11058: न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु
=================================================================
**Padacheda:** न | S | 0 | 0 |
पदान्त-द्विर्वचन-वरे-यलोप-स्वर-सवर्ण-अनुस्वार-दीर्घ-जश्-चर्-विधिषु | S | 7 | 3 |
Sutrartha
---------
**अच् वर्णस्य स्थाने क्रियमाणस्य आदेशस्य निमित्तम् परः अस्ति चेत् सः आदेशः - (1) पदान्तकार्यार्थम् (2) द्वित्वकार्यार्थम् (3) 'वरच्' प्रत्ययस्य कार्यार्थम् (4) यकारलोपार्थम् (5) स्वरविध्यर्थम् (6) सवर्णकार्यार्थम् (7) अनुस्वारविध्यर्थम् (8) दीर्घादेशकार्यार्थम् (9) जश्त्वकार्यार्थम् (10) चर्त्वकार्यार्थम् - स्थानिवत् कार्यम् न करोति ।**
यत्र कस्यचन स्थानिनः कश्चन आदेशः विधीयते, तत्र —*स्थानिनः गुणधर्माः आदेशे अपि अतिदिश्यन्ते वा ?* — इति प्रश्ने जाते, अष्टाध्याय्याम् आहत्य चतुर्भिः सूत्रैः मिलित्वा अस्य उत्तरम् दीयते । **स्थानिवदादेशोऽनल्विधौ** (1.1.56) इत्यतः आरभ्य **द्विर्वचनेऽचि** (1.1.59) इति यावन्ति एतानि चत्वारि सूत्राणि **स्थानिवद्भावप्रकरणम्** नाम्ना ज्ञायन्ते । अस्य प्रकरणस्य इदं तृतीयम् सूत्रम् । **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यनेन सूत्रेण उक्तः स्थानिवद्भावः आहत्य दशसु पूर्वविधिषु प्रकृतसूत्रेण निषिध्यते । इत्युक्ते, परनिमित्तकः अजादेशः पदान्तादिषु दशसु पूर्वविधिषु कर्तव्ये स्थानिवत् नैव भवति — इति प्रकृतसूत्रस्य अर्थः । क्रमेण विवरणम् एतादृशम् —
1. पूर्वपदस्य अन्ते जायमानस्य कार्यस्य कृते परनिमित्तकः अजादेशः स्थानिवद् न भवति ।
यत्र पदादौ विद्यमानस्य अच्-वर्णस्य लोपः क्रियते, तत्र सः लोपः तस्मात् पूर्वम् विद्यमानार्थम् पदान्तकार्यार्थम् स्थानिवत् न भवति । यथा, अस्-धातोः प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् **श्नसोरल्लोपः** (6.4.111) इत्यनेन अकारस्य कृतः लोपः पदान्ते जायमानस्य कार्यस्य कृते स्थानिवद् न भवति । यथा, "फलानि सन्ति" इत्यत्र वाक्यान्वाख्यानपक्षे प्रक्रिया इत्थं भवति —
.. code-block:: text
फल + जस् + अस् + लट्
→ फलानि + अस् + लट् [फलानि-शब्दस्य सिद्धिः अत्र नैव आवश्यकी, अतः सः शब्दः सिद्धः एव दर्शितः अस्ति ।]
→ फलानि + अस् + झि [**तिप्तस्झि...** (3.4.78) इत्यनेन प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः]
→ फलानि + अस् + अन्ति [**झोऽन्तः** (7.1.3) इति अन्ति-आदेशः । ततः शप्-विकरणप्रत्ययस्य विधानम्, तस्य च लुक् क्रियते ]
→ फलानि + स् + अन्ति [**श्नसोरल्लोपः** (6.4.111) इति अस्-धातोः अकारस्य लोपः भवति । अयम् अपित्-सार्वधातुकप्रत्ययनिमित्तकः लोपः अस्ति, अतः अयम् परनिमित्तकः लोपः अस्ति । अग्रे नकारोत्तस्य इकारस्य यणादेशे कर्तव्ये अयम् लुप्तः अकारः **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यनेन स्थानिवत् भवितुम् अर्हति, परन्तु अयम् यणादेशः पदान्ते जायमानम् कार्यम् अस्ति, अतः अस्य कृते अकारस्य स्थानिवद्भावः प्रकृतसूत्रे "पदान्त"-शब्दस्य ग्रहणेन निषिध्यते । अतः अत्र यणादेशः अपि न सम्भवति ।]
→ फलानि सन्ति ।
2. पूर्वस्य द्वित्वे कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति ।
यदि 'पूर्वविधिः' द्वित्वकार्यम् इति अस्ति, तर्हि परनिमित्तकः अजादेशः एतादृशार्थम् द्वित्वकार्यार्थम् स्थानिवद् न भवति । यथा, "मधु + अरि" इत्यस्यां प्रक्रियायाम् उकारस्य यणादेशे वकारे प्राप्ते, धकारस्य द्वित्वे कर्तव्ये अयम् वकारः स्थानिवत् (उकारसदृशः) न भवति, अतएव अत्र **अनचि च** (8.4.47) इति द्वित्वम् अवश्यम् सम्भवति —
.. code-block:: text
मधु + अरि
→ मध् व् + अरि [**इको यणचि** (6.1.77) इति यणादेशः]
→ मध् ध् व् + अरि [**अनचि च** (8.4.47) इति द्वित्वम् । अत्र उकारस्य स्थाने जायमानः वकारादेशः यदि स्थानिवत् स्यात्, तर्हि अत्र धकारस्य द्वित्वम् नैव अभविष्यत् । परन्तु द्वित्वे कर्तव्ये अयम् वकारः स्थानिवद् न भवति अतः अत्र द्वित्वम् अवश्यं सम्भवति ।]
→ मद्ध्वरि [**झलां जश् झशि** (8.4.53) इति धकारस्य जश्त्वे दकारः]
अत्र निर्दिष्टम् द्वित्वम् **अष्टमाध्याये चतुर्थपादे पाठितम् द्वित्वम्** अस्ति, न हि षष्ठाध्यायस्य द्वित्वम् । षष्ठाध्यायस्य द्वित्वस्य कृते स्थानिवद्भावस्य विधानम् **द्विर्वचनेऽचि** (1.1.59) इति अग्रिमसूत्रेण क्रियते ।
3. वरच्-प्रत्ययान्तस्य रूपसिद्धौ पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति ।
अच्-वर्णस्य स्थाने विहितः परनिमित्तकः आदेशः वरच्-प्रत्ययान्तरूपस्य प्रक्रियायाम् पूर्वविधौ कर्तव्ये स्थानिवद् न भवति । यथा, "यायाय"इति यङन्तधातोः वरच्-प्रत्यये परे यकारोत्तरस्य अकारस्य **अतो लोपः** (6.4.48) इत्यनेन लोपे कृते **आतो लोप इटि च** (6.4.64) इत्यनेन आकारलोपे कर्तव्ये अयम् अकारलोपः स्थानिवद् न भवति, अतः आकारलोपः अपि न सम्भवति —
.. code-block:: text
या + यङ् [**धातोरेकाचो हलादेः क्रियासमभिहारे यङ्** (3.1.22) इति यङ्-प्रत्ययः]
→ या या + य [**सन्यङोः** (6.1.9) इति द्वित्वम्]
→ यायाय [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा]
→ यायाय + वरच् [**यश्च यङः** (3.2.176) इति यङ्-प्रत्ययः]
→ यायाय् + वर [**अतो लोपः** (6.4.48) इति यङ्-प्रत्ययस्य अकारस्य लोपः]
→ याया + वर [**लोपो व्योर्वलि** (6.1.66) इति यङ्-प्रत्ययस्य यकारस्य लोपः]
→ यायावर [यदि अत्र यङ्-प्रत्ययस्य लुप्तः अकारः **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यनेन स्थानिवत् स्यात्, तर्हि अजादि-ङित्-प्रत्यये परे **आतो लोप इटि च** (६.४.६४) इत्यनेन आकारलोपः सम्भवेत् । परन्तु वरच्-प्रत्ययान्तस्य रूपसिद्धौ **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यनेन निर्दिष्टः स्थानिवद्भावः नैव प्रवर्तते, अतः अत्र आकारलोपः अपि न सम्भवति ।]।
4. यकारलोपः पूर्वविधिः अस्ति चेत् परनिमित्तकः अजादेशः स्थानिवद् न भवति ।
यकारस्य लोपार्थम् परनिमित्तकः अजादेशः स्थानिवद् न गृह्यते । यथा, उपरिनिर्दिष्टायाम् "यायावर"-शब्दस्य प्रक्रियायाम् **अतो लोपः** (6.4.48) इत्यनेन अकारलोपे कृते, ततः **लोपो व्योर्वलि** (6.1.66) इति यङ्-प्रत्ययस्य यकारस्य लोपे कर्तव्ये लुप्तः अकारः स्थानिवद् नैव भवति, अन्यथा अकारस्य उपस्थितौ यकारलोपः नैव सम्भवेत् ।
अस्य अपरम् उदाहरणम् एतादृशम् — "कण्डूय"-धातोः **क्तिच्क्तौ च संज्ञायाम्** (3.3.174) इत्यनेन क्तिच्-प्रत्यये कृते प्रक्रियायाम् **अतो लोपः** (6.4.48) इत्यनेन अकारलोपे जाते, अयम् लुप्तः अकारः यकारस्य लोपार्थम् स्थानिवद् न भवति । प्रक्रिया इयम् —
.. code-block:: text
कण्डूय + क्तिच् [**क्तिच्क्तौ च संज्ञायाम्** (3.3.174) इति क्तिच्-प्रत्ययः]
→ कण्डूय् + ति [**अतो लोपः** (6.4.48) इति अकारलोपः]
→ कण्डूति [**लोपो व्योर्वलि** (6.1.66) इति यकारलोपः । अत्र यकारलोपार्थम् अज्लोपः स्थानिवद् न भवति, अतः अत्र वल्-वर्णम् (तकारम्) दृष्ट्वा अत्र यकारलोपः अवश्यं प्रवर्तते ।
काशिकायाम् अत्र 'क्तिन् प्रत्यये कृते' इति उच्यते, सः तु असाधु पाठः ज्ञेयः, यतः प्रत्ययान्तधातुभ्यः क्तिन्-प्रत्ययस्य अपवादरूपेण अ-प्रत्ययः विधीयते । पदमञ्जर्याम् इति केनचित् वार्त्तिकेन अस्य समर्थनम् कृतम् अस्ति, परन्तु तत्र 'क्तिच् इति युक्तः पाठः' इति निर्देशः अपि लभ्यते ।
5. स्वरविशिष्टे पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति ।
यत्र पूर्वविधिना कश्चन स्वरः विधीयते, तत्र परनिमित्तकः अजादेशः स्थानिवद् न भवति । यथा, "चिकीर्ष"-धातोः ण्वुल्-प्रत्यये कृते, प्रक्रियायाम् **अतो लोपः** (6.4.48) इति अकारलोपे कृते **लिति** (6.1.193) इत्यनेन प्रत्ययपूर्वस्वरस्य उदात्तत्वविधानार्थम् अजादेशः स्थानिवद् न भवति । प्रक्रिया इयम् —
.. code-block:: text
चिकीर्ष + ण्वुल् [**ण्वुल्तृचौ** (3.1.133) इति ण्वुल्-प्रत्ययः]
→ चिकीर्ष + अक [**युवोरनाकौ** (7.1.1) इति अक-आदेशः]
→ चिकीर्ष् + अक [**अतो लोपः** (6.4.48) इति अकारलोपः]
→ चिकीर्ष् + अक [**लिति** (6.1.193) इत्यनेन प्रत्ययात् पूर्वम् विद्यमानः स्वरः उदात्तत्वं प्राप्नोति । अत्र स्वरविधौ कर्तव्ये यदि लुप्तः अकारः स्थानिवद् स्यात् तर्हि इदम् उदात्तत्वम् अकारस्य विषये प्रसज्येत । परन्तु अत्र प्रकृतसूत्रेण लुप्तः अकारः स्थानिवद् न भवति, अत; अत्र ककारोत्तस्य ईकारस्य एव उदात्तत्वं विधीयते ।]
→ चि॒कीर्ष॑क [अत्र ककारोत्तरः ईकारः उदात्तः अस्ति ।]
6. सवर्णसंज्ञया निर्दिष्टे पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति ।
परनिमित्तकः अजादेशः सवर्णविधानविशिष्टकार्यार्थम् स्थानिवद् न भवति । यथा, "शिन्धि"-शब्दस्य प्रक्रियायाम् **श्नसोरल्लोपः** (6.4.111) इत्यनेन अकारलोपे कृते अग्रे अनुस्वारस्य परसवर्णविधौ कर्तव्ये लुप्तः अकारः स्थानिवद् न भवति । प्रक्रिया इयम् —
.. code-block:: text
शिषॢँ (विश्लेषणे, रुधादिः, (7.14))
→ शिष् + लोट् [**लोट् च** (3.3.162) इति लोट्-लकारः]
→ शिष् + सिप् [**तिप्तस्झि...** (3.4.78) इति मध्यमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ शिष् + हि [**सेर्ह्यपिच्च** (3.4.87) इति हि-आदेशः]
→ शिष् + धि [**हुझल्भ्यो हेर्धिः** (6.4.101) इति धि-आदेशः]
→ शि श्नम् ष् + धि [**रुधादिभ्यः श्नम्** (3.1.78) इति श्नम्-प्रत्ययः]
→ शि न ष् + धि [इत्संज्ञालोपः]
→ शि न् ष् + धि [**श्नसोरल्लोपः** (6.4.111) इति नकारोत्तरस्य अकारस्य लोपः]
→ शिं ष् + धि [**नश्चापदान्तस्य झलि** (8.3.24) इति अनुस्वारः]
→ शिं ष् + ढि [**ष्टुना ष्टुः** (8.4.41) इति धकारस्य ष्टुत्वे ढकारः]
→ शिं ड् + ढि [**झलां जश् झशि** (8.4.53) इति षकारस्य जश्त्वे डकारः]
→ शिण्ड् + ढि [**अनुस्वारस्य ययि परसवर्णः** (8.4.58) इति अनुस्वारस्य परसवर्णः णकारः । अत्र परसवर्णे कर्तव्ये अकारलोपः स्थानिवद् न भवति । यदि अत्र अकारलोपः स्थानिवत् स्यात्, तर्हि अनुस्वारात् परम् अकारं दृष्ट्वा अत्र परसवर्णः नैव सम्भवेत् ।]
→ शिण्ड्ढि
→ शिण्ढि [**झरो झरि सवर्णे** (8.4.65) इति पाक्षिकः डकारलोपः]
7. अनुस्वारादेशरूपिणि पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति ।
अनुस्वारनिर्माणार्थम् परनिमित्तकः अजादेशः स्थानिवद् न भवति । अतएव उपरि निर्दिष्टे "शिण्ढि" अस्मिन् उदाहरणे **श्नसोरल्लोपः** (6.4.111) इति नकारोत्तरस्य अकारस्य लोपे कृते, अग्रिमसोपाने विद्यमानस्य **नश्चापदान्तस्य झलि** (8.3.24) इत्यस्य कृते अयम् अकारः स्थानिवद् न भवति । यदि अत्र अकारः स्थानिवद् स्यात्, तर्हि अस्मिन् अकारे परे अपदान्तनकारस्य अनुस्वारः नैव सम्भवेत् ।
8. दीर्घादेशविशिष्टे पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति ।
परनिमित्तकः अजादेशः दीर्घादेशार्थम् स्थानिवद् न भवति । यथा, "दिवन्"-शब्दस्य तृतीयैकवचने **अल्लोपोऽनः** (6.4.134) इत्यनेन वकारोत्तस्य अकारस्य लोपे कृते, दकारोत्तरस्य इकारस्य दीर्घादेशे कर्तव्ये अयम् लुप्तः अकारः स्थानिवद् न भवति । प्रक्रिया इयम् —
