11029: न बहुव्रीहौ ================== **Padacheda:** न | S | 0 | 0 | बहुव्रीहौ | S | 7 | 1 | Sutrartha --------- **बहुव्रीहिसमासे कर्त्तव्ये सर्वादिगणस्य शब्दानाम् 'सर्वनाम' इति संज्ञा न भवति ।** व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'सर्वनाम' इति संज्ञा । **सर्वादीनि सर्वनामानि** (1.1.27) इत्यस्मात् सूत्रात् आरभ्य **अन्तरं बहिर्योगोपसंव्यानयोः** (1.1.36) इति यावत्सु दशसु सूत्रेषु इयं संज्ञा पाठिता अस्ति । एतेषु इदं तृतीयम् सूत्रम् । इदं **निषेधसूत्रम्** अस्ति । ** बहुव्रीहिसमासस्य निर्माणे प्रयुक्तानाम् सर्वादिगणस्य शब्दानाम् सर्वनामसंज्ञा अनेन सूत्रेण निषिध्यते** । यथा - 1. प्रियं विश्वं यस्य सः प्रियविश्वः । अत्र 'विश्व' इति शब्दः समासनिर्माणात् पूर्वमेव सर्वनामसंज्ञां त्यजति । अतः अत्र 'प्रियविश्व' शब्दस्य सर्वनामसंज्ञा तु निषिध्यते एव, परन्तु विग्रहवाक्ये विद्यमानस्य 'विश्व'शब्दस्य सर्वनामसंज्ञा अपि निषिध्यते । तथा - प्रियाः विश्वाः येषाम् ते प्रियविश्वाः । अत्र (समासे विग्रहवाक्ये च) 'प्रियविश्व'शब्दस्य रूपाणि 'राम'शब्दसदृशानि एव भवन्ति - प्रियविश्वाय, प्रियविश्वात्, प्रियविश्वे - आदयः । 2. प्रियाः उभये यस्य सः प्रियोभयः । अत्र 'उभय'शब्दस्य सर्वनामसंज्ञा न भवति, अतः 'प्रियोभय'शब्दस्यापि सर्वनामसंज्ञा न भवति । 3. द्वौ अन्यौ यस्मिन् सः द्व्यन्यः । अत्र 'द्वि' तथा 'अन्य' उभयोः शब्दयोः सर्वनामसंज्ञा निषिध्यते । **सर्वनामसंज्ञानिषेधस्य प्रयोजनम्** अत्र सर्वनामसंज्ञायाः निषेधस्य मुख्यम् प्रयोजनम् अस्ति 'अकच्' प्रत्ययस्य अप्राप्तिः । सर्वेभ्यः सर्वनामसंज्ञकशब्देभ्यः तद्धितसंज्ञकस्य 'क'प्रत्ययस्य अपवादरूपेण **अव्ययसर्वनाम्नामकच् प्राक् टेः** (5.3.71) इत्यनेन 'अकच्' इति प्रत्ययः विशिष्टेषु सन्दर्भेषु स्वार्थे विधीयते । यथा, 'अज्ञातः त्वम्' इत्यत्र **अज्ञाते** (5.3.73) इत्यनेन सूत्रेण स्वार्थे क-प्रत्यये प्राप्ते तद्बाधित्वा **अव्ययसर्वनाम्नामकच् प्राक् टेः** (5.3.71) इत्यनेन 'अकच्' इति प्रत्ययः स्वार्थे विधीयते, येन 'त्वत्क' इति शब्दः सिद्ध्यति । परन्तु बहुव्रीहिसमासे विद्यमानाः ये सर्वादयः शब्दाः, तेषाम् विषये अकच्-प्रत्ययः नैव इष्यते । अतः तेषाम् सर्वनामसंज्ञायाः अनेन सूत्रेण निषेधः कृतः अस्ति । सर्वनामसंज्ञायाः निषेधे जाते 'अकच्' प्रत्ययः अपि न भवति, अतः तस्य स्थले औत्सर्गिकः 'क'प्रत्ययः एव भवति । यथा, 'त्वम्' इति शब्दः यदा बहुव्रीहिसमासे प्रयुज्यते, तदा समासनिर्माणात् पूर्वमेव अस्य सर्वनामसंज्ञायाः अभावात्, अकच्-प्रत्ययस्य अप्राप्तौ, औत्सर्गिकरूपेण **अज्ञाते** (5.3.73) इत्यनेन 'क'प्रत्यये कृते 'त्वक' इति शब्दः सिद्ध्यति, यस्य साहाय्येन अग्रे 'त्वकम् पिता अस्य' इति समासं कृत्वा 'त्वत्कपितृक' इति शब्दः सिद्ध्यति । एवमेव 'अहम्' शब्दः यदा बहुव्रीहिसमासे भवति, तदा अस्यापि सर्वनामसंज्ञायाः अभावात् **अज्ञाते** (5.3.73) इत्यनेन 'क'प्रत्ययः एव भवति, येन 'अहक' इति शब्दं कृत्वा तस्मात् 'अहकम् पिता अस्य' इति समासं कृत्वा 'मत्कपितृक' इति शब्दः सिद्ध्यति । अत्र यदि समासे विद्यमानस्य युष्मद्-शब्दस्य अस्मद्-शब्दस्य च सर्वनामसंज्ञा अभविष्यत्, तर्हि तत्र क-प्रत्ययं बाधित्वा अकच्-प्रत्यये प्राप्ते 'त्वकत्पितृक', 'मकत्पितृक' एतौ (अनिष्टौ) शब्दौ भवेताम् । एतौ बाधयितुम् पाणिनिना इदं सूत्रम् निर्मितम् अस्ति । **सूत्रे बहुव्रीहिग्रहणस्य प्रयोजनम्** वस्तुतस्तु **न बहुव्रीहौ** (1.1.29) अस्मिन् सूत्रे 'बहुव्रीहौ' इति पदम् अनावश्यकम्, यतः **विभाषा दिक्समासे बहुव्रीहौ** (1.1.28) इत्यस्मात् सूत्रात् तस्य अनुवृत्तिः भवितुम् अर्हति । तथापि **न बहुव्रीहौ** (1.1.29) इत्यत्र आचार्येण 'बहुव्रीहिः' इति शब्दः पुनः स्वीकृतः अस्ति । अस्य प्रयोजनम् काशिकायां दीयते - 'भूतपूर्वमात्रेऽपि प्रतिषेधो यथा स्यात्' । इत्युक्ते, यत्र समासः स्वयं बहुव्रीहिः नास्ति परन्तु पूर्वपदम् अथवा उत्तरपदम् बहुव्रीहिसमासेन निर्मितम् अस्ति, तत्र तस्मिन् पूर्वपदे उत्तरपदे च विद्यमानानाम् शब्दानाम् अपि सर्वनामसंज्ञा न भवेत् - इति ज्ञापयितुम् अत्र 'बहुव्रीहि'शब्दस्य पुनः ग्रहणम् क्रियते । यथा, 'वस्त्रम् अन्तरं येषाम् ते वस्त्रान्तराः' तथा 'वसनम् अन्तरम् येषाम् ते वसनान्तराः' अनेन प्रकारेण बहुव्रीहिसमासेन द्वयोः शब्दयोः सिद्धिं कृत्वा ततः 'वस्त्रान्तराः वसनान्तराः च' इति द्वन्द्वसमासेन प्राप्तस्य 'वस्त्रान्तवसनान्तराः' शब्दस्य विषये तत्र विद्यमानस्य 'अन्तर' शब्दस्य वस्तुतः **विभाषा जसि** (1.1.32) इत्यनेन विकल्पेन सर्वनामसंज्ञा प्राप्नोति । परन्तु अत्र द्वन्द्वसमासे विद्यमानाः घटकशब्दाः बहुव्रीहिसमासेन निर्मिताः सन्ति, अतः तेषु विद्यमानस्य 'अन्तर'शब्दस्य संज्ञा तदुपरि अन्यसमासे कर्त्तव्ये अपि निषिध्यते - इति ज्ञापयितुम् अस्मिन् सूत्रे 'बहुव्रीहिः' शब्दस्य पुनः ग्रहणम् कृतम् अस्ति । **सूत्रप्रत्याख्यानम्** वस्तुतस्तु उपरि दत्तेषु 'प्रियविश्व', 'द्व्यन्य' एतेषु उदाहरणेषु विद्यमानाः सर्वादिगणस्य शब्दाः इत्यनेन वार्त्तिकेन सर्वनामसंज्ञकाः नैव सन्ति । बहुव्रीहिसमासे अन्यपदार्थप्रधानत्वेन उभयोः पदयोः उपसर्जनसंज्ञा भवति अतः तयोः अनेन वार्त्तिकेन सर्वनामसंज्ञा निषिध्यते - इति अत्र आशयः । अतएव अस्य सूत्रस्य अर्थनिर्देशे 