**द्विर्वचनेऽचि** - द्विर्वचनेऽचि । द्विरुच्यते येन परनिमित्तेन तद्द्वर्वचनं । द्वित्वनिमित्तमिति यावत् । अचीत्यस्य विशेषणमिदम् ।अचः परस्मिन्नित्यतोऽचेति, 'स्थानिवदादेश' इत्यत आदेश इति, न पदान्तेत्यतो नेति चानुवर्तते । द्विर्वचन इत्यावर्तते । एवं चद्वित्वे कर्तव्ये सती॑ त्यपि लभ्यते । तदाह — द्वित्वनिमित्तेऽचीत्यादिना ।द्वित्वे कर्तव्ये सती॑त्युक्तेः कृते द्वित्वे 'चक्रे' इत्यादौ यणादयो भवन्ति । अन्यता तु न स्युः, द्वित्वनिमित्तस्य अचः सत्त्वात् । द्वित्वनिमित्त इति किम् । दुद्यूषति । दिव्धातोः सनि द्वित्वात्परत्वादूठि कृते द्वित्वात्प्राग्यण् भवत्येव । तथा च 'द्यू' इत्यस्य द्वित्वे दुद्यूषतीति सिध्यति । द्वित्वे कर्तव्ये यणो निषेधे तु दिद्यूषतीत्यभ्यासे इकार एव श्रूयेत । न तूकारः । 'द्वित्वनिमित्ते' इत्युक्तौ तूठि परे द्वित्वात्प्राग्यण्यो न निषेधः, ऊठो द्वित्वनिमित्तत्वाऽभावात् । अचीति किम् । जेघ्रीयते । अत्र घ्राधातोर्यङि द्वित्वात्प्राकई घ्राध्मो॑रितीकारादेशो न निषिध्यते । ईत्वस्य द्वित्वनिमित्त यङ्निमित्तकत्वेऽपि द्वित्वनिमित्ताऽज्निमित्तकत्वाऽभावात् । अचः किम् । असूषुपत् । इह स्वापेश्चङि द्वित्वात्प्राक्स्वापेश्चङी॑तिवकारस्य सम्प्रसारणं न निषिध्यते, तस्याऽजादेशत्वाऽभावात् । ततश्च कृते सम्रसारणे सुप् इत्यस्य द्वित्वेऽब्यासे उकारस्य श्रवणं संभवति । संप्रसारणे निषिद्दे तु 'स्वप्' इत्यस्य द्वित्वेऽभ्यासे उकारो न श्रूयेत । एवं च प्रकृते यणादेशात्प्राग्लिटि धातो॑रिति द्वित्वे कृ कृ ए इति स्थिते — ।
Tattvabodhini
-------------
**द्विर्वचनेऽचि** - अचा सामानाधिकरण्यलाभाय द्विर्वचनशब्दस्य तन्निमित्ते लक्षणा स्वीक्रियते । यद्वा — उच्यत इति वचनं, द्विः — वचनं यस्मिन्नचि तद्द्विर्वचनम् । अथवा द्विर्वचनमस्मिन्नस्तीत्यर्शाअद्यच् । तदेतदाह — द्वित्वनिमित्तेऽचीति । इहअचः परस्मि॑न्नित्यतोऽचेति,स्थानिवदादेशः॑ इत्यस्मादादेश इति,न पदान्ते॑त्यतो नेति चानुवर्तते । तदाह — अच आदेशो न स्यादिति । यद्यपीहि वृत्त्यादौ — अजादेशः स्थानिवत्स्या॑दिति रूपातिदेशपक्षः स्वीकृतः फलं चोभयत्र तुल्यं, तथाप्यादेशनिषेधपक्षोऽपि भाष्यारूढ इति स एवात्र स्वीकृतः । किं च आदेशमङ्गीकृत्य पुनः स्थानिरूपाश्रयणापेक्षया निषेधपरतया व्याख्यानमेव लघु ।प्रक्षालनाद्धिपङ्कस्य दूरादस्पर्शनं वर॑मिति न्यायात् ।न पदान्ते॑ति निषेधानन्तरं पाठोऽप्येवं सत्यनुगृहीत इति श्रेयानयं पक्षः ।