.. code-block:: text
दिवन् + टा [**स्वौजस्..** (4.1.2) इति तृतीयैकवचनस्य टा-प्रत्ययः]
→ दिव् न् + आ [**अल्लोऽपो नः** (6.4.134) इति अकारलोपः]
→ दीव्ना [**हलि च** (8.2.77) इति वकारात् पूर्वस्य इकारस्य दीर्घः । अस्मिन् दीर्घे कर्तव्ये वकारोत्तरः लुप्तः अकारः स्थानिवत् न भवति । यदि अयं स्थानिवद् स्यात्, तर्हि हल्-वर्णस्य अनुपस्थितौ दीर्घः अपि नैव सम्भवेत् ।]
9. जश्त्वविशिष्टे पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति ।
जश्त्वे कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति । यथा, अद्-धातोः क्तिन्-प्रत्यये कृते वेदेषु 'ग्धिः' इति यद् रूपं दृश्यते, तस्य सिद्धौ **घसिभसोर्हलि च** (6.4.100) इत्यनेन अकारलोपे कृते, अग्रे जश्त्वकार्यार्थम् अयम् स्थानिवद् न भवति । प्रक्रिया इयम् —
.. code-block:: text
अदँ (भक्षणे, अदादिः, (2.1))
→ अद् + क्तिन् [**स्त्रियां क्तिन्** (3.3.94) इति क्तिन्-प्रत्ययः]
→ घसॢ + ति [**बहुलं छन्दसि** (2.4.39) इति घसॢँ-आदेशः]
→ घस् + ति [इत्संज्ञालोपः]
→ घ् स् + ति [घकारोत्तरस्य अकारस्य **घसिभसोर्हलि च** (6.4.100) इति लोपः]
→ घ् + ति [**झलो झलि** (8.2.26) इति सकारलोपः]
→ घ् + धि [**झषस्तथोर्धोऽधः** (8.2.40) इति तकारस्य धकारः]
→ ग् + धि [**झलां जश् झशि** (8.4.53) इति घकारस्य जश्त्वे गकारः । अत्र धकारे परे जश्त्वे कर्तव्ये घकारोत्तरस्य लुप्त-अकारस्य **अचः परस्मिन् पूर्वविधौ** (1.1.57) इति स्थानिवद्भावे प्राप्ते; प्रकृतसूत्रे जश्-ग्रहणेन तत् निषिध्यते ।]
→ग्धि
10. चर्त्वविशिष्टे पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति ।
चर्त्वे कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति । यथा, अद्-धातोः लिट्-लकारस्य "जक्षुः" इति रूपस्य सिद्धौ ** गमहनजनखनघसां लोपः क्ङित्यनङि** (6.4.98) इत्यनेन कृतः अकारलोपः घकारस्य चर्त्वे कर्तव्ये स्थानिवद् न भवति । प्रक्रिया इयम् —
.. code-block:: text
अदँ (भक्षणे, अदादिः, (2.1))
→ घसॢँ [**लिट्यन्यतरस्याम्** (2.4.40) इति लिट्लकारस्य विवक्षायाम् अद्-धातोः विकल्पेन घसॢँ-आदेशः]
→ घस् + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट् । **असंयोगाल्लिट् कित्** (1.2.5) इत्यनेन अयम् किद्वत् भवति ]
→ घस् + झि [**तिप्तस्झि..** (3.4.78) इति प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः]
→ घस् + उस् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति झि-प्रत्ययस्य उस्-आदेशः]
→ घस् घस् + उस् [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्]
→ घ घस् + उस् [**हलादिः शेषः** (7.4.60) इति अभ्यासस्य हलादिः लुप्यते ]
→ झ घस् + उस् [**कुहोश्चुः** (7.4.62) इति चुत्वम्]
→ झ घ् स् + उस् [**गमहनजनखनघसां लोपः क्ङित्यनङि** (6.4.98) इति घकारोत्तरस्य अकारस्य लोपः]
→ झ् घ् स् + उः [**ससजुषो रुः** (8.2.66) इति रुँत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः]
→ झ घ् ष् + उः [**शासिवसिघसीनां च** (8.3.60) इति षत्वम्]
→ ज् घ् ष् + उः [**अभ्यासे चर्च** (8.4.54) इति अभ्यासस्य जश्त्वम्]
→ ज् क् ष् + उः [**खरि च** (8.4.55) इति घकारस्य चर्त्वे ककारः । अत्र चर्त्वे कर्तव्ये घकारोत्तरस्य लुप्त-अकारस्य स्थानिवद्भावः प्रकृतसूत्रेण निषिध्यते ।]
→ जक्षुः
अनेन प्रकारेण एतेषु दशसु पूर्वविधिषु परनिमित्तकः अजादेशः स्थानिवद् न भवति ।
**वार्त्तिकम् — **
प्रकृतसूत्रेण उक्तस्य स्थानिवद्भावनिषेधस्य नियमनम् अनेन वार्त्तिकेन क्रियते । **यकारलोपार्थम्, स्वरविध्यर्थम्, तथा च दीर्घादेशकार्यार्थम् प्रकृतसूत्रेण उक्तः अजादेशस्य स्थानिवद्भावनिषेधः तदा एव प्रवर्तते यदा सः अजादेशः वस्तुतः अज्लोपः अस्ति** — इति अस्य वार्त्तिकस्य आशयः । इत्युक्ते, एतेषु विधिषु स्वरस्य **लोपभिन्नः कश्चन आदेशः** भवति चेत् तत्र **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यनेन प्राप्तस्य स्थानिवद्भावस्य निषेधः प्रकृतसूत्रेण न सम्भवति; अतश्च एतेषु स्थलेषु स्थानिवद्भावः अवश्यं सम्भवति — इति । क्रमेण विवरणम् एतादृशम् —
1. स्वरविधौ लोपरूपस्य अजादेशस्य एव प्रकृतसूत्रेण स्थानिवद्भावनिषेधः उच्यते; अन्यरूपस्य अजादेशस्य न ।
स्वरविधौ लोपभिन्नस्य अजादेशस्य **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यनेन प्राप्तः स्थानिवद्भावः प्रकृतसूत्रेण नैव निषिध्यते । अस्य प्रयोजनम् "बहुखट्वक" इति शब्दस्य सिद्धौ दृश्यते —
.. code-block:: text
बह्व्यः खट्वाः यस्मिन् सः [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिसमासः]
→ बह्वी + खट्वा + क [**शेषाद्विभाषा** (5.4.154) इति कप्]
→बहु + खट्वा + क [**स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु** (6.3.34) इति पुंवद्भावः]
→ बहु + खट्व + क [**गोस्त्रियोरुपसर्जनस्य** (1.2.48) इति ह्रस्वादेशः । अत्र आकारस्य स्थाने अकारः आदेशरूपेण विधीयते । अत्र निर्मितं ह्रस्वस्वरम् (अकारं) निमित्तरूपेण स्वीकृत्य **ह्रस्वान्तेऽन्त्यात् पूर्वम्** (6.2.174) इति सूत्रेण खकारोत्तरस्य अकारस्य अनिष्टम् उदात्तत्वं प्राप्नोति । तत् बाधितुम् **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यनेन ह्रस्वः अकारः स्थानिवद् (इत्युक्ते, आकारसदृशः) भवितुम् अर्हति; तादृशं क्रियते चेत् ह्रस्व-स्वरस्य अभावात् अनिष्टम् उदात्तत्वम् अपि निवार्यते । परन्तु स्वरविधौ कर्तव्ये अजादेशः नैव स्थानिवद् भवति इति **न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु** (1.1.58) इत्यनेन उच्यते ।अस्यां स्थितौ, स्थानिवद्भावस्य अनुपस्थितौ, अनिष्टस्य स्वरस्य अपि न कश्चन बाधः सम्भवति । अतएव अत्र वार्त्तिककारेण इदं वार्त्तिकं दीयते । स्वरविधौ कर्तव्ये केवलं लोपरूपस्य अजादेशस्य एव स्थानिवद्भावः निषेद्धुं शक्यः, अन्यस्वरूपस्य अजादेशस्य न — इति अस्य वार्त्तिकस्य आशयः । अतः प्रकृतस्थले आकारस्य स्थाने आदेशरूपेण विहितस्य अकारस्य विषये स्थानिवद्भावः अवश्यं सम्भवति, तस्य निषेधः **न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु** (1.1.58) इत्यनेन न क्रियते । स्थानिवद्भावे सिद्धे ह्रस्वस्वरस्य अभावात् अनिष्टः उदात्तस्वरः अपि न भवति ।]
→ बहुखट्वक
लोपरूपस्य अजादेशस्य **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यनेन प्राप्तः स्थानिवद्भावः तु प्रकृतसूत्रेण अवश्यं निषिध्यते । अस्य उदाहरणम् उपरि "चिकीर्षक" इत्यस्य प्रक्रियायां दत्तम् अस्ति ।
2. दीर्घविधौ लोपरूपस्य अजादेशस्य एव प्रकृतसूत्रेण स्थानिवद्भावनिषेधः उच्यते; अन्यरूपस्य अजादेशस्य न ।
दीर्घविधौ लोपभिन्नस्य अजादेशस्य **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यनेन प्राप्तः स्थानिवद्भावः प्रकृतसूत्रेण नैव निषिध्यते । अतएव "गिर्योः" इत्यत्र **हलि च** (8.2.77) इति इकारस्य दीर्घः न सम्भवति —
.. code-block:: text
गृ + इ + ओस् [व्युत्पत्तिपक्षे **कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च** (उणादिः ४.१४२) इति उणादिसूत्रेण गृ-धातोः इ-प्रत्यये कृते 'गिरि' इति शब्दः सिद्ध्यति । ततः **स्वौजस्..** (4.1.2) इति षष्ठीद्विवचनस्य ओस्-प्रत्ययः क्रियते]
→ गिरि + ओस् [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः, **उरण् रपरः** (1.1.51) इति सः रपरः]
→ गिर् + य् + ओस् [**इको यणचि** (6.1.77) इति यणादेशः । एतादृशे यणादेशे कृते धातोः अन्ते विद्यमानात् रेफात् पूर्वम् विद्यमास्य इकारस्य **हलि च** (8.2.77) इत्यनेन दीर्घादेशः सम्भवति । वस्तुतः अत्र **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यनेन अच्-वर्णः अवश्यं स्थानिवद् भवति; अतः हल्-परत्व-अभावात् अयं दीर्घादेशः निषेद्धुं शक्यः ; परन्तु **न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु** (1.1.58) इति प्रकृतसूत्रेण दीर्घविधौ स्थानिवद्भावस्य निषेधः उच्यते । एतादृशे निषेधे प्राप्ते स्थानिवद्भावस्य अभावात् अनिष्टः दीर्घादेशः प्राप्नोति । तस्य बाधनार्थम् इति वार्त्तिकं प्रयुज्यते । स्थानिवद्भावस्य प्राप्तः निषेधः केवलं स्वरलोपस्य विषये एव भवति (स्वरादेशस्य विषये न) इति अनेन वार्त्तिकेन स्पष्टी भवति । इकारस्य दीर्घादेशे कर्तव्ये स्थानिवद्भावस्य निषेधः न स्वीकर्तव्यः — इति अस्य आशयः । अतएव अत्र स्थानिवद्भावसामर्थ्यात् यकारस्य स्थाने इकारस्य ग्रहणं कृत्वा हल्परत्वाभावात् दीर्घः अपि न भवति ।]
→ गिर्योः [ **ससजुषो रुः** (8.2.66), **खरवसानयोर्विसर्जनीयः** (8.3.15)
लोपरूपस्य अजादेशस्य **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यनेन प्राप्तः स्थानिवद्भावः तु प्रकृतसूत्रेण अवश्यं निषिध्यते । अस्य उदाहरणम् उपरि "दीव्ना" इत्यस्य प्रक्रियायां दत्तम् अस्ति ।
3. यलोपविधौ लोपरूपस्य अजादेशस्य एव प्रकृतसूत्रेण स्थानिवद्भावनिषेधः उच्यते; अन्यरूपस्य अजादेशस्य न ।
यलोपविधौ लोपभिन्नस्य अजादेशस्य **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यनेन प्राप्तः स्थानिवद्भावः प्रकृतसूत्रेण नैव निषिध्यते । अतएव "वाय्वोः" इत्यत्र **लोपो व्योर्वलि** (6.1.66) इति यकारलोपः न सम्भवति —
.. code-block:: text
वायु + ओस् [**स्वौजस्..** (4.1.2) इत्यनेन षष्ठीद्विवचनस्य ओस्-प्रत्ययः]
→ वाय् व् + ओस् [**इको यणचि** (6.1.77) इति यणादेशः । अत्र उकारस्य स्थाने (अच्-वर्णस्य स्थाने) वकारादेशः कृतः अस्ति । अतः अयम् लोपभिन्नः अजादेशः अस्ति । अस्यां स्थितौ **लोपो व्योर्वलि** (6.1.66) इत्यनेन प्राप्तस्य यकारलोपस्य कृते अयम् **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यनेन स्थानिवद् भवति । तत्र **न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु** (1.1.58) इत्यनेन तस्य निषेधे प्राप्ते इति वार्त्तिकेन सः नियम्यते, अतः लोपभिन्नस्थलेषु स्थानिवद्भावनिषेधः न प्रवर्तते । अतः अत्र उकारस्य स्थानिवद्भावात्, तत्र वल्-वर्णस्य अभावे, **लोपो व्योर्वलि** (6.1.66) इति यकारलोपः नैव सम्भवति ।]
→ वाय्वोः [**ससजुषो रुः** (8.2.66), **खरवसानयोर्विसर्जनीयः** (8.3.15) ]
लोपरूपस्य अजादेशस्य **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यनेन प्राप्तः स्थानिवद्भावः तु प्रकृतसूत्रेण अवश्यं निषिध्यते । अस्य उदाहरणम् उपरि "कण्डूति" इत्यस्य प्रक्रियायां दत्तम् अस्ति ।
Sutrartha (English)
-------------------
An आदेश done in place of an अच् letter due to the परनिमित्त never acts like a स्थानी; even for the single-letter-कार्याणि done on an entity prior to the location of the स्थानी; in the context of - (1) पदान्तकार्य (2) द्वित्वकार्य (3) 'वरच्' प्रत्ययकार्य (4) यकारलोप (5) स्वरविधि (6) सवर्णकार्य (7) अनुस्वारविधि (8) दीर्घादेशकार्य (9) जश्त्वकार्य and (10) चर्त्वकार्य.
