11049: षष्ठी स्थानेयोगा ======================= **Padacheda:** षष्ठी | S | 1 | 1 | स्थाने-योगा | S | 1 | 1 | Sutrartha --------- **सूत्रेषु विद्यमानया षष्ठीविभक्त्या यत्र सम्बन्धस्य स्पष्टं ज्ञानं न भवति, तत्र षष्ठीविभक्तिः स्थानिनः (उच्चारणप्रसङ्गस्य) निर्देशं करोति ।** अष्टाध्याय्याः सूत्रेषु विद्यमानाः बहवः शब्दाः षष्ठीविभक्तौ निर्दिष्टाः वर्तन्ते । षष्ठीविभक्तेः प्रयोगः संस्कृतभाषायाम् सामान्यरूपेण सम्बन्धं दर्शयितुम् क्रियते । अस्य सम्बन्धस्य बहवः प्रकाराः सन्ति — स्व-स्वामिसन्बन्धः, अनन्तर-समीपसम्बन्धः, अवयव-अवयवीसम्बन्धः... आदयः । एतेषु 'कः सम्बन्धः सूत्रे प्रयुक्तैः षष्ठीविभक्त्यन्तशब्दैः निर्दिश्यते' इति यत्र संशयः उत्पद्यते, तत्र **षष्ठीविभक्त्या स्थानिनः निर्देशः भवति** इति निर्णयः करणीयः — इति प्रकृतसूत्रस्य आशयः । वस्तुतस्तु व्याकरणशास्त्रम् शब्दनिर्माणस्य शास्त्रम् अस्ति, शब्दाः च नित्याः सन्ति, अतः एकम् शब्दम् निष्कास्य तस्य स्थाने अन्यशब्दस्य स्थापनम् शास्त्रविरुद्धं मत्त्वा अत्र **स्थानिशब्देन इत्यनेन उच्चारणप्रसङ्गः (The event of pronunciation of a certain letter or word) इति अर्थः गृह्यते** । कानिचन उदाहरणानि एतानि — 1) **इको यणचि** (6.1.77) इति सूत्रे "इकः" इति षष्ठ्यन्तम् पदम् अस्ति । अतः अनेन पदेन **इक्-वर्णस्य स्थाने (= इक्-वर्णस्य उच्चारणप्रसङ्गः यत्र विद्यते तत्र)** इति अर्थः विधीयते । इत्युक्ते, यत्र इक्-वर्णात् अनन्तरम् संहितायाम् अच्-वर्णः विद्यते, तत्र इक्-वर्णस्य स्थाने (इत्युक्ते, इक्-वर्णस्य उच्चारणस्य यत्र प्रसङ्गः विद्यते तत्र) यण्-वर्णस्य उच्चारणम् करणीयम् । अतएव, "सुधी"-शब्दात् अनन्तरम् संहितायाम् "उपास्यः" इति शब्दः यत्र उच्चारणीयः वर्तते, तत्र "सुधी-"शब्दस्य इकारस्य उच्चारणस्य समये (स्थाने) यकारस्य उच्चारणं कृत्वा, ततः विरामं विना "उपास्यः" इति शब्दस्य उच्चारणम् करणीयम्, येन "सुध्युपास्यः" इति शब्दः श्रूयते । 2) **अस्तेर्भूः** (2.4.52) इति सूत्रे "अस्तेः" इति "अस्ति"-शब्दस्य षष्ठीविभक्तिः प्रयुक्ता अस्ति । अतः प्रकृतसूत्रस्य साहाय्येन अत्र **अस्-धातोः स्थाने (उच्चारणप्रसङ्गे)** इति अर्थः विधीयते । इत्यक्ते, यत्र अस्-धातोः अनन्तरम् आर्धधातुकप्रत्ययः विधीयते, तत्र अस्-धातोः स्थाने भू-शब्दस्य उच्चारणम् करणीयम् इति अर्थः सिद्ध्यति । 3) **हन्तेर्जः** (6.4.36) अस्मिन् सूत्रे "हन्तेः" इति षष्ठ्यन्तम् पदम् प्रयुक्तम् अस्ति । अतः प्रकृतसूत्रस्य साहा्ययेन अत्र **हन्-धातोः स्थाने (उच्चारणप्रसङ्गे)** इति अर्थः सिद्ध्यति । इत्युक्ते, लोट्लकारस्य मध्यमपुरुषस्य एकवचने "हन्"-धातोः स्थाने "ज"-शब्दस्य उच्चारणम् करणीयम् - इति अर्थः सिद्ध्यति । ** यत्र षष्ठीविभक्त्याः शब्देन विशिष्टस्य अर्थस्य निर्णयः प्रारम्भे एव भवति, तत्र संशयस्य अभावात् (अनियमस्य अभावात्) प्रकृतसूत्रस्य प्रयोगः अपि न करणीयः । ** यथा — 1. **तद्धितेष्वचामादेः** (7.2.117) इत्यस्मिन् सूत्रे **अचाम्** इति षष्ठ्यन्तम् पदम् **निर्धारणषष्ठीरूपेण** प्रयुज्यते । सर्वेषाम् अचां मध्ये यः आदिः — इति अत्र 'अचाम् आदिः' इत्यस्य अर्थः । अत्र 'अचाम्' शब्दस्य षष्ठीविभक्तेः अर्थः स्पष्टः अस्ति, अतः अत्र प्रकृतसूत्रस्य साहाय्यं नैव स्वीक्रियते । परन्तु अस्मिन्नेव सूत्रे विद्यमानस्य 'आदेः' इति शब्दस्य अर्थनिर्णये तु प्रकृतसूत्रस्य साहाय्यं स्वीकृत्य 'आदिवर्णस्य स्थाने' (आदिवर्णस्य उच्चारणप्रसङ्गे) इति अर्थः सिद्ध्यति । 