11048: एच इग्घ्रस्वादेशे ======================== **Padacheda:** एचः | S | 6 | 1 | इक् | S | 1 | 1 | ह्रस्व-आदेशे | S | 7 | 1 | Sutrartha --------- **एच्-वर्णस्य ह्रस्वादेशे कृते इक्-वर्णः विधीयते ।** **एच्** = ए, ओ, ऐ, औ **इक्** = इ, उ, ऋ, ऌ एच्-प्रत्याहारस्थस्य स्वरस्य स्थाने यदि ह्रस्वादेशः प्राप्नोति, तर्हि तत्र इक्-प्रत्याहारस्थवर्णः एव आदेशरूपेण विधीयते इति अस्य सूत्रस्य आशयः । अत्र उचितस्य आदेशस्य निर्णस्यः स्थानसाधर्म्यस्य आधारेण क्रियते । इत्युक्ते, **एकारस्य ऐकारस्य च स्थाने इकारः विधीयते**, यतः एतेषाम् सर्वेषाम् उच्चारणार्थम् तालुनः साहाय्यं स्वीक्रियते । एवमेव, **ओकारस्य औकारस्य च स्थाने उकारः विधीयते**, यतः एतेषाम् सर्वेषाम् उच्चारणार्थम् ओष्ठयोः साहाय्यं स्वीक्रियते । क्रमेण उदाहरणानि एतानि — 1. एकारस्य ह्रस्वादेशे इकारादेशः "हेड्"-धातोः एकारस्य णिच्-प्रत्यये परे **मितां ह्रस्वः** (6.4.92) इति ह्रस्वादेशे प्राप्ते; प्रकृतपरिभाषाम् उपयुज्य इकारः आदेशरूपेण विधीयते । प्रक्रिया इयम् — .. code-block:: text हेडृ (अनादरे, भ्वादिः, (1.817)) [अयं धातुः घटादि-अन्तर्गणे विद्यते, अतः **घटादयो मितः** इति गणसूत्रेण अयम् मित् स्वीक्रियते ।] → हेड् + णिच् [**हेतुमति च** (3.1.26) इति हेतौ णिच्] → हेड् + इ [इत्संज्ञालोपः] → हिड् + इ [**मितां ह्रस्वः** (6.4.92) इति ह्रस्वः । एकारस्य ह्रस्वादेशे कर्तव्ये **एच इग्घ्रस्वादेशे** (1.1.48) इत्यनेन स्थानसाधर्म्यात् इकारादेशः विधीयते ।] → हिडि [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा] → हिडि + अनीयर् [**तव्यत्तव्यानीयरः** (3.1.96) इति अनीयर्-प्रत्ययः] → हिड् + अनीय [**णेरनिटि** (6.4.51) इति णिच्-प्रत्ययस्य लोपः । अग्रे **पुगन्तलघूपधस्य च** (7.3.86) इत्यनेन हकारोत्तस्य इकारस्य गुणादेशे प्राप्ते **अचः परस्मिन् पूर्वविधौ** (1.1.57) इति इकारस्य स्थानिवद्भावेन सः नैव प्रसज्यते ।] → हिडनीय 2. ऐकारस्य ह्रस्वादेशे इकारादेशः "अतिरै"-इति ऐकारान्तशब्दः यदा नपुंसके प्रयुज्यते, तदा **ह्रस्वो नपुंसके प्रातिपदिकस्य** (1.2.47) इत्यनेन अस्य ह्रस्वादेशः भवति । अत्र ऐकारस्य स्थाने ह्रस्वादेशे प्राप्ते प्रकृतसूत्रेण इकारः आदेशरूपेण विधीयते । प्रक्रिया इयम् — .. code-block:: text अतिरै + सुँ [नपुँसकलिङ्गस्य प्रथमैकवचनस्य प्रत्ययः] → अतिरि + स् [**ह्रस्वो नपुंसके प्रातिपदिकस्य** (1.2.47) इति प्रातिपदिकस्य ह्रस्वादेशः । **अचश्च** (1.2.28) इत्यनेन अयम् अच्-वर्णस्य स्थाने भवति । ऐकारस्य स्थाने स्थानसाधर्म्येण **एच इग्घ्रस्वादेशे** (1.1.48) इति इकारादेशः विधीयते ।] → अतिरि [**स्वमोर्नपुंसकात्** (7.1.23) इति सुँ-प्रत्ययसस्य लुक्] 3. ओकारस्य ह्रस्वादेशे उकारादेशः "श्लोक्"-धातोः लिट्-लकारस्य प्रक्रियायाम् अभ्यासे विद्यमानस्य ओकारस्य ह्रस्वादेशे कर्तव्ये प्रकृतसूत्रेण तस्य उकारादेशः भवति । प्रक्रिया इयम् — .. code-block:: text श्लोकृ (संघाते, भ्वादिः, (1.81)) → श्लोक् + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्-लकारः] → श्लोक् + त [आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् [**तिप्तस्झि..