11041: अव्ययीभावश्च =================== **Padacheda:** अव्ययीभावः | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **अव्ययीभावसमासेन निर्मितस्य शब्दस्य 'अव्यय' इति संज्ञा भवति ।** व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'अव्यय' इति संज्ञा । **स्वरादिनिपातमव्ययम्** (1.1.37) इत्यस्मात् सूत्रात् **अव्ययीभावश्च** (1.1.41) इति यावत्सु पञ्चसु सूत्रेषु अव्ययसंज्ञा पाठ्यते । एतेषु इदं अन्तिमम् (पञ्चमम्) सूत्रम् । **अव्ययीभावसमासेन निर्मितानां शब्दानाम् अनेन सूत्रेण अव्ययसंज्ञा भवति** । **अव्ययीभावसमासः** **अव्ययीभावः** (2.1.5) अस्मिन् अधिकारे विद्यमानैः षोडशभिः सूत्रैः 'अव्ययीभाव'समासस्य विधानम् क्रियते । एतैः सर्वैः सूत्रैः सिद्धानि समस्तपदानि प्रकृतसूत्रेण अव्ययसंज्ञां प्राप्नुवन्ति । कानिचन उदाहरणानि एतादृशानि - 1. **अव्ययं विभक्तिसमीपसमृद्धि..** (2.1.6) इत्यनेन सूत्रेण 'हरौ इति' इत्यस्मिन् अर्थे 'अधिहरि' इति प्राप्तं समस्तपदम् अव्ययसंज्ञकं भवति । 2. **यथासादृश्ये** (2.1.7) इत्यनेन 'यथाध्यापकम्', 'यथाध्यापकम्' एतादृशानि अव्ययानि सिद्ध्यन्ति । 3. **आङ् मर्यादाभिविध्योः** (2.1.13) इत्यनेन 'आकुमारम्' 'आपाटलिपुत्रम्' एतादृशानि अव्ययानि सिद्ध्यन्ति । **सुबुत्पत्तिः, पदसंज्ञा** सर्वाणि समस्तपदानि **कृत्तद्धितसमासाश्च** (1.2.46) इत्यनेन प्रातिपदिकसंज्ञकानि सन्ति । एतेषु अव्ययीभावसमासेन सिद्धानां समस्तपदानां प्रकृतसूत्रेण अव्ययसंज्ञा विधीयते । एतेभ्यः विहितानाम् सुप्-प्रत्ययानाम् अग्रे **अव्ययादाप्सुपः** (2.4.82) इत्यनेन लुक् भवति । .. code-block:: text यथाशक्ति [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **अव्ययीभावश्च** (1.1.41) इत्यनेन अव्ययसंज्ञा ।] --> यथाशक्ति + सुँ [**स्वौजस्...** (4.1.2) इत्यनेन सुबुत्पत्तिः] --> यथाशक्ति+ ० [**अव्ययादाप्सुपः** (2.4.82) इत्यनेन अव्ययसंज्ञकात् विहितस्य सुप्-प्रत्ययस्य लुक्] --> यथाशक्ति [**प्रत्ययलोपे प्रत्ययलक्षणम्** (1.1.62) इति प्रत्ययस्य लोपे कृते अपि तल्लक्षणा **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा ] अनेन प्रकारेण पदसंज्ञायाम् जातायाम् एव अस्य शब्दस्य वाक्ये प्रयोगः भवति । अतः 'रामः यथाशक्ति रक्षणं करोति' अस्मिन् वाक्ये विद्यमानः 'यथाशक्ति' इति शब्दः पदसंज्ञकः अस्ति, न हि प्रातिपदिकम् । अव्ययीभावसमासेन निर्मितः शब्दः अदन्तः अस्ति चेत् तु **अव्ययादाप्सुपः** (2.4.82) इत्यनेन प्राप्तः लुक् **नाव्ययीभावादतोऽम्त्वपञ्चम्याः** (2.4.83) इत्यनेन निषिध्यते । .. code-block:: text उपकृष्ण [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **अव्ययीभावश्च** (1.1.41) इत्यनेन अव्ययसंज्ञा ।] --> उपकृष्ण + सुँ [**स्वौजस्...