Vasu English Summary
--------------------
Not so, in rules relating to the finals of words, to the doubling of letters, to the affixing of वरच् , to the elision of य , to accent, to homogenous letters, to अनुस्वर , to the lengthening of vowels and to the substitution of जस् and चर् characters.
Vasu English Translation
------------------------
Not so, in rules relating to the finals of words, to the doubling of letters, to the affixing of वरच् , to the elision of य , to accent, to homogenous letters, to अनुस्वर , to the lengthening of vowels and to the substitution of जस् and चर् characters.
This *sutra* lays down an exception to the previous *sutra*, by which it was ruled that an *adesa* which replaced a vowel becomes *sthanivat* under certain conditions. This *sutra* says that a vowel *adesa* is not *sthanivat* under the following circumtances.
1. पदान्तविधिः-- 'A rule relating to the last letter of a word.' Thus the अ of अस् is elided before the terminations of dual and plural numbers (VI.4. III). Thus we have अस्ति 'he is,' स्तः 'they two are,' सन्ति 'they are.' Now in the technical phraseology of Sanskrit grammarians, the अ of स्तः and सन्ति is replaced by an *adesa* called लोप्, the peculiarity of which is that the whole of it vanishes. So that before the word स्तः there is this *adesa* existing, though it is in an invisible form. This invisible *adesa* will be *sthanivat*, as it replaces a vowel, by reason of something that follows, i. e. the affixes तः and अन्ति being ङित् (1.2.4); and it will have all the powers of अ by the last *sutra*, in the absence of any rule to the contrary. Therefore, in the sentence कौ स्तः 'who two are' the final औ of कौ and the invisible अ of स्तः ought to coalesce by rules of *sandhi* into आव (6.1.78). But this incongruity is prevented by the present *sutra*, by which the change of औ into आव् is a पदान्त विधि or a rule relating to the finals of a word, therefore, we have कौ स्तः । So also in तानि सन्ति, rule (6.1.77) is not applied.
2. द्विर्वचनविधिः 'a rule relating to the doubling of letters.' In the *sandhi* of दधि + अत्र we have दध्यत्र. Here इ is changed into य्. If this य् were *sthanivat* to इ, then the rule by which ध् could be doubled before य् would be inapplicable. But य् is not equivalent to इ, though its substitute; and we have the doubling of ध् and get the form दद्ध्यत्र. Therefore, in rules relating to the doubling of letters the *adesa* is not equivalent to the *sthani*.
3. वरेविधिः 'a rule relating to the affix वरच्.' The affix वरच् is a *krit* affix which is added to certain roots to form nouns of agency; thus from ईश् 'to rule' we have ईश्वरः 'ruler.' So from the intensive verb यायाय we have यायावरः 'a vagrant.' It is formed in this wise यायाय + वर (3.2.176) = यायाय् + ० + वर (6.4.48). Here the अ of य has been dropped and replaced by *lopa*, on account of its being followed by the *ardhadhatuka* affix वरच्. The next step is to drop the य् by rule (6.1.66) which declares that the letters व् and य् are dropped before affixes beginning with any consonant except i. e., beginning with consonants of वल् *pratyahara*. Thus याया + ० + वर. Now there is a rule (6.4.64) which declares that the final long आ of a base is dropped before *ardhadhatuka* affixes having an initial vowel. Here therefore, if the *adesa* '*lopa*,' which replaced the vowel अ, be considered as *sthanivat*, and be considered as an affix having a latent initial vowel, then the आ of याया requires to be dropped. But this *sutra* prevents this and we have the form यायावर; as, अप्सु यायावरः प्रवपेत पिण्डान् ॥
4. यलोपविधिः 'a rule relating to the dropping of *ya*.' Thus there is a verb कण्डूय 'to scratch'. In forming an abstract noun from it, the affix ति (tech. क्तिच्) is added. Thus कण्डूय + ति = कण्डूय् + ० + ति, the अ of य being dropped by (6.4.48). Now there is a rule (6.1.66) already mentioned above which requires the elision of य् before consonantal affixes. Now if the *lopa* substitute be considered as *sthanivat* to अ, then the affix ति is not an affix having an initial consonant and the rule, which requires the dropping of य्, would not apply. The present *sutra*, however, provides for this, and we have the form कण्डूतिः 'scratching.'
5. स्वरविधिः 'a rule relating to accent.' There is a *sutra* (6.1.193) which says that when a word is formed by an affix that has an indicatory ल्, the vowel that immediately precedes such an affix has the *udatta* accent. Now ण्वुल् is an affix that has an indicatory ल्, the real affix bein अक (VII.I.I.). It is an affix used in forming nouns of agency. Adding this affix to the desiderative verb चिकीर्ष 'desirous of doing' we have:-- चिकीर्ष + अक = चिकीर्ष् + ० + अक, the अ being dropped by (6.4.48). Now if the zero be considered as *sthanivat*, then the accent must fall on this latent अ but it is not so. The accent falls on the ई of की; and we have चि॒कीर्ष॑कः, so also जि॒हीर्ष॑कः ॥
6. सवर्णविधिः 'a rule relating to the substitution of homogeneous letters.' To explain this, let us form the second person singular of the verb शिष् in the imperative mood. The affix हि is the sign of the second person imperative singular; and the verb शिष् belongs to the seventh-class of verbs called *Rudhadi*. This class of verbs take the *vikarana* श्नम् (3.1.78) the श् and म् being indicatory the real affix is न. This न is inserted between the radical vowel and the final consonant (1.1.47). Therefore we have the following equation:- शिष् + श्नम् + हि = शि + न + ष् + हि = शि + न् + ० + ष् + हि. The अ of न is dropped by (VI.4. III), which declares that the अ of श्नम् is dropped before those *sarvadhatuka* terminations which are कित् or ङित्. By (1.2.4) all *sarvadhatuka* terminations which have not got an indicatory प् are considered as ङित्. The affix हि therefore is a ङित् *sarvadhatuka* affix, and by rule (3.4.87), हि is to be regarded as अपित्, not having an indicatory प्. The next stage is :-- शि + न् + ० + ष् + धि; the हि being changed into धि by rule (6.4.101) which says that 'हि is changed into धि, when it follows a root which ends in a consonant of झल् *pratyahara*:' here ष् and ध् are changed by general rules of *sandhi* into ड् and ढ् and we have शि + न् + ० + ड् + ढि (8.4.41). Then there is a rule (8.3.24), which says that in the body of a word the 'न् is changed into *anusvara* when followed by a consonant of झल् *pratyahara*.' Therefore we have :-- शि + ० + ० + ड् + ढि. This is the form to which the present rule is applicable. Thus, there is a rule (8.4.58) which says that an *anusvara* followed by a letter of यय् *pratyahara* i.e., any consonant except ह्, श् ष् and स् is changed into a letter homogeneous or *savarna* to the letter that follows. Therefore, if we regard zero as *sthanivat* to the अ which it replaces, the *anusvara* cannot be changed into ण् as homogeneous to ङ्. But it is not to be so regarded, and we have the form शि + ण् + ड् + ढि = शिण्ड्ढि or शिण्ढि; so also पिण्ढि.
7. अनुस्वारविधिः 'a rule relating to *anusvara*.' The above example will serve the purpose here:-- शि + न् + ० + ड् + ढि. This by the rule already mentioned (8.3.24), requires the न् to be changed into *anusvara*. Now if zero be considered as *sthanivat*, then न् is not followed by a letter of झल् *pratyahara* , and cannot be changed into *anusvara*. However, the zero is not regarded as *sthanivat*, and we change the न् into *anusvara*. Other examples are शि + न् + ० + ष् + अन्ति = शिंषन्ति; so also पिंषन्ति ॥
8. दीर्घविधिः 'a rule directing the substitution of long vowels for short vowels.' Let us form the Inst. sing. of the noun प्रतिदिवन्. The termination of the Inst. sing. is टा or आ. Therefore, we have प्रतिदिवन् + आ = प्रतिदिव् + ० + न् + आ. Here the अ has been elided by rule (6.4.134), which teaches that words ending in अन् lose their अ before terminations technically called *Bha*. The termination of Inst. sing. is a *Bha* termination by force of rule (1.4.18). The next rule that now comes into operation, is (8.2.77), which requires the lengthening of the short penultimate vowels, of the इक् *pratyahara*, of words that end in र् or व् and are followed by a consonant. Here दिव् is a root that ends in व्; and if the zero be considered as *sthanivat*, then this व् is not followed by a consonant, but by a latent vowel, and so the short इ of दिव् will not be lengthened. This rule, however, provides for such lengthening, and therefore we have :- प्रतिदिव् + ० + न् + आ = प्रतिदीव्ना ॥
9. जश्विधिः 'a rule requiring the substitution of soft unaspirate consonants, of *pratyahara* जश्, in the place of hard consonants' In this case also the *adesa* that takes the place of a vowel is not *sthanivat*.
Let us add the affix क्तिन् to the root अद् 'to eat,' compounded with the word स or समान. In Vedic literature अद् is replaced by घस्, (2.4.39); so we have, स + घस् + क्तिन् = स + घस् + ति = स + घ् + ० + स् + ति (6.4.100) = स + घ् + ० + ० + ति (8.2.26) = स + घ् + ० + ० + धि (8.2.40).
It is at this stage, that rule (8.4.53) requires the घ् to be changed into ग्. This is a जश् rule, and teaches that in the place of letters of झल् class, the letters of जश् class are substituted, if followed by letters of झश् class. If the zero which was obtained by dropping the अ of घ, be considered as *sthanivat*, then the घ् is not followed by a consonant of झश् class, and cannot be changed into ग्. But it is not so. Therefore सघ् + ० + ० + धि = सग्धिः (*Yaj*. *Ved*. XVIII.9). The various rules, by which first अ is omitted, and then स् is dropped, have been referred to in brackets, and will be explained in their proper places.
Similarly the word बब्धाम्, which is the Imperative (*lot*) 2nd per. dual of the root भस्, and is thus evolved. This root belongs to the *Juhutyadi* class, and therefore, there is reduplication. Thus भस् + ताम् = भस् + भस् + ताम् = भ + भस् + ताम् = ब + भस् + ताम् = ब + भ् + ० + स् + ताम् (6.4.100) = ब + भ्+ ० + ० + ताम् (8.2.26) = ब + भ् + ० + ० + धाम् (8.2.40) = ब + ब् + ० + ० + धाम् = बब्धाम् ॥ Here the change of भ् into ब् is by the application of (8.4.53), which is a *jas* rule, and therefore, the zero is not *sthanivat*.
10. चर्विधिः 'a rule requiring the substitution of the letters of चर् *pratyahara* instead of other consonants.' In the application of this rule, also the substitute that replaces a vowel is not *sthanivat*.
Let us form the 2nd pers. sing. perfect of the verb अद् 'to eat.' अद् is replaced by घस् (2.4.40) and अतुस् is the termination of the second person singular of *lit* or perfect tense. घस् + अतुस् = घस् + घस् + अतुस् (6.1.8) = घ + घस् + अतुस् (7.4.60) = ज + घस् + अतुस् (8.4.54) = ज + घ् + ० + स् + अतुस् (6.4.98) = जघ् + ० + सतुस्.
At this stage comes the चर् rule in operation, which says that the letters of झल् *pratyahara* are replaced by those of चर् *pratyahara*, when followed by letters of खर् *pratyahara*. Here घ् is a letter of झल् class, and if zero is not *sthanivat*, it is followed by स् which is a letter of खर् class, and therefore घ् is required to be changed into क् of चर् class. By the present rule, zero is not *sthanivat* and thus we have :- जक् + सतुस् = जक्षतुः (8.3.60).
Similarly अक्षन् the 3rd per. plural aorist of घस् is thus formed:- अ + घस् + च्लि + अन् = अ + घस् + अन् (2.4.80) = अ + घ् + ० + स् + अन् (6.4.98). Here had the *lopa* been *sthanivat*, rule (8.4.55) could not have applied. But it being a *char* rule, the *lopa* is not *sthanivat*. Therefore we have, अक्षन्.
When *lopa* is the substitute of a vowel, it is not *sthanivat*, for the purposes of the application of the rules of accent, rules relating to the doubling of letters, and the rules relating to the elision of *ya*. In other places, with the exception of the above three; the *lopa* substitute of a vowel is, and must be treated as *sthanivat*. Thus बहुखट्वकः, किर्योः, गिर्योः, वाय्वोः. In these cases the *lopa*-*adesa* being *sthanivat*, the rules relating to accent, lengthening and the elision of *ya*, do not apply.