इष्टानुरोदेन द्विर्वचन इत्यावर्त्त्य कालावधारणपरतयापि व्याचष्टे — द्वित्वे कर्तव्ये इति । कृते तु द्वित्वे यथायथमादेशः स्यादेवेति भावः । द्वित्वनिमित्ते किम् । दुद्यूषतीत्यत्र द्वित्वात्परत्वादूठि कृते यदि यणः पूर्वमेव द्वित्वं स्यात्तदा दिद्यूषतीत्यनिष्टं रूपं स्यात्तन्माभूदिति द्वित्वनिमित्त इत्युक्तम् । नह्रूठ् द्वित्वनिमित्तम् । अचीति किम् । जेघ्रीयते । देध्मीयते । शाशय्यते । इहई घ्राघ्मो॑रिति ईकारः,अयङ् यि क्ङिती॑त्ययहादेशस्च निषिध्येत, स माभूदिति प्राञ्चः । अन्ये त्वाहुः — अचीति व्यर्थं, घ्रीय्-ध्मीय्-शय्य् इति द्वितीयाऽजवधिकस्यैकाचः कार्यितया यङो द्वित्वनिमितत्वाऽभावादिति । अचः किम् । असूषुपत् । इहस्वापेश्चङी॑ति यत्संप्रसारणं तस्मिन्निषिद्धेऽभ्यासे उवर्णो न श्रूयेत् । न च द्वित्वे कृतेयून॑ इत्यत्रेवन संप्रसारणे॑ इति पूर्वस्य यणः संप्रसारणनिषेधात् । स्यादेतत् - चक्रतुरित्यत्र अच आदेशस्य निषेधाऽप्रवृत्त्या यण् स्यादेव । अतुसो द्वित्वनिमित्तत्वेऽप्यकारस्याऽतथात्वात् । न चद्विर्वचनेऽची॑त्यस्य वैयथ्र्यं, चक्रे इत्यादौ सावकाशत्वात् । तथा चैकाच्त्वाऽभावात्लिटि धातो॑रितीह द्वित्वं न स्यादिति चेत् । मैवम् । इह द्वित्वनिमित्तशब्देनसाक्षाद्वा, समुदायघटकतया वा यद्द्वित्वप्रयोजकं, लक्ष्यानुरोधेन तस्य सर्वस्य ग्रहणात् । एतच्चठस्येकः॑ इति सूत्रे कैयटे स्पष्टम् । तथा च ऊर्णोतेः सनिसनीवन्ते॑तीट् पक्षेविभाषोर्णो॑रिति ङित्त्वविरहे ऊर्णुनविषतीति सिद्धम् । सन्नन्तस्य द्वित्वविधानेऽपि सनो द्वित्वप्रयोजकत्वेन तस्मिन्परे प्राप्तयोर्गुणाऽवादेशयोर्द्वित्वे कर्तव्ये निषेधात् । अत एवाहुः -तद्भावबावितामात्रेणेह निमित्तत्व॑मिति । एवं च द्वित्वनिमित्तघटकतया सन इडागमोऽतुस अकारश्च द्वित्वनिमित्तमिति स्थितम् । नन्वेवम्, ऋदातोः सनिस्मिपूङ्रञ्ज्वशां सनी॑तीटि कृते इस्शब्दनिमित्तकस्य गुणस्यद्विर्वचनेऽची॑ति निषेधेअजादेर्द्वितीयस्ये॑ति द्वित्वप्रसङ्गादरिरिषतीति न सिध्येत् । रिस्शब्दनिमित्तकस्य दित्वे तु यद्यपि सिध्यति तथापि गुणनिषेधे रिस्शब्द एव दुर्लभ इति चेत् । अत्राहुः — गुणे रपरे कृते निमित्ततयाऽऽश्रीयते,स्थण्डिलाच्छयितरिव्रते॑ इति ज्ञापकात् । अन्यथा शीङो ङित्वेनक्ङिति चे॑ति गुणनिषेधाच्छयितरीति रूपस्याऽसिद्ध्यापत्तेः । न चकिति ङिति परे गुणवृद्धी ने॑ति व्याख्यायमुक्तेऽर्थे शयितरीति न ज्ञापकमिति वाच्यं, तद्व्याख्यायां छिन्नं भिन्नमित्यत्र गुणनिषेधो न स्यादित्यादिदोषस्यक्ङिति चे॑ति सूत्र एवोपपादितत्वात् । न चैवं कार्यिणो निमित्तत्वाऽनाश्रयणे सन्नन्तस्य कार्यित्वातत्सनि परतः प्राप्तयोर्गुणावादेशयोरनिषेधादूर्णुनविषतीत्यपि न स्यादिति वाच्यं, मत्वर्थीयेनेनिना कार्यमनुभवत एवं कार्यित्वाऽलाभात् । ऊर्णोतेर्हि नुशब्द एव द्वित्वरूपं कार्यमनुभवति, न तु सन् । अरिरिषतीत्यत्र तु रिस्शब्दः कार्यभागिति वैषम्यादिति ।
Padamanjari