** (4.1.2) इत्यनेन सुबुत्पत्तिः] --> उपकृष्ण + अम् [**नाव्ययीभावादतोऽम्त्वपञ्चम्याः** (2.4.83) इत्यनेन अव्ययीभावसमस्तपदात् विहितस्य सुप्-प्रत्ययस्य 'अम्' आदेशः] --> उपकृष्णम् [**अमि पूर्वः** (6.1.107) इति सुँ-प्रत्ययस् अम्-आदेशः । ततः **सुप्तिङन्तं पदम्** (1.4.14) इति पदसंज्ञा ] अत्र सिद्धम् 'उपकृष्णम्' इति अम्-प्रत्ययान्तं पदम् एव वाक्ये प्रयोक्तव्यम्, न हि 'उपकृष्ण' इति प्रातिपदिकम् । यथा - रामः उपकृष्णम् तिष्ठति । Sutrartha (English) ------------------- The word formed using an अव्ययीभाव समास are known as अव्यय. Vasu English Summary -------------------- The compound called अव्ययीभाव is also अव्यय or indeclinable. Vasu English Translation ------------------------ The compound called अव्ययीभाव is also अव्यय or indeclinable. The *Avyayibhava* or adverbial or indeclinable compounds are formed by joining an indeclinable particle with another word. The resulting compound, in which the indeclinable particle forms generally the first element, is again indeclinable, and generally ends, like adverbs, in the ordinary terminations of the nominative or accusative neuter. Thus अधिहरि 'upon *Hari*,' अनुरूपं 'after the form i.,e., accordingly.' The word च in the *sutra* shows that here ends the definition of *avyaya*. The *avyayas*, therefore, are all those words which are comprised in the above five *sutras*. What is the object gained by making the *avyayibhava* compounds *avyayas*? Three objects are gained, by making these compounds, indeclinables, viz., we can apply to them (1) the rule relating to the elision (लुक्) of the case affixes and feminine affixes, i.e., *sutra* (2.4.82) thus, in the following example, the words *upagni* and *pratyagni* though qualifying the word *salavah*, do not take the gender and number of the latter, उपाग्नि प्रत्यग्नि शलाभाः पतन्ति (2) the rule relating to accent when an *avyaya* is compounded with the word *mukha*, (मुख स्वर), i.e., *sutras* (6.2.167) & (6.2.168). Thus, उपाग्नि मु॑खः, here, sutra (6.2.167), required the final vowel to take the *udatta* accent, but the preceding word being an *avyaya*, *sutra* (6.2.168), intervened, and the first word retains its natural accent: (3) the rule relating to the change of *visarga* : into स्, this change being technically called उपचारः thus उपपयःकारः, उपपयःकामः, as compared with अयस्कारः Here, the compound उपपयः being treated as *avyaya* *sutra* (8.3.46), applies and prevents the change of: into स्. The four *sutras* (1.1.38), (1.1.39), (1.1.40), and (1.1.41) have all been enunciated under the *svaradigana*. see *sutra* (1.1.37). These *sutras* properly, therefore, belong to