Bhashya
-------
न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु पदान्तविधिं प्रति न स्थानिवदित्युच्यते। तत्र वेतस्वानिति रुः प्राप्नोति। नैष दोषः। भसञ्ज्ञाऽत्र बाधिका भविष्यति - तसौ मत्वर्थे इति। अकारान्तमेतद् भसञ्ञ्ज्ञां प्रति। पदसञ्ञ्ज्ञां प्रति तु सकारान्तम्। ननु चैवं विज्ञायते यः सम्प्रतिपदान्त इति। कर्मसाधनस्य विधिशब्दस्योपादाने एतदेवं स्यात्। अयं च विधिशब्दोऽस्त्येव कर्मसाधनः। विधीयते इति विधिरिति। अस्ति च - भावसाधनो विधानं- विधिरिति। तत्र भावसाधनस्य विधिशब्दस्योपादाने एष दोषो भवति। इदं च - ब्रह्यबन्ध्वा, ब्रह्यबन्ध्वै धकारस्य जश्त्वं प्राप्नोति। अस्ति पुनः किंचिद् भावसाधनस्य विधिशब्दस्योपादाने सतीष्टं संगृहीतम्। आहोस्विद् दोषान्तमेवेति। अस्तीत्याह। इह कानि सन्ति, यानि सन्ति, कौ स्तः, यौ स्तः इति। योऽसौ पदान्तो यकारो वकारो वा श्रूयेत, न स श्रूयते। षडिकश्चापि सिद्धो भवति। वाचिकस्तु न सिध्यति। अस्तु तर्हि कर्मसाधनः। यदि कर्मसाधनः, षडिको न सिध्यति। अस्तु तर्हि भावसाधनः। वाचिको न सिध्यति। वाचिकषडिकौ न संवदेते। कर्तव्योऽत्र यत्नः। कथं - ब्रह्यबन्ध्वा, ब्रह्यबन्ध्वै? उभयत आश्रयणे नान्तादिवत् इति। कथं वेतस्वान् ? नैवं विज्ञायते - पदस्यान्तः, पदान्तः। पदान्तस्य विधिः पदान्तविधिः। पदान्तविधिं प्रतीति। कथं तर्हि? पदे अन्तः पदान्तः। पदान्तस्य विधिः पदान्तविधिः। पदान्तविधिं प्रतीति। अथवा यथैवान्यान्यपि पदकार्याण्युपप्लवन्ते रुत्वं जश्त्वं च, एवमिदमपि पदकार्यमुपप्लोष्यते। किम्? भसञ्ज्ञा नाम। वरे यलोपविधिं प्रति न स्थानिवद्भवतीत्युच्यते तत्र ते अप्सु यायावरः प्रवपेत पिण्डान् इति। अवर्णलोपविधिं प्रति स्थानिवत् स्यात्। नैष दोषः। नैवं विज्ञायते - वरे यलोपविधिं प्रति न स्थानिवदिति। कथं तर्हि? वरे अयलोपविधिं प्रतीति। किमिदमयलोपविधिं प्रतीति? अवर्णलोपविधिं प्रति, यलोपविधिं च प्रतीति। अथवा योगविभागः करिष्यते। वरे लुप्तं न स्थानिवत् ततो यलोपविधिं प्रति न स्थानिवदिति। यलोपे किमुदाहरणम् ? कण्डूयतेरप्रत्ययः कण्डूः इति। नैतदस्ति। क्वौ लुप्तं न स्थानिवत्। इदं तर्हि प्रयोजनम्। सौरी बलाका। नैतदस्ति। उपधात्वविधिं प्रति न स्थानिवत्। इदं तर्हि प्रयोजनम्। आदित्यः। नैतदस्ति। पूर्वत्रासिद्धे न स्थानिवत्। इदं तर्हि प्रयोजनम्। कण्डूतिर्वल्गूतिः। नैतदस्ति प्रयोजनम्। कण्डूया , वल्गूया इति भवितव्यम्। इदं तर्हि- कण्डूयतेः क्तिच्। ब्राह्मणकण्डूतिः। क्षत्रियकण्डूतिः । ॥ प्रतिषेधे स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवत् ॥ प्रतिषेधे स्वरदीर्घयलोपविधिषु लोपाजादेशो न स्थानिवदिति वक्तव्यम्। स्वर- आकर्षिकः। चिकीर्षकः। यो ह्यन्य आदेशः स्थानिवदेवासौ भवति - पञ्ञ्चारत्न्यो, दशारत्न्यः। स्वर। दीर्घ- प्रतिदीव्ना। प्रतिदीव्ने। यो ह्यन्य आदेशः स्थानिवदेवासौ भवति। किर्योः गिर्योः। दीर्घ। यलोप- ब्राह्मणकण्डूतिः क्षत्रियकण्डूतिः। यो ह्यन्य आदेशः स्थानिवद्वासौ भवति। वाय्वोः अर्ध्वय्वोरिति । तत्तर्हि वक्तव्यम्। न वक्तव्यम्। इह हि लोपोपि प्रकृतः। आदेशोपि। विधिग्रहणमपि प्रकृतमनुवर्तते। दीर्घादयोपि निर्दिश्यन्ते। केवलं तत्राभिसम्बन्धमात्रं कर्तव्यम्। स्वरदीर्घयलोपविधिषु लोपाजादेशो न स्थानिवदिति। आनुपूर्व्येण सन्निविष्टानां यथेष्टमभिसम्बन्धः शक्यते कर्तुम्। न चैतान्यानुपूर्व्येण संनिविष्टानि। अनानुपूर्व्येंणापि संनिविष्टानां यथेष्टमभिसम्बन्धो भवति। तद्यथा अनड्वाहमुदहारि या त्वं हरसि शिरसा कुम्भं, भगिनि साचीनमभिधावन्तमद्राक्षीः इति। तस्य यथेष्टमतिसम्बन्धो भवति - उदहारि भगिनि या त्वं कुम्भं हरसि शिरसा, अनड्वाहं साचीनमभिधावन्तमद्राक्षीः इति। क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषूपसङ्ख्यानम्। ॥ क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषूपसङ्ख्यानं कर्तव्यम्। ॥ क्वौ किमुदाहरणम् ? कण्डूयतेरप्रत्ययः कण्डूरिति। नैतदस्ति। यलोपविधिं प्रति न स्थानिवत्। इदं तर्हि पिपठिषतेरप्रत्ययः पिपठीः। नैतदस्ति। दीर्घविधिं प्रति न स्थानिवत्। इदं तर्हि - लावयते र्लौः। पावयतेः पौः। नैतदस्ति। अकृत्वा वृद्ध्यावादेशौ णिलोपः। प्रत्ययलक्षणेन वृद्धिर्भविष्यति। इदं तर्हि लवमाचष्टे लवयति। लवयतेरप्रत्यये लौः। स्थानिवद्भावाद् णेरूठ् न प्राप्नोति। क्वौ लुप्तं न स्थानिवदिति भवति। एवमपि न सिध्यति। कथम्? कण्डूतिः क्वौ णिलोपो णावकारलोपः। तस्य स्थानिवद्भावादूठ् न प्राप्नोति। नैष दोषः। नैवं विज्ञायते - क्वौ लुप्तं न स्थानिवदिति। कथं तर्हि ? क्वौ विधिं प्रति न स्थानिवदिति। लुकि किमुदाहरणम् ? बिम्बम्। बदरम्। नैतदस्ति। पुंवद्भावेनाप्येतत् सिद्धम्। इदं तर्हि आमलकम्। नैतदस्ति। वक्ष्यत्येतत् फले लुग्वचनार्थक्यं प्रकृत्यन्तरत्वादि। इदं तर्हि पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः दशपटुरिति। ननु चैतद् पुंवद्भावेनैव सिद्धम्। कथं पुंवद्भावः ? भस्याढे तद्धिते पुंवद् भवतीति। भस्येत्युच्यते। यजादौ च भसञ्ज्ञा भवति। न चात्र यजादिं पश्यामः। प्रत्ययलक्षणेन यजादिः। वर्णाश्रये नास्ति प्रत्ययलक्षणम्। एवं तर्हि ठक् छसोश्च इत्येवं भविष्यति। ठक्छसोश्चेत्युच्यते। न चात्र ठक्छसौ पश्यामः। प्रत्ययलक्षणेन। न लुमता तस्मिन्नितिप्रत्ययलक्षणस्य प्रतिषेधः। न खल्वप्यवश्यं ठगेव क्रीतप्रत्ययः। क्रीताद्यर्थो एव वा तद्धिताः। किं तर्हि, अन्येपि तद्धिता ये लुकं प्रयोजयन्ति। पञ्ञ्चेन्द्राण्यो देवता अस्येति पञ्ञ्चेन्द्रः। दशेन्द्रः। पञ्ञ्चाग्निः। दशाग्निः। उपधात्वे किमुदाहरणम् ? पिपठिषतेरप्रत्ययः पिपठीरिति। नैतदस्ति। दीर्घविधिं प्रति न स्थानिवत्। इदं तर्हि सौरी बलाका। नैतदस्ति। यलोपविधिं प्रति न स्थानिवत्। इदं तर्हि पारिखीयः। चङ्परनिर्ह्रासे चोपसङ्ख्यानं कर्तव्यम्। वादिवतन्तं प्रयोजितवान्। अवीवदत् वीणां परिवादकेन। किं पुनः कारणं न सिध्यति ? योऽसौ णौ णिर्लुप्यते तस्य स्थानिवद्भावाद् ह्रस्वत्वं न प्राप्नोति। ननु चैतदप्युपधात्वविधिं प्रति न स्थानिवदित्येव सिद्धम्। विशेषत एव तद् वक्तव्यम्। क्व ? प्रत्ययविधौ इति। इह मा भूत्। पटयति लघयति। कुत्वे चोपसङ्ख्यानं कर्तव्यम्। अर्चयतेरर्कः। मर्चयतेर्मकः। नैतद् घञ्ञन्तम्। औणादिक एष कप्रत्ययः। तस्मिन् आष्टमिकं कुत्वम्। एतदपि णिचा व्यवहितत्वान्न प्राप्नोति। ॥ पूर्वत्रासिद्धे च ॥ पूर्वत्रासिद्धे च न स्थानिवदिति वक्तव्यम् । किं प्रयोजनम् ? ॥ प्रयोजनं क्सलोपः सलोपे। ॥ क्सलोपः सलोपे प्रयोजनम्। अदुग्ध, अदुग्धाः। लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये इति लुग्ग्रहणं न कर्तव्यं भवति। ॥ दध आकारलोप आदिचतुर्थत्वे प्रयोजनम् ॥ धत्से, धद्ध्वे, धद्ध्वम्। दधस्तथोश्चेति चकारो न कर्तव्यो भवति। ॥ हलो यमां यमि लोपे ॥ हलो यमां यमि लोपे प्रयोजनम्। आदित्यः। हलो यमां यमि लोपः सिद्धो भवति। ॥ अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु ॥ ॥ प्रयोजनम्। पापच्यतेः, पापक्तिः। यायज्यते - यायष्टिः। पाचयतेः, पाक्तिः। याजयते, याष्टिः। द्विर्वचनादीनि च। ॥ द्विर्वचनादीनि च न पठितव्यानि भवन्ति। पूर्वत्रासिद्धेनैव सिद्धानि भवन्ति। किमविशेषेण ? नेत्याह। वरे यलोपस्वरवर्जम्। ॥ वरे यलोपं स्वरं च वर्जयित्वा ॥ ॥ तस्य दोषः संयोगादिलोपलत्वणत्वेषु। ॥ तस्यैतस्य लक्षणस्य दोषः संयोगादिलोपलत्वणत्वेषु। संयोगादिलोप - काक्यर्थम्,वास्यर्थम्। स्कोः संयोगाद्योरन्ते चेति लोपः प्राप्नोति। लत्व-निगार्यते,निगाल्यते। अचि विभाषा इति लत्वं न प्राप्नोति। णत्व - माषवपनी-व्रीहिवपनी। प्रातिपदिकान्तस्य इति णत्वं प्राप्नोति। न पदान्तद्विर्वचन ॥58 ॥
Kashika
-------
पूर्वेणातिप्रसक्तः स्थानिवद्भाव एतेषु विधिषु प्रतिषिध्यते। पदान्तविधिं प्रत्यजादेशो न स्थानिवद् भवति। कौ स्तः। यौ स्तः। तानि सन्ति। यानि सन्ति। **श्नसोरल्लोपः** (६.४.१११) क्ङिति सार्वधातुक इति परनिमित्तकः, स पूर्वविधावावादेशे यणादेशे च कर्तव्ये स्थानिवत् स्यात्, अस्माद् वचनाद् न भवति। द्विर्वचनविधिं प्रति [अजादेशः] न स्थानिवद् भवति। दद्ध्यत्र। मद्ध्वत्र। यणादेशः परनिमित्तकः, तस्य स्थानिवद्भावाद् **अनचि च** (८.४.४७) इति धकारस्य द्विर्वचनं न स्यादस्माद् वचनाद् भवति । वरे योऽजादेशः स पूर्वविधिं प्रति न स्थानिवद् भवति। अप्सु यायावरः प्रवपेत पिण्डान्। यातेर्यङन्ताद् **यश्च यङः** (३.२.१७६) इति वरचि कृते **अतो लोपः** (६.४.४८) परनिमित्तकः, तस्य स्थानिवत्त्वाद् **आतो लोप इटि च** (६.४.६४) इत्याकारलोपः स्याद्, अस्माद् वचनाद् न भवति। यलोप — यलोपविधिं प्रत्यजादेशो न स्थानिवद् भवति। कण्डूतिः। कण्डूयतेः क्तिचि कृते **अतो लोपः** (६.४.४८) परनिमित्तको **लोपो व्योर्वलि** (६.१.६६) इति यलोपे स्थानिवत् स्याद्, अस्माद् वचनाद् न भवति। स्वर — स्वरविधिं प्रत्यजादेशो न स्थानिवद् भवति। चि॒कीर्ष॑कः। जि॒हीष॑कः । ण्वुलि कृते **अतो लोपः** (६.४.४८) परनिमित्तको **लिति** (६.१.१९३) प्रत्ययात् पूर्वमुदात्तमिति स्वरे कर्तव्ये न स्थानिवद् भवतीति। सवर्ण — सवर्णविधिं प्रत्यजादेशो न स्थानिवद् भवति। शिण्ढि। पिण्ढि। शिषेः पिषेश्च लोण्मध्यमपुरुषैकवचने **रुधादिभ्यः श्नम्** (३.१.७८) हित्वधित्वष्टुत्वजश्त्वेषु कृतेषु **श्नसोरल्लोपः** (६.४.१११) क्ङिति सार्वधातुके परनिमित्तकः, अनुस्वारस्य ययि परसवर्णे (८.४.५८) कर्तव्ये न स्थानिवद् भवति। अनुस्वार — अनुस्वारविधिं प्रत्यजादेशो न स्थानिवद् भवति। शिंषन्ति। पिंषन्ति। **नश्चापदान्तस्य झलि** (८.३.२४) इत्यनुस्वारे कर्तव्ये **श्नसोरल्लोपः** (६.४.१११) न स्थानिवद् भवति। दीर्घ — दीर्घविधिं प्रत्यजादेशो न स्थानिवद् भवति। प्रतिदीव्ना। प्रतिदीव्ने। प्रतिदिवन्नित्येतस्य **भस्य** (६.