2. **ऊदुपधाया गोहः** (6.4.89) इत्यस्मिन् सूत्रे **गोहः** इति शब्दे विद्यमाना षष्ठीविभक्तिः **अवयवषष्ठी** अस्ति । गुह्-धातोः यः उपधासंज्ञकः अवयवः — इति अत्र 'गोहः उपधायाः' इत्यस्य अर्थः । अत्र 'गोहः' शब्दस्य षष्ठीविभक्तेः अर्थः स्पष्टः अस्ति, अत्र प्रकृतसूत्रस्य साहाय्यं नैव स्वीक्रियते । परन्तु अस्मिन्नेव सूत्रे विद्यमानस्य 'उपधायाः' इति शब्दस्य अर्थनिर्णये तु प्रकृतसूत्रस्य साहाय्यं स्वीकृत्य 'उपधावर्णस्य स्थाने' (उपधावर्णस्य उच्चारणप्रसङ्गे) इति अर्थः सिद्ध्यति । 3. **तस्यापत्यम्** (4.1.92) इत्यस्मिन् सूत्रे विद्यमानः **तस्य** इति षष्ठ्यन्तशब्दः **स्वामित्वसम्बन्धम्** दर्शयति । अत्रापि षष्ठीविभक्तेः अर्थः स्पष्टः अस्ति, अत; प्रकृतसूत्रस्य प्रयोगः अत्र नैव क्रियते । **स्थानसम्बन्धः त्रिविधः** षष्ठीविभक्तेः सामान्यः अर्थः 'सम्बन्धः' इति अस्ति । सम्बन्धस्य अनेके भेदाः व्याकरणशास्त्र निर्दिष्टाः वर्तन्ते । एतेषु अन्यतमः भेदः 'स्थानिसम्बन्धः' इति प्रकृतसूत्रेण अर्थनिर्देशे उपयुज्यते अस्य स्थानिसम्बधस्य अपि त्रयः उपभेदाः सन्ति — अपकर्षः, निवृत्तिः, प्रसङ्गः । एतेभ्यः 'प्रसङ्गः' इति भेदः प्रकृतसूत्रेण स्वीकृतः अस्ति, अतः अत्र 'स्थाने' इत्यस्य अर्थः 'उच्चारणप्रसङ्गे' इति क्रियते । एतेषाम् त्रयाणाम् भेदानाम् संक्षेपेण अर्थाः एतादृशाः — ** 1. अपकर्षः ** — यत्र एकस्य पदार्थस्य निष्कासनं कृत्वा तस्य स्थाने अन्यः पदार्थः संस्थाप्यते, तत्र **अपकर्षसम्बन्धः** अस्ति इति उच्यते । यथा, *गोस्थाने अश्वः बध्यताम्* इत्यनेन वाक्येन — 'कस्मिंश्चित् स्थले कश्चन गौः बद्धः अस्ति, तं तस्मात् स्थानात् निष्कास्य तत्स्थाने अश्वस्य बन्धनम् करणीयम्' इति अर्थः उच्यते । अत्र एकपदार्थस्य साक्षात् निष्कासनं कृत्वा तत्र द्वितीयः पदार्थः संस्थाप्यते, अतः अत्र 'स्थाने' इति शब्देन **अपकर्षसम्बन्धः** विधीयते । ** 2. निवृत्तिः ** — यत्र एकस्य पदार्थस्य निवारणम् / नाशं कर्तुम् तस्य स्थाने अन्यः पदार्थः संस्थाप्यते, तत्र **निवृत्तिसम्बन्धः** अस्ति इति उच्यते । यथा, *श्लेष्मणः स्थाने कटु औषधम्* इत्यनेन वाक्येन — 'कस्यचन मनुष्यस्य कफः अस्ति चेत्, तस्य निवारणार्थम् तत्स्थाने ओषधेः सेवनं करणीयम् ' इति अर्थः उच्यते । अत्र कस्यापि पदार्थस्य साक्षात् निष्कासनं नास्ति, परन्तु एकपदार्थस्य निवृत्तये तत्थाने (तदुपरि) अन्यपदार्थस्य स्थापनं क्रियुते, अतः अत्र 'स्थाने' इति शब्देन **निवृत्तिसम्बन्धः** विधीयते । ** 3. प्रसङ्गः ** — यत्र 'एकस्य पदार्थस्य संस्थापनम् करणीयम्' इति केवलं निश्चयं कृत्वा, तदनन्तरं साक्षात् संस्थापनस्य काले मतपरिवर्तनं कृत्वा, तस्य स्थाने द्वितीयः पदार्थः संस्थाप्यते, तत्र **प्रसङ्गसम्बन्धः** अस्ति इति उच्यते । यथा, *दर्भाणां स्थाने शरैः प्रस्तरितव्यम् * इत्यनेन