'बहुव्रीहिसमासे कर्त्तव्ये' इति निर्दिश्यते, येन समासनिर्माणात् पूर्वम् (विग्रह-अवस्थायाम्) अपि एतेषाम् सर्वनामसंज्ञा निषिध्यते । परन्तु, अयम् अर्थः भाष्यकारेण नानुमन्यते । भाष्यकारस्य मतेन तु बहुव्रीहिसमासे अवयवभूतानाम् सर्वादिगणस्य शब्दानाम् समासात् पूर्वम् (विग्रहवाक्ये) सर्वनामसंज्ञा अवश्यं भवति, अतः उपरिनिर्दिष्टाः 'त्वकत्पितृक/मकत्पितृक' एतादृशाः प्रयोगाः भाष्यकारस्य मतेन साधवः एव । अस्मिन् विषये भाष्यकारः ब्रूते - 'अकच्-स्वरौ तु कर्त्तव्यौ प्रत्यङ्गौ मुक्तसंशयम्' । इत्युक्ते, अकच्-प्रत्ययस्य (शब्दविशिष्टस्वरस्य च) अन्तरङ्गत्वात् अयं विधिः समासात् पूर्वम् (विग्रह-अवस्थायाम्) अवश्यम् (विना संशयम्) कर्त्तव्यः - इति । प्रत्येकम् अवयवस्य सर्वनामसंज्ञायां सत्याम् अकच्-प्रत्ययः (तद्विशिष्टः स्वरः च) भवितुम् अर्हति - इति अस्य वाक्यस्य आशयः । इत्युक्ते, विग्रहवाक्यस्य शब्दानाम् सर्वनामत्वं स्वीकृत्य, समासे विद्यमानानाम् शब्दानाम् सर्वनामत्वं तु इत्यनैनेव वार्त्तिकेन प्रतिषिध्य **भाष्यकारेण **न बहुव्रीहौ** (1.1.29) इदं सूत्रमेव प्रत्याख्यातम् अस्ति । ** । 'यथोत्तरम् मुनीनां प्रामाण्यम्' अनेन वचनेन अत्र भाष्यकारस्य मतम् एव ग्राह्यम् । अतः इदम् सूत्रम् दोषपूर्णम् (अतः च अनावश्यकम्) - इत्येव अत्र निर्णयः । Sutrartha (English) ------------------- The words of सर्वादिगण, when used to create a बहुव्रीहिसमास are not called सर्वनाम. Vasu English Summary -------------------- The words सर्व etc. are not सर्वनाम when they occur in a बहुव्रीही compound. Vasu English Translation ------------------------ The words सर्व etc. are not सर्वनाम when they occur in a बहुव्रीही compound. As a general rule (see *sutra* (1.1.72)), when any definition, rule, operation &c. is made applicable to a particular word, the same would also apply to any other word which ends in that word. Thus the plural of man being 'men' in English, the plural of blackman will be blackmen. So the definition of *sarvanama* given to *sarva* &c., separately, will also apply to the words ending in *sarva* &c. This *sutra* introduces thus an exception to *sutra* (1.1.27). In *bahuvrihi* or possessive compounds, the nature of which compounds will be described later on, the above mentioned words are not pronominals, and must follow the ordinary rule of declension. Thus the compound प्रियविश्व meaning 'beloved of all' is a *bahuvrihi* compound of प्रिय 'beloved,' and विश्व 'all,' (which is a *sarvanama*). The declension of this compound will follow the general rule. Thus, in the dative singular, we have प्रियविश्वाय, though the dative singular of विश्व by itself is विश्वस्मै, like other pronominals. So also प्रियोभयाय "to him who is beloved of both." So also द्व्यन्याय, त्र्यन्याय &c. Similarly in *bahuvrihi* compounds, these words not being treated as pronominals, they do not take also the special affix अकच्, but the general affix कन्. As, त्वत्कपितृको, मत्कपितृको (5.3.70). Though the word *bahuvrihi* was present in this *sutra* by *anuvritti* from the last aphorism, the object of using the word *bahuvrihi* again in this *sutra*, is this :-- that the prohibition may apply to those expressions also which are no longer *bahuvrihi*, but whose original components were once *bahuvrihi*. Thus the words वस्त्रान्तरा and वसनान्तरा are *bahuvrihi* compounds; but when these two words are further compounded into a *dvandva* compound, the present rule still applies. As, वस्त्रान्तरावसनान्तराः ॥ Bhashya ------- न बहुव्रीहौ किमुदाहरणम् ? प्रियविश्वाय। नैतदस्ति प्रयोजनम्। सर्वाद्यन्तस्य बहुव्रीहेः प्रतिषेधेन भवितव्यम्। वक्ष्यति चैतद्- बहुव्रीहौ सर्वनामसंख्ययोरुपसङ्ख्यानमिति। तत्र विश्वप्रियाय इति भवितव्यम्। इदं तर्हि द्व्यन्याय। त्र्यन्याय। ननु चात्रापि सर्वनाम्न एव पूर्वनिपातेन भवितव्यम्। नैष दोषः। वक्ष्यत्येतत्- सङ्ख्यासर्वनाम्नोर्यो बहुव्रीहिः परत्वात् तत्र सङ्ख्यायाः पूर्वनिपातो भवतीति इदं चाप्युदाहरणं प्रियविश्वाय। ननु चोक्तं विश्वप्रियायेति भवितव्यमिति। वक्ष्यत्येतत् वा प्रियस्येति। न खल्वप्यवश्यं सर्वाद्यन्तस्यैव बहुव्रीहेः प्रतिषेधेन भवितव्यम्। किं तर्हि। असर्वाद्यन्तस्यापि भवितव्यम्। किं प्रयोजनम्? अकच् मा भूदिति। किं च स्याद्? यद्यत्राकच् स्यात्। को न स्यात्। कश्चेदानीं काकचोर्विशेषः ? व्यञ्ञ्जनान्तेषु विशेषः - अहकं पिता यस्य मकत्पितृकः। त्वकं पिता यस्य त्वकत्पितृक इति प्राप्नोति। मत्कपितृकः त्वत्कपितृक इति चेष्यते। कथं पुनरिच्छतापि भवता बहिरङ्गेण प्रतिषेधेनान्तरङ्गो विधिः शक्यो बाधितुम्। अन्तरङ्गानपि विधीन् बहिरङ्गो विधिर्बाधते गोमत्प्रिय इति यथा। क्रियते तत्र यत्नः - प्रत्ययोत्तरपदयोश्चेति। ननु चेहापि क्रियते - न बहुव्रीहाविति। अस्त्यन्यदेतस्य वचने प्रयोजनम्। किम्? प्रियविश्वाय। उपसर्जनप्रतिषेधेनाप्येतत् सिद्धम्। अयं खल्वपि बहुव्रीहिरस्त्येव प्राथमकल्पिकः, यस्मिन्नैकपद्यमैकस्वर्यमेकविभक्तित्वं च। अस्ति तार्दथ्यात् ताच्छब्द्यम्। बहुव्रीह्यर्थानि पदानि - बहुव्रीहिरिति। तद्यत् तार्दथ्यात् ताच्छब्द्यं तस्येदं ग्रहणम्। गोनर्दीयस्त्वाह - अकच्स्वरौ तु कर्तव्यौ प्रत्यङ्गं मुक्तसंशयम्। त्वकत्पितृको मकत्पितृक इत्येव भवितव्यमिति। ॥ प्रतिषेधे भूतपूर्वस्योपसङ्ख्यानम् । प्रतिषेधे भूतपूर्वस्योपसङ्ख्यानं कर्तव्यम्। आढ्यो भूतपूर्वः - आढ्यपूर्वः। आढ्यपूर्वाय देहीति। ॥ प्रतिषेधे भूतपूर्वस्योपसङ्ख्यानानर्थक्यं पूर्वादीनां व्यवस्थायामिति वचनात् ॥ प्रतिषेधे भूतपूर्वस्योपसङ्ख्यानमनर्थकम्। किं कारणम्? पूर्वादीनां व्यवस्थायामिति वचनात्। पूर्वादीनां व्यवस्थायां सर्वनामसंज्ञोच्यते। न चात्र व्यवस्था गम्यते। Kashika ------- सर्वनामसंज्ञायां तदन्तविधेरभ्युपगमाद् बहुव्रीहेरपि सर्वाद्यन्तस्य संज्ञा स्यादिति प्रतिषेध आरभ्यते। बहुव्रीहौ समासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति। प्रियविश्वाय। प्रियोभयाय। द्व्यन्याय। त्र्यन्याय। इह च त्वत्कपितृको मत्कपितृक इत्यकज् न भवति। बहुव्रीहाविति वर्तमाने पुनर्बहुव्रीहिग्रहणं भूतपूर्वमात्रेऽपि प्रतिषेधो यथा स्यात् — वस्त्रान्तरवसनान्तरा इति॥ Siddhanta Kaumudi ----------------- बहुव्रीहौ चिकीर्षते सर्वनामसंज्ञा न स्यात् । त्वकं पिता यस्य स त्वत्कपितृकः । अहकं पिता यस्य स मत्कपितृकः । इह समासात्प्रागेव प्रक्रियावाक्ये सर्वनामसंज्ञा निषिध्यते । अन्यथां लौकिके विग्रहवाक्ये इव त्राप्यकच् प्रवर्तेत । स च समासेऽपि श्रूयेत । अतिक्रान्तो भवकन्तमतिभवकानितिवत् । भाष्यकारस्तु त्वकत्पितृको मकत्पितृक इति रूपे इष्टापत्तिं कृत्वैतत्सूत्रं प्रत्याचख्यौ । यथोत्तरं मुनीनां प्रामाण्यम् ॥ (वार्तिकम्) ॥ महासंज्ञाकरणेन तदनुगुणानामेव गणे संनिवेशात् । अतः संज्ञाकार्यमन्तर्गणकार्यं च तेषां न भवति । सर्वो नाम कश्चित्तस्मै सर्वाय देहि । अतिक्रान्तः सर्वमतिसर्वस्तस्मै अतिसर्वाय देहि । अतिकतरं कुलम् । अतितत् ॥ Balamanorama ------------ **न बहुव्रीहौ** - तत्रेदमारभ्यते — ॒न बहुव्रीहौ॑ ।सर्वादीनि सर्वनामानी॑त्यनुवर्तते । बहुव्रीहौ सर्वादीनि सर्वनामानि न स्युरित्यर्थः प्रतीयते । एवं सति सूत्रमिदं व्यर्थं,प्रियसर्वाये॑त्यादीनां बहुव्रीहिवर्तिनां सर्वादीनां स्वार्थोपसङ्क्रान्तार्थान्तप्रधानकतयोपसर्जनत्वादेव सर्वनामत्वनिषेधसिद्धेः,संज्ञोपसर्जनीभूतास्तु न सर्वादयः॑ इति वक्ष्यटमाणत्वात् । अतो व्याचष्टे — चिकीर्षित इति । बहुव्रीहाविति विषयसप्तम्याश्रयणादयमर्थो लभ्यते । तथाच बहुव्रीहौ प्रसक्ते सति ततः