४.१२९) इत्यधिकृत्य तृतीयैकवचने चतुर्थ्येकवचने च **अल्लोपोऽनः** (६.४.१३४) इत्यकारलोपः परनिमित्तकः, तस्य स्थानिवद्भावाद् **हलि च** (८.२.७७) इति दीर्घत्वं न स्यात्, न ह्ययं वकारो हल्पर इति, अस्माद् वचनाद् भवति। जश् — जश्विधिं प्रत्यजादेशो न स्थानिवद् भवति। सग्धि॑श्च मे॒ सपी॑तिश्च मे (मा०सं० १८.९)। ब॒ब्धां ते॒ हरी॑ धा॒नाः (नि० ५.१२)। अदेः क्तिनि **बहुलं छन्दसि** (२.४.३९) इति घस्लादेशः,**घसिभसोर्हलि च** (६.४.१००) इत्युपधालोपः,**झलो झलि** (८.२.२६) इति सकारलोपः,**झषस्तथोर्धोऽधः** (८.२.४०) इति धत्वम्, उपधालोपस्य स्थानिवत्त्वात् **झलां जश् झशि** (८.४.५३) इति घकारस्य जश्त्वं न स्याद्, अस्माद् वचनाद् भवति। समाना ग्धिः, समानस्य सभावः। सग्धिः। बब्धामिति। भसेर्लोड्द्विवचने शपः श्लुः, द्विर्वचनम्, अभ्यासकार्यम्, **घसिभसोर्हलि च** (६.४.१००)इत्युपधालोपः,**झलो झलि**(८.२.२६)इति सकारलोपः, **झषस्तथोर्धोऽधः**(८.२.४०)इति धत्वम्। उपधालोपस्य स्थानिवत्त्वात् **झलां जश् झशि** (८.४.५३) इति भकारस्य जश्त्वं न स्याद्, अस्माद् वचनाद् भवति। चर् — चर्विधिं प्रत्यजादेशो न स्थानिवद् भवति। जक्षतुः। जक्षुः। अक्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरः॑ (मा०सं० १९.३६)। लिड्द्विवचनबहुवचनयोरदेर्घस्लादेशः, **गमहनजनखनघसाम्०** (६.४.९८) इत्युपधालोपः, द्विर्वचनम्, अभ्यासकार्यम्। तत्रोपधालोपस्य स्थानिवत्त्वात् **खरि च** (८.४.५५) इति घकारस्य चर्त्वं न स्याद्, अस्माद् वचनाद् भवति। **शासिवसिघसीनां च** (८.३.६०) इति षत्वम्। अक्षन्नित्यदेर्लुङ्बहुवचने घस्लादेशः, च्लेरागतस्य **मन्त्रे घसह्वर०** (२.४.८०) इति लुक्। **गमहनजनखनघसाम्०** (६.४.९८) इत्युपधालोपः, तस्य स्थानिवत्त्वात् **खरि च** (८.४.५५) इति चर्त्वं न स्याद्, अस्माद् वचनाद् भवति॥ स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद् भवति॥ अन्यस्तु स्थानिवदेव। तेन ब॒हु॒ख॒ट्वकः॑, किर्योः, गिर्योः, वाय्वोरिति स्थानिवत्त्वात् स्वरदीर्घयलोपा न भवन्ति॥
Siddhanta Kaumudi
-----------------
पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न स्थानिवत् । इति स्थानिवद्भावनिषेधः ॥
Laghu Shabdendushekhar
----------------------
**न पदान्त** । अत्र द्विर्वचनसवर्णादिग्रहणं वतिघटितान्यातिदेशानां त्रिपाद्यामपि प्रवृत्तिबोधनार्थम् । तेन "रामः" इत्यादौ विसर्गादिसिद्धिः । अत्र विधिशब्दो भावसाधनः । पदान्तेत्यत्रान्तशब्दश्चरमावयववाची । कर्मषष्ठ्या समासः । तेन "एषो यन् हसति" इत्यादौ **एतत्तदोः सुलोपोऽकोरनञ्समासे हलि** (६.१.१३२) इति सुलोपो न । इणः शतरि "यन्" इति रूपम् । तत्र यणः स्थानिवत्त्वात् । उत्वे च न स्थानिवत् । अनेन निषेधात् । स्पष्टञ्चेदं भाष्ये इति भाष्यप्रदीपोद्द्योते निरूपितम् । अत्र पदेऽन्त इति सप्तमीसमासो भाष्ये उक्तस्तेन प्रत्यासत्त्या पदे परतः चरमावयवे कार्ये कर्त्तव्ये परपदस्थाजादेशास्यैवानेन स्थानिवत्त्वनिषेध इति "वेतस्वान्" इत्यादौ न दोषः । न चैवमपि "पूर्वत्रासिद्धीये न स्थानिवत्" इति निषेधोऽत्र दुर्वारः । "पदेऽन्त" इत्यर्थेन तत्र स्थानिवत्त्वनिषेधव्यावृत्तिपरभाष्यप्रामाण्येन पूर्वत्रासिद्धे इत्यत्र पदचरमावयवविधायकातिरिक्तस्यैव त्रैपादिकस्य ग्रहणात् । अत एव "महिष्मान्" इत्यत्र जश्त्वं न । सूत्रे जश्पदेन **झलां जश् झशि** (८.४.५३) इत्य स्यैव ग्रहणं, चर्सन्निहितस्यैव ग्रहणौचित्यात् । **कार्यकालपक्षेऽपि त्रिपाद्यामन्तरङ्गपरिभाषा न प्रवर्त्तत** इति वक्ष्यते इति न तयाऽस्य सिद्धिः । "गोचा" इत्यादौ "गतिकारकोपपदानाम्" (** गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः ** (PB76)) इत्यस्यानित्यत्वेन सुबुत्पत्त्यनन्तरमेव समासः । "उत्तरपदत्वे च" ( (वा० (१.१.६३))) इति प्रत्ययलक्षणप्रतिषेधश्च प्रत्यासत्त्योत्तरपदस्य कार्यित्वे एवेति न दोषः । पदे इति पदत्वयोग्योपलक्षणं वा । अत्रेदं भाष्यमपि मानम् । अत्र पदचरमावयवादिसाधकः प्रतिबन्धकश्च स्थानिवद्भावो निषिद्ध्यते, विनिगमनाविरहात् । एतत्सूत्रभाष्य **कमेर्णिङ्** (३.१.३०) इत्यादिसूत्रभाष्यैः **पूर्वत्रासिद्धे न स्थानिवत्** इत्यवष्टभ्य वरेयलोपस्वरदीर्घग्रहणवर्जं द्विर्वचनादि प्रत्याख्यातमिति लभ्यते । **निषेध इति** । द्विर्वचनग्रहणात "पूर्वत्रासिद्धे" इति निषेधाद्वेति भावः ॥
Balamanorama
------------
**न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घ- जश्चर्विधिषु** - न पदान्तद्विर्वचन । स्थानिवदादेश॑ इतिअचः परस्मि॑न्निति चानुवर्तते । परनिमित्तकोऽजादेशो न स्थानिवदित्यन्वयः । पदान्तश्च द्विर्वचनं च वरे च यलोपश्च स्वरश्च सवर्णश्च अनुस्वारश्च दीर्घश्च जश्च चर्चेति द्वन्द्वः । तेषां विधयः=विधानानि । कर्मणि षष्ठआ समासः । ततश्च पदान्तादिषु विधेयेषु इति लभ्यते । वर इत्यनेन वरे योऽजादेशः स विवक्षितः । आर्षो द्वन्द्वः । सप्तम्या अलुक्च । विधिशब्दः प्रत्येकमन्वेति — पदान्तविधौ द्विर्वचनविधावित्यादि । पदस्यान्तः=चरमावयवः । पदान्तस्य विधाने=पदान्तकर्मके विधाने । पदस्य चरमावयवे कार्ये द्विर्वचनादौ च कार्ये इति यावत् । तदाह — पदस्य चरमेत्यादिना । पदान्तस्य स्थाने विधाविति तु न व्याख्यातम् , तथा सति एषो यन् हसतीत्यसिद्धेः । तथाहि — एषः यन् इति छेदः । इण्धातोर्लटः शतरि शपि लुकि इकारस्य इणो यणिति यण् । अत्र एतत्तदोरिति सुलोपो न भवति, तस्य हलि परतो विधानात्, इह च तस्मिन् कर्तव्ये इकारस्थानिकस्य यकारस्य स्थानिवद्भावेनाऽच्त्वात् । नच न पदान्तेति निषेधः शङ्ख्यः, यो विधीयमानः पदस्य चरमावयवः संपद्यते तत्रैव तन्निषेधात्, इह च विधेयस्य सुलोपस्य पदानवयवत्वात् ।पदान्तस्य स्थाने विधा॑विति व्याख्याने तु इह यकारस्य स्थानिवद्भावो न सिध्येत्, लोपस्य पदान्तसकारस्य स्थाने विधानात् । अत्र हशि चेत्युत्वे तु कर्तव्ये यकारो न स्थानिवद्भवति, उकारस्य विधीयमानस्य पदचरमावयवत्वात् । एवं च पदान्तविधावित्यस्य एषो यनित्येतदुत्वविषये उदाहरणम् । सुलोपविषये तु प्रत्युदाहरणमिति भाष्ये स्पष्टम् । बाष्यप्रदीपोद्द्योते स्पश्टतरमेतत् । पदान्तविधौ कानि सन्तीत्याद्युदाहरणमनुपदमेव मूले स्पष्टीभविष्यति । द्विर्वचने सुध् य् इतयुदाहरणम् । नचेह द्वित्वे कर्तव्ये यकारस्य स्थानिवद्भावविरहेऽपि तन्निषेधे स्थानिवद्भावः स्यादेवेति वाच्यम्, अनचि चेति द्वित्वस्याऽनैमित्तिकतयातद्विषये यकारस्थानिवद्भावस्यानपेक्षितत्वेन तत्र तन्निषेधस्य वैयथ्र्यापत्त्या द्विर्वचनशब्देनात्र अचि नेति द्वित्वनिषेधस्यैव विवक्षितत्वादिति भावः । वरे यथा — यायावरः । 'यश्च यङ' इति याधातोर्यङन्ताद्वरच् ।सन्यङो॑रिति द्वित्वम् । यायाय वर इति स्थि अतो लोप इति यङोऽकारस्य लोपः ।लोपो व्यो॑रिति यकारलोपः । अत्र अजाद्यार्धधातुकमाश्रित्य 'अतो लोप इटि च' इत्याकारलोपे कर्तव्ये अल्लोपो न स्थानिवत् । यलोपे यता — यातिः । याध#आतोर्यङि द्वित्वं । क्तिच् । यायाय तीति स्थिते-अतो लोपः ।लोपो व्यो॑रिति यलोपः । अल्लोपस्य स्थानिवत्त्वादातो लोपः । लोपो व्योरिति यलोपः । यातिरिति रूपम् । अत्र अल्लोपो यलोपे कर्तव्ये न स्थानिवत् । न च वाय्वोरित्यत्रापि लोपो व्योरिति यलोपे कर्तव्ये उकारादेशस्य वकारस्य स्थानिवत्त्वनिषेधः स्यादिति वाच्यं, स्वरदीर्घयलोपेषु लोप एवाजादेशो न स्थानिवदिति वार्तिके परिगणनात्, इह च वकारस्य लोपरूपत्वाऽभावात् । स्वरविधौ यथा — चिकीर्षकः । चिकीर्ष इति सन्नन्तात् ण्वुल् । अकादेशः । सनोऽकारस्य अतो लोपः । अत्र ईकारस्य वितीत्युदात्तत्वे कर्तव्ये अल्लोपो न स्थानिवत् । यद्यपि ईकारोऽल्लोपस्थानीभूतादकारान्नाव्यवहितपूर्व इति स्थानिवद्भावस्य प्राप्तिरिह नास्ति, तथाप्यस्मादेव ज्ञापकात् पूर्वसूत्रे पूर्वत्वं व्यवहिताव्यवहितसाधारणम् । तत्प्रयोजनं तु पूर्वसूत्र एवोक्तम् ।सवर्णविधो यथा — शिण्ड्ढि । शिष् इति धातो रौधादिकाल्लोण्मध्यमपुरुषैकवचनम् । सिप् श्नम् । शिनष् सि । हित्वम् । धित्वम् । ष्टुत्वम् । षस्य जश्त्वं डकारः । शिनड्ढि । श्नसोरल्लोपः । नश्चापदान्तस्येत्यनुस्वारः । अनुस्वारस्य ययीति तस्य परसवर्णो णकारः । शिण्ड्ढि इति रूपम् । अत्र परसवर्णे कर्तव्ये अल्लोपो न स्थानिवत् । वस्तुतस्तु सवर्णविधौ नेदमुदाहरणम् । श्नमकारस्य लोपोऽत्र अजादेशः । तत्स्थानीभूतः श्नमकार एव । तस्मिन् सति नकारस्यानुस्वारप्रसक्तिरेव नास्ति । तथा चानुस्वारस्य स्थानीबूतादचः पूर्वत्वेन कदाप्यदृष्टत्वात्तस्य परसवर्णे कर्तव्ये अचः परस्मिन्नित्यलोपस्य स्थानिवत्त्वं न प्रसक्तमिति किं तत्प्रतिषेधेन । यत्तु तत्वबोधिन्याम — अनुस्वारस्य स्थानिभूतो नकारः श्नमकारात् पूर्वत्वेन दृष्ट इति तत्स्थानिकानुस्वारस्यापि तत्पूर्वत्वेन दृष्टत्वं, स्थानिद्वारापि पूर्वत्वाभ्युपगमादित्युक्तम् । एवं सति तितौमाचष्टे तितापयतीत्यत्र पुगागमो न स्यात् । 'तत्करोति तदाचष्टे' इति णिच् । इष्ठवद्भावादुकारस्य टेरिति लोपः । अचो ञ्णितीति तकारादकारस्य वृद्धिराकारः । पुगागमः । तितापीत्यस्मात् लट् तिप् शप् । गुणः । अयादेश#ः । तितापयतीति रूपम् । अत्र अचो ञ्णितीति वृद्ध्या लब्धस्य आकारस्य पुगागमे कर्तव्ये उकारलोपस्य स्थानिवद्भावे सति उकारेण व्यवधाने णिपरकत्वाऽबावात्पुगागमो न स्यात् । आकारस्य लोपस्थानिभूतादुकारात्पूर्वत्वस्य स्वतोऽभावेऽपि स्थानिद्वारा सत्त्वादिति सिद्धान्तरत्नाकरे दूषितम् । प्रौढमनोरमाव्याख्याने तु शब्दरत्ने पादमाचष्टे पादयति, ततः क्विप् पात् हसतीत्यादौ 'झयो हः' इति पूर्वसवर्णे कर्तव्ये पूर्वस्मात्परस्य विधिरिति पञ्चमीसमासप्राप्तस्थानिवद्भावनिषेधार्थमिह सूत्रे सवर्णग्रहणिति प्रपञ्चितम् । अनुस्वारविधौ यथा — शिंषन्ति । शिष्धातोर्लटि झिः । झोऽन्तः । श्नसोरल्लोपः । नस्चापदान्तस्येत्यनुस्वारः । शिंषन्ति । इह तु न परसवर्णः, षकारस्य यय्त्वाभावात् । अत्र अनुस्वारे कर्तव्ये अल्लोपो न स्थानिवत् । अत्र दीर्घविधौ यथा-प्रतिदीव्ना । हलि चेति दकारादिकारस्य दीर्घे कर्तव्ये अल्लोपो न स्थानिवत् । जइआधौ यथा — ॒सग्धिश्च मे॑ । अद भक्षणे क्तिन् । बहुलं छन्दसीति घस्लादेशः । 