** (3.4.78) इति त-प्रत्ययः] → श्लोक् + एश् [**लिटस्तझयोरेशिरेच्** (3.4.81) इति तिप्-प्रत्ययस्य एश्-आदेशः । शित्त्वात् **अनेकाल्शित्सर्वस्य** (1.1.55) इति सर्वादेशः] → श्लोक् + ए [इत्संज्ञालोपः] → श्लोक् श्लोक् + ए [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्] → शो श्लोक् + ए [**हलादिः शेषः** (7.4.60) इति अभ्यासस्य हलादिः अवशिष्यते ।] → शु श्लोक् + ए [**ह्रस्वः** (7.4.59) इति अभ्यासस्य ह्रस्वः भवति । अत्र ओकारस्य ह्रस्वादेशे कर्तव्ये प्रकृतसूत्रेण तस्य स्थाने उकारः विधीयते ।] → शुश्लोके 4. औकारस्य ह्रस्वादेशे उकारादेशः "अतिनौ"-इति औकारान्तशब्दः यदा नपुंसके प्रयुज्यते, तदा **ह्रस्वो नपुंसके प्रातिपदिकस्य** (1.2.47) इत्यनेन अस्य ह्रस्वादेशः भवति । अत्र औकारस्य स्थाने ह्रस्वादेशे प्राप्ते प्रकृतसूत्रेण उकारः आदेशरूपेण विधीयते । प्रक्रिया इयम् — .. code-block:: text अतिनौ + सुँ [नपुँसकलिङ्गस्य प्रथमैकवचनस्य प्रत्ययः] → अतिनु + स् [**ह्रस्वो नपुंसके प्रातिपदिकस्य** (1.2.47) इति प्रातिपदिकस्य ह्रस्वादेशः । **अचश्च** (1.2.28) इत्यनेन अयम् अच्-वर्णस्य स्थाने भवति । औकारस्य स्थाने स्थानसाधर्म्येण **एच इग्घ्रस्वादेशे** (1.1.48) इति उकारादेशः विधीयते ।] → अतिनु [**स्वमोर्नपुंसकात्** (7.1.23) इति सुँ-प्रत्ययसस्य लुक्] Sutrartha (English) ------------------- When an 'एच्' letter undergoes a हस्वादेश, it is replaced by an 'इक्' letter. Vasu English Summary -------------------- Of एच् vowels, इक् is the substitute, when short is to be substituted. Vasu English Translation ------------------------ Of एच् vowels, इक् is the substitute, when short is to be substituted. This *sutra* points out the हृस्व substitutes of एच्. We know there are short and long vowels in Sanskrit, but properly speaking the एच् vowels have no corresponding short vowels. Therefore, when, in any rule, एच् vowels are told to be shortened, this *sutra* declares that the short vowels of ए and ऐ, ओ and औ, for the purposes of the rule, will be इ and उ respectively. Thus, (1.2.47) declares:-- "the short vowel is the substitute in the neuter of a crude form provided it end in a vowel." Therefore in compounding अति + रै, the ऐ must be shortened. Properly speaking ऐ has no short vowel corresponding to it, but by virtue of this *sutra*, इ supplies the place of such a short vowel, and we have अतिरि 'extravagant' so नौ, अतिनु 'disembarked or landed,' गो, उपगु 'near a cow.' All *avyayibhava* compounds are neuter (2.4.18). Why do we say 'of एच्'? Because the short of other vowels will not be इक्. Thus the short of आ is अ. As, अति = खट्वा = अतिखट्वः, अति + माला = अतिमालः । Why do we say 'when short is to be substituted?' Because when प्लुत or prolated vowels are to be substituted for एच्, the इक् will not be the substitute. As देवदत्त *O* *Devadatta* ! देवद३त्त ! Bhashya ------- एच इग्घ्रस्वादेशे किमर्थमिदमुच्यते। ॥ एच इग्वचनं सवर्णाकारनिवृत्त्यर्थम् ॥ एच इग् भवतीत्युच्यते सवर्णानिवृत्त्यर्थमकारनिवृत्त्यर्थं च। सवर्ण निवृत्त्यर्थे तावत्- एङो ह्रस्वादेशशासनेषु अर्ध एकारः, अर्ध ओकारो वा मा भूदिति। अकारनिवृत्त्यर्थं च। इमावैचौ समाहारवर्णौ। मात्रावर्णस्य, मात्रेवर्णोवर्णयोः। तयोर्ह्रस्वशासनेषु कदाचिदवर्णः स्यात्। कदाचिदिवर्णो वर्णौ। मा कदाचिदवर्णौ भूदित्येवमर्थमिदमुच्यते। अस्ति प्रयोजनेतत्। किं तर्हीति? ॥ दीर्घप्रसङ्गस्तु ॥ दीर्घास्त्विकः प्राप्नुवन्ति। किं कारणम्? स्थानेन्तरतमो भवतीति। ननु च ह्रस्वादेश इत्युच्यते तेन दीर्घा न भविष्यन्ति। विषयार्थमेतत् स्यात्। एचो ह्रस्वप्रसङ्गे इग् भवतीति। ॥ दीर्घाप्रसङ्गस्तु निवर्तकत्वात् ॥ दीर्घाणां त्विकामप्रसङ्गः। किं कारणम्? निवर्तकत्वात्। नानेनेको निर्वत्यन्ते। किं तर्हि? अनिको निर्वत्यन्ते। सिद्धा ह्यत्र ह्रस्वा इकाश्चानिकश्च। तत्रानेनानिको निर्वत्यन्ते। ॥ सवर्णनिवृत्त्यर्थेन तावन्नार्थः ॥ ॥ सिद्धमेङः सस्थानत्वात् ॥ सिद्धमेतत्। कथम्? एङः सस्थानत्वात् इकारोकारौ भविष्यतः। अर्ध एकारोऽर्ध ओकारो वा न भविष्यति। ननु च एङः सस्थानतरावर्धैकारार्धौकारौ। न तौ स्तः। यदि हि तौ स्यातां तावेवायमुपदिशेत्। ननु च भोश्छन्दोगानां सात्यमुग्रिराणायनीया अर्धमेकारमर्धमोकारं चाधीयते। सुजाते ए अश्वसूनृते। अध्वर्यो ओ अद्रिभिः सुतम्। शुक्रं ते ए अन्यत्। यजतं ते ए अन्यदिति। पार्षदकृतिरेषा तत्र भवताम्। नैव लोके नान्यस्मिन् वेदे अर्ध एकारः, अर्ध ओकारो वास्ति। अकारनिवृत्त्यर्थेनापि नार्थः। ॥ ऐचोश्चोत्तरभूयस्त्वात् ॥ ऐचोश्चोत्तर भूयस्त्वादवर्णो न भविष्यति। भूयसी मात्रेवर्णोवर्णयोरल्पीयस्यवर्णस्य। भूयस एव ग्रहणानि भविष्यन्ति। तद्यथा ब्राह्मणग्राम आनीयतामित्युच्यते। तत्र चावरतः पञ्चकारुकी भवति। Kashika ------- एचो ह्रस्वादेशे कर्तव्य इगेव ह्रस्वो भवति नान्यः। रै — अतिरि। नौ — अतिनु। गो — उपगु। एच इति किम्? अतिखट्वः। अतिमालः। ह्रस्वादेश इति किम्? देव॑दत्त। दे३वदत्त॥ Siddhanta Kaumudi ----------------- आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात् । प्रद्यु । प्रद्युनी । प्रद्यूनि । प्रद्युनेत्यादि । इह न पुंवत् । यदिगन्तं प्रद्यु इति तस्य भाषितपुंस्कत्वाऽभावात् । एवमग्रेऽपि । प्ररि । प्ररिणी । प्ररीणि । प्ररिणा । एकदेशविकृतस्याऽनन्यत्वात् रायो हलि इत्यात्वम् । प्रराभ्याम् । प्रराभिः । नुमिचिरेति नुट्यात्वे प्रराणामिति माधवः । वस्तुतस्तु संनिपातपरिभाषया नुट्यात्वं न । नामि (SK209) इति दीर्घस्त्वारम्भसामर्थ्यात्परिभाषां बाधत इत्युक्तम् । प्ररीणाम् । सुनु । सुनुनी । सुनूनि । सुनुना । सुनुने । इत्यादि ॥ Laghu Siddhanta Kaumudi ----------------------- आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात् । प्रद्यु । प्रद्युनी । प्रद्यूनि । प्रद्युनेत्यादि ॥ प्ररि । प्ररीणि । प्ररिणा । **एकदेशविकृतमनन्यवत्** (परिभाषा) । प्रराभ्याम् । प्ररीणाम् । सुनु । सुनुनी । सुनूनि । सुनुनेत्यादि ॥ Balamanorama ------------ **एच इग्घ्रस्वादेशे** - अथ ओदन्ताः । प्रकृष्टा द्यौर्यस्येति बहुव्रीहौ प्रद्योशब्दस्य 'ह्रस्वो नपुंसके' इति ह्रस्वः प्राप्नुवन्नेचो ह्रस्वाऽभावात्तेषां द्विस्थानत्वेन अ, इ, उ, ऋ, लृ, इत्येतेषां ह्रस्वानामन्तरतमत्वाऽभावादन्तरस्थानसाम्याश्रयेण अवर्णादिषु यस्य कस्यचिदनियमेन पर्यायेण वा प्राप्ताविदमारभ्यते — एच इक् । आदिश्यते इत्यादेशः । कर्मणि घञ् । तस्य ह्रस्वपदेन सह कर्मधारयः विशेष्यस्यार्षः पूर्वनिपातः । आदेश इति निर्धारणसप्तमी । सौत्रमेकवचनम् । तदाह — आदिश्यमानेष्वित्यादिना । 'मध्ये' इत्यपपाठः, तद्योगे षष्ठआ एवौचित्यात् । इगेवेति । तेन अकारव्यावृत्तिः फलतीति भावः । यद्यपीकश्चत्वारः, एचोऽप्येवं, तथापि स्थान्यादेशानां यथासङ्ख्यं न भवति । न ह्रयमपूर्वविधिः, किन्तु नियमविधिः । यताप्राप्तमेव नियम्यते । एचां हि पूर्वभागोऽवर्णसदृशः । उत्तरभागस्तु इवर्णोवर्णसदृशः । तत्पर पूर्वभागसादृश्यमवर्णस्यास्ति । तस्य च इग्ग्रहणेन निवृत्तौ इवर्णसादृश्यमात्रमादाय एकारस्य ऐकारस्य च इवर्णः, उवर्णसादृस्यादोकारस्य औकारस्य च उवर्ण इति व्यवस्था न्यायप्राप्ता । यताप्राप्तमेव च नियम्यत इति न यतासङ्ख्यम् । ततश्च प्रद्योशब्दे ओकारस्य उकारो ह्रस्व इत्यभिप्रेत्योदाहरति — प्रद्यु इत्यादि । ननुं पुंनपुंसकयोः प्रकृष्टस्वर्गवत्त्वमेकमेव प्रवृत्तिनिमित्तमिति टादौ पुंवत्त्वविकल्पः कुतो नेत्यत आह — इह न पुंवदिति । कुत इत्यत आह — यदिगन्तमिति । प्रद्योशब्द ओदन्तः पुंसि । प्रद्युशब्दस्तु उदन्तो नपुंसके । तथाच पुंसि प्रद्योशब्दस्य भाषितपुंस्कत्वेऽपि नपुंसके प्रद्युशब्दस्य तदपेक्षया भिन्नत्वेन भाषितपुंस्कत्वाऽभावान्न पुंवत्वमित्यर्थः । केचित्तु पुंसि यः प्रद्योशब्द ओदन्तः स एवेदानीं नपुंसकः, तस्य ह्रस्वान्तत्वेऽपि एकदेशविकृतस्याऽनन्यत्वात्, अतः पुंवत्वविकल्पोऽस्त्येवेत्याहुः । एवमग्रेऽपीति । प्ररि, सूवु इत्यादावपीत्यर्थः । इत्योदन्ताः । अथ ऐदन्ताः । एकारान्तस्योदाहरणं तु स्मृत इः कामो येन स स्मृतेः । सु=शोभनः स्मृतेर्यस्य तत् 'सुस्मृति' इत्यादि बोध्यम् । प्ररीति । प्रकृष्टो रा=धनं यस्य इति बहुव्रीहौ प्ररैशब्दः । तस्य नपुंसकह्रस्वत्वेन इकारः । सुटि वारिवत् । सोर्लुप्तत्वात्रायो हली॑त्यात्वं न, टादावचि पुंवत्त्वविकल्पः प्रद्युशब्दवत् । भ्यामादौ हलि विशेषमाह — रायो हलीत्यात्वमिति । ननु रैशब्दस्य ऐदन्तस्य बिहितमात्वं कथमिदन्तस्येत्यत आह — एकदेशविकृकतस्यानन्यत्वादिति । आमि विशेषमाह — नुमचिरेति । नुटिरायो हली॑त्यात्वे प्रराणामित्यन्वयः । ननु प्ररि-आमिति स्थिते नुटं बाधित्वा परत्वान्नुमि तस्याङ्गभक्तत्वाद्धलादिविभक्त्यभावात्कथमात्वमित्यत आह — नुमचिरेति । पूर्वविप्रतिषेधान्नुमं बाधित्वा नुठआत्वं निर्बाधमिति भावः । संनिपातेति । ह्रस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुटस्तद्विघातकमात्वं प्रति निमित्तत्वाऽसंभवादिति भावः । ननु तर्हि ह्रस्वान्तत्वमुपजीव्य प्रवृत्तस्य नुटस्तद्विघातकंनामी॑ति दीर्घं प्रति कथं निमित्तत्वमित्यत आह — नामीति दीर्घस्त्विति । इत्युक्तमिति । 