वाक्येन — 'अस्यां भूमौ दर्भाः प्रस्तरितव्याः इति पूर्वम् चिन्तितम् आसीत्, परन्तु इदानीं तत्स्थाने शराणाम् प्रस्तरः कर्तव्यः' इति अर्थः उच्यते । अत्र एकपदार्थस्य संस्थापनात् पूर्वमेव मतपरिवर्तनं कृत्वा तत्र (केवलं) द्वितीयः पदार्थः एव संस्थाप्यते, अतः अत्र **स्थाने** इति शब्देन **प्रसङ्गसम्बन्धः** विधीयते । एतेभ्यः अपकर्षसम्बन्धे निवृत्तिसम्बन्धे च प्रथमपदार्थस्य निष्कासनम् / नाशः भवति । एतादृशम् निष्कासनम् नाशनम् वा शब्दानाम् विषये नैव सम्भवति, यतः शब्दाः नित्याः सन्ति इति भाष्यसिद्धान्तः वर्तते । अतः प्रकृतसूत्रस्य सन्दर्भे स्थानशब्देन केवलम् प्रसङ्गसम्बन्धः एव स्वीक्रियते । अतएव सिद्धान्तकौमुद्याम् अपि **स्थानं च प्रसङ्गः** इति वाक्यं विद्यते । अस्मिन्नेव विषये काशिकायाम्, न्यासे च इत्थं विवरणं लभ्यते — स्थानशब्दः च प्रसङ्गवाची । यथा, दर्भाणां स्थाने शरैः प्रस्तरितव्यम् इति दर्भाणां प्रसङ्गे इति गम्यते ।एवमेव इह अपि, अस्तेः स्थाने प्रसङ्गे भूः भवति । — काशिका स्थानशब्दः भावसाधनः । स्थितिः स्थानम् । तत् पुनः त्रिधा — अपकर्षः, निवृत्तिः, प्रसङ्गः च इति। गोस्थाने अश्वः बध्यताम् इति अपकर्षः स्थानशब्दस्य आस्थेयः । श्लेष्मणः स्थाने कटुकम् औषधम् इत्यत्र निवृत्तिः। दर्भाणां स्थाने शरैः आस्तरितव्यम् इति प्रसङ्गः। तत्र आद्यौ अर्थौ इह न सम्भवतः, नित्यत्वात् शब्दार्थसम्बन्धस्य प्रथमो न सम्भवति; सामान्येन अस्तेः उपदेशात् न द्वितीयः । तस्मात् तृतीय एव अर्थः इति मत्वा आह - 'स्थानशब्दः च' इति । प्रसङ्गः तु अर्थक्रियानिमित्तभूतस्य कालस्य अवसरः । — न्यासः **स्थानेयोगा इति बहुव्रीहिसमासः** प्रकृतसूत्रे विद्यमानः **स्थानेयोगा** इति शब्दः बहुव्रीहिसमासनिर्मितः अस्ति । **स्थाने योगः अस्याः** इति व्यधिकरणबहुव्रीहिं कृत्वा, निपातनात् सप्तम्याः अलुक् कृत्वा **स्थानेयोगा** इति शब्दः सिद्ध्यति । अयं शब्दः "षष्ठी" इत्यस्य विशेषणरूपेण प्रयुज्यते । व्याकरणशास्त्रे प्रयुक्ता षष्ठीविभक्तिः स्थाने इति अर्थयुक्ता अस्ति — इति अत्र शब्दशः अर्थः वर्तते । Sutrartha (English) ------------------- When the षष्ठी विभक्ति occurring in a sutra does not indicate a clear relationship, it is considered to indicate the स्थानी. Vasu English Summary -------------------- The force of the genitive case in a sūtra is that of the phrase 'in the place of', when no special rules qualify the sense of Genitive 6th-Case. Vasu English Translation ------------------------ The force of the genitive case in a sūtra is that of the phrase 'in the place of', when no special rules qualify the sense of Genitive 6th-Case. This *sutra* explains the mode of interpreting words used in the possessive case (sixth case) in the *sutras* of *Panini*. The genitive case or *shashthi* denotes many sorts of relations in Sanskrit, such as causation, possession, relation in place, comparison, nearness, proximity, change, collection, component member, &c. So that when a word is in the