'घसिभसोर्हलि च' इत्युपधालोपः ।झलो झली॑ति सलोपः । झषस्तथोरिति तकारस्य धत्वम् । 'झलाञ्जश् झशि' इति जश्त्वेन घकारस्य गकारः । समाना ग्धिः=अदनं-सग्धिः । समानस्य छन्दसीति संभावः । अत्र जश्त्वे कर्तव्ये उपधालोपो न स्थानिवत् । चर्विधौ यथा — जक्षतुः । घसेर्लिटि अतुस् । द्वित्वम् । 'हलादिश्शेषः'अभ्यासे चर्चे॑ति जश्त्वम् । 'कुहोश्चुः' इति जकारः ।गमहने॑त्युपधालोपः । 'खरि च' इति चर्त्वं ककारः ।शासिवसी॑ति षः । अत्र चर्त्वे कार्ये उपधालोपो न स्थानिवत् । भाष्ये तुपूर्वत्रासिद्धे न श्थानिव॑दित्यवष्टभ्य द्विर्वचनसवर्णानुसारदीर्घजश्चरः प्रत्याख्याताः । किञ्चदीर्घा दाचार्याणा॑मित्युत्तरम् — ॒अनुस्वारस्य ययि परसवर्णः॑ 'वा पदान्तस्य' 'खरि च' 'वावसाने'अणोऽप्रगृह्रस्यानुनासिकः॑ इति पञ्चसूत्रीपाठ इति 'हलो यमां यमि' इति सूत्रस्थबाष्यसंमतः सूत्रक्रमः ।एवं चशिण्ड्ढी॑त्यत्र न परसवर्णप्रसक्तिः । परसवर्णे कर्तव्ये षकारस्थानिकस्य जश्त्वस्यासिद्धत्वेन यय्परकत्वाऽभावादिति सर्वथापि सवर्णविधौ शिण्ड्ढीति नोदाहसरणमित्यास्तां तावत् । इति स्थानीति । अनेन सूत्रेण सुध् य् इत्यत्र द्वित्वनिषेधे कर्तव्ये यकारस्य स्थानिवत्त्वनिषेध इत्यर्थः । एवं चाच्परकत्वाभावेन अनचि चेति निषेधाभावाद्धकारस्य द्वित्वं निर्बाधमिति भावः । तथाच सुध् ध् यिति स्थितम् ।
Tattvabodhini
-------------
**न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घ- जश्चर्विधिषु** - न पदान्त । पदान्तादीनां चरन्तानां द्वन्द्वः, ततोविधि॑ शब्देन कर्मषष्ठन्तस्य समासः । विधिशब्दश्च भावसाधनो-विधानं विधिरिति । स च द्वन्द्वान्ते श्रूयमाणत्वांत्प्रत्येकं संबध्यते । पदस्य चरमावयव इति । वृक्षं वेतीति वृक्षवीः, वृक्षं वातीति वृक्षवाः । तमाचष्टे वृक्षवयति । ततो विच् । वृक्षव् । इहलोपो व्योर्वली॑ति वलोपो न, टिलोपस्य णिलोपस्य वा स्थानिवत्त्वात् । न चसुबन्ताण्णि॑जिति हरदत्तादिमते अन्तर्वर्तिसुपा पदत्वात्न पदान्ते॑ति निषेधः शङ्क्यः, विधेयस्य लोपस्य पदानवयवत्वात् ।पदान्तस्य स्थाने विधौ ने॑ति व्याख्याने तुन पदान्ते॑ति स्थानिवत्त्वनिषेधाद्वलोपः स्यादेवेत्यादि मनोरमायां स्थितम् । द्विर्वचनादौ चेति । यलोपादय आदिशब्दार्थः ।वरे॑ इति तु वरे योऽजादेशः स न स्थानिवदिति व्याख्येयम् । सहविवक्षाभावेऽपि निपातनाद्द्वन्द्वः सप्तम्यलुक्व ।अथोदाहरणानि-पदान्ते-कानि सन्ति, कौ स्तः । इह यणावादेशयोः कर्तव्ययोः श्नसोरल्लोपो न स्थानिवत् । न चेकारौकारयोः स्थानिभूतादचः पूर्वत्वविरहादेवाऽल्लोपो न स्थानिवदिति वाच्यम्,वाक्यादपोद्धृत्य पदानि संस्किल्लोपो न स्थानिवदिति उदाहार्यम् । अत्र हि वोपस्थान्यकारात्पूर्वत्वेन दृष्टत्वादोकारस्य । द्विर्वचने-सुद्धयुपास्यः ।नाजानन्तर्ये॑ इति निषेधाद्बहिरङ्गपरिभाषाऽत्र न प्रवर्तते, स्थानिवद्भावनिषेधसामर्थ्याच्च । एवं क्वचिदन्यत्राप्यूह्रम् । वरे-यायावरः । यातेर्यङन्ताद्यश्च यङ इति वरच् ।अतो लोपः॑ । स चआतो लोप इटि चे॑त्यालोपे कर्तव्ये न स्थानिवत् । यलोपे-यातिः । यातेर्यङन्तात् क्तिच् । अतो लोपः । यलोपः । अल्लोपस्य स्थानिवत्त्वादातो लोपः । यलोपः । न च पुनरालोपः शङ्कयः । चिणो लुङ्न्यायेन आलोपस्यासिद्धत्वात्स्थानिवद्भावाच्च । ननु यदि यलोपविधिं प्रति स्थानिवत्त्वनिषेधस्तर्हि कथं-वाय्वोरिति । उच्यते-॒असिद्धं बहिरङ्ग॑मिति यणोऽसिद्धत्वान्न यलोपः । न चनाजानन्तर्ये॑ इति निषेधः, अन्तरङ्गकार्ये अच आनन्तर्यं यत्र तत्रैव तदभ्युपगमात् । किं चात्रस्वरदिर्घयलोपेषु लोपाजादेश एव न स्थानिव॑दिति वार्तिकमस्ति । तेनाऽन्यः स्तानिवदेव भवतीति न दोषः । स्वरे-चिकीर्षकः । ईकारस्यलिती॑त्युदात्तत्वे कर्तव्ये सनोऽतो लोपो न स्थानिवत् । न चलिती॑त्यारम्भसामर्थ्य,कारक॑ इत्यादौ सावकाशत्वात् । सवर्णानुस्वारयोः-शिण्ड्ढि । श्नसोरल्लोपो न स्थानिवत् । यद्यप्यनुस्वारो न स्थानिभूतादचः पूर्व इति तस्य परसवर्णे कर्तव्येऽल्लोपस्य स्थानिवत्त्वप्रसङ्ग एव नास्ति, तथापि स्थानिवद्वारानुस्वारोऽपि दृष्ट इत्यस्त्येव तत्प्रसङ्ग इत्याहुः । ननु सवर्णग्रहणमात्रेणानुस्वारोऽप्याक्षेप्तुं शक्यत इति किमनेन पृथगनुस्वारग्रहणेन । सत्यम् । पृथग्ग्रहणाभावे यत्र परसवर्णस्तत्रैवेति संभाव्येत । तथा च यत्र न परसवर्णप्रसङ्गःशिषन्ती॑त्यादौ तत्र स्थानिवद्भावं निषेद्धुमनुस्वारग्रहणम् । एवं यत्र वरे अजादेशस्य प्रसङ्गो नास्ति यातिरित्यादौ तत्र यलोपे स्थानिवद्भावं निषेद्धुं वरेग्रहणात्पृथग्यलोपग्रहणं कृतमिति ज्ञेयम् । दीर्घे-प्रतिदीव्ना, प्रतिदीव्ने ।हलि चे॑ति दीर्घे कर्तव्येऽल्लोपो न स्थानिवत् । यणादेशस्तु स्थानिवद्भवत्येव ।लोपाजादेश एव न स्थानिव॑दित्युक्तत्वात् । तेनहलि च॑उपधायां चे॑ति दीर्घाप्रवृत्त्या किर्योः गिर्योः विव्यतुरित्यादि सिद्धम् । जशि-सग्धिश्च मे । अदनं ग्धिः । तत्र अदेः क्तिनिबहुलं छन्दसि॑ इति घस्लादेशः,घसिभसोर्हलि चे॑त्युपधालोपः ।झलो झलि॑ इति सलोपः ।झषस्तथोः॑ इति धत्वम् । धस्यझलां जश्झशी॑ति जश्त्वे कर्तव्ये उपधालोपो न स्थानिवत् ।समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु॑ इति सः । समाना ग्धिः-सग्धिः । न चात्र सलोपे धत्वे च कर्तव्ये पूर्वस्मादपीति स्थानिवद्भावात्सग्धिरिति रूपं न स्यादिति शङ्क्यम्; पञ्चमीसमासपक्षस्याऽनित्यत्वात् । तत्रनिष्ठायां सेटी॑ति लिङ्गात् । तथाहि-तत्रसेटी॑ति पदं न तावदनिड्वायवृत्त्यर्थम्, णिजन्तात्तदसंभवात् । ननुसंज्ञापितः पशु॑रित्यत्रयस्य विभाषे॑ति इण्निषेधे संभवत्येवानिट्त्वं,सनीवन्ते॑ति विकल्पितेट्त्वादिति चेन्न;यस्य विभाषे॑ त्यत्रएकाचः॑ इत्यनुवृत्तेः । अन्यथादरिद्रिति ॑ इति इण्न स्यात् , तत्रतनिपतिदरिद्रातिभ्यः॑ इति वार्तिकेन सनो विकल्पितेट्त्वात् । तस्मात्कालावधारणार्तं सेङ्ग्रहणम् । इटि कृते णिलोपो न तु ततः प्रागिति । अन्यथाकारित॑मित्यादौ णिलोपे कृतेएकाच उपदेशे॑इति इण्निषेधः स्यादिति । यदि तु पूर्वस्माद्विधौ स्तानिवत्त्वं तर्हि णिचा व्यवधानान्निषेधस्तर्हिपटयती॑त्यत्रान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाज्जश्त्वं स्यात् । मैवम् ।इष्ठव॑दित्यतिष्टया भसंज्ञया पदसंज्ञाया बाधाज्जश्तावऽप्रवृत्तेः । चरि-जक्षतुः, जक्षुः । घसेर्लिटि अतुस् उस् च ।गमहनेट॑त्युपधालोपः ।खरि चे॑ति चर्त्त्वं प्रति न स्थानिवत् । भाष्ये तुपूर्वत्रासिद्धे न स्थानिव॑दित्यवष्टभ्य द्विर्वचनसवर्णानुस्वारदीर्घश्चरः । प्रत्याख्याताः । तद्रीत्या तु सलोपे धत्वे च कर्तव्ये स्थानिवद्भावशङ्कैव नास्तीति बोध्यम् ।
Padamanjari
-----------
द्विर्वचने यलोपादौ च तावत् तदेव विधेयम्, न तु तस्य व्यवस्थितस्य किञ्चित् । कौ स्त इत्यादौ तु पदान्तस्य सतः कार्यमावादि पदान्तस्य वाऽऽवादेर्विधानमित्युभयथा सम्भवः । एवं वरेविधावपि । तथापि सर्वग्रहाय भावसाधन एव विधिशब्दः । एतेष्विति । पदान्तादिविधेयभेदेन भिन्नानि यानि विधानानि एतेष्वित्यर्थः । पूर्वविधावित्यादि । यद्यपि व्याकरणे न पदानि संस्क्रियन्ते, न वाक्यम्, तथापि वाक्यगते स्त इत्यादिके पदे व्युत्पाद्यमाने कावित्यादेः पदस्यासत्यपि निमितत्वे सन्निधानमविरुद्धम् । ततश्चानादिष्टादचः पूर्वत्वसम्भवादस्ति स्थानिवत्वप्रसङ्ग इति भावः । दध्यत्रेति । स्थानिवद्भावप्रतिषेधसामर्थ्याद् 'असिद्धं बहिरङ्गमन्तरङ्गे' इत्येतदपि न प्रवर्तते । शच्यावित्यादावपि बहिर्भूताजपेक्षत्वाद्यण् बहिरङ्ग एव 'वर' इति निपातनादलुक् । यायावर इति । ङित्यं कौटिल्ये गतौ' इति यङ् । अतो लोपः परनिमितक इति । ' आर्द्धधातुके' इति परसप्तमीपक्ष इति भावः । तथा च 'अनुदातेतश्च हलादेः' इत्यत्रादिग्रहणम् । असति हि तस्मिन् हलन्तादिति विज्ञायेत, ततश्च जुगुप्सनो मीमांसन इत्यत्र युज्न स्यादिति । यदि च सा विषयसप्तमी स्यात्, प्रगेव प्रत्ययोत्पतेरतो लोपे सति हलन्तत्वादत्रापि युच् सिद्धः स्यात् । यतु 'अचो यत्' इत्यत्र वक्ष्यति - 'अज्ग्रहणं किम्, यावता हलन्ताण्ण्यं वक्ष्यति ? अजन्तभूतपूर्वादपि यथा स्याद्-दित्स्यम्, धित्स्यमिति । तद्विपयसप्समीपक्ष इति वेदितव्यम् । परसप्तमीपक्षे हि प्राक्प्रत्ययोत्पतेरतो लोपाभावादनुपपन्नं तत्स्यात् । कण्डूअयतेः क्तिनि कृत इति । 'क्तिन्नावादिभ्यो वक्तव्यः' इत्यनेनेति भावः । 'क्तिचि' इति तु युक्तः पाठः । कण्डूअतिरित्यत्राल्लोपस्य स्थानिवत्वादुवङ् प्राप्नोति, अस्तु; च्छवोः शूठ' इत्यूट् भविष्यति । न चोठ।ल्पि स्थानिवत्वम्, आदिष्टादचः पूर्वत्वात् । अत एवोठः पुनरुवङ् न भवति । परसवर्णे न स्थानिवद्भवतीति । ननु श्नसोरल्लोपे कृते पश्चादनुस्वारो भवन्नादिष्टादचः पूर्व इति कथमस्य परसवर्णे कर्तव्ये स्थानिवत्वप्रसङ्गः ? स्यादेतत्स्थानिनो नकारस्यानादिष्टादचः पूर्वत्वादादेशोऽनुस्वारोऽपि स्थानिवद्भावादनादिष्टादचः पूर्व इति, तन्न; न ह्यनादिष्टादचः पूर्वत्वं नाम शास्त्रीयं यदतिदिश्येत । एवं तर्ह्यनादिष्टादचः पूर्वत्वापेक्षेऽचः परस्मिन्नत्यतिदेशे कर्तव्ये स्थानिवदादेश इत्येतत् प्रवर्तते, अतः सवर्णग्रहणं कृतम् । शिषन्तीति । यद्यपि शिण्ढैइत्येवानुस्वारविधेरप्युदाहरणम्, तथापि तस्मिन्नेवोदाहृते परसवर्णविधौ स्थानिवत्वनिषेधः, तस्य स्थानिनोऽनुस्वारस्यापि विधौ स्थानिवत्वप्रतिषेधमन्तरेणानुपपन्न इति पृथगनुस्वारग्रहणं न कर्तव्यमित्याशङ्का निराकरणाय केवलानुस्वारोदाहरणं दर्शितम् । प्रतिदीव्नेति । प्रतिपूर्वाद्दिवेः 'कनिन्युवृषितक्षिराजिधन्विद्यौप्रतिदिवः' इति कनिन्प्रत्ययः भस्येत्यधिकृत्येति । परनिमितकत्वोपपादनार्थः । किमिदमुक्तम्हलि चोपधायां चेति दीर्घत्वं न स्यादिति, उपधायाञ्चेत्येतल्लेखकैः प्रमादाल्लिखितम्, तथा चोपधायाञ्चेत्यत्र वक्ष्यति-प्रतिदीव्नेत्यत्र 'हलि च' इति दीर्घत्वमिति । अस्माद्वचनाद्भवतीति । ङ भकुर्छुअराम्' इति तु प्रतिषेधो रेफवकारान्तस्य भस्येत्यत्र न प्रवर्तते । झलो झलीति सलोप इति । सकारे सिचो लोप इत्येततु नाश्रीयते, तस्मिंस्त्वाश्रिते छान्दसत्वाद्वर्णलोपः । बहुखट्वक इति । अत्र स्थानिवद्भावद् 'ह्रस्वान्तेऽन्त्यात्पूर्वम्' इति खकारा कारस्योदातत्वं न भवति,'कपि पूर्वम्' इत्येतदेव तु भवति । किर्योः, गिर्योरिति । 