प्रागेव विग्रहवाक्येऽयं निषेधोर्थवान् । एकार्थीभावात्मकसामर्थ्यस्य समासदशायामेव सत्त्वेन विग्रहवाक्ये तदभावेन तदानीमुक्तोपसर्जनत्वस्याऽभावादिति भावः । अथ लौकिकविग्रहवाक्यं दर्शयल्लँक्ष्यभूतं बहुव्रीहिं दर्शयति — त्वकं पितेत्यादिना । सर्वनामत्वाऽभावात्कप्रत्ययेप्रत्ययोत्तरपदयोश्चे॑ति त्वमादेशे त्वत्को मत्क इति च रूपम् । ननु बहुव्रीहिप्रवृत्तेः प्रागलौकिकविग्रहवाक्ये सर्वनामत्वनिषेधात्त्वं पितेति कथं लोकिकविग्रहवाक्यप्रदर्शनमित्यत आह — इहेति ।न बहुव्रीहा॑वित्यस्मिन्सूत्र इत्यर्थः । प्रक्रियावाक्य इति । युष्मद् स्-पितृ स्, अस्मद् स्-पित#ऋ स् — इत्यलौकिकविग्रहवाक्य एवेत्यर्थः । लोकिकविग्रहवाक्ये तु नायं निषेधः, बहुव्रीहिवत्तस्य स्वार्थे परिनिष्ठितत्वेन स्वतन्त्रप्रयोगाह्र्मतया बहुव्रीहेस्तत्र चिकीर्षितत्वाऽभावादलौकिकविग्रहात्मके प्रक्रियावाक्य एव तस्य चिकीर्षितत्वात् । यथा चैतत्तथा समासनिरूपणे वक्ष्यते नन्वलौकिकविग्रहवाक्ये मास्तु सर्वनामतानिषेधः, को दोषः । तत्राह-अन्यथेति । न बहुव्रीहावित्यलौकिकविग्रहवाक्ये निषेधाऽभावे सतीत्यर्थः । तत्रापीति । अलौकिकविग्रहवाक्येऽपीत्यर्थः ।नन्वलौकिकविग्रहवाक्ये भवत्कच् । सत्यप्यकचि तस्य प्रयोगानर्हत्वेन बाधकाऽभावादित्यत आह — स चेति अलौकिकविग्रहवाक्ये श्रुतस्य लौकिकविग्रहवाक्ये समासे च श्रवणनियमादिति भावः । उभयत्रापि तन्नियमे दृष्टान्तद्वयमाह — अतिक्रान्तो भवकन्तमित्यादि । भवच्छबन्दस्य सर्वादिगणे पाठात्सर्वनामत्वादलौकिकविग्रहदशायामकच् । ततश्च भवकत् अमति इत्यलौकिकविग्रहवाक्यं संपद्यते । तत्रअत्यादयः क्रान्ताद्यर्थे द्वितीयये॑ति समासे सतिसुपो धातुप्रातिपदिकयो॑रिति सुब्लुकि अतिभवकच्छब्दात्प्रथमैकवचने ।ञतिभवकानिति रूपम् । समासाऽभावपक्षे तु भवकन्तमतिक्रान्त इति लौकिकविग्रहवाक्यं भवति । तत्र समासदशायां भवच्छब्दार्थस्य स्वोपसङ्कान्तार्थान्तरप्रधानतयोपसर्जनत्वे ।ञप्यलौकिकविग्रहदशायां भवच्छब्दस्यानुपसर्जनत्वात्सर्वनामत्वे सति प्रवृत्तोऽकच् अतिक्रान्तो भवकन्तमिति लौकिकविग्रहवाक्येऽभवकानिति समासे चानुवर्तते, लौकिकविग्रहदसायां भवच्छब्दस्योक्तरीत्याऽनुपसर्जनत्वात् । समासे तस्योपसर्जनत्वेऽपि योनिभूताऽलौकिकविग्रहदशायां प्रवृत्तस्याऽकचो निवर्तकाऽभावात् । नच भवत् अम् इत्यलौकिकविग्रहदशायां सतोऽप्यनुपसर्जनत्वस्य समासदशायां विनाशं प्राप्स्यमानतया विनाशोन्मुखत्वादकृतव्यूहपरिभाषयाऽलौकिकविग्रहवाक्येऽपि सर्वनामत्वाऽभावादकज्दुर्लभः । ततश्चाऽतिक्रान्तो भवकन्तमिति लोकिकविग्रहवाक्येऽतिभवकानिति समासे च कथमकच्प्रसक्त इति दृष्टान्तऽसिद्धिरिति वाच्यम् । एवञ्जातीयकाऽलौकिकविग्रहवाक्ये