the *ganapatha*; their repetition here in the *Ashtadhyayi* indicates that these rules are अनित्य or not of universal application, viz., all rules relating to *avyayas* in general, do not apply to them. Thus (2.3.69). declaring that the genitive case is not used along with an *avyaya* is not a rule of universal application, for we see indeclinables like उदेतोः governed by the genitive case as, सूर्यस्योदेतोः; or क्रूरस्य विसृपः. Bhashya ------- अव्ययीभावश्च ॥ अव्ययीभावस्याव्ययत्वे प्रयोजनं लुङ्मुखस्वरोपचाराः । अव्ययीभावस्य अव्ययत्वे प्रयोजनम्। किम्? लुङ्मुखस्वरोपचाराः। लुक्। उपाग्नि। प्रत्यग्नि। अव्ययादिति लुक् सिद्धो भवति। मुखस्वरः। उपाग्निमुखः प्रत्यग्निमुखः। नाव्ययदिक् शब्दगोमहत्स्थूलमुष्टि पृथुवत्सेभ्यः इत्येष प्रतिषेधः सिद्धो भवति। उपचारः। उपपयःकारः। उपपयःकामः। अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्येति प्रतिषेधः सिद्धो भवति। किं पुनरिदं परिगणनमाहोस्विदुदाहरणमात्रम्? परिगणनमित्याह। अपि खल्वप्याहुः - यदन्यदव्ययीभावस्याव्ययकृतं प्राप्नोति तस्य प्रतिषेधो वक्तव्यः इति। किं पुनस्तत्? पराङ्गवद्भावः। पराङ्गवद्भावे अव्ययप्रतिषेधश्चोदितः। उच्चैरधीयान नीचैरधीयानेत्येवमर्थम्। स इहापि प्राप्नोति-उपाग्न्यधीयान प्रत्यग्न्यधीयान। अकच्यव्ययग्रहणं क्रियते। उच्चकैर्नीचकैरित्येवमर्थम्। तदिहापि प्राप्नोति - उपाग्निकम् प्रत्यग्निकमिति। मुमि अव्ययप्रतिषेधश्चोद्यते, दोषामन्यमहर्दिवामन्या रात्रिरित्येवमर्थम्। स इहापि प्राप्नोति - उपकुम्भंमन्यः - उपमणिकंमन्य इति। अस्य च्वौ। अव्ययप्रतषेधश्चोद्यते, दोषाभूतमहर्दिवा भूता रात्रिरित्येवमर्थम्। स इहापि प्राप्नोति - उपकुम्भीभूतम्- उपमणिकीभूतम्। यदि परिगणनं क्रियते नार्थोऽव्ययीभावस्याव्ययसञ्ञ्ज्ञया। कथं यान्यव्ययीभावस्याव्ययत्वे प्रयोजनानि ? नैतानि सन्ति। यत्तावदुच्यते लुगिति। आचार्यप्रवृत्तिर्ज्ञापयति - भवत्यव्ययीभावाल्लुगिति। यदयम् - नाव्ययीभावादत इति प्रतिषेधं शास्ति। उपचारः - अनुत्तरपदस्थस्येति वर्तते। तत्र मुखस्वर एकः प्रयोजयति। न चैकं प्रयोजनं योगारम्भं प्रयोजयति। यद्येतावत् प्रयोजनं स्यात् तत्रैवायं ब्रूयान्नाव्ययादव्ययीभावाच्चेति ॥41 ॥ Kashika ------- अव्ययीभावसमासोऽव्ययसंज्ञो भवति। किं प्रयोजनम्? लुङ्मुखस्वरोपचाराः। लुक् — उपाग्नि। प्रत्यग्नि शलभाःपतन्ति। मुखस्वरः — उ॒पा॒ग्निमु॑खः। प्र॒त्य॒ग्निमु॑खः। **मुखं स्वाङ्गम्** (६.२.१६७) इत्युत्तरपदान्तोदात्तत्वं प्राप्तम्, **नाव्ययदिक्छब्द०** (६.२.१६८) इति प्रतिषिध्यते। तस्मिन् प्रतिषिद्धे पूर्वपदप्रकृतिस्वर एव भवति। उपचारः — उपपयःकारः। उपपयःकामः। विसर्जनीयस्थानिकस्य सकारस्य उपचार इति संज्ञा। तत्राव्ययीभावस्याव्ययत्वे **अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य** (८.३.