'कृग्रोरिच्च' इति व्युत्पत्तिपक्ष एतदुदाहृतम् । 'उपाधायाञ्च' (8.2.78) इत्यत्रत्वव्युत्पत्तिपक्षमाश्रित्य वक्ष्यति - 'उणादयोऽव्युत्पन्नानि प्रातिपदिकानि, इति किर्योगिर्योरित्यादिषु दीर्घो न भवति' इति । 'क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेष्वजादेशो न स्थानिवद्भवति' इति वक्तव्यम् । क्वि-क्वौ यद्विधीयते तत्र कर्तव्ये यत्र कुत्रचित् कृतोऽजादेशो न स्थानिवद्भवतीति; लवमाचक्षाणो लौः, अत्र णिचि यष्टिलोपः, यश्च क्वौ णिलोपस्तदुभयमपि 'च्छवोः शूठ' इति वकारस्य क्विनिमिते ऊठि कर्तव्ये न स्थानिवद्भवतीति 'एत्येधत्यूठसु' इति वृद्धिः । ये तु 'क्वौ लुप्तं न स्थानिवत्' इति पठन्ति तेषामेतन्न स्यात् । तथा पिपठिषतेः क्वौ, अतो लोपे नपुंसके बहुवचने जसिझल्लक्षणे नुमि जस्निमितेऽपि कर्तव्येऽयो लोपस्य स्थानिवत्वनिषेधः स्यात्, क्वौ कृतत्वात् । क्वौ विधिं प्रतीत्यत्र तु पक्षे प्रतिषेधो न भवति, पिपठीषि ब्राह्मणकुलानि, नुम्यसति शान्तमहतः' इति दीर्घत्वं न भवति । देवयतेद्यौउÇरित्यत्रोभयथापि सिध्यति । लुक्-लुका लुप्ते न स्थानिवत्, आमलक्या विकारफलम् ङित्यं वृद्धशरादिभ्यः' इति मयटः 'फले लुक्' 'लुक्तद्धितलुकि' इति ङीपो लुक् परिनिमितकः यस्येति लोपे न स्थानिवद् भवति । केचित्वेतदर्थं सूत्रे वराई उ वरे इति ईकारप्रश्लेषं वर्णयन्ति, ईविधिं प्रति न स्थानिवदिति । उपधात्वेउपधात्वे कर्तव्ये न स्थानिवत् । परिखअशब्दाच्चातुरर्थिके णिकृते पारिखे भवः पारिखीय इति 'वृद्धादकेकान्तखोपधात्' इति छाए न स्यात्, आकारलोपस्य स्थानिवत्वादनुपधाखकार इति । प्रत्ययविधिविषयं चैतत्, यत्रोपधासंज्ञानिबन्धन प्रत्ययो विधातुमिष्यते तत्रैवेत्यर्थः, घटयतीत्यादौ तु तन्न भवति । चङ्परो ये निर्हासो ह्रस्वस्तत्र न स्थानिवद्भवति - वादितवन्तं प्रयोजितवान् अवीवदद् वीणां परिवादकेन, योऽसौ णौ णिर्लुप्यते तस्य स्थानिवद्भावाद् णौ चङ्युपधाया ह्रस्वो न स्यात्, यश्चङ्परो णिर्न तस्मिन्नङ्गस्योपधा, यस्मिंश्चाङ्गस्योपधा न चङ्पर इति । कुत्वम् - पाचयतेः क्तिचि पाक्तिः । कुत्वमुपलक्षणम् । लेहयतेर्लेढिः, दोहयतेर्दोग्धिः, याचयतेर्याक्तिः, वेशयतेर्वेष्टिरित्यादि ॥
Nyaas
-----
अत्रापि विधिशब्दो भावसाधनः कर्मसाधनश्च। स च प्रत्येकमभिसम्बध्यते। तत्र यथायोगं क्वचित् भावसाधन आश्रीयते, क्वचित् कर्मसाधनः। तत्र द्विर्वचनविधौ भावसाधनः, तत्र हि तदेव विधातव्यम्, न हि तस्यावस्थितस्य किञ्चित् कार्यम्। अन्यत्र तु कर्मसाधनः। तत्र हि व्यवस्थितस्य पदान्तादेः कार्यान्तरविधानात्।`कौ स्तः, यौ स्तः` इति। अस्तेर्लट्, तस्, अदादित्वाच्छपो लुक्, पूर्वविधा-वावादेशे यणादेशे च कर्तव्ये स्थानिवत् स्यादिति। कथं पुनः स्थानिवत् स्यात्,यावता पदसंस्कारायैव प्रयुक्तत्वाद् व्याकरणस्य? `स्तः` इत्यादिकं पदं पदान्तरनिर-पेक्षमेव संस्क्रियते, अनादिष्टादचो यः पूर्वः, तस्य विधिं प्रति स्थानिवद्भावेन भवितव्यम्। न चायं प्रकारः पदानतरनिरपेक्षे पदसंस्कारे सम्भवति; `स्तः` इत्यादिकेपदे संस्क्रियमाणे कावित्यादेः पदान्तररस्यासन्निधानात्। किं पुनरिदं राजशासनम् - पदसंस्कारायैव शब्दानुशासनं कर्तव्यमिति? अथ शास्त्रकारस्यैवायमभिप्रायः? इतिचेत्, न; शास्त्रकारेण दि **युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः** (1.4.105) इति युष्मदाद्युपपदे मध्यमादिपुरुषविधानाद् वाक्यसंस्कारप्रयुक्तमपि शास्त्रमेतदिति सूचितम्। अत्र `कौ` इत्यादिकं पदं प्रागेव व्यवस्थाप्य `स्तः` इत्यादेः पदस्य संस्कारे क्रियमाणेऽनादिष्टावचः पूर्वं औकारादिर्भवतीति स्थानिवद्भावः स्यात्। अतः प्रतिषेध उच्यते।ननु च `दध्यत्र` इत्येवमादौ` प्रतिषिद्धेऽपि स्थानिवद्भावे बहिरङ्गस्य यणादेशस्यासिद्धत्वादन्तरङ्गं द्वर्वचनं न प्राप्नोति। तत् किमित्येवमाह - `अस्माद्वच-नात् भवति` इति। न च शक्यं वक्तुम् - ` स्थानिवद्भावप्रतिषेधात् `असिद्धं बहिरङ्गम्`(व्या।प।42) इत्येषा न प्रवर्तते` इति। यत्रोभयमेकपदाश्रयम् - `पट्व्यौ पट्व्यः शुच्यौ शुच्यः` इत्येवमादौ,तत्र स्थानिवद्भावप्रतिषेधस्यार्थवत्त्वान्नैष दोषः। द्विर्वचनमेव बहिरङ्गम्; बह्वपेक्षत्वात्। तथा ह्रच उत्तरस्य योरऽनचीति च त्रितयं तदपेक्षते। यणादेशस्त्विकोऽचीति द्वयमेव।`वरे` इति। ननु चात्र समासे सति सप्तम्या लुका भवितव्यम्। तत् कथं वरे इति निर्देशः? अत एव निपातनादलुगित्यदोषः। अन्ये त्वीकारप्रश्लेषोऽत्रेतिवर्णयन्ति। एवं च सम्बन्धं कुर्वन्ति - `वरे योऽजादेशस्तस्य विधिं प्रति नस्थानिवत्, ईविधिं च प्रति न स्थानवत्` इति। तेनामलक्याः फलं विकार इति नित्यं वृद्धशरादिभ्यः` (4.3.142) इति मयट्, तस्य **फले लुक्** (4.3.163) इति लुक्, अतः **लुक् तद्धितलुकि** (1.2.49) गौरादिलक्षणस्य ङीषो लुकि कृते तस्य स्थानिवद्भावात् **यस्येति च** (6.4.148) इति लोपः प्राप्नोति। ईकारे परतो यो विधिस्तं प्रति स्थानिवद्भावप्रतिषेधान्न भवति। ननु चाजादेशः परनिमित्तकः लोपः पूर्वविधौ स्थानिवद्भवतीत्यु-च्यते, न च लुका पौर्वापर्यमस्तीत्यत एव स्थानिवद्भावो न भविष्यति? तदप्रयोजनमीकार-प्रश्लेषस्य। लोपेनापि तर्हि पौर्वापर्यं नास्तीति पटयतीत्यादावपि स्थानिवद्भावो नस्यात्। अथ तत्र स्थानिद्वारकं पौर्वापर्यं सम्भवति, इहापि तथा स्यात्। ये त्वीकार-प्रश्लेषं नेच्छन्ति, त आयलक्याः फलं विकार आमलकमित्येतदर्थं नेति योगविभागं कुर्वन्ति।`यायावरः` इति। अत्यर्थं यातीति `धातोरेकाचः` (3.1.22) इत्यादिना यङ, द्विर्वचनम्, अभ्यासस्य ह्रस्वः, **दीर्घोऽकितः** (7.4.83) इति दीर्घः, ततो वरच्च, अतो लोपे कृते **लोपो व्योर्वलि** (6.1.66) इति यकारलोपः। `अतो लोपः परनिमित्तकः` इति।आर्धधातुके परतो विधानात्। यद्यतो लोपः परनिमित्तकः, ततः `अचो यत्` (3.1.97) इत्यत्र `अज्ग्रहणं किम्, यावता हलन्ताण्ण्यतं वक्ष्यति` इति चोद्यं समुत्थाप्य `अजन्तभूतपूर्वावपि यथा स्यात् - दित्स्यं धित्स्यम्` इति यद् वक्ष्यति तद् विरुध्यते; न हि परनिमित्तकेऽतो लोपेऽजन्तभूतपूर्वाद् यतो विधिः सम्भवति, प्राक्कृदुत्प-त्तेरतो लोपस्याभावात्, अभावस्तु परस्य निमित्तस्याभावात्? पक्षे भेदादविरोधः। तत्र ह्रार्धधातुक इति वर्तते। `आर्धधातुके` इति विषयप्तमी चैषा, परसप्तमी चेति पक्ष-द्वयम्; आर्धधातुकसमान्यविवक्षायां सामान्येन पौर्वापर्यं न सम्भवतीति विषयसप्तमी भवति आर्धधातुकव्यक्तिविवक्षायां तु व्यक्तेः पौर्वापर्यं सम्भवतीति परसप्तमी। यदातु व्यक्तिद्वारकं सामान्यस्य पौर्वापर्यं विवक्ष्यते; तदापि परसप्तम्येव।तत्राद्ये पक्ष आर्धधातुके विषयभूते प्रागेव यदुत्पत्तेरतो लोपो भवति, इतरत्र तु तस्मिन्नुत्पन्ने। तत्र `अचो यत्` (3.1.97) इत्यत्र यदज्ग्रहणस्य प्रयोजनं वक्ष्यति, तत् पूर्वं पक्षमाश्रित्य। यत् पुनरिहातो लोपः परनिमित्तक इत्युक्तम्, तदितरं पक्षम्। तस्माद् विषयभेदादविरोधः। परसप्तमीपक्षे तु तत्राज्ग्रहणं विस्पष्टार्थमेव वेदितव्यम्।कथं पुनज्र्ञायते परसप्तमीपक्षोऽपि तत्राभिमत इति? **अनुदात्तेतश्च हलादेः** (3.2.149) इत्यादिग्रहणात्। तद्ध्येवमर्थं क्रियते - हलन्तादित्येवं मा विज्ञायीति। एवं हि विज्ञायमाने जुगुप्सनः, मीमांसनः इत्यत्र युज् न स्यात्; अजन्त-त्वात्। यदि च `आर्धधातुके` इति विषयसप्तम्येवैषाभिमता स्यात्, न परसप्तमीतदाऽऽदिग्रहणमनर्थकं स्यात्; आर्धधातुके विषयेऽकारलोपे कृते जुगुप्सतिमीमांसत्योरपि हलन्तत्वात्। तस्मादादिग्रहणाद् विज्ञायते - परसप्तमीपक्षोऽपि तत्राभीष्ट इति। विषयसप्तमीपक्षे तु तत्रादिग्रहणं विस्पष्टार्थमेव द्रष्टव्यम्।`कण्डूतिः` इति। **कण्ड्वादिभ्यो यक्** (3.1.27) **स्त्रियां क्तिन्** (3.3.94) । `चिकीर्षकः, जिहीर्षकः` इति। चिकीर्षजिहीर्षशब्दाभ्यां ण्वुल्। `शिशेः, पिषेश्च` इति। `शिष्लु विशेषणे` (धातुपाठः-1452)`पिष्लृ संचूर्णने` (धातुपाठः-1453)। हित्वधित्व-ष्टुत्वजश्त्वेष्विति। `सेह्र्रपिच्च` (3.4.87) इति हेरादेशे कृते **हुझल्भ्यो हेर्धिः** (6.4.101) ति धिरादेशः। **ष्टुना ष्टुः** (8.4.41) इति ष्टुत्वम्, **झलां जश् झशि** (8.4.53) इति जश्त्वम्। ननु चात्र स्थानिवद्भावस्य प्राप्तिरेव नास्ति; यो ह्रनादिष्टादचः पूर्वस्तस्य विधौ स्थानिवद्भवतीत्युच्यते, न चामानादिष्टादचः पूर्वः, तत् किं प्रतिषेधेन? नैष दोषः; स्थानिनो नाकरस्याऽनादिष्टाजपेक्षं पूर्वत्वम-स्तीति तदादेशोऽप्यनुस्वारः स्थानिवद्भावादनादिष्टादचः पूर्व इति लभ्यते।`शिषन्ति` इत्यादि। किमर्थं पुनरुदाहरणान्तरोपन्यासः, यावता शिण्ढीत्याद्य-न्तरोक्तमेवेदं युक्तमुदाहरण्? एवं मन्यते - यदि तदेवोदाह्यियते तदा यत्र परसवर्ण-स्तत्रानुस्वारेण भवितव्यम्,तत्रैव हि स विधीयते; ततश्च नान्तरीयकत्वात् परसवर्ण-विधौ स्थानिवद्भावप्रतिषेधेऽनुस्वारविधावपि स्थानिवद्भावप्रतिषेधः कृत एव, ततोऽ-नुस्वारग्रहणं पृथङ न कर्तव्यमिति कस्यचिद् भ्रान्तिः स्यात्। तस्माद् यत्र परसवर्णो न सम्भवति, तदेवोदाहरणं युक्तमिति।`प्रतिदिव्ना` इति। दिवेः `कनिन्युवृषि` (द।