-----------
'अचः परस्मिन्' इत्यत्र 'योऽनादिष्टादचः पूर्वः' इति स्थितम् । साच्कस्य द्विर्वचनं न त्वचः पूर्वस्येत्यप्राप्तं स्थानिवत्वं विधीयते, रूपातिदेशार्थ च । अत्र षट् पक्षाः सम्भवन्ति । अचीत्यादेशोपलक्षणम्, द्विर्वचन इति विषयनिर्देशः, अचि योऽजादेशः स द्विर्वचने स्थानिवद्भवतीति प्रथमः पक्षः । अचीत्येतदपि स्थानिवद्भावेनैव सम्बध्यते, द्विर्वचन इति विषयनिर्देशाद्, द्विर्वचने कर्तव्येऽजादेशः स्थानिवद्भवत्यचि पर इति द्वितीयः । द्विर्वचननिमितत्वादजेव द्विर्वचनग्रहणेन विषेष्यते, द्विर्वचनमस्मिन्नस्तीत्यर्शाअद्यच्प्रत्ययान्तेन वा, अधिकरणसाधनेन वा, आदेशोपलक्षणम्, द्विर्वचननिमितेऽचि योऽजादेश- स स्थानिवदिति तृतीयः । एवं विशेषितं वाज्ग्रहणं स्थानिवद्भावस्य विशेषणम्, अजादेशः स्थानिवद्भवति द्विर्वचननिमितेऽचि परत इति चतुर्थः । द्विर्वचनग्रहणमा वर्तते, तत्रैकेनाज्विशेष्यते, परेण विषयी निर्दिश्यत इति स्थिते तद्विशेषितमज्ग्रहणं स्थानिवद्भावस्य विशेषतणम्, द्विर्वचने कर्तव्येऽजादेशः स्थानिवद्भवति द्विर्वचननिमितेऽचि परत इति पञ्चमः । एवमेव स्थितेऽज्ग्रहणमादेशोपलक्षणम्, द्विर्वचननिमितेऽचि योऽजादेशः स द्विर्वचने कर्तव्ये स्थानिवद्भवतीति षष्ठः । अत्राद्ये पक्षेऽचो द्विर्वचनेनाविशेषितत्वाद् द्विर्वचननिमितेऽप्यचि आदेशः स्यानिवत्स्यात्, ततश्चाचिकीर्तद् इत्यत्र णिचि 'उपधायाश्च' इतीत्वस्य 'चङ्' ईति द्विर्वचने स्थानिवद्भावादचकीर्तदिति स्यात् । दुद्यौउषति - ऊठि यणादेशः स्थानिवत्स्यात् । भवनमिच्छति, भवनीयतेः सन्, बिभवनीयिषति-ल्युटि कृतयोर्गुणावादेशायोः स्थानिवत्वे बुभवनीयिषतीत्यनिष्ट्ंअ रूपं प्राप्नोति । द्वितीये तु अचिकीर्तदित्यत्र न दोषः, इत्वस्य तकारेण व्यवहितत्वात् स्थानिवद्भावभाजो ह्यादेशस्य स्थानिवत्वविधानवेलायामच्यचनन्तरे स्थानिवत्वेन भवितव्यम् । एवं ह्यचि परतः स्थानिवद्भावः कृतो भवति । दुद्यौउषतीत्यादौ तु स्यादेव । ययावित्यत्र 'आत औ णलः' इत्यौकारेण वृद्धौ कृतायां संप्रत्यादेशात्परोऽज्नास्तीति स्थानिवत्वं न स्यात् । जग्मतुरित्यादौ च 'गमहन' इत्युपधालोपस्य व्यवहितत्वान्न स्यात् । तृतीये तु कालावधारणं कर्तव्यम्, अन्यथा