genitive case in a *sutra* generally, the doubt may arise in what sense that genitive is to be used. This aphorism lays down the restrictive rule for the interpretation of such words. It says that the force of such genitive is to convey the meaning of 'in the place of.' Thus in the *sutra* (1.1.3), the word इक् is in the genitive case; the literal translation being :- "of *ik* there is *guna* and *vriddhi*." But "of" here means by virtue of the present rule of interpretation "in the place of." So that the *sutra* means 'in the place of इक्.' Similarly in the *sutra* immediately preceding this, viz. (1.1.48), we have the word एच् in the genitive case and the *sutra* means 'of एच्.' Here also "of" means "in the place of." Thus in *sutra* हन्तेर्ज (6.4.36) 'of *hanti*, there is ज्' the word हन्ते, is the genitive of हन्ति; this genitive is used generally and its force is that of "in the place of." Therefore, ज् displaces the verb हन् in लोट् or imperative mood, and we have the जहि 'kill thou.' This *sutra* is also thus translated by Dr. Kielhorn :- Only that which is enunciated in a rule, i.e. that which is read in a rule or rather that which in the real language is like that which is read in a rule in a genitive case, or that which forms part of that which is enunciated in a genitive case, assumes the peculiar relation denoted by the word स्थान 'place' i. e, is that in the place of which some thing else is substituted, but some thing suggested by the former does not assume that relation. The word स्थान here is synonymous with प्रसङ्ग or 'occasion.' Thus in the sentence दर्भाणां स्थाने शरैः प्रस्तरितव्यम्, the word *sthane*, means 'prasange' i. e. wherever there is occasion to spread *darbha* grass, spread there the *sara* instead. Similarly in *sutras* अस्तेर्भूः (2.4.52), or ब्रुवो वचिः (2.4.53), the words '*asti*,' and '*bru*' are in the genitive case, and mean, 'wherever there arises occasion to use the verbs अस् or ब्रू use there the verbs भू or वच् instead respectively.' Thus भविता, भवितुम्, भवितव्यम्, are the future, gerund, and passive participle respectively of अस्; so also, वक्ता, वक्तुम् and वक्तव्यम् are the same forms of ब्रू. The word स्थानेयोगा is a *bahuvrihi* compound of two words, not in apposition, (*vyadhikarana* *bahuvrihi*, see (2.2.248) (2.2.35)), and it qualifies the word *shashthi*. The compound means स्थाने योगोऽस्या, 'that which assumes the peculiar relation denoted by the word *sthana*.' Consequently the seventh case-affix is not elided in this compound; on the analogy of compounds like कण्ठेकालः &c. Bhashya ------- षष्ठी स्थानेयोगा किमिदं स्थानेयोगेति ? स्थाने योगोऽस्याः सा