सर्वनामत्वप्रवृत्तावकृतव्यूहपरिभाषाया अनित्यत्वेनाऽनाप्रवृत्तेः । तदनित्यत्वे च न बहुव्रीहाविति सूत्रमेव ज्ञापकम् । तथा हि — यद्यकृतव्यूहपरिभाषा सार्वत्रिकी स्यात्, तर्हि बहुव्रीहिविषयेऽपि युष्मद् स् पितृस् इत्याद्यलौकिकविग्रहवाक्येऽनुपसर्जनत्वस्य बहुव्रीहिकालिकविनाशोन्मुखतया सर्वनामत्वस्याऽप्रसक्तत्वात्न बहुव्रीहा॑विति नारभ्येत । अकृतव्यूहपरिभाषायास्तत्र प्रवृत्तेर्भविष्यद्बहुव्रीहिकालिकविनाशोन्मुखमनुपसर्जनत्वं पुरस्कृत्य तदलौकिकविग्रहवाक्ये सर्वनामत्वस्याऽप्रसक्तत्वान्न तन्निषेधाय न बहुव्रीहावित्यर्थवत् । नचोदाहृतबहुव्रीहिविषयाऽसोकिकविग्रवाक्येऽकृतव्यूहपरिभाषामाश्रित्यैव सर्वनामत्वाऽभाव आश्रीयतां, किं न बहुव्रीहाविति सूत्रेणेति वाच्यम् । एवं सत्यतिक्रान्तो भवकन्तमतिभवकनित्यादि न सिध्येत् । अकृतव्यूहपरिभाषया तदलौकिकविग्रहवाक्येऽपि सर्वनामत्वाऽभावेनाकचः प्रवृत्त्यभावे तस्यातिक्रान्तो भवकन्तमित्यादिलौकिकविग्रहवाक्येऽतिभवकानिति समासेऽपि च श्रवणं न स्यात् । एवञ्च बहुव्रीहिविषयेऽलौकिकविग्रहवाक्येऽकृतव्यूहपरिभाषाया अप्रवृत्त्यसिद्धवत्कृत्य सर्वनामत्वनिषेधात्तदितरसमासविषयेऽप्यलौकिकविग्रहवाक्येऽकृतव्यूहपरिभाषाया अप्रवृत्त्या सर्वनामत्वं विज्ञायते । एतदर्थमेव न बहुव्रीहाविति सूत्रमित्यन्यत्र विस्तरः । प्रत्याचख्याविति । निराकृतवानित्यर्थः । सूत्रभाष्ययोरुभयोरपि स्मृतित्वाऽविशेषाद्विकल्पमाशङ्कयाह — यथोत्तरमिति । सूत्रकाराद्वार्तिककारस्य, उभाभ्यामपि भाष्यकृत इत्येवं मुनीनामुत्तरोत्तरस्य ग्रन्थस्य प्रामाण्यं, पूर्वपूर्वस्याऽप्रामाण्यमिति वैयाकरणसमय इति भावः । न चाऽकृतव्यूहपरिभाषाया उक्तरीत्या अनित्यत्वज्ञापनार्थमेतत्सूत्रमिति वाच्यम्, अकृतव्यूहपरिभाषाया निमूर्लत्वस्य निष्फलत्वस्य च हलन्तादिकारे सेदिवस्शब्दनिरूपणे,समर्थानां प्रथमाद्रे॑त्यत्र च वक्ष्यमाणत्वात् । संज्ञोपसर्जनीभूता इति । आधुनिकसङ्केतः संज्ञा । अन्यविशेषणत्वेन स्वार्थोपस्थापकम् — उपसर्जनम् । न सर्वादय इति । सर्वादिगणे पठिता न भवन्तीत्यर्थः ।महासंज्ञेति । टिघुभादिवदेकाक्षरसंज्ञामकृत्वा सर्वेषां नामानीत्यन्वर्थसंज्ञाकरणबलेन प्राधान्येनोपस्थितस्वीयसर्वार्थवाचकत्वस्य सर्वनामशब्दप्रवृत्तिनिमित्तत्वमित्यवगततया तथाविधानामेव सर्वादिगणे पाठानुमानादित्यर्थः ।प्राधान्येनोपस्थिते॑त्यनेन उपसर्जनव्यावृत्तिः ।