४६) इति पर्युदासः सिद्धो भवति। सर्वमिदं काण्डं स्वरादावपि पठ्यते। पुनर्वचनम् — नित्यत्वज्ञापनार्थम्। तेनायं कार्यनियमः सिद्धो भवति। इह च पुरा सूर्यस्योदेतोराधेयः (काठ०सं० ८.३), पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरप्शिन् (तै०सं० १.१.९.३) इति **न लोकाव्ययनिष्ठा०** (२.३.६९) इति षष्ठीप्रतिषेधो न भवति॥ Siddhanta Kaumudi ----------------- अधिहरि ॥ Laghu Siddhanta Kaumudi ----------------------- अधिहरि॥ Tattvabodhini ------------- अव्ययीभावश्च। अव्ययसंज्ञः स्यात्। इह `लुकि मुखस्वरोपचारयोर्निवृत्तौचे`ति परिगणनं कर्तव्यम्। लुक्युदाहरमम् - उपग्नि। `अव्यया`दिति सुपो लिक्। मुखस्वरनिवृत्तौ उदाहरणम् - उपग्निमुखः। प्रत्यग्निमुखः। `मुखं स्वाङ्ग`मित्युत्तरपदान्तोदात्तत्वे प्राप्ते `नाव्ययदिक्शब्दे`त्यदिना प्रतिषेधः। तथाच `बहुव्रीहौ प्रकृत्ये`ति पूर्वशब्दप्रकृतिस्वर एव भवति, पूर्वपदं च समासस्वरेणाऽन्तोदात्तम्। विसर्गस्थानिकस्य सकारस्य `उपचार`इति प्राचां संज्ञा, तन्निवृत्तावुदाहरणम् - उपपयःकारः।उपपयःकामः। इह `अतः कृकमी`ति प्राप्तं सत्वम् `अनव्ययस्ये`ति पर्युदस्यते। परिगणनं किम्?। उपागन्धीयान। इह `सुबामन्त्रिते`इति पराङ्गवद्भावेन याने`त्यादौ मा भूदिति। तथा `उपाग्निक`मित्यादौ अव्ययसर्वनाम्ना`मित्यकच्[च]न। उपकुम्भंमन्यः। `खित्यनव्ययस्ये`ति वर्तमाने `अरुर्द्विषदजन्तस्येति विहितो यो मुस्तस्येह प्रतिषेधो न। उपकुम्भीभूतः। इह `अस्य च्वौ` इतीत्त्वस्य`प्रतिषेधो न। ईस्वविधौ हि `अव्ययस्य च्वावितीत्वं ने`ति प्रतिषे उच्यते, दोषाभूतमाहः दिवाभूता रात्रिरित्यत्र मा भूदिति। स्यादेतत् - स्वारादित्वेनैव सिद्धत्वात्। `तद्धितश्चे`त्यादि चतुःसूत्री व्यर्था। तत्र हि `तसिलादिस्तद्धित एदाच्पर्यन्तः`इत्यादिना `च्व्यर्थाश्चे`त्यन्तेनाऽऽसिप्रत्ययमौणादिकं वर्जयित्वा `तद्धितश्चासर्वविभक्तिः` इत्यस्याऽर्थः सङ्गृह्यते। `कृन्मकारसन्ध्यक्षरान्तः`इत्यनेन `कृन्मेजन्तः`इत्यस्यार्थः सङ्गृह्यते। `त्त्कातोसुन्कसुनः``अव्ययीभावश्चे`ति सूत्रद्वयं तु स्वरूपेणैव पट�त इति। अत्राहुः - पुनर्वचनमनित्यत्वज्ञापनार्थम्। तेन प्रागुक्तं `लुङ्मुखस्वरोपचाराः`इति परिगणनं लभ्यते। `पुरा सूर्यस्?योदेतोराधेयः`। `पुरा क्रूरस्य विसृपो विरप्श`न्नित्यासिद्धये `न लोकाव्यये`त्यत्र `अव्ययप्रतिषेधे तोसुन्कसुनोरप्रितषेधः`इति वक्ष्यते तदप्यनेनैव लभ्यत इति। Padamanjari ----------- लुङ्मुखस्वरोपचारा इति । अत्र मखस्वरोपचारौ निवर्त्यपानतया प्रयोजनम्, मशकार्थो धूम इतिवत् । लुक् प्रवर्त्यमानतया । उपाग्नीति । अव्ययादिति लुक् । पूर्वपदप्रकृतित्वर एवेति । समासस्वरेणान्तोदातत्वम् । उपपयः काम इति । 'शीलिकामिभिक्षाचरिभ्यो णः' कर्मणि घञन्तेन वा बहुव्रीहिः, अत्र मुखस्वरनिवृत्तिरेव साक्षात्प्रयोजनम्, लुक् तु 'नाव्ययीभावादतोऽम्' इति विशेषप्रतिषेधात् सिद्धः, 'अतः कृकमिकंस' इत्यत्र च 'अनुतरपदस्थस्य' इति वर्तते । नन्वन्यदप्यव्ययकार्यं सम्भवति-उपाग्निकमित्यकच्, उपकुम्भमन्य इति मुम्प्रतिषेधः, उपकुम्भीभूत इति 'अस्य च्वौ' इतीत्वस्योपसङ्ख्यानिकः प्रतिषेधः, उपाग्न्यधीयानेति 'सुबामन्त्रिते' इत्यस्यौपसंख्यानिकः प्रतिषेधः, तत्कुतोऽयं कार्यनियम इत्यत आह - सर्वमिदमित्यादि । इह चेत्यादिना ङ लोकाव्यय' इत्यत्र यद्वक्ष्यति - 'अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः' इति, तस्यावक्तव्यतां दर्शयति ॥ Nyaas ----- `उपाग्नि` इति। `अव्ययं विभक्ति` (2.1.6) इत्यादिना सामीप्येऽव्ययीभावः।`अव्ययात्` (2.4.82) इत लुक्। अग्नेः समीपे उपाग्नीति। उपाग्नि मुखं यस्येत्यव्ययी-भावगर्भो बहुव्रीहिः।तत्र **मुखं स्वाङ्गम्** (6.2.167) इत्युत्तरपदान्तोदात्तत्वे प्राप्ते`नाव्यय` (6.2.167) इति प्रतिषिद्धम्। `तस्मिन् प्रतिषिद्धे पूर्वपदप्रकृतिस्वरः` इति। `बहुव्रीहौ प्रकृत्या` (6.2.1) इत्यादिना तत् पुनरन्तोदात्तत्वम्ुपाग्निशब्दस्य समासस्वरेणान्तोदात्तत्वात्। `उपपयःकारः`इति। **कर्मण्यण्** (3.2.1) एवम्,`उपपयः कामः` इत्यत्रापि। उपपयः कामो यस्येति बहुव्रीहिर्वायम्। काम्यत इति कामः, **अकर्तरि च कारके संज्ञायाम्** (3.3.19) इति कर्मण्यपि घञ्। `अनव्ययस्य` (वा।939) इति सत्त्वे प्रतिषिद्धे `कुप्वो क पौ च` (8.3.37) जिह्वामूलीयो भवति, विसर्जनीयो वा। अत्र मुखस्वरोपचारौ निर्वत्र्यमानौ प्रयोजनम्, न तु विधीयमानौ; लुक् पुनर्विधीयमानः। ननु चावययनिबन्धनमकजादिकार्यमस्त्येव,तत् कुतोऽयं कार्यनियमो लभ्यत इत्याह-`सर्वम्` इत्यादि। `इदम्` इति। **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यादिकम्।किञ्चित् स्वरूपेणैव पठते, कस्यचित् पर्यायान्तरेणार्थः। स त्वभिधेयधर्मेणोपचारा-दित्युच्यते। तत्र `कृम्भकारसन्ध्यरान्तः` इति **कृन्मेजन्तः** (1.1.39) इत्यस्यार्थःपठते। क्त्वातोसुन्कसुनोऽव्ययीभावश्चेति स्वरूपेणैव। तसिलादिस्तद्धित एधाच्पर्य-न्त इति यावत्। च्व्यर्थाश्चेति। असिमौणादिकं वर्जयित्वा। तद्धितश्चासर्वविभक्तिरि-त्यस्यार्थः। `अनित्यत्वज्ञापनार्थम्` इति। प्रकृतत्वात् `संज्ञायाः` इति लभ्यते। तेनाकजादौ कर्तव्ये संज्ञा न भवतीति। अज्ञाताद्यर्थविवक्षायामुपाग्निकमित्यत्रा-कज् न भवति, क एव तु भवति। इह च उपकुम्भमात्मानं मन्यत उपकुम्भम्मन्यः, **आत्ममाने खश्च** (3.2.83) इत खशि कृते **खित्यनव्ययस्य** (6.3.66) इत्यनुवर्तमाने **अरुर्द्विषदजन्तस्य मुम्** (6.3.67) इति मुमः प्रतिषेधो न भवति। `इह च` इत्यादिना `अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः` इति यद्वक्ष्यति तस्यात्रावक्तव्यतां दर्शयति। सूर्यस्येत्यत्र **कर्तृकर्मणोः कृति** (2.3.65) इति षष्ठी॥ Prakriyasarvasvam ----------------- असावाप्यव्ययाख्यः । इत्यव्ययत्वात् सुलुक् । अधिहरि प्रवृत्ताः कथाः । ‘परिप्रती अपि सप्तम्यर्थावि’ति माधवः । परिमौलि प्रतिमौलि वा पिञ्छम् । अनुहरि वृत्तमित्यनुरपि सप्तम्यर्थे दृष्टः ॥ एवं नद्यामधीत्यत्र समासे सुब्लोपे च कृते अधिनदी,