स्थानेयोगा। सप्तम्यलोपो निपातनात्। तृतीयाया वा एत्वम्। स्थानेन योगोऽस्याः सा स्थानेयोगेति। किमर्थं पुनरिदमुच्यते? षष्ठी स्थानेयोगवचनं नियमार्थम्। नियमार्थोऽयमारम्भः। एकशतं षष्ठ्यर्था यावन्तो वा सन्ति ते सर्वे षष्ठ्यामुच्चारितायां प्राप्नुवन्ति। इष्यते च व्याकरणे या षष्ठी सा स्थानेयोगैव स्यादिति तच्चान्तरेण यत्नं न सिध्यतीति षष्ठ्याः स्थानेयोगवचनं नियमार्थम्। एवमर्थमिदमुच्यते। अस्ति प्रयोजनमेतत्। किं तर्हीति? ॥ अवयवषष्ठ्यादिष्वतिप्रसङ्गः शासो गोह इति ॥ अवयवषष्ठ्यादयस्तु न सिध्यन्ति। तत्र को दोषः। शास इदङ् हलोरिति शासेश्चान्त्यस्य स्यादुपधामात्रस्य च। ऊदुपधाया गोहः इति गोहेश्चान्त्यस्य स्यादुपधामात्रस्य च। ॥ अवयवषष्ठ्यादीनां चाप्राप्तिर्योगस्यासंदिग्धत्वात् ॥ अवयवषष्ठ्यादीनां च नियमस्याप्राप्तिः। किं कारणम्? योगस्यासंदिग्धत्वात्। सन्देहे नियमः। न चावयवषष्ठ्यादिषु सन्देहः। किं वक्तव्यमेतत्? नहि। कथमनुच्यमानं गंस्यते? लौकिकोऽयं दृष्टान्तः। तद्यथा लोके कश्चित् कंचित् पृच्छति ग्रामान्तरं गमिष्यामि पन्थानं मे भवानुपदिशत्विति। स तस्मायाचष्टे अमुष्मिन्नवकाशे हस्तदक्षिणो ग्रहीतव्यः। अमुष्मिन्नवकाशे हस्तवाम इति। यस्तत्र तिर्यक्पथो भवति, न तस्मिन् सन्देह इति कृत्वा नासावुपदश्यते। एवमिहापि सन्देहे नियमः। न चावयवषष्ठ्यादिषु सन्देहः। अथवा स्थाने अयोगा स्थानेयोगा। किमिदमयोगेति। अव्यक्तयोगा अयोगा। अथवा योगवती योगा। का पुनर्योगवती। यस्या बहवो योगाः। कुत एतत्? भूम्नि हि मतुप् भवति। ॥ विशिष्टा वा षष्ठी स्थानेयोगा ॥ अथवा किंचिल्लिङ्गमासज्य वक्ष्यामि इत्थं लिङ्गा षष्ठी स्थानेयोगा भवतीति। न च तल्लिङ्गमवयवषष्ठ्यादिषु करिष्यते। यद्येवं शास इदङ्हलोः। शा हौ। शासिग्रहणं कर्तव्यं स्थाने योगार्थं लिङ्गमासङ्क्ष्यामीति। न कर्तव्यम्। यदेवादः पुरस्तादवयवषष्ठ्यर्थं प्रकॢप्तम्, एतदुत्तरत्रानुवृत्तं सत् स्थानेयोगार्थं भविष्यति। कथम्? अधिकारो नाम त्रिप्रकारः। कश्चिदेकदेशस्थः सर्वं शास्त्रमभिज्वलयति। यथा प्रदीपः सुप्रज्वलितः सर्वं वेश्माभिज्वलयति। अपरोऽधिकारो यथा रज्ज्वा अयसा वा बद्धं काष्ठमनुकृष्यते तद्वदनुकृष्यते चकारेण। अपरोऽधिकारः प्रतियोगं तस्यानिर्देशार्थ इति योगे योगे उपतिष्ठते। तद् यदैष पक्षः अधिकारः प्रतियोगं तस्यानिर्देशार्थ इति, तदा हि यदेवादः पुरस्तादवयवषष्ठ्यर्थम् एतदुत्तरत्रानुवृत्तं सत् स्थानेयोगार्थं भविष्यति। सम्प्रत्ययमात्रमेतद् भवति। न ह्यनुच्चार्य शब्दं लिङ्गं शक्यमासङ्क्तुम्। एवं तर्ह्यादेशे तल्लिङ्गं करिष्यते। तत् प्रकृतिमास्कन्त्स्यति। यदि नियमः करिष्यते। यत्रैका षष्ठी अनेकं च विशेष्यं तत्र न सिध्यति। अङ्गस्य हलः अणः सम्प्रसारणस्येति। हलपि विशेष्योऽणपि विशेष्यः। सम्प्रसारणमपि विशेष्यम्। असति पुनर्नियमे कामचारः। एकया षष्ठ्या अनेकं विशेषयितुम्। तद्यथा देवदत्तस्य पुत्रः पाणिः कम्बल इति। तस्मान्नार्थो नियमेन। ननु चोक्तम् एकशतं षष्ठ्यर्थाः यावन्तो वा सन्ति ते सर्वे षष्ठ्यामुच्चारितायां प्राप्नुवन्तीति। नैष दोषः। यद्यपि लोके बहवोऽभिसम्बन्धा आर्था यौना मौखाः स्रौवाश्चेति। शब्दस्य तु शब्देन कोऽन्योभिसम्बन्धो भवितुमर्हति अन्यदतः स्थानात्। शब्दस्यापि शब्देनानन्तरादयोऽभिसम्बन्धाः। अस्तेर्भूर्भवतीति सन्देहः स्थाने अनन्तरे समीपे इति। सन्देहमात्रमेतद् भवति। सर्वसन्देहेषु चेदमुपतिष्ठते व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम् इति। स्थान इति व्याख्यास्यामः। न तर्हीदानीमयं योगो वक्तव्यः। वक्तव्यश्च। किं प्रयोजनम्? षष्ठ्यन्तं स्थानेन यथा युज्येत यतः षष्ठ्युच्चारिता। किं कृतं भवति? निर्दिश्यमानस्यादेशा भवन्तीति परिभाषा न कर्तव्या भवति। Kashika ------- परिभाषेयं योगनियमार्था। इह शास्त्रे या षष्ठी अनियतयोगा श्रूयते, सा स्थानेयोगैव भवति नान्ययोगा। स्थानेयोगस्य निमित्तभूते सति सा प्रतिपत्तव्या। स्थानशब्दश्च प्रसङ्गवाची। यथा दर्भाणां स्थाने शरैः प्रस्तरितव्यमिति दर्भाणां प्रसङ्ग इति गम्यते। एवमिहापि अस्तेः स्थाने प्रसङ्गे भूर्भवति। भविता। भवितुम्। भवितव्यम्। ब्रुवः प्रसङ्गे वचिर्भवति। वक्ता। वक्तुम्। वक्तव्यम्। प्रसङ्गे सम्बन्धस्य निमित्तभूते ब्रुव इति षष्ठी। बहवो हि षष्ठ्यर्थाः स्वस्वाम्यनन्तरसमीपसमूहविकारावयवाद्याः। तत्र यावन्तः शब्दे संभवन्ति तेषु सर्वेषु प्राप्तेषु नियमः क्रियते षष्ठी स्थानेयोगेति। स्थाने योगोऽस्या इति व्यधिकरणो बहुव्रीहिः। अत एव निपातनाच्च सप्तम्या अलुक्॥ Siddhanta Kaumudi ----------------- अनिर्धारितसम्बन्धविशेषा षष्ठी स्थानेयोगा बोध्या । स्थानं च प्रसङ्गः ॥ Laghu Shabdendushekhar ---------------------- परिभाषाणामनियमे नियमकारिणीत्वादाह - **अनिर्धारितेति** । तेन **ऊदुपधाया गोह:** (6.4.89) इत्यत्र स्थानेयोगत्वं न, उपधापदसन्निधानेनावयवषष्ठीत्वनिर्णयात् । स्थानेयोगेत्यस्य स्थानपदार्थनिरूपितसम्बन्धार्थिकेत्यर्थः । स्थानेन योगो यस्या इति विग्रहे निपातनात् साधुत्वस्य भाष्ये उक्तत्वात् अस्तेरनन्तरे इत्यादेरपि अनन्तरादिनिरूपितसम्बन्धे इत्येवार्थः । षष्ठीमात्रोच्चारणे स्थानपदाद्यध्याहार इत्यन्यत्र विस्तरः । प्रसङ्ग इति । **दर्भाणां स्थाने शरैः प्रस्तरितव्यम्** इत्यादौ तथा दर्शनात् । भावे ल्युट् स्थानशब्दे । प्रसङ्गश्च सति सम्भवेऽर्थवत एव, अर्थप्रत्यायनार्थं शब्दप्रयोगात् । **इको यणचि** (6.1.77) इत्यादेरच्परेकारघटितशब्दस्यार्थबोधनाय प्रसङ्गे तत्परयकारघटितः प्रयोक्तव्य इत्यर्थः । **एरुः** (3.4.86) इत्यादेश्च तेस्तुरिति, अतो न शब्दनित्यताहानिः । किञ्चेकारबुद्धिप्रसङ्गे यकारबुद्धिरित्यर्थः अत एव **अचः परस्मिन्..** (1.1.57) इत्यादि सङ्गच्छते। स्पष्टञ्चेदं **दाधा घ्वदाप्** (1.1.20) इति सूत्र- **स्थानिवत्…** (1.1.56)-सूत्रयोर्भाष्ये । Balamanorama ------------ **षष्ठी स्थानेयोगा** - षष्ठी स्थानेयोगा । स्थानं प्रसङ्ग इति वक्ष्यति । तस्मिन् वाचकतया योगो यस्याः सा स्थानेयोगा । निपातनात्सप्तम्या अलुक् । स्थानेन योगो यस्या इति वा विग्रहः । निपातनादेत्वम् ।इको यणची॑त्यादौ षष्ठी स्थानरूपसम्बन्धार्थिकेत्यर्थः । लोके तावदेकशतं षष्टर्था आर्था यौना मौखाः रुआऔवाश्च । शब्दस्य शब्देन त्रय एव संबन्धाः — आनन्तर्यं सामीप्यं प्रसङ्गश्चेति । तत्रान्यतमार्थनिर्धारणार्थमिदं सूत्रमिति भाष्यम् । ततश्च॒इको यणची॑त्यादौ 'इक' इति षष्टआ स्थानमुच्यते । तस्मिन् प्रकृत्यर्थ इक् निरूपकतयाऽन्वेति । अचि परत इकः प्रसङ्गे यण् स्यादिति । विवरणवाक्ये त्वस्मिन् 'इक' इति षष्ठी निरूपकतायामिति न पुनरुक्तिः शङ्काः । यता — ॒देवदत्तस्यावयवः पाणि॑रिति । 