11046: आद्यन्तौ टकितौ ===================== **Padacheda:** आदि-अन्तौ | S | 1 | 2 | टकितौ | S | 1 | 2 | Sutrartha --------- **टित्-आगमः आगमिनः आदौ विधीयते, कित्-आगमः आगमिनः अन्ते विधीयते ।** संस्कृतव्याकरणे आगमानाम् प्रकारत्रयम् विद्यते — टित्-आगमाः, कित्-आगमाः, मित्-आगमाः इति । एतेभ्यः टित्-आगमानाम् कित्-आगमानाम् च स्थानम् प्रकृतसूत्रेण निर्दिश्यते । **टित्-आगमः यस्य शब्दस्य विधीयते तस्मात् शब्दात् पूर्वम् संस्थाप्यते; कित्-आगमः यस्य शब्दस्य विधीयते तस्मात् शब्दात् अनन्तरम् विधीयते**— इति प्रकृतसूत्रस्य अर्थः । उदाहरणे एतादृशे — 1. **लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति सूत्रेण लङ्-प्रत्यये परे अङ्गस्य **अट्-आगमः** विधीयते । अयम् **टित्** आगमः अस्ति अतः अयम् अङ्गस्य आदौ (प्रारम्भे) विधीयते । प्रक्रिया इयम् — .. code-block:: text पठँ (व्यक्तायां वाचि, भ्वादिः, (1.381)) → पठ् + लङ् [**अनद्यतने लङ्** (3.2.111) इति लङ्] → अट् + पठ् + लङ् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अट्-आगमः । अस्मिन् आगमे टकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा भवति, ततः तस्य **तस्य लोपः** (1.3.9) इति लोपः विधीयते । अतः अयम् आगमः टित्-आगमः अस्ति । अयम् आगमः अस्य आगमिनः (इत्युक्ते, पठ्-इत्यस्मात्) पूर्वम् विधीयते । ] → अ + पठ् + तिप् [**तिप्तस्झि...** (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → अ + पठ् + शप् + ति [**कर्तरि शप्** (3.1.68) इति शप्] → अ + पठ् + अ + त् [**इतश्च** (3.4.100) इति इकारलोपः] → अपठत् 2. **भियो हेतुभये षुक्** (7.3.40) इति सूत्रेण भी-धातोः णिच्-प्रत्यये परे **षुक्-आगमः** विधीयते । अयम् **कित्** आगमः अस्ति, अतः अयम् अङ्गस्य अन्ते विधीयते । प्रक्रिया इयम् — .. code-block:: text ञिभी (भये, जुहोत्यादिः, (3.2)) → भी + णिच् [**हेतुमति च** (3.1.26) इति णिच्-प्रत्ययः ] → भी + इ [णकारस्य **चुटू** (1.3.7) इति इत्संज्ञा । चकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । द्वयोः अपि **तस्य लोपः** (1.3.9) इति लोपः ।] → भी + षुक् + इ [**भियो हेतुभये षुक्** (7.3.40) इति अङ्गस्य षुक्-आगमः । अस्मिन् आगमे ककारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा भवति, ततः तस्य **तस्य लोपः** (1.3.9) इति लोपः विधीयते । अतः अयम् आगमः कित्-आगमः अस्ति । अयम् आगमः अस्य आगमिनः (इत्युक्ते, भी-इत्यस्मात्) अनन्तरम् विधीयते । ] → भी + ष् + इ [षकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा भवति, ततः तस्य **तस्य लोपः** (1.3.9) इति लोपः विधीयते । षकारोत्तरः उकारः उच्चारणार्थः