उ।6।51) इत्यादिना कनिन् प्रत्यये रूपम्। `हलि च` इति। `उपधायाञ्च` (8.2.78) इत्येतदिदानीन्तनकुलेखकैः प्रमादाल्लिखितम्। तथा हि `उपधायाञ्च` (8.2.78) इत्यत्र वक्ष्यति ` प्रतिदीव्न इत्यत्र तु `हलि च` (8.2.77) इति दीर्घत्वम्` इति। ननु च स्थानिवद्भावे प्रतिषिद्धेऽपि `न भकुर्छु-राम्` (8.2.79) इति दीर्घत्वप्रतिषेधेनात्र भवितव्यम्, तत् किमित्येवमाह - `अस्माद् वचनाद् भवति` इति। न च स्थानिवद्भावप्रतिषेधसामर्थ्यादत्र प्रतिषेधो न भवतीति शक्यं परिकल्पयितुम्; स्थानिवद्भावप्रतिषेधस्य पिपठीरित्यत्रार्थत्वात्। अत्र हि पिपठिषतेः क्विपि कृतेऽतो लोपे रुत्वे च, रुत्वं पुनरस्य पूर्वत्रासिद्धमिति षत्व-स्यासिद्धत्वात्, यदि स्थानिवद्भावो न प्रतिषिध्येत, ततोऽकारलोपस्य स्थानिवद्-भावात् **र्वोरुपधाया दीर्घ इकः** (8.2.76) इत्यधिकाराद् रेफवकारान्तस्य भस्य दीर्घत्वं प्रतिषिध्यते। न चैतद् रेफवकारान्तं भसंज्ञकम्, अपि तु नाकरान्तमिति।`सग्धिः` इति। समाना ग्धिरिति विशेषणसमासः। **समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु** (6.3.84) इति सभावः। `बब्धाम्` इति। `भस भत्र्सनदीप्त्योः` (धातुपाठः-1100), **अभ्यासे चर्च** (8.4.54) इत्यभ्यासभकारस्य जश्त्वं बकारः।`चक्षतुः, जक्षुः` इति। `लिटन्यतरस्याम्` (2.4.40) इति घस्लादेशः, `कुहोश्च` (7.4.62) इत्यभ्यासघकारस्य चुत्वं झकारः; तस्य पूर्ववज्जश्त्वं जकारः। बहुवचने घस्लादेश इति। `लुङ सनोर्घस्लु` (2.4.37) इत्यनेन। `बहुखट्वकः` इति। अत्र स्थानिवद्भावाद् **ह्रस्वान्तेऽन्त्यात् पूर्वम्** (6.2.174) इति, खकारस्योदात्तत्वं न भवति। **कपि पूर्वम्** (6.2.173) इति ट्वशब्दस्याकारास्यैव भवति।`किर्योः, गिर्योः` इति। **र्वोरुपधाया दीर्घ इकः** (8.2.76) `हलि च` (8.2.77) इति दीर्घत्वं न भवति। एतच्च व्युत्पत्तिपक्षमाश्रित्योक्तम्, `कृग्रोरिच्च` इति किरिगिरिशब्दौ व्युत्पाद्येते। अव्युत्पत्तिपक्षे त्वसत्यपि स्थानिवद्भावे धातुत्वाभावान्न भवत्येव दीर्घत्वम्। तथा ह्रव्युत्पत्तिपक्षमाश्रित्य `उपधायाञ्च` (8.2.78) इत्यत्र वक्ष्यति - `उणादयऽव्युत्पन्नानि प्रातिपदिकानि` (हे।प।103) इति किर्यो-गिर्योरित्येवमादिषु दीर्घो न भवति` इति। `वाय्वोः` इति। **लोपो व्योर्वलि** (6.1.66) इति यलोपो न भवति।
Praudhamanorama
---------------
**पदस्य चरमावयव इति।** वृक्षं वेतीति वृक्षवीः, वातीति वृक्षवाः, तमाचष्टे वृक्षव्, विच्। इह **लोपो व्योः—** (6.1.66) इति वलोपो न, स्थानिवत्त्वात्। न च **न पदान्त—** (1.1.58) इति निषेधः, इह विधेयस्य लोपस्य पदानवयवत्वात्। पदान्तस्य स्थाने विधौ नेति व्याख्यापने तु नेदं सिध्येत्। 'सुबन्ताण्णिच्' इति हरदत्तादिमतेऽन्तर्वर्तिसुपा पदत्वात्। न च 'इष्ठवत्' इत्यतिदिष्टेन णिचि भत्वेन पदत्वबाधः; णेर्लुप्तत्वात्; न च प्रत्ययलक्षणम्, वर्णाश्रयत्वादिति भावः। **द्विर्वचनादौ चेति** । यलोपादय आदिशब्दग्राह्याः। 'वरे' इति तु वरे योऽजादेशः स न स्थानिवदिति व्याख्येयम्। सहविवक्षाऽभावेऽपि निपातनाद् द्वन्द्वः सप्तम्यलुक् च। अथोदाहरणानि, पदान्ते— कानि सन्ति, कौ स्तः। द्विर्वचने— सुद्धयुपास्यः। वरे— यायावरः। 'यश्च यङः' इति वरच्, अतो लोपः। स च **आतो लोप इटि च** (6.4.64) इत्यालोपे कर्तव्ये न स्थानिवत्। यलोपे— यातिः। यातेर्यङन्तात् क्तिच्, अतो लोपः, यलोपः, अल्लोपस्य स्थानिवत्वादातो लोपः, यलोपः। न च पुनरालोपः शङ्क्यः, चिणोलुङ्न्यायेनाऽऽतोलोपस्यासिद्धत्वात्स्थानिवद्भावाच्च। स्वरे— चिकीर्षकः। सनोऽतो लोपो **लिति** (6.1.193) इतिककारेकारस्य उदात्तत्वे कर्तव्ये न स्थानिवत्। सवर्णानुस्वारयोः— शिण्ढि। दीर्घे— प्रतिदीव्ना। जशि— सग्धिश्च मे। अदनं ग्धिः। अदेः क्तिनि **बहुलं छन्दसि** (2.4.39) इति घस्लादेशः, **घसिभसोर्हलि-** (6.4.100) इत्युपधालोपः, 'झलो झलि'(पा.सू (8.2.26) इति सलोपः, घत्वम्, घस्य जश्त्वम्। **सहस्य सः** (6.3.78) इति सूत्रात् स इत्यनुवर्तमाने 'समानस्यच्छन्दस्यमूर्धप्रभृत्युदर्केषु'इति सूत्रेण सः। चरि— जक्षतुः॥
Prakriyasarvasvam
-----------------
पदान्तविध्यादिषु कर्तव्येषु परनिमित्तोऽजादेशो न स्थानिवत् स्यात् । तेनात्र यलोपविधौ स्थानिवत्त्वाभावाद् यलोपः । कण्डूतिः । एवं पदान्तविधौ कृष्णौ स्तः इत्यत्र अस्तेरल्लोपस्य स्थानिवत्त्वाद्दन्त्यस्यौकारस्याचि पर आवादेशः प्राप्तो न स्यात् । तथा द्विर्वचनविधौ सुद्ध्युपास्यं इत्यत्र यणादेशस्य स्थानिवत्त्वेनाच्परत्वाद् 'अनचि च' (८-४-४७) इति द्वित्वाप्राप्तौ तत् स्यात् । वरे इति सौत्रत्वाद् लुक् । वरे परभूते पूर्वस्य विधौ कर्तव्ये न स्थानिवत्त्वम् । ³या या य वर । अतो लोपे कृते तस्य प्राग्वद् यलोपे स्थानिवत्त्वाभावाद् यलोपेन यायावर इति स्थिते पुनरल्लोपस्य स्थानिवत्त्वाद् यङोऽजादित्वसम्पत्तेः 'अतो लोपः—' (६-४-४८) इत्याल्लोपे प्राप्ते वरे परे स्थानिवत्त्वनिषेधान्न स्यात् । प्रसादे तु वर ई इति छेदः । ईकारे परे यत् कार्यं तत्र न स्थानिवत् । फल्गुन्यां जातः फल्गुनः इत्यत्र 'श्रविष्ठाफल्गुनी-' (४-३-३४) इत्यणो लुकि कृते तद्धितलुङ्निमित्तस्त्रीप्रत्ययलुक् फल्गुनेत्यकारस्य 'यस्य—' (६-४-१४८) इति लोपे कार्ये स्थानिवत्स्यात् । ततश्च 'पूर्व निमित्ताभावादजातेऽपि 'यस्य—' इति लोपः स्थानिवत्त्वादी२कारनिमित्त- सद्भावात् प्राप्नोतीति निषिध्यते । तेन फल्गुनः । स्वरे तु=चिकीर्षक इति ण्वुलि अतो लोपे 'लिति' (६-१-१९३) प्रत्ययात्पूर्वमुदात्तमिति ण्वुलः पूर्वस्योदात्तत्वे कर्तव्येऽल्लोपस्य स्थानिवत्त्वादीकार३स्योदात्तत्वं न प्राप्नोतीति तत्सिद्ध्यर्थं स्वरविधौ स्थानिवत्त्वनिषेधः । अनुस्वारे तु-शिंषन्तीति श्नसोेरल्लोपस्य स्थानिवत्त्वान्नस्य झल्यनुस्वाराभावे प्राप्ते तन्निषेधः । परसवर्णे-शिण्डीत्यत्र नस्य प्राग्वदनुस्वारे कृते श्नमो लोपस्यैव स्थानिवत्त्वाद् ययि परसवर्णभावे प्राप्ते तन्निषेधः । एवं द्यूतकारार्थस्योणादिजस्य प्रतिदिवञ्छब्दस्य भत्वनिमित्ते प्रत्यये 'अल्लोपोऽनः' (६-४-१३४) इत्यल्लोपे कृते तस्य स्थानिवत्त्वाद् 'हलि च' (८-२-७७) इति दीर्घाभावे प्राप्ते दीर्घविधौ स्थानिवत्त्वनिषेधात् प्रतिदीव्ना इति स्यात् । तथा यङन्ते चिणि 'चिण्णमुलोः—' (६-४-९३) इति दीर्घविधौ अतो लोपस्य स्थानिवत्त्वाभावात् अशंशामि, अशंशमि । दीप्त्यर्थस्य बभस्तेर्लोटि तसस्तामि 'घसिभसोर्हलि' (६-४-१००) इति४ छान्दस उपधालोपे बभ् स् ताम् । 'झलो झलि' (८-२-२६) इति सलोपे तकारस्य धत्वे च कृते बभ् धाम् । उपधालोपस्य स्थानिवत्त्वाद् भस्य जश्त्वाभावे प्राप्ते जश्त्वविधौ स्थानिवत्त्वनिषेधाद् बब्धामिति स्यात् । जक्षतुरित्यत्र 'गमहन-' (७-४-९८) इत्युपधालोपे तस्य स्थानिवत्त्वात् खरि चर्त्वाभावे प्राप्ते चर्त्वविधौ तन्निषेधात् स्यात् । 'स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत् स्यात्' । स एव च चिकीर्षकप्रतिदिव- कण्डूतिपूक्तः । अन्यस्तु स्थानिवदेव । तेन बहुमालक इत्यत्र ह्रस्वस्य स्थानिवत्वात् कपि 'ह्रस्वान्तेऽन्त्यात् पूर्व (६-२-१७४) स्योदात्तत्वं न स्यात् । 'कपि पूर्वम्' (६-२-१७३) उदात्तमित्येव स्यात् । दीर्ये तु-गिर्योरित्यत्र यणादेशस्य स्थानिवत्त्वाद् 'हलि च' (८-२-७७) इति दीर्धो न स्यात् । वाय्वोरित्यत्र यणादेशस्य यलोपे कार्ये स्थानिवत्त्वात् 'लोपो व्योः—' (६-१-६६) इति यलोपो न स्यात् । (वा) । पूर्वत्रासिद्धे च स्थानिवत्त्वं न स्यात् । तेन-शाधातोः (शो तनूकरणे) यङि क्तिचि बाहुलकात् वितनि वा शाशाय ति । अतोलोपयलोपयोः कृतयोः यायावर इत्यस्मिन्नालोपः प्राप्तो यथा वरे इति निषिद्धः, तथात्र निषेधाभावादल्लोपे कृते तस्य स्थानिवत्त्वा- भावात् पूर्वत्रासिद्धीयः 'छशां' षः स्यात् । शाष्टीः भृशतनूकरणम् । संयोगादिलोपादौ तु स्थानिवत्त्वं स्यादेव । तेन-देवक्यर्थमित्यत्र यणः स्थानिवत्त्वाद् देवक्यप्त्यसित्यत्र यणः स्थानिवत्त्वाद् 'स्कोः—' (८-२-२९) इति कलोपो न । निगाल्यते इत्यत्र णिलोपस्य स्थानिवत्त्वाद् 'अचि विभाषा' (८-२-२१) इति लत्वं स्यात् । तथा ल्युटि मापवापनी भूमिरित्यत्र 'यस्य—' (६-४-१४८) इति लोप प्रातिपदि- कान्तत्वेन नस्य णत्वप्राप्तौ लोपस्य स्थानिवत्त्वात् तन्न स्यात् । अचः परस्मिन्नित्यत्र नादेशात् पूर्वतेष्यते । अनादिष्टादचः पूर्वस्यैव कार्ये त्वयं विधिः ॥ ८१५ ॥ तस्मादियेषेत्यभ्यासस्यासवर्ण इयङ् भवेत् । गुणस्य स्थानिवत्त्वे तु सवर्णपरतैव हि ॥ ८१६ ॥ गुणोर्ध्वकाले द्वित्वेन ह्यभ्यासो जायते पुनः । 'गुणहीनादनादिष्टादिकारात् पूर्वतास्य न ॥ ८१७ ॥ तथा तितउमाचष्टे णिच् टिलोपश्च तस्य तु । स्थानिवत्त्वेनोपघात्वाद् वृद्धौ पुकि तितापयेत् ॥ ८१८ ॥ पुकि कार्ये स्थानिवत्त्वा दादन्तत्वक्षयोऽत्र न । आकारः खल्वनादिष्टादुकारात् प्राङ् न विद्यते ॥ ८१९ ॥ तेष्ढीयतेरप्यल्लोपस्थानिवत्त्वादियविधिः । बलि लोपे तेष्ठितिः स्यान्नात्र त्वित इयङ् पुनः ॥ ८२० ॥ इयङ्कृत इकारोऽयमादिष्टात् पूर्व एव हि । अन्येऽप्यचः परेत्यस्य प्रभावा हरभाषिताः ॥ ८२१ ॥ यायायतेः क्तिजन्तस्य शाष्टिबत् साधितेऽखिले । पुनर्यलोपे यातिर्हि रार्ती रारायतेर्मता ॥ ८२२ ॥ पेपीयतेस्तया स्थानिवत्त्वादेरिति यण्विधौ । यलोपतो भवेत् पेप्तिश्चेक्तिश्चेर्चीयतेः कुना3 ॥ ८२३ ॥ न सर्वं सर्वस्य प्रियमपि भवेदप्रियमपि क्वचित् केचित् किञ्चिद् दधति यदि सार्था मम कृतिः । न वा गृह्णन्त्वन्ये तदपि पदपीयूषलहरी- परिक्रीडानन्दः फलमिदमिदानीं मम न किम् ॥ ॥ इति श्रीनारायणभट्टविरचिते प्रक्रियासर्वस्वे सुब्धातुखण्डः सम्पूर्णः ॥ बहूपयुक्ता युक्तौ ये रूपसिद्धावपि क्वचित् । तान् न्यायानेकतो वक्ष्ये भोजराजोक्तवर्त्मना ॥ ८२४ ॥
Vartika
-------
स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद् ।