'रामशब्दाधिकारे' इति शेषः । इत्यैदन्ताः । अथ औदन्ताः । सु=शोभना नौर्यस्येति विग्रहे बहुव्रीहौ 'ह्रस्वो नपुंसके' इति ह्रस्व उकार इति मत्वाह — सुनु इति । इत्यौदन्ताः॥*****इति बालमनोरमायामजन्ता नपुंसकलिङ्गाः*****अथाऽलुक्समासप्रकरणम् । — — — — — — — — — Tattvabodhini ------------- **एच इग्घ्रस्वादेशे** - एचः । आदिश्यत इत्यादेशः, ह्रस्वाश्चसावादेशश्च ह्रस्वादेशः । निर्धरणे सप्तमी, जातबेकवचनमतो व्यचष्टे — -आदिश्यमानेषु ह्रस्वेष्विति । एचां पूर्वभागोऽकारसदृशः, उत्तरस्तु इवर्णोवर्णसदृशः, तत्रोभयान्तरतमस्य ह्रस्वस्याऽभावात्पर्यायेण अकारः स्यादिकारोकारौ च स्याताम्, तथाच मा कदाप्यकारो भूदिति नियमार्थेयं परिभाषेत्यभिप्रेत्याह -इगेव स्यादिति । आन्तरतम्यादेकारोकारयोरिकारः । ओकारौकारयोस्तूकारः । एकान्तस्योदाहरणं तु हः स्मृतो येन स स्मृतेः । शोभनः स्मृतेर्यस्य तत्सुस्मृती॑त्यादि । एतच्च परिभाषासूत्रमपार्थकम् । तथाच वार्तिककृतोक्तं — ॒सिद्धमेडः सस्थानत्वात्, ऐचोश्चोत्तरभूयस्त्वा॑दिति । अस्यार्थः — शब्दपरविप्रतिषेधेन एङौत्तरभादान्तरतमौ इउवर्णावेवेति सिद्धम् ।एचोश्चे॑ति चकारो भिन्नक्रमःउत्तरभूयस्त्वाच्चे॑ति हेतोरन्तरं बोध्यः । अर्धमात्रा, अवर्णस्य, अध्यर्धमात्रा इवर्णोवर्णयोरित्युत्तरभागाधिक्यान्मल्लग्रामातदिवद्भूयसा व्यपदेशेनाऽपि इकारोकारौ भविष्यत इति । प्रद्युनेति । ननु प्रकृष्टस्वर्गवत्त्वादिकं यत्प्रवृत्तिनिमित्तं तत्पुंनपुंसकयोः समानमिति भाषितपुंस्कत्वात्पक्षे पुंवद्भावोऽत्र स्यादेवेत्याशङ्कायाम#आह — — यदिगन्तमिति । एतच्चरा दाने॑इति धातौअत्र्ब्राआहृआणकुल॑मिति प्रकम्यमाधवेन स्पष्टीकृतम् । कथं तर्हि प्राचाप्रद्यवा॒॑प्रराया॒॑सुनावे॑त्युदाहृतमिति चेदत्राहुः — प्रकृष्टम्वर्गवत्त्वादिप्रवृत्तिनिमित्तैक्यात्सुद्योशब्दो भाषितपुंस्कः, स एवेदानीमिगन्तः । तथाच प्रद्युशब्दोऽपि भाषितपुंस्क एव, एकदेशविकृतस्यानन्यन्यत्वात्, अतः पुंवद्भावो भवतीति । इत्थं च पुंवद्भाव एजन्तेषु क्लीबेषु माधवमते नास्ति, मतान्तरे त्वस्तीति बोध्यम् । प्ररीति । प्रकृष्टो रा यस्य तत्प्ररि॑इति । शोभमा नौर्यस्य तत् — ॒सुनु॑ । इति तत्त्वबोधिन्यामजन्ता नपुंसकलिङ्गाः । Padamanjari ----------- परिभाषेयं स्थानिनियमार्था । 'ह्रस्वो नपुंसके' इत्यादाववुपतिष्ठते । इहैचां पूर्वो भागो मात्रात्मकः कण्ठ।लेऽकारसदृशाः । एदैतोरुतरस्तालब्य इकारसदृशः । ओदौतोरोष्ठ।