अस्ति, अतः तस्य अपि लोपः भवति ।] → भीषि [**सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञा ।] →‌भीषि + ल्युट् [**ल्युट् च** (3.3.115) इति ल्युट्-प्रत्ययः] → भीषि + अन [**युवोरनाकौ** (7.1.1) इति यु-इत्यस्य अन-आदेशः] → भीष् + अन [**णेरनिटि** (6.4.51) इति णिचः लोपः] → भीषण [**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम्] यस्मिन् शब्दस्वरुपे टकारः / ककारः इत्संज्ञकः अस्ति, तत् शब्दस्वरूपम् आगमः एव भवेत् **इति न आवश्यकम्** । प्रत्ययेषु अपि एते वर्णाः इत्संज्ञकरूपेण प्रयुज्यन्ते । यथा, टक् इत्यस्मिन् प्रत्यये टकारककारौ द्वौ अपि इत्संज्ञकौ स्तः, परन्तु अयम् आगमः नास्ति । अतः कः टित्/कित्-शब्दः आगमः अस्ति अस्य निर्णयः तु व्याख्यानं दृष्ट्वा एव करणीयः । Sutrartha (English) ------------------- A टित्-आगम is attached before its substrate, and a कित्-आगम comes after its substrate. Vasu English Summary -------------------- Of whatsoever the augments enunciated are distinguished by an indicatory ट् or क् , they precede or follow it accordingly. Vasu English Translation ------------------------ Of whatsoever the augments enunciated are distinguished by an indicatory ट् or क् , they precede or follow it accordingly. This *sutra* explains the special use of two of the indicatory letters ट् and क्. Where the indicatory letter of an augment is ट् that augment is to be placed before the word in the genitive case with regard to which it is enjoined; while a कित् augment is to be added after the word exhibited in the 6th case with regard to which it is enjoined. Thus, there is a *sutra * (7.2.35) which says "*ardhadhatuka* affixes beginning with a consonant except य, have इट्". The question may arise where is this इट् to be added, in the beginning or the end or the middle of the *ardhadhatuka* affix? This *sutra * answers the question. The indicatory ट् shows, that it is to be placed before the *ardhadhatuka* affix. Thus the future termination स्यति, is an *ardhadhatuka* affix: when this is added to the root, it takes the augment इट्. Thus भू + इट् + स्यति = भविष्यति, 'he will be.' Similarly लविता 'he will cut'. Similarly by *sutra * (7.3.40) the root भी takes the augment षुक् in forming the causative. This having an indicatory क् is to be added after the word भी, as, भी + षुक् + णिच् + त = भीषयते 'he frightens.' Bhashya ------- आद्यन्तौ टकितौ समासनिर्देशोऽयम्। तत्र न ज्ञायते - क आदिः कोऽन्त इति। तद्यथा - अजाविधनौ देवदत्तयज्ञदत्तावित्युक्ते तत्र न ज्ञायते - कस्याजा धनं कस्यावय इति। यद्यपि तावल्लोक एष दृष्टन्तः। दृष्टान्तस्यापि तु पुरुषारम्भो निवर्तको भवति। अस्ति वेह कश्चित् पुरुषारम्भः? अस्तीत्याह। कः? सङ्ख्यातानुदेशो नाम। कौ पुनष्टकितावाद्यन्तौ भवतः ? आगमावित्याह। युक्तं पुनर्यन्नित्येषु नाम शब्देषु आगमशासनं स्यात्। न नित्येषु नाम शब्देषु कूटस्थैरविचालिभिर्वर्णैर्भवितव्यमनपायोपजनविकारिभिः। आगमश्च नामापूर्वः शब्दोपजनः। अथ युक्तं यन्नित्येषु शब्देष्वादेशाः स्युः। बाढं युक्तम्। शब्दान्तरैरिह भवितव्यम्। तत्र शब्दान्तरात् शब्दान्तरस्य प्रतिपत्तिर्युक्ता। आदेशास्तर्हीमे भविष्यन्ति। अनागमकानां सागमकाः। तत् कथम् ? सञ्ज्ञाधिकारोऽयम्। आद्यन्तौ चेह संकीर्त्येते। टकारककारावितावुदाह्रियेते। तत्राद्यन्तयोष्टककारावितौ संज्ञे भविष्यतः। तत्रार्धधातुकस्येड्वलादेरित्युपस्थितमिदं भवति - आदिरिति। तेनेकारादिरादेशो भविष्यति। एतावदिह सूत्रमिडिति। कथं पुनरियता सूत्रेण इकारादिरादेशो लभ्यः? लभ्य इत्याह। कथम्? बहुव्रीहिनिर्देशात्। बहुव्रीहिनिर्देशोऽयम्। इकार आदिरस्येति। यद्यपि तावदत्रैतच्छक्यते वक्तुम्। इह तु कथम् - लुङ्लङ्लृङ्क्ष्वडुदात्तः इति। अत्राशक्यमुदात्तग्रहणेनाकारो विशेषयितुम्। तत्र को दोषः। अङ्गस्योदात्तत्वं प्रसज्येत। नैष दोषः। त्रिपदोऽयं बहुव्रीहिः। तत्र वाक्य एवोदात्तग्रहणेनाकारो विशेष्यते। अकार उदात्त आदिरस्येति। यत्र तर्ह्यनुवृत्त्यैतद् भवति - आडजादीनाम् इति। वक्ष्यत्येतद्- अजादीनामटा सिद्धम् इति। अथवा यत्तावदयं सामान्येनोपदेष्टुं शक्नोति तत्तावदुपदिशति प्रकृतिं ततो वलाद्यार्धघातुकं ततः पश्चादिकारम्। तेनायं विशेषेण शब्दान्तरं समुदायं प्रतिपद्यते। तद्यथा खदिरबर्बुरयोः - खदिरबर्हुरौ गौरकाण्डौ सूक्ष्मपर्णौ। ततः पश्चादाह - कङ्कटवान् खदिर इति। तेनासौ विशेषेण द्रव्यान्तरं समुदायं प्रतिपद्यते। अथवा - एतयानुपूर्व्याऽयं शब्दान्तरमुपदिशति। प्रकृतिं, ततो वलाद्यार्धधातुकं ततः पश्चादिकारं, यस्मिंस्तस्यागमबुद्धिर्भवति। ॥ टकितोराद्यन्तविधाने प्रत्ययप्रतिषेधः । टकितोराद्यन्तविधाने प्रत्ययस्य प्रतिषेधो वक्तव्यः। प्रत्यय आदिरन्तो वा मा भूदिति। चरेष्टः। आतोऽनुपसर्गे क इति। परवचनात् सिद्धम्। परवचनात् प्रत्यय आदिरन्तो वा न भविष्यति। परवचनात् सिद्धमिति चेन्नापवादत्वात्। परवचनात् सिद्धमिति चेन्न, किं कारणम्? अपवादत्वात्। अपवादोऽयं योग। तद्यथा मिदचोन्त्यात्परः इत्येष योगः स्थानेयोगत्वस्य प्रत्ययपरत्वस्य चापवादः। विषम उपन्यासः युक्तं तत्र यदनवकाशं मित्करणं स्थानेयोगत्वं प्रत्ययपरत्वं