11054: आदेः परस्य ================= **Padacheda:** आदेः | S | 6 | 1 | परस्य | S | 6 | 1 | Sutrartha --------- **निमित्तं निर्दिश्य तस्मात् अनन्तरं विद्यमानस्य शब्दस्य उक्तः आदेशः तस्य प्रथमवर्णस्य स्थाने विधीयते ।** एतत् अष्टाध्याय्याम् विद्यमानं परिभाषासूत्रम् अस्ति । **यदि कस्मिंश्चित् सूत्रे पूर्वनिमित्तं दत्त्वा तस्मात् परस्य आदेशः उक्तः अस्ति, तत्र सःआदेशः स्थानिनः आदिवर्णस्यैव भवति** — इति अस्य सूत्रस्य आशयः । **अलोऽन्त्यस्य** (1.1.52) इत्यनेन प्राप्तस्य अन्त्यादेशस्य अयम् अपवादः । कानिचन उदाहरणानि एतानि — 1) **उदः स्थास्तम्भोः पूर्वस्य** (8.4.61) अनेन सूत्रेण उद्-उपसर्गात् परस्य स्था-धातोः पूर्वसवर्णः (थकारः) आदेशः भवति । अत्र अस्मिन् सूत्रे उद्-उपसर्गात् परस्य आदेशः उक्तः अस्ति, अतः प्रकृतसूत्रेण अयम् आदेशः परशब्दस्य (स्था-धातोः) प्रथमवर्णस्य स्थाने (सकारस्य स्थाने) एव आगच्छति । प्रक्रिया इयम् ‌— .. code-block:: text उद् + स्थानम् [स्था-धातोः ल्युट्-प्रत्यये कृते स्थानम् इति शब्दः सिद्ध्यति ।] → उत् + स्थानम् [**खरि च** (8.4.55) इति चर्त्वम्] → उत् + थ्थानम् [**उदः स्थास्तम्भोः पूर्वस्य** (8.4.61) इति 'स्था' इत्यस्य पूर्वसवर्णः (थकारादेशः) भवति । **आदेः परस्य** (1.1.54) इत्यनेन सः आदि-वर्णस्य स्थाने विधीयते ।] → उत्थ्थानम् → उत्थानम् [**झरो झरि सवर्णे** (8.4.65) इत्यनेन थकारस्य विकल्पेन लोपः] 2) **द्व्यन्तरुपसर्गेभ्योऽप ईत्** (6.3.97) इति सूत्रेण द्वि-शब्दात् परस्य 'अप्' शब्दस्य ईकारादेशः भवति । अत्रापि पूर्वनिमित्तं निर्दिश्य स्थानिनः आदेशविधानं कृतम् अस्ति, अतः अत्र 'अप्' शब्दस्य अकारस्य अयम् आदेशः भवति । प्रक्रिया इयम् — .. code-block:: text द्विर्गता आपः यस्मिन् [**अनेकमन्यपदार्थे** (2.2.24) इति अस्वपदविग्रहः बहुव्रीहिसमासः] → द्वि अप् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लोपः] → द्वि अप् अ [**ऋक्पूरब्धूःपथामानक्षे** (5.4.74) इत्यनेन 'अ' इति समासान्तप्रत्ययः] → द्वि ईप् अ [**द्व्यन्तरुपसर्गेभ्योऽप ईत्** (6.3.97) इति सूत्रेण द्वि-शब्दात् परस्य 'अप्' शब्दस्य ईकारादेशः । **आदेः परस्य** (1.1.54) इति आदिवर्णस्य आदेशः] → द्वीप [**अकः सवर्णे दीर्घः** (6.1.101) इति दीर्घः] 3) **यस्य हलः** (6.4.49) इति सूत्रेण हल्-वर्णात् परस्य 'य' इत्यस्य लोपः भवति । अत्रापि पूर्वनिमित्तं दत्त्वा कार्यम् उच्यते, अतः अयं लोपः 'य' इत्यस्य आदिवर्णस्य (इत्युक्ते य्-इति व्यञ्जनस्य एव भवति ।) यथा, 'भिद्'धातोः यङ्-प्रत्यये कृते 'बेभिद्य' इति आतिदेशिकधातुः सिद्ध्यति । अस्य 'तुमुन्' प्रत्ययस्य प्रक्रियायाम् अनेन सूत्रेण यकारस्य लोपः विधीयते — .. code-block:: text बेभिद्य + तुमुन् [**तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्** (3.3.10) इति तुमुन्-प्रत्ययः] बेभिद्य + इट् + तुम् [**आर्धधातुकस्येड् वलादेः** (7.2.35) इति इडागमः] → बेभिद् अ + इ + तुम् [हल्-वर्णात् परस्य (दकारात् परस्य) 'य' इत्यस्य **यस्य हलः** (6.4.49) इति लोपः । **आदेः परस्य** (1.1.54) इत्यनेन केवलम् य् इति व्यञ्जनस्य एव लोपः क्रियते, न हि तदनन्तरं विद्यमानस्य अकारस्य ।] → बेभिद् + इ + तुम् [**अतो लोपः** (6.4.48) इति अकारलोपः] → बेभिदितुम् Sutrartha (English) ------------------- The आदेश told on the latter word of a given निमित्त happens on its first letter. Vasu English Summary -------------------- That which is enjoined to come in the room of what follows is to be understood as coming in the room only of the first letter thereof. Vasu English Translation ------------------------ That which is enjoined to come in the room of what follows is to be understood as coming in the room only of the first letter thereof. When any operation is to be made in a word following another, such operation is to be made in the initial letter of such subsequent word. To give an illustration:- there is a rule (6.3.97) by which it is declared: "In the place of अप् used after the words द्वि and अन्तर् and the particles called उपसर्ग there is ई." This rule may be stated in other words as:- 'In the place of अप् there is ई when अप् follows द्वि or अन्तर्.' Now it is clear that ई is not to replace all the letters of अप् but only one. By *sutra* (1.1.52) that letter would have been the last letter of अप्, but this *sutra* makes an exception, namely, where an operation is directed to be made in a word, simply by reason of its being placed after another word; such change is to be made in the beginning of such second word. Therefore, the ई replaces the अ of अप् and we have द्वि + अप् = द्वीपं (the final अ is added by (5.4.74)) 'an island,' आन्तरीपं 'promontory.' So also in the *sutra* ईदासः (7.2.83) 'long ई is the substitute of अन when the latter comes after the root आस्.' Thus आस् + अन = आस् + ईन = आसीनः. Here also the ई replaces the initial अ of अन. How can we find when an operation is to be performed on a subsequent word? When the previous word is exhibited in the 5th or ablative case, see *sutra* (1.1.67). Bhashya ------- आदेः परस्य अलोन्त्यस्यादेः परस्यानेकाल्शित्सर्वस्येत्यपवादविप्रतिषेधात् सर्वादेशः। अलोन्त्यस्येत्युत्सर्गः। तस्यादेः परस्य, अनेकाल्शित्सर्वस्येत्यपवादौ। अपवादविप्रतिषेधात् सर्वादेशो भविष्यति। आदेः परस्येत्यस्यावकाशः द्व्यन्तरुपसर्गेभ्योऽप