ल् उकारसदृशः । एवमवयवसमाहारात्मनामेचां ह्रस्वशासनेषु समुदायान्तरतमस्याभावाद् अवयवान्तरतमो ह्रस्वो भवन् कदाचिदकारः स्यात्, कदाचिदिकारोकारौ; मा कदाचिदकारो भूदित्येवमर्थमिदमारभ्यते, तदाह - इगेव ह्रस्वो भवतीति । यदि त्वयं विधिः स्यात्, तदा ह्रस्वादेश इति विषयोपलक्षणमेतत्स्याद् - यस्मिन्विषय एचो ह्रस्वादेशप्रसङ्गस्त त्रेग्भवतीति । ततश्च दीर्घाणां स्थाने दीर्धा एवकः स्युः सवर्णग्रहणात्, नैषदोषः;'भाव्यमानोऽण् सर्वर्णान्न गृह्णाति' 'भाव्यमानोऽप्यकारः सवर्णान् गृह्णाति' 'दिव उत्' इतितपरकरणाद् अमूभ्यामितिवत्; तथैचामिकां च साम्यात् संख्यातानुदेशोऽपि स्याद्, आदेशग्रहणं चानर्थकं स्यात् । तत आदेशग्रहणसामर्थ्याद् ह्रस्वादेशे ह्रस्वदेशनकाल इक्कर्तव्यः, ह्रस्वादेशं कुर्वन्निकं कुर्यादित्यर्थः । यद्वा -आदिश्यत इत्यादेशः, ह्रक्वश्चासावादेशश्च ह्रस्वादेशः । निर्द्धारणे सप्तमी, जातावेकवचनम् । आदिश्यमानेषु ह्रस्वेषु मध्ये इगेव ह्रस्वो भवतीति सर्वथा नियमरूपेणास्य प्रवृत्तिः । प्राप्तिपूर्वकश्च नियम इति ये प्राप्ता अन्तरतमास्तेष्वेव नियमः । न च ऋकारऌकारौ प्राप्ताविति कुतो यथासङ्ख्यम् ? कुतो दीर्घप्रसङ्गः ? एवं चेणित्येव सिद्धे इग्ग्रहणं परेण मा भूदिति । अतिरि । अतिनु । रायमतिक्रान्तं नावमतिक्रान्तं ब्राह्मणकुलमिति प्रदिसमासे नपुंसकह्रस्वत्वम् । उपग्विति । अव्ययीभावः । रैशब्दश्च्छन्दस्येवेति भाष्यम् । एकारस्याप्रसिद्धत्वादुदाहरणं न प्रदर्शितम् । हेशब्दमतिक्रान्तं ब्राह्मणकुलमतिहि । अतिखट्व इति । उपसर्जनह्रस्वः । देश्वदेतेति । आमन्त्रिताद्यौदातत्वम् । देवद3त । 'गुरोरनृत' इत्यादिना प्लुतः ॥ षष्ठी स्थानेयोगा । योगनियमार्थेति । यद्यपि षष्ठी स्थानेयोगैवेत्यस्यां वचनव्यक्तौ यत एवकारस्ततोऽन्यत्रावधारणमिति षष्ठीनियमः श्रुत्या प्रतीयते तथापि स्थाननिमितक एव सम्बन्धः षष्ठ।ल वाच्य इत्यर्थात्सम्बन्धनियमोऽपि भवतीति भावः । योगे वा नियमो योगनियमः । यदि योगनियमः क्रियते लोकेऽपि नियमः प्राप्नोति, अवयवषष्ठ।लदयश्च न सिद्ध्यन्ति; ततश्च 'शास इदङ्हलोः' शासेश्चान्त्यस्य स्यादुपधामात्रस्य च, 'ऊदुपधाया गोहः' गोहेश्चान्त्यस्य स्याद् उपधामात्रस्य च, तत्राह-इह शास्त्रे या षष्ठ।ल्नियतयोगेति । एतेन शास्त्रेऽयं नियमः, शास्त्राङ्गत्वात्परिभाषाणाम्; तत्राप्यनियमप्रसङ्ग इति दर्शयति । अनियमप्रसङ्गे नियमः कर्तव्यो लोकवत्, तद्यथा-लोके ग्रामान्तरं जिगमिषुः कश्चित्कञ्चिदाह-'पन्थानं मे भवानुपदिशतु' इति, स यत्र संदेहः, पथि द्वैविध्यात्, तत्रैवोपदिशति-'अमुष्मिन्नवकाशेऽनेन पथा गच्छ' इति; एवमिहापि 'अस्तेर्भूः' अस्तेः स्थानेऽनन्तरो वेति संदेहे नियमः क्रियते - स्थानेयोगैवेति । एतदेव स्पष्टयति-स्थानेयोगस्य निमितभूत इति । निमितभूते, निमितत्वं प्राप्ते । निमितग्रहणं कुर्वन् श्थाने' इति निमितसप्तमीति दर्शयति । स्थानशब्दोऽयमस्त्यपकर्षवचनः-गोस्थानेऽश्वो बध्यतामिति, अस्ति च निवृत्तिवचनः-श्लेष्मणः स्थाने कटुअकमौषधमिति, अस्ति च प्रसङ्गवचनः - दर्भाणां स्थाने शरैः प्रस्तरितव्यमिति, तदिह चरमस्य ग्रहणमित्याह - स्थानशब्दश्चेति । चशब्दोऽवधारणे भिन्नक्रमश्च वाचीत्यस्यानन्तरं द्रष्टव्यः । प्रसङ्गवाच्येवेति कथमिवेत्याह - यथेति । निवृत्तिवाची न गृह्यते, अस्तेरुपदेशसामर्थ्यात् । न ह्यार्धधातुके निवर्तितस्य सार्वधातुके श्रवणमुपपद्यते, न हि मथुरायां व्यापादितः स्रुघ्ने जीवति । नाप्यपकर्षवचनः, न ह्यर्थेन नित्यसम्बद्धस्य ततोऽपकर्षः सम्भवति । नाप्यार्द्धधातुकादपकर्षः, न हि नित्ये