'ऊदुपधाया गोहः' इत्यत्र तु 'गोह' इति षष्ठी न स्थानार्थिका, उपपधापदसमभिव्याहारेणाऽवयवषष्ठीत्वनिर्धारणात्, परिभाषाणां चाऽनियमे नियमनार्थमेव प्रवृत्तेः । तदेतदाह-अनिर्धारितेत्यादिना । अनिर्धारितः सम्बन्धविशेषो यस्या इति विग्रहः । तदेवमुदाहृतप्रकृतभाष्यरीत्या॒इको यणची॑त्यादौ षष्ठी स्थानरूपसंबन्धविशेषार्थिकेति स्थितम् ।ष मतुप्सूत्रभाष्ये त्वनन्तरादयो न षष्ठर्था इति स्थितम् । एवं सति स्थाने इति सप्तम्यन्तपदेन योगो यस्या इति विग्रहे स्थाने इति सप्तम्यन्तस्यानुकरणम् । षष्ठीश्रुतौ 'स्थाने' इति सप्तम्यन्तं पदमुपतिष्ठत इति फलति । स्थानेन स्थानपदार्थेन योगो यस्या इति तृतीयान्तविग्रहे त्वध्याह्मतस्थानपदार्थनिरूपितसंबन्धार्थिकेत्यर्थः ।अस्तेर्भूर्भवतीति सन्देहः स्थाने अनन्तरे समीपे इति॑ इत्यादिप्रकृतसूत्रभाष्यस्य तु अस्तेरनन्तरे इत्यध्याह्मतानन्तरादिपदार्थनिरूपितसम्बन्धे षष्ठीत्येवार्थः । अनन्तरादीनां षष्ठर्थत्वं तु नास्त्येवेति प्रौढमनोरमायां हलन्त्यमिति सूत्रे स्थितम् । तद्व्याख्याने च शब्दरत्ने शब्देन्दुशेखरे च बहुधा प्रपञ्चितम् । अनिर्धारितेति किम् । ऊदुपधाया॑ इत्यत्र 'गोह' इति षष्ठ्याः स्थानार्थकत्वं मा भूत् । सति तु तत्रापि स्थानार्थकत्वे, गोहोऽन्त्यस्य उपधामात्रस्य च ऊत् स्यात् । ननु स्थानशब्द आधारवाची लोके प्रसिद्धः । यथा शिवस्थानं कैलासः, विष्णुस्थानं वैकुण्ठमित्यादौ । एवं च इको यणचीत्यादौ षष्ठ्याः स्थानार्थकत्वे प्रकृत्यर्थस्य तत्र निरूपकत्वेऽभेदेन वा अन्वये सति इकोऽधिकरणे यण् स्यादिति इगधिकरणको यण् स्यादिति वाऽर्थः स्यात् । तत इको निवृत्तिर्न स्यादित्यत आह — स्थानं च प्रसङ्ग इति । क्वचिदाभिचारेष्टौदर्भाणां स्थाने शरैःप्रस्तरितव्य॑मित्यत्र स्थानशब्दस्य प्रसङ्गे दर्शनादिति भावः । एवं च तत्र यथा शरैर्दर्भा निवत्र्यन्ते, तद्वदिको यणचीत्यादावपि यणादिभिरिगादयो निवत्र्यन्ते । तत्र च यः प्रसक्तो निवर्तते स स्थानीति व्यवह्यियते, यो निवर्तयति स आदेश इति । Tattvabodhini ------------- **षष्ठी स्थानेयोगा** - षष्ठी स्थानेयोगा । स्थानेन योगोऽस्या इति विग्रहः । निपातनादेत्वम् । षष्टआः संबन्धमात्रवाचित्वेऽपीह शास्त्रे या षष्ठी सा स्थानेयोगा बोध्या । किमविशेषेण , नेत्याह-अनिर्धारितसंबन्धविशेषेति । अनिर्धारितेति किम् ,ऊदुपधाया गोहः॑,शास इदङ्ह्मलो॑रित्यादावुपधासंनिधानेनावयवषष्ठीत्वे निर्णीतेगोहः॑शास॑ इत्यादौ मा भूत् । सति हि तत्रापि स्थानेयोगत्वे गोहिशासिस्थाने धातुमात्रस्योपधायाश्च स्थाने ऊदितौ स्यातामिति दिक् । स्थानं च प्रसङ्ग इति । न चास्य प्रसङ्गार्थकत्वे विवदितव्यम्,दर्भाणां स्थाने शरैः प्रस्तरितव्य॑मित्युक्ते दर्भाणां प्रसङ्ग इति प्रतीतेः । एवं चइको यणची॑-त्यादाविगुच्चारणप्रसक्तौ यगुच्चारणीय इत्याद्यर्थः संपद्यते । Nyaas ----- `योगनियमार्था` इति। योगनियमः सम्बन्धनियमः, सोऽर्थः प्रयोजनं यस्याः सातथोक्ता। यदि योगनियमार्थयम्- शास्त्रे या षष्ठी, सा स्थानेयोगैव् भवति, नान्ययोगे-ति। एवं सति **ऊदुपधाया गोहः** (6.4.89) इत्येषापि षष्ठी स्थानेयोगैव स्यात्, नावयवादयविसम्बन्धयोगा। ततश्च **अलोऽन्त्यस्य** (1.1.52) इति स्थानषष्ठआ अन्त्येऽप्युपसंहाराद् गोहश्चान्तस्य हकारस्य ऊकारः स्यात्। **उपधायाश्च** (7.1.101) इति वचनादुपधा-मात्रस्य चेत्यत आह-`इह शास्त्रे या षष्ठनियतयोगा` इत्यादि। अनियमप्रसङ्गेनियमोऽनया क्रियते। क्व चानियमप्रसङ्गः? यत्र सन्देहः; यथा-**अस्तेर्भूः** (2.4.52) इति। अत्र हि किमस्तेः स्थाने? आहोस्विदनन्तरे? इति सन्देहः, पूर्वत्र तूपधाया अवयवलक्षणस्य स्थानिनो विशिष्टावयविनो व्यवच्छिन्नत्वादवयवष्ठएवेयमिति निश्चितम्; ततो नात्रास्या व्यापारः। `स्थानेयोगैव` इति। स्थान इति निमित्तसप्तमी, योगःसम्बन्धः। तेनेदमुक्तं भवति-स्थाननिमित्तकसम्बन्धैवेति। एतदेव विस्पष्टीकुर्वन्नाह-`स्थाने योगस्य निमित्ते` इत्यादि। स्थानेयोगस् निमित्तभूते निमित्तत्वं प्राप्ते सति सा वेदितव्या। भूतशब्दो ह्यत्र प्राप्तशब्दे वर्तते; यथा- `देवभूतः` इत्यत्रदेवत्वं प्राप्त इत्यर्थः। निमित्तग्रहणं कुर्वन् सूत्रे स्थानेयोगेति निमित्तसप्त-मीयमिति दर्शयति। योगः पुनरिह स्थान्यादेशभावलक्षणः। कुत एतत्? तस्यैव स्थानि-हेतुत्वात्। स्थानशब्दोभावसाधनः, स्थितिः स्थानम्। तत् पुनस्त्रिधा- `अपकर्षः,निवृत्तिः,प्रसङ्गश्च` इति। गोस्थानेऽआओ बध्यतामित्यपकर्षः स्थानशब्दस्यास्थेयः। `श्लेष्मणः स्थाने कटुकमौषधम्` इत्यत्र निवृत्तिः। `दर्भाणां स्थाने शरैरास्तकरित-व्यम्` इति प्रसङ्गः। तत्राद्यावर्थाविह न सम्भवतः; नित्यत्वाच्छब्दार्थसम्बन्धस्य प्रथमो न सम्भवति; सामान्येनास्तेरुपदेशान्न द्वितीयः। तस्मात् तृतीय एवार्थ इति मत्वाह-`स्तानशब्दश्च` इति। प्रसङ्गस्त्वर्थक्रियानिमित्तभूतस्य कालस्यावसरः। `अस्तेस्थाने प्रसङ्गे` इति। अस्तेर्या क्रिया स्वार्थप्रतिपादनलक्षणा, तस्या निमित्तभूतस्य कालस्यावसरः प्राप्त इत्यर्थः। प्रसङ्गे सम्बन्धस्य निमित्तभूत इत्यादिना सूत्रार्थस्योदाहरणे सम्भवं दर्शयति। `ब्राउवः` इति चोपलक्षणमात्रम्। अस्तेरि-त्यादेरपि हि षष्ठी प्रसङ्ग एव सम्बन्धस्य निमित्तभाव उत्पन्ना।के पुनर्बहवः षष्ठर्थाः, यतः सम्बन्धान्तरविषयव्यवच्छेदनार्थं षष्ठआ इदमुच्यते? इत्याह-`बहवो हि` इत्यादि। शब्दे हि समीपानन्तरविकारावयवादिनिमित्ताः सम्बन्धाः सन्ति। न त्वपत्यापत्यवत्प्रभृतय इत्यतो `यावन्तः शब्दे सम्भवन्ति` इत्याह। अथ स्थानेयोग इत किमसमासः? अथ समासः? यद्यसमासः? तदा योगशब्दस्यपुंल्लिङ्गत्वात् स्त्रीलिङ्गेन निर्देशः, षष्ठीशब्देन च सामानाधिकरण्यं न प्राप्नोति; योगस्याषष्ठीत्वात्। अतः समासः किं तत्पुरुषः? आहोस्विद् बहुव्रीहिः? यदि तत्पुरुषः? तौ च पूर्वोक्तौ दोषौ स्याताम्, सप्तम्या लुकप्रसङ्गश्च। अथ बहुव्रीहिः? एवमपि लुक्प्रसङ्गोऽत्रानिवार्य एवेत्यत आह-`षष्ठी स्थानेयोगा` इत्यादि। गतार्थम्। Praudhamanorama --------------- **स्थानेयोगेति॥** स्थानेन योगोऽस्या इति विग्रहः। निपातनादेत्वम्। Prakriyasarvasvam ----------------- इह² शास्त्रे षष्ठी स्थानसम्बन्धार्थैव । 'एरुः' (३-४-८६) इत्युक्ता विकारस्य स्थाने ³उकारः स्यात्, न पूर्वं परं वा ।