द्विर्वचनादुतरकालमपि स्थानिरूपमेवावतिष्ठेत । चतुर्थे तु ययौ, जग्मतुरित्यादौ पूर्वोक्तन्यायेन स्थानिवद्भावो न प्राप्नोति, कालावधारणं च कर्तव्यम् । पञ्चमेऽपि ययौ, जग्मतुरित्यादौ न स्यात्, अत एतेषु पक्षेष्वेवं दोषसम्भवात् षष्ठ्ंअ पक्षमाश्रित्याह-द्विर्वचननिमितेःऽचीत्यादि । अत्र हि पक्षे द्विर्वचनेनाचो विशेषणादचिकीर्तत्, दुद्यौउषति, बिभवनीयिषतीत्यादौ न दोषः । आदेशोपलक्षणत्वाच्च ययावित्यादावपि न दोषः पुनश्च द्विर्वचनग्रहणात् कालावधारणमपि लभ्यते । ननु 'द्विर्वचननिमितेऽचि योऽजादेशः' इत्युच्यमाने नुनावयिषति, चक्षावयिषति, पुस्फारयिषतीत्यादौ णेरद्विर्वचननिमितत्वातन्निमितावादेशः, आकारश्च न स्थानिवत्स्यात्; ततश्चाभ्यास उकारो न श्रूयेत, नैष दोषः;'पुयण्जि' इति ज्ञापकाद् द्वित्वनिमितेऽपि णौ स्थानिवत्वापायात् । तथा हि- न हि णौ कृतस्य स्थानिवद्भावमन्तरेण ओः पराः पुयण्ज्योऽवर्णपराः सम्भवन्ति; पिपविषति, यियविषति-इत्यत्र सम्भव इति चेत्, किमेतावता पुग्रहणं प्रत्याहारग्रहणं जग्रहणं चार्थवद्भवतीति ? ज्ञापकमुक्तार्थस्य यद्येवम्; अचिकीर्तदित्यत्रेत्वस्य स्थानिवत्वादचकीर्तदिति स्यात्, नैष दोषः; ज्ञापकस्य तुल्यजातीयापेक्षत्वात् यत्रोतरभागस्याद्योऽवर्णपरो भावस्तत्रैव स्थानिवत्वज्ञापनात् । नन्वेवमपि 'ओः पुयण्' इत्यत्र णेरित्यश्रवणात्सामान्येन द्वित्वनिमितं स्थानित्वं विज्ञायेत, ततश्च विभवनीयिषतीत्यत्रापि स्यात्, न ह्यत्राजमात्रं द्विर्वचननिमितम्, क्व तर्हि स्यात् ? चकार, चक्रे इत्यादौ ह्यज्मात्रं प्रत्ययः । स्यादेतत्-परस्मिन्नित्यनुव-तमचीत्यनेन विशेष्यते, तत्र यस्मिन्विधिस्तदादावल्ग्रहणमिति तदादिविधिर्भवति । अजादौ परस्मिन्निति द्विर्वचननिमितत्वेनापि अजाद्येव विशेष्यत इति । एवमपि चक्रतुरित्यत्र स्यात्, यद् द्विर्वचननिमितमजादि न तदादेशस्य निमितम्; अच्येव यणो विधानात् । यच्चादेशस्य निमितं न तद् द्विर्वचनस्य निमितम्; पपतः चख्नतुरित्यादावेन तु स्यात् । किञ्च 'यस्मिन्विधिः' इति वचनाद्यत्र किञ्चिद्विधीयते तत्रैव तदादिविधिः, इह तु अचि योऽजादेश इत्यनुवादत्वातदादिविधेरेवासम्भवस्तस्यमादजेव गृह्यते, न तदादिः, उच्यते; चक्रतुरित्यादावतुसोद्विर्वचनं प्रति निमितत्वेनाश्रयणेऽप्यचि परत्रावस्थिते द्विर्वचनं दृष्टमित्येतावताजेव द्विर्वचननिमितमित्युच्यते । समुदायेऽप्ययं द्विर्वचनशब्द उपचारेण प्रवर्तते । एवमपि पपतुरित्यत्र न स्यात्, आल्लोपस्याजादिनिमितं नाज्मात्रम्, नैष दोषः; 'अचि योऽजादेशः' इति कोऽर्थः ? अचि यो दृष्ट इत्यर्थः । यश्चाचि विधीयते, यश्चाजादौ-द्वावपि अचि दृष्टावेवेति सर्वत्र सिध्यति । अथ वा-अजादावाल्लोपो न हलादौ, तत्र प्राप्ताप्राप्तविवेकेनाच एव मिमितत्वम् । द्विर्वचन एव कर्तव्य इति एवकारेणैतद्दर्शयति - द्विर्वचनग्रहणमचं विशिनष्टि,कालं चावधारयतीति । एकस्योभयसम्बन्धे हि भवति एवकारः-देवदतो ग्रामं गच्छतु स एव गामानयत्विति । यद्यत्रापि पूर्ववत्कार्यातिदेशः स्यात्; चक्रतुरित्यादावनच्कत्वादप्राप्तं द्विर्वचनं स्थानिवद्भावाद् भवदपि यणाद्यादेशयुक्तस्यैव स्यादित्यभयासे स्थानिरूपं न श्रूयेत, तदर्थमाह-रूपातिदेशश्चायमिति । 'च' शब्दोऽवधारणे । कथं पुनरवगम्यते रूपातिदेशोऽयमिति ? अज्ग्रहणात् । तद्धिजेघ्रीयत इत्यत्र 'ई घ्राध्मोः' इति हलादौ विहितस्येत्वस्य स्थानिवत्वं मा भूदित्येवमर्थं क्रियते । यदि च रूपं स्थानिवत्, ततोऽसत्यज्ग्रहणे घ्राय्घ्रीय्ध्माय्ध्मीय् इति द्विर्वचनं स्यादिति तन्नवृतयेऽजग्रहणमर्थवद् भवति । अथ हि - कार्यं स्थानिवद् भवति, तस्य सत्यपि स्थानिवत्वे ईकारयुक्तस्यैव द्विर्वचनमिति नार्थोऽज्ग्रहणेन । भसेस्तु क्वसौ 'घसिभसोर्हलि' इत्युपधालोपे कृते सत्यसति वा द्विर्वचनेभ्स्वानिति श्रुतौ विशेषाभावः । छान्दसच क्वसुः, च्छन्दसिदृष्टानुविधानमतो ज्ञापकमेवाज्ग्रहणम् । तत्र यद्यपि स्थान्येव स्वरूपमापद्यते, तथाप्यातिदेशिकानातिदेशिकरूपभेदाश्रयस्तु वतिर्द्विर्वचन एव कर्तव्य इत्येतदेव स्पष्टयति । नियतकाल इति । कृते द्विर्वचने इत्यादिना नियतकालत्वमेव दर्शयति । यदि कृते द्विर्वचने पुनरादेशरूपमेवावतिष्ठते, यथा - चक्रतुरित्यादौ द्विर्वचनादूर्ध्वं पूर्वं कृतो यणादेश एव श्रूयते तथा निन्यतुरित्यादावपि द्विर्वचनात्पूर्वमेकाच्त्वादि, यङदेशे कृते स्थानिवद्भावाद् द्विर्वचनेऽपि पूर्वप्रवृत इयणेóव स्यात् । अस्तुः तस्य 'असिद्धवदत्राभात्' इत्यसिद्धत्वाद् 'एरनेकाचः' इति यणि सति श्रवणं न भविष्यति । यद्वा-पूर्वप्रवृतोऽपीयङ् द्विर्वचनकालेऽपहृत इति पुनः प्रवर्तयितव्यः, तस्यां च दशायाम नेकाच्त्वाद्यणा बाध्यते । यद्येवम्, इयेष उवोषेति इषेरुषेश्च लिटि तिपि णलि प्रवृत्त्स्यापि गुणस्य द्विर्वचनकालेऽपहृतत्वात्कृते द्विर्वचने पुनः प्रवृत्तिः, ततश्चानादिष्टादचः पूर्वत्वेनाभ्यासो दृष्ट इति तस्याभ्यासस्य उवङ् किर्तव्ये गुणस्य स्थानिवद्भावादसवर्णं इति प्रतिषेधः स्यात् । असवर्णग्रहणसामर्थ्यात्स्थानिवत्वं न भविष्यति । अस्त विचनस्यावकाशः-इयर्ति, इयृतः । ह्यएकमुदाहरणमसवर्णेग्रहणं प्रयोजयति । यद्येतावत्प्रयोजनं स्यात्, अर्तावित्येव