प्रकृतिप्रत्ययसमुदाये प्रकृतेरपकर्षः सम्भवति । स्वाभाविक एव ह्यस्तेरप्रयोग आर्द्धधातुके भूशब्द स्य च प्रयोगोऽनेन प्रकारेणान्वाख्यायते, अतः प्रसङ्गः एव स्थानम् । प्रसङ्गः प्राप्तिः, अस्तेः प्राप्तौ भूः प्रयोक्तव्य इत्यर्थः । अस्तिनार्थं प्रतिपादयितुमुद्यौक्त आर्द्धधातुके विषये भवतिना प्रतिपादयेदिति यावत् । प्रसङ्गसम्बन्धस्येत्यादिना सूत्रार्थमुद्राहरणे दर्शयति । ब्रुव इत्युपलक्षणम् । किं पुनर्बहवः षष्ठ।ल्र्था यत इदमुच्यत इत्यत आह - बहवो हीति । एकशतं षष्ठ।ल्र्थाः तत्र स्वस्वामिभावादयः शब्दे न सम्भवन्ति, समीपादय एव तु सम्भवन्तीत्यतो यावन्तः शब्दे सम्भवन्तीत्युक्तम् । व्यवहितमपि समीपं भवतीत्यनन्तराद्भेदेनोपादानम् । स्थानेयोगेत्यसमासश्चेद् योगेति स्त्रीलिंगं षष्ठीशब्देन च सामानाधिकरण्यमनुपपन्नम् । समासेऽपि तत्पुरुषश्चेत् तौ च पूर्वोक्तदोषौ, सप्तम्या लुक्प्रसङ्गश्च, बहुव्रीहावपि लुक्प्रसङ्गोऽनिवार्य एवेत्यत आह - षष्ठी स्थानेयोगेत्यादि । यद्वा - अयोगेति पदच्छेदः । न विद्यते योगो यस्याः साऽयोगा । तत्र योगः मन्तरेण षष्ठ।ल एवाभावाद् विशिष्टो योगो यस्या नास्तीत्यर्थः । एवं च कृत्वासंदेह एवोपस्थानमित्येवं सर्वत्र सिद्धं भवति । अथ वा - योगवती योगा, षष्ठ।लश्चावश्यम्भावी योग इति सामर्थ्याद् भूम्नि मत्वर्थीयोऽकारः, बहवो योगा यस्याः सन्तीति । अस्मिन्नपि पक्षे सन्देहविषय उपस्थानमिति सिद्धम् । भाष्ये सूत्रं प्रत्याख्यातम्, कथम् ? 'अस्तेर्भूः' इत्यत्र सन्देहः - स्थानेऽनन्तरः, समीप इति ? लक्ष्यानुरोधात् स्थान इति व्याख्यास्यामः । इदं तु षष्ठ।ल्न्तं यथा स्थानेन युज्येत; अतः षष्ठयुच्चारिता । तेन ङिर्द्दिश्यमानस्यादेशा भवन्ति' इति सिद्धं भवतीति । तत्र सूत्रे षष्ठ।ल्न्तं गृह्यते - षष्ठ।ल्न्तमेव निर्द्दिश्यमानं स्थानेन युज्यते, न तु प्रतीयमानमिति । तेन 'पादः पत्' इत्यस्यायमर्थः - पादन्तस्याङ्गस्य यो।वयवः पाच्छब्दः सूत्रे षष्ठ।ल निर्दिष्टः, तस्य पच्छब्द आदेशः, न तु प्रतीयमानस्य तदन्तस्येति ॥ Praudhamanorama --------------- **यदिगन्तमिति।** एतच्च रा दाने इति धातौ अतिरि ब्राह्मणकुलमिति प्रक्रम्य माधवेन स्पष्टीकृतम्। अन्ये तु सुद्योशब्दो भाषितपुंस्कः। स एवेदानीमिगन्तः, एकदेशविकृतस्यानन्यत्वात्; अतः पुंवद्भावो भवतीत्याहुः। तथा च रूपमालादौ पुंवद्भाव उदाहृतः। तस्मादेजन्तेषु क्लीबेषु पुंवद्भावो माधवमते नास्ति, मतान्तरे त्वस्ति। अतः प्रद्यवा, प्रराया, सुनावेत्यादि प्राचोदाहृतमपि नातीव दुष्यति। इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायामजन्ता नपुंसकलिङ्गाः॥ **लिडिति।** लिह आस्वादने क्विप्। Prakriyasarvasvam ----------------- एचौ ह्रस्वादेशे कार्ये इगेव ह्रस्वः स्यात् । ओतः सादृश्यादुत्त्वम् । प्रतिगुः । 'गोस्त्रियो'रित्यत्र 'विभाषा छन्दसि' (१-२-३६) इत्यतो विभाषानुवृत्तेरर्ध- शाटीत्यादावेकविभक्तित्वेऽपि नोपसर्जनह्रस्वत्वम् । अतिलक्ष्मीराति श्रीरित्यादौ स्त्रीप्रत्ययत्वाभावान्न ह्रस्वः । 