इर्त्। द्वीपम्। अन्तरीपम्,समीपम्। अनेकाल्शित्सर्वस्येत्यस्यावकाशः। अस्तेर्भूः। भविता, भवितुम्। इहोभयं प्राप्नोति । अतो भिस ऐस्। अनेकाल्शित्सर्वस्येत्येतद् भवति विप्रतिषेधेन। शित्सर्वस्येत्यस्यावकाशः इदम इश् इतः। इह। आदेः परस्येत्यस्यावकाशः स एव। इहोभयं प्राप्नोति अष्टाभ्य औश्। शित्सर्वस्येत्येतद् भवति विप्रतिषेधेन। Kashika ------- परस्य कार्यं शिष्यमाणमादेरलः प्रत्येतव्यम् । क्व च परस्य कार्यं शिष्यते? यत्र पञ्चमीनिर्देशः। तद् यथा — **ईदासः** (७.२.८३) — आसीनो यजते। **द्व्यन्तरुपसर्गेभ्योऽप ईत्** (६.३.९७) — द्वीपम् । अन्तरीपम्। प्रतीपम्। समीपम्॥ Siddhanta Kaumudi ----------------- परस्य यद्विहितं तत्तस्यादेर्बोध्यम् । अलोऽन्त्यस्य (SK42) इत्यस्यापवादः ॥ Laghu Siddhanta Kaumudi ----------------------- परस्य यद्विहितं तत्तस्यादेर्बोध्यम्। इति सस्य थः॥ Balamanorama ------------ **आदेः परस्य** - आदेः परस्य । परस्येति ।द्व्यन्तरुपसर्गेभ्योऽप ई॑दित्यादौतस्मादित्युत्तरस्ये॑ति परिभाषायां परस्य नियमितं कार्यं यत् तत्तस्यादेरेव भवति, नत्वलोऽन्त्यस्येति तदन्तस्येत्यर्थः । तदाह — अलोन्त्यस्येत्यस्यापवाद इति । तत्र 'अल' इत्यप्यनुवर्तनीयम् । तेनद्वीप॑मित्यत्र ईत्वं पान्तसमुदायस्य न भवति । Padamanjari ----------- शास्त्रे न क्वचित्परस्येत्युच्चार्य्य कार्यं विधीयत इति निर्विषयमेतदित्यभिप्रायेणाह - क्व चेति । यत्रेत्यादि । पञ्चमीनिर्देशेषु 'तस्मादित्युतरस्य' इति परस्य कार्यं विधीयत इत्यर्थः । आसीन इति । 'आस उपवेशने' अनुदातेत् । द्वीपमिति । द्विधागता आपो।स्मिन्निति 'ऋक्पूरब्धूःपथामानक्षे' इति अकारः समासान्तः ॥ Nyaas ----- अलोऽन्त्यस्यापवादोऽयम्। शास्त्रे न क्वचित् परस्येतुच्चार्य कार्यं विधीयते। ततश्च निर्विषयमेतदित्यभिप्रायेणाह-`क्व च` इत्यादि। `यत्र पञ्चमीनिर्देशः`इति। **तस्मादित्युत्तरस्य** (1.1.67) इति वचनाद् यत्र पञ्चमीनिर्देशस्तत्र परस्य कार्यं शिष्यते। `आसीनः` इति। `आस उपवेशने` (धातुपाठः-1021), लट्, अनुदात्तेत्वादात्मनेपदम्, शानच्, अदादित्वाच्छपो लुक्। `द्वीपम्, अन्तरीपम्` `समीपम्` इति। द्विर्गताअन्तर्गताः सङ्गता` आपोऽस्मिन्निति विगृह्र बहुव्रीहिः। `ऋक्पूः` (5.4.74) इत्यादिना अकारप्रत्ययः समासान्तः॥ Praudhamanorama --------------- **परस्य यदिति॥** 'तस्मादित्युत्तरस्यादेः' इति तु न सूत्रितम्। आदेरित्यंशस्य सर्वादेशबाधकत्वापत्तेः। सिद्धान्ते तु परत्वात्सर्वादेशत्वं बाधकमित्यनुपदमेव वक्ष्यति॥ Prakriyasarvasvam ----------------- परस्योच्यमानं कार्यं तस्यादेः स्यात् । इति सकारस्य सोष्मत्वेन सदृशः थकारः । तस्य 'झरो झरि—' (८-४-६५) इति लोपः । उत्थानम् । उत्तम्भनम् । वाक् हिता । जश्त्वे कृते । Sarala ------ **अलोऽन्त्यस्य** (१.१.५२) इत्यस्यापवादोऽयं योगः । **सस्येति** । अघोषस्य महाप्राणप्रयत्नवतः सस्य तादृश एव थकार इत्यर्थः ॥