ब्रूयात् । कि तर्ह्युच्यते - द्विर्वचने पुनरादेशरूपमेवावतिष्ठत इति, अत्र हि 'पुनः' शब्दाद्, 'अवतिष्ठते' इति वचनाच्च पूर्वकृतस्यैवादेशस्योन्मज्जनमेवोक्तं प्रतीयत इति ? नायमर्थः; अपि तु कृते द्विर्वचने स्थानिरूपं नावतिष्ठते यत्प्राप्तं तद्भवतीत्येवंपरमेतत् । अल्लोपेत्यादि । उपलक्षणमेतत् । ततुरिः, पपुरिरित्यदौ 'आञ्त ईद्धातोः' 'उदोष्ठ।ल्पूर्वस्य' 'बहुलं च्छन्दसि' इति इत्वोत्वयरपि स्थानिवत्वं भवति । आटिटदिति । अटतेर्ण्यन्ताल्लुङ् चिङ् 'इजादेर्द्वितीयस्य' इति टिशब्दस्य द्विर्वचनम्, 'आडजादीनाम्' । निनायेत्यादि । 'णलुतमो वा' इति यदा णित्वं नास्ति तदा गुणः, णित्वपक्षे वृद्धिः । नेनैलोलाइति द्विर्वचनमिति । गृणवृद्ध्योस्तु स्थानिवद्भावे विशेषाभावान्नोक्तः । जग्ले, मम्ल इति । भावे लिट्, अनैमितिकमात्वम्, शिति तु प्रतिषेध इत्यात्वस्य स्थानिवत्वं न भवति । श्रवणमित्यादि । यदि कालो नावधार्येत, तदोतरकालमपि स्थानिरूपं प्रसज्येत, ततश्चाकारस्य श्रवणे सति परेण सह 'वृद्धिरेचि' इति वृद्धिः स्यात् । इहाधिजगे इति 'गाङ्लिटि' इति द्विलकारनिर्देशेन लकारादौ लिटि गाङदेशविधानादज्निमितत्वाभावात् स्थानिवत्वाभावः ॥
Nyaas
-----
पूर्वं कार्यातिदेशः कृतः, इदानीं तु रूपातिदेशार्थमिदमारभ्यते। अथ वानिमित्तात् पूर्वमित्येतस्मिन् पक्षेऽनन्तरसूत्रेण द्विर्वचनविधिं प्रति प्रतिषेधः प्राप्तः इत्यस्यारम्भो वेदितव्यः। **द्विर्वचनेऽचि** (1.1.59) इति समानाधिकरणे सप्तम्यौ। तत्राज् विशेष्यः, द्विर्वचनं विशेषणम्। विशेषणविशेष्यभावस्य च प्रयोजनं `दुद्यूषति` इति प्रत्युदाहरण दर्शयिष्यते। कथं पुनरज् द्विर्वचनशब्देनोच्यते? द्वर्वचननिमित्तत्वात्। अत एव वृत्तावाह - `द्विर्वचननिमित्तेऽचि` इति। भवति हितन्निमित्तत्वात् ताच्छब्द्यम, यथा - `आर्युर्घुतम्` इति। परसप्तमी चेयमपीति `यस्मिनन् विधिस्तदादावल्ग्रहणम्` (व्या।प।127) इति अजादाविति द्रष्टव्यम्। परस्मिन्निति च प्रकृत्वात् परस्मिन्नजादाविति गम्यते।अथ वा - द्वर्वचनस्य प्रत्ययविशेषणिमित्त्वाद् द्विर्वचनग्रहणेन प्रत्ययः सन्निधापितः, तेनाजादौ प्रत्यय इति प्रतीयते। यदि तह्र्रजादावजादेशः स्थानिवद्भवति, `पपौ` इति न सिध्यति, न ह्रजादावादेशः, किं तर्हि? अच्येव; इहापि व्यपदेशिवद्भावेना-जादित्वमस्तीत्यदोषः। इह तर्हि न सिध्यति - `चक्रतुः` इति; अच्येव तु यणादेशो विधीयते, न त्वजादौ? नैष दोषः; यो ह्यत्राचि यणादेशो विधीयते सोऽजादावपि भवत्येव। यदि द्विर्वचननिमित्तेऽच्यजादेशः स्थानिवद्भवति सर्वस्यामवस्थायां द्विर्वचनादुत्तरकालमपि स्यादित्यत आह - `द्विर्वचन एव कर्तव्ये` इति। एवकारेण द्विर्वचन क्रिया-कालात् कालान्तरे स्थानिवद्भावस्याभावं दर्शयति। कथं पुनरेतल्लभ्यते, यावतैकंद्विर्वचनग्रहणम्, तेन चाज् विशेषितः? एवं मन्यते - द्वितीयमपि द्विर्वचनग्रहणमन-न्तरसूत्रादिहानुवर्तते।