'अवादयः क्रुष्टाद्यर्थे तृतीयया' (स० ३-२-१५५) । अवक्रुष्टं शब्दितं कोकिलयावकोकिलं वनम् । अनुगतमर्थेनान्वर्थम् । सम्बद्धमर्थेन समर्थम् । सङ्गतमक्षेण समक्षम् । नियुक्तो मुनिना निमुनिः । 'पर्यादयो ग्लानाद्यर्थे चतुर्थ्या' (स० ३-२-१५६) । परिग्लानोऽध्ययनाय पर्यध्ययनः । परिश्रान्तोऽ- ध्ययनार्थमित्यर्थमाह हरः । अलं तरुण्य अलन्तरुणिः । रताय सन्नद्धा संरता । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' (स० ३-२-१५७) । निष्क्रान्तः कौशाम्ब्याः । निष्कौशाम्बिः । (वा० २-१-४) मेघइव । पद्ममिव । 'उद्देश्यविधेययोरसमासो वाच्यः' । तेन कृष्णः पापहृद् भूयादित्यत्र कृष्णमनूद्य पापहृत्त्वस्य विधेयत्वात् कृष्णपापहृत् इति न ॥ Sarala ------ **द्यु इति** । प्रद्युशब्दे तु न पुंवद्भावः, प्रकृष्टाऽऽकाशवत्त्वरूपस्य प्रवृत्तिनिमित्तस्यैक्ये यदिगन्तं प्रद्यु, तस्य भाषितपुंस्कत्वाऽभावात्, यच्च भाषितपुंस्कं - प्रद्यो इति, तस्येगन्तत्वाऽभावात् । एवं प्ररिशब्दादावपि । मधुशब्दस्याऽपि न पुंवत्त्वं, तस्य भाषितपुंस्कत्वेऽपि प्रवृत्तिनिमित्तभेदात् । पुंसि चैत्रत्वं, क्लीबे पुष्परसादित्वञ्च प्रवृत्तिनिमित्तित्तमिति विवेकः । **मधुर्वसन्ते चैत्रे च**, **मधु मद्ये पुष्परसे** इत्यभिधानात् । **प्ररीति** । प्रकृष्टो रा यस्मिन् कुले तत् "प्ररि कुलम्" । सुष्ठु नौर्यस्मिन् कुले जले वा तत् - "सुनु" । अत्रापि न पुंवद्भावः ॥ Sudha ----- एच इगिति । आदिश्यत इत्यादेशः, ह्रस्वश्वासावादेशश्च ह्रस्वादेशः, निर्धारणे सप्तमी । जातावेकवचनमतो व्याचष्टे -आदिश्यमानेष्वित्यादिना । एचां पूर्वभागोऽकारसदृशः, उत्तरस्तु इवर्णोवर्णसदृशस्तत्रोभयान्तरतमस्य ह्रस्वस्याभावात्पर्यायेण अकारः स्यादिकारोकारौ च स्याताम्, तथा च मा कदाप्यकारो भूदिति नियमार्थेयं परिभाषेत्यभिप्रेत्याह - इगेवेति । प्रद्यु । प्रकृष्टा द्यौः यस्येति बहुव्रीहौ प्रद्योशब्दस्य **ह्रस्वो नपुंसके प्रातिपदिकस्य**(1.2.47) इति ह्रस्वे **एच इग्घ्रस्वादेशे** (1.1.48) इति एज्-रूपस्यौकारस्योकारे कृते प्रद्य् + सु इति स्थिते **स्वमोर्नपुंसकात्**(7.1.23) इति सोर्लोपे 'प्रद्यु' इति रूपम् । प्रद्युनेत्यादि । प्रद्युशब्दस्तु उदन्तो नपुंसके । तथाच पुंसि प्रद्योशब्दस्य भाषितपुंस्कत्वेऽपि नपुंसके प्रद्यशब्दस्य तदपेक्षया भिन्नत्वेन भाषितपुंस्कत्वाभावान्न पुंवत्वमिति बोध्यम् । शेषं मधुवत् । प्ररि । प्रकृष्टः राः धनं यस्य इति बहुव्रीहौ प्ररैशब्दः । तस्य नपुंसकह्रस्वत्वेन इकारः । सुटि हलादौ विभक्तौ च वारिवत् । सोर्लुप्तत्वात् **रायो हलि**(7.2.85) इत्यात्वं न । हलादौ तु <ऽएकदेशविकृतमनन्यवत्ऽ> इति यथा छिन्नपुच्छे शुनि नाश्वो न गर्दभः इति तथैव प्ररैशब्दस्य इग् रूपेण विकृतत्वेऽपि **रायो हलि**(7.2.85) इत्याकारादेशे विहिते - प्रराभ्याम्, प्रराभिरित्यादि । सुनु । सु-शोभना, नौर्यस्येति विग्रहे बहुव्रीहौ **ह्रस्वो नपुंसके प्रातिपदिकस्य**(1.2.47) इति औकारस्य **एच इग्घ्रस्वादेशे**(1.1.48) इति परिभाषया उकारे विहिते सुनु + सु इति स्थिते **स्वमोर्नपुंसकात्**(7.1.23) इति सोर्लोपे 'सुनु' इति रूपम् । शेषं मधुवत् ॥ इत्यजन्तनपुंसकलिङ्गप्रकरणम् ।