च बाधते। इह पुनरुभयं सावकाशम्। कोऽवकाशः? टित्करणस्यावकाशः- टित इति ईकारो यथा स्यात्। कित्करणस्यावकाशः- कितीत्याकारलोपो यथा स्यात्। प्रयोजनं नाम तद् वक्तव्यं यन्नियोगतः स्यात्। यदि चायं नियोगतः परः स्यात् तत एतत् प्रयोजनं स्यात्। कुतो नु खल्वेतत् - टित्करणादयं परो भविष्यति न पुनरादिरिति। कित्करणाच्च परो भविष्यति- इति न पुनरन्त इति। टितः खल्वप्येष परिहारः, यत्र नास्ति सम्भवः यत्परश्च स्याद् आदिश्च। कितस्त्वपरिहारः, अस्ति हि सम्भवो यत्परश्च स्यादन्तश्च। तत्र को दोषः? उपसर्गे घोः किः। आध्योः प्रध्योः। नोङ्धात्वोरिति प्रतिषेधः प्रसज्येत। टितश्चाप्यपरिहारः, स्यादेव ह्ययं टित्करणादादिः, न पुनः परः। क्व तर्हीदानीमिदं स्यात् - टित इर्करो भवतीति। य उभयवान् गापोष्टगिति। ॥ सिद्धं तु षष्ठ्यधिकारे वचनात् ॥। सिद्धमेतत्। कथम्? षष्ठ्यधिकारेऽयं योगः कर्तव्यः। आद्यन्तौ टकितौ षष्ठी निर्दिष्टस्येति। ॥ आद्यन्तयोर्वा षष्ठ्यर्थत्वात् तदभावेऽसम्प्रत्ययः । आद्यन्तयोर्वा षष्ठ्यर्थत्वात् तदभावे षष्ठ्या अभावे असम्प्रत्ययः स्यात्। आदिरन्तो वा न भविष्यति। युक्तं पुनर्यच्छब्दनिमित्तको नामार्थः स्यात्। नार्थनिमित्तकेन नाम शब्देन भवितव्यम्। अर्थनिमित्तक एव शब्दः। तत् कथम्। आद्यन्तौ षष्ठ्यर्थौ। नैवात्र षष्ठीं पश्यामः। तेन मन्यामहे - आद्यन्तावेवात्र न स्तः। तयोरभावे षष्ठ्यपि न भवतीति। Kashika ------- आदिष्टिद् भवति अन्तःकिद् भवति षष्ठीनिर्दिष्टस्य। लविता। मुण्डो भीषयते। टित्प्रदेशाः — **आर्धधातुकस्येड् वलादेः**(७.२.३५) इत्येवमादयः। कित्प्रदेशाः — **भियो हेतुभये षुक्** (७.३.४०) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः ॥ Laghu Siddhanta Kaumudi ----------------------- टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः॥ Laghu Shabdendushekhar ---------------------- **आद्यन्तौ टकितौ** । यद्यप्यत्र मिलितस्य नैकत्रान्वय इति द्वन्द्वो न प्राप्नोति तथापि समूहयोरन्वयबोधोत्तरं **यथासङ्ख्यम्…** (1.3.10) इति सूत्रारम्भसामर्थ्यात्पुनः प्रत्येकान्वयः । लोके त्वेवंरीत्या प्रयोगोऽसाधुरेवेति भाष्ये स्पष्टम् । अत्रैव यथासङ्ख्यसूत्रोपन्यासो युक्तः । द्वन्द्वान्ते श्रूयमाणस्येच्छब्दस्य प्रत्येकं सम्बन्धः । पुरस्तादपवादन्यायेन स्थानेयोगत्वस्यायमपवादः । प्रत्ययपरत्वन्तु परत्वादमुं बाधते। तेन चरेष्टादयः परा एव भवन्ति । अत एव यत्रैतदभावे स्थानषष्ठीसम्भावना तत्रैवेदं प्रवर्तते; तदाह - यस्योक्ताविति। आद्यन्ताक्षिप्तोऽवयवी यच्छब्दार्थः । यथासङ्ख्यसिद्धमर्थमाह - **क्रमादिति**। **इतौ** इति किम् ? टुक् पर्यायेणाद्यन्तयोर्मा भूत् । Balamanorama ------------ **आद्यन्तौ टकितौ** - आद्यन्तौ टकितौ । आदिश्च अन्तश्च आद्यन्तौ, टश्च कच् टकौ । टकारादकार उच्चारणार्थः । टकौ इतौ ययोस्तौ टकितौ । द्वन्द्वान्त इच्छब्दः प्रत्येकं संबध्यते । टित्कितावाद्यन्तावयवौ स्तः । कस्येत्याकाङ्क्षायां यस्य तौ विहितौ तयोरित्यर्थाल्लभ्यते । तदाह — टित्कितावित्यादिना । क्रमादिति यथासङ्ख्य सूत्रलभ्यम् । टित् आद्यवयवः, किदन्तावयव इत्यर्थः । नचैवं सति मिलितयोरेकत्रान्वयाऽभावात्कथमिह द्वन्द्व इति वाच्यम्, प्रथमतः समुदायरूपेण परस्परं युगलयोरन्वयबोधमादाय द्वन्द्वप्रवृत्तौ सत्यां यथासंख्यसूत्रपर्यालोचनया पुनः प्रत्येकान्वयोपपत्तेः । 'एचोऽयवायावः' इत्यादावप्येषैव गतिः । लोके त्वेवंजातीयकप्रयोगोऽसाधुरेवेति भाष्यादिषु स्पष्टम् । अत्रैव यथासङ्ख्यसूत्रोमन्यासो युक्तः ।आर्धधातुकस्येड्वलादेः॑ भविता ।ङ्णोः कुक् टुक् शरि॑, प्राङ्क्षष्ट इत्याद्युदाहरणम् ।पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोत्तरान् इतिषष्ठी स्थानेयोगे॑त्यस्यानन्तरस्यैवायमपवादः । 'प्रत्ययः' परश्चेत्यनेन तु परत्वादिदं बाध्यते । तेन चरेष्टः गापोष्टगित्यादयः परा एव भवन्ति । Tattvabodhini ------------- **आद्यन्तौ टकितौ** - आद्यन्तौ टकिता । भविता,-॒आर्धधातुकस्येट् । पाययाति-॒शाच्छासाह्वे॑त्यादिनात्युक् । पुरस्तादपवादन्यायेन स्थानेयोगत्वस्यायमपवादः ।प्रत्ययः॑परश्चेट॑त्यनेन तु परत्वादयं बाध्यते । तेनचरेष्टः॑गापोष्टा॑ गित्यादयः परा एव भवन्ति । Padamanjari ----------- अत्र द्वौ पक्षौ सम्भवतः-संज्ञा स्यात्, परिभाषा वेति । तत्र संज्ञापक्षेऽयमर्थः-टकिताविति कर्मधारयः, इत्संज्ञकौ टकारककारौ आद्यन्तयौः संज्ञेति । तत्रेडित्यत्राद्यर्थेन टकारेण बहुव्रीहौ इकारादिः शब्दो गृहीत आदेशो विधीयमानस्तव्यस्य स्थानेऽन्तरतम इतव्यो भवतीति सिद्धमिष्टम् । एवं षुक्यन्तवचनेन ककारेण बहुव्रीहौ षकारान्तो गृहीत आदेशो भियो भीष् भवतीति सिद्धम् । नन्वस्मिन्पक्षे संज्ञा संज्ञिप्रत्यायनार्था, संज्ञिनं प्रत्याय्य स्वयमेव निवर्तिष्यत इति किमिद्ग्रहणेन, टकावित्येवास्तु ? उच्यते; इत्संज्ञकत्वेन देशविशेषो लक्ष्यते, तेनेत्संज्ञकस्य यो देशस्तद्देशावस्थितौ टकौ संज्ञे भवत इति आलजाटचौ 'ठस्येकः' इत्यादौ टकौ संज्ञे न भवतः । अस्मिन्पक्षे दोषः, 'लुङ्लङ्लृङ्क्ष्वडुदातः' इत्यडित्यकारादेरादेशस्य विधानातस्यैवोदातत्वमलोऽन्त्यस्य स्याद्, नाकारस्य ? नैष दोषः; 'अडुदातः' इति त्रिपदो बहुव्रीहिः-उदातोऽकार आदिरस्येति । विशेषणस्याप्युदातस्य सौत्रः परिनिपातः । एवमपि - 'आडजादीनाम्' इत्यत्रोदातग्रहणमेवानुवर्तत इति बहुव्रीहेरसम्भवाद्दोषः, तस्मात्परिभाषापक्षमाश्रित्याह-'आदिष्टिद्भवतीति । परेण परिभाषाप्रकरणेन साहचर्यादिति भावः । यद्वा-'षष्ठी स्थानेयोगा' इत्यत्रेदमनुवर्त्यम्, अत एवाह-षष्ठीनिर्द्दिष्टस्येति । तेन 'चरेष्टः','आतोऽनुपसर्गे कः' इत्यादयः प्रत्यया आद्यन्तभूता न भवन्ति । एवमपि 'गापोष्टक्' 'व्रीहिशाल्योर्ढक्' इत्यत्र प्रसङ्गः, तत्र टकष्टित्वकित्वयोगे परत्वादन्त्यः स्यात्, नैष दोषः; 'पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते न परान्' इति । एवमयं स्थानेयोगं बाधते, न प्रत्ययपरत्वम् । भीषयत इति । 'ञिभी भये', णिच् । 'भियो हेतुभये षुक्' 'भीस्म्योर्हेतुभये' ॥ Nyaas ----- **षष्ठी स्थानेयोगा** (1.1.49) इत्यस्याः परिभाषाया अयमपवादः। तेनतत्सम्बन्धादस्यापि परिभाषात्वं विज्ञायते। यदि तह्र्रादिष्टिद् भवत्यन्तः किद्भवति, तदा **चरेष्टः** (3.2.16) **आतोऽनुपसर्गे कः** (3.2.3) इत्यादयोऽपि प्रत्ययाआद्यन्तभूताः स्युओः। न च टितः प्रत्ययस्यादित्वे `टिड्ढाणञ्` (4.1.15) इति टितो विधीयमानो ङीब् निरवकाश इत्याशङ्कनीयम्। यत्र हि प्रकृतेरेव सिद्धं टित्त्वं न प्रत्ययस्य, नदड् भषडित्येवमादौ, स तस्यावकाशो भविष्यतीति। टितश्च प्रत्ययस्या-दित्वे सति कुरुचर इत्येवमादिरूपमेव सिध्येत्। कितस्त्वन्त्यत्वे आध्योः, विध्योरि-त्यत्र **उपसर्गे घोः किः** (3.3.92) इति किप्रत्ययस्य प्रकृत्यन्तः-पातित्वाद्धातु-ग्रहणेन ग्रहणे सति **उदात्तयणो हल्पूर्वात्** (6.1.174) इत्येष स्वरो न स्यात्। **नोङ्धात्वोः** (6.1.175) इति प्रतिषेधादित्यत आह- `षष्ठीग्रहणस्य सिंहावलोकितन्यायेनोप-स्थानात्। नन्वेवमपि **गापोष्टक्** (3.2.8) **व्रीहिशाल्योर्ढक्** (5.2.2) इत्येतावाद्य न्तौ प्राप्नुतः, नैष दोषः, `पुरस्तादपवादा अनन्तरात् विधीन् बाधन्ते नोत्तरान्` (व्या।प।9) इति स्थानेयोगत्वस्यैवायमपवादो भविष्यति, न प्रत्ययपरत्वस्य। अपर आह-आद्यन्तावयवौ, अवयवश्चावयविनमन्तरेण न सम्भवतीत्यवयविनमाक्षिप्य तौ वर्तेते।ततश्चावयवावयविसम्बन्धे यलस्यादिरन्तो वावयवो विधीयते, सोऽवयवो षष्ठआ निर्देष्ट-व्य इति सामर्थ्यादवयवषष्ठआ निर्दिष्टस्येति ज्ञायते। न चैवम्। **गापोष्टक्** (3.2.8) **व्रीहिशाल्योर्ढक्** (5.2.2) इत्येतौ प्रत्ययावाद्यन्तौ प्राप्नुतः, यस्मादिहप्रकृतयोऽवयवषष्ठआ निर्दिष्टाः, किं तर्हि? सुपां सुपो भवन्तीति पञ्चम्यर्थे या षष्ठी तयेति। `भीषयते` इति। `ञिभी भये`(धातुपाठः-1084) हेतुमण्णिच्, **भियो हेतुभये षुक्** (7.3.40) **भीस्म्योर्हेतुभये** (1.3.68) इत्यात्मनेपदम्। Prakriyasarvasvam ----------------- टित्कितावागमौ⁴ तु क्रमादाद्यन्तां⁵शौ स्तः । Sarala ------ **द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते** इति न्यायमाश्रित्याह - **टित्किताविति** । यथासङ्ख्यपरिभाषालब्धमर्थमाह - **क्रमादिति** ॥