अथ वा- द्विर्वचनञ्चेत्येकशेषं कृत्वा `द्विर्वचने` इति निर्देशः कृतः।तत्रैकेन द्विर्वचनग्रहणेन `द्वर्वचननिमित्तेऽचि` इत्थेषोऽर्थो लभ्यते। द्वितीयेन तु `द्विर्वचन एव कर्तव्ये` इति। इह द्विर्वचने कर्तव्ये स्थानिवद्भावोविधीयते इत द्विर्वचनकार्यार्थं एवैष प्रतीयते। साच्कस्य द्विर्वचनं विधीयमानमनच्क-स्य न प्राप्नोति युज्यते द्विर्वचनकार्यार्थत्वमस्य। `द्वर्वचनकार्यार्थत्वमस्य। `द्विर्वचनकार्यार्थे त्वस्मिन् - `चक्रतुः,चक्रुः` इत्यत्रास्यानच्कस्य द्विर्वचने कृते सतीष्टमभ्यासरूपं न सिध्यति` इतिव्यामोहाद् यो मन्यते, तं प्रत्याह - `रूपातिदेशश्चायम्` इति। `च` शब्दोऽवधारणे, रूपातिदेश एव, न कार्यातिदेश इत्यर्थः। कुतः पुनरेष निश्चयः-स `रूपातिधेशश्चायम्` इति? अज्ग्रहणात्। तस्य ह्रेतत् प्रयोजनम् - `जेघ्रीयते देध्मीयते` इत्यत्र मा भूदिति। यदि चायं द्विर्वचनकार्यातिदेशः स्यान्न रूपातिदेशः; अज्ग्रहणमनर्थकं स्यात्। भवत्वत्र स्थानिवद्भावः, तथापि न कश्चि-द्विशेषः। तथा हि - यद्यप्यत्र स्थानिवद्भावः, एवमपि द्विर्वचनकार्येण भवितव्यम्; अथापि न स्थानिवद्भावः, एवमपि भवितव्यम् - उभयत्रापि साच्कत्वात्, ततश्च कथमेतत् प्रत्युदाहरणम्? तदेतदज्ग्रहणं कथमर्थवद् भवति? यद्येष रुपादेशः ररूपेऽस्यातिदि-श्यमाने यद्यज्ग्रहणं न क्रियते तदिहापि रूपातिदेशे सति ध्रा इति, ध्मा इति च द्वि-र्वचनं स्यात्, तथाऽनिष्टमभ्यासरूपं प्रसज्येत। तस्मादज्ग्रहणाद् रूपातिदेशोऽय-मिति निश्चीयते। यद्येवम्, भेदनिबन्धनो वतिर्नं प्राप्नोति; स्थान्येव हि पुनरात्मीयं रूपं प्रापित इति कुतो भेदः? आतिदेशिकानामतिदेशिकत्वेन रूपभेदस्य विवक्षितत्वाददोषः।`द्विर्वचन एव कर्तव्ये` इति यदुक्तं तस्यार्थं विस्पष्टीकर्तुमाह - `नियतकालः` इति। कृते द्विर्वचने इत्यादिना तदेव नियकालत्वं दर्शयति।`जघ्नतुः` इति। **अभ्यासाच्च** (7.3.55) इति हकारस्य कुत्वम्।`आटिटत्` इति। अटतेर्हेतुमति णिच्; लुङ्, चङ, `चङि` (6.1.11) इति `अजादे-र्द्वितीयस्य` (6.1.2) इति द्विर्वचनम्। **आडजादीनाम्** (6.4.72) इत्याड् भवति। `निनय` इत्यादि। **णलुत्तमो वा** (7.1.91) इति यदा णित्त्वं नास्ति तदा गुणः, यदा णित्वं तदा वृद्धिः।`जग्ले,मग्ले` इति। `ग्लै हर्षक्षये` (धातुपाठः- 904), `म्लै गात्रविनामे` (धातुपाठः-904) **आदेच उपदेशेऽशिति** (6.1.45) इत्यात्त्वम्। भावे आत्मनेपदम्, `लिटस्तझयो-रेशिरेच्` (3.4.81) इत्येश्। `श्रवणमाकारस्य न भवति` इति। यदा कालावधिपरिग्रहार्थंद्विर्वचनग्रहणं न क्रियते, तदोत्तरकालमपि स्थानिरूपं प्रसज्येत, ततश्चाकारस्य श्रवणमेव स्यात्। आतो लोपस्य तु गोद इत्येवमाद्यवकाशः। श्रूयमाणे चाकारे परेण सह वृद्धिः स्यात्। `दुद्युषति` इति। दिवेः `सनीवन्तर्ध` (7.2.49) इत्यादिना यदा पक्ष इडागमो न क्रियते तदा **इको झल्** (1.2.9) **हलन्ताच्च** (1.2.10) इति कित्त्वम्, ततः **च्छ्वोः शूडनुनासिके च** (6.4.19) इत्यूठ्। स च द्विर्वचननिमित्तं न भवति। तत्र यदि द्विर्वचननिमित्तत्वेन नाज् विशेष्यते, ऊठि परतो यो यणादेशस्तस्यापि स्थानिवद्भावः स्यात्। एवं चाभ्यासरूपमिवर्णान्तं श्रूयेत। द्विर्वचननिमित्तच्परिग्रहे तु `द्यु` इत्यस्य द्विर्वचनं भवति। तत्र हलादिशेषह्रस्वत्वयोर्दुद्यूषतीत्यभ्यासरूपमुकारा-न्तं सिध्यति॥
Prakriyasarvasvam
-----------------
द्विर्वचननिमित्तेऽचि कृतोऽजादेशो द्विर्वचनकाले स्थानिवत् स्यात् । यणल्लोपोपधालोपणिलोपेयङ्वङ्गुणाः । वृद्ध्ययावावान्तरङ्गाः प्राग् द्वित्वात् स्युरतो वचः ॥ १२३ ॥ तेन पा इत्यस्य द्विरुक्तिः । पा पा इवस् । द्विर्वचनकाल एव स्थानिवत्त्वात् पुनरप्याल्लोपः । पा पिवस् । अभ्यासह्रस्वः । पपिवान् । घसेस्तु घसिवस् । वसोः कित्त्वात् 'गमहन-' (६-४-९८) इत्युपधालोपः । प्राग्वत् स्थानिवत्त्वेन द्वित्वे पुनश्चापधालोपः । घस् घ् स् इवस् ।
Sutra Prayogas
--------------
* **इयाय** (भट्टिकाव्यम्): `द्विर्वचनेऽचि` इति स्थानिवद्भावा- द्विर्वचनमिकारस्य ।
* **तमाञ्जिहन्मैथिल** (भट्टिकाव्यम्): `द्विर्वचनेऽचि` इति स्थानिवद्भावात् अजादेर्द्वितीयस्य इति हिशब्दस्य द्विर्वचनम्।
* **प्रतीयीरे** (भट्टिकाव्यम्): `द्विर्वचनेऽचि` इति स्थानिवद्भावाद्विर्वचनम्।
* **राजाऽऽजिहत्तं** (भट्टिकाव्यम्): `द्विर्वचनेऽचि` इति स्थानिवद्भावात्।
* **विनिर्ममे** (भट्टिकाव्यम्): `आतो लोपस्यद्विर्व- चने ऽचि` इति स्थानिवद्भावात् द्विर्वचने ह्रस्वत्वे च रूपम्।
* **चाऽर्पिपः** (भट्टिकाव्यम्): `चङि द्विर्वचने ऽचि` इति स्थानिवद्भावात्।
* **आर्जिजत्** (भट्टिकाव्यम्): `द्विर्वचने ऽचि` इति स्थानिवद्भावात् अजादेर्द्वितीयस्य द्विर्वचनम्।
* **ऐजिहत्** (भट्टिकाव्यम्): `द्विर्वचने ऽचि` इति स्थानिवद्भावात् द्वितीयस्य द्विर्वचनम्।