प्राधान्येनोपस्थितसर्वार्थवाचकत्व॑मित्युक्ते पूर्वादिशब्देष्वव्याप्तिरतः-॒स्वीये॑ति । सर्वार्थे॑त्यनेन संज्ञाशब्दव्यावृत्तिः, संज्ञाशब्दानामेकैकव्यक्तिविषयकत्वात् । संज्ञाकार्यमिति । सर्वनामसंज्ञाकार्यं शीस्मायादिकमित्यर्थः । अन्तर्गणेति । सर्वादिगणेऽन्तर्गतो गणः-अन्तर्गणः । तदीयं कार्यम् =॒अद्ड्डतरादिभ्यः॑ त्यदादीनामः॑ इत्यादिकमित्यर्थः । सर्वाय देहीति । संज्ञाशब्दत्वात्समायादेशो न । अतिकतरमिति । कतरमतिक्रान्तं कुलमतिकतरमित्यत्र कतरशब्दस्य उपसर्जनत्वान्नाऽद्डादेशः । अतितदिति । तमतिक्रान्तो ब्राआहृणोऽतितदित्यत्र त्यदाद्यत्वं, 'तदोः सः सौ' इति च न भवति । Tattvabodhini ------------- **न बहुव्रीहौ** - न बहुव्रीहौ । कृते बहुव्रीहौ निषेधो व्यर्थः,उपसर्जनीभूतास्तु न सर्वादयः॑ इति वक्ष्यमाणत्वात् । अत आहचिकीर्षित इति ।बहुव्रीहा॑वित्यत्र विषयसप्तम्याश्रयणादयमर्थो लभ्यते । त्वकमिति । अज्ञाते कुत्सिते वाअव्ययसर्वनाम्ना॑मित्यकच् । एवमहकमित्यत्रापि । प्रक्रियावाक्ये इति । अलोकिकविग्रहवाक्ये इत्यर्थः । तच्चयुष्मद् सु पितृ सु॑ इत्याद्याकारकम् । ननु तत्राऽकच् प्रवर्ततां को दोष इत्यत आह — स चेति । न च निमित्तस्यानुपसर्जनत्वस्य विनाशोन्मुखत्वादकृतव्यूहपरिभाषया समासात्प्रागपि सर्वनामता न भविष्यतीति वाच्यं, तस्या अनित्यत्वात् । तत्र चूतत्सूत्रस्यैव ज्ञापकत्वात् । अतिभवकानिति । इदमेव ज्ञापनफलमिति भावः ।अत्यादयः क्रान्ताद्यर्थे द्वितीयये॑ति प्रादिसमासः । प्रत्याचख्याविति ।छ्वोः शू॑डिति सतुग्ग्रहणं, प्रकृतिप्रत्यापत्तिवचनं वा अनित्यत्वे ज्ञापकं, लक्ष्यानुरोधाच्च व्यवस्थेति भावः । यथोत्तरमिति । तथाच सम्प्रति भाष्यकारोतयैव व्यवस्थेति भावः । गणेसंनिवेशादिति । एतेनपूर्वपरावरे॑ति गणसूत्रेअसंज्ञाया॑मिति ग्रहणं मन्दप्रयोजनमिति ध्वनितम् । संज्ञायां यानि पूर्वादीनि तेषां गणे संनिवेशाऽभावात् । एवमष्टाध्यायीस्थेपूर्वपरावरे॑ति सूत्रेऽपिअसंज्ञाया॑मित्येतत्त्युक्तुं शक्यम् । न च तदभावे जसि परतः संज्ञायाम्उत्तराः कुरव॑ इत्यत्राऽप्राप्तविकल्पः स्यांदिति वाच्यं, सर्वनामसंज्ञाया अन्वर्थत्वेन संज्ञायामप्राप्तविधेरसंभवादसंज्ञायामेव पूर्वेण प्राप्ता संज्ञा जसि वा स्यादिति वक्तुमुचितत्वात् । संज्ञाकार्यमिति । सर्वनामसंज्ञाप्रयुक्तं स्मायादिकमित्यर्थः । अन्तर्गणकार्यमिति ।अद्ड्डतरादिभ्यः,॒॑त्यादादीनामः॑,तदोः सः सौ॑ इत्यादिकमित्यर्थः । अतिकतरमिति । अत्राऽद्डादेशो न ।अतित॑दित्यत्र तु त्यदाद्यत्वं,तदो सः सौ॑ इति सत्वं च नेति भावः । Padamanjari ----------- अत्र वृतौ द्विधा सूत्रार्थो लक्ष्यते - बहुव्रीहाविति निषेधाधिकरणम्-बहुव्रीहि संज्ञा न भवति, बहुव्रीह्याधारा संज्ञा न भवतीति; बहुव्रीहेः संज्ञा न भवतीति । सर्वाद्यधिकरणं वा - बहुव्रीहौ यानि सर्वादीनि तानि सर्वनामसंज्ञानि न भवन्तीति । तत्र सर्वनामसंज्ञायाम् इत्यादिनाऽऽद्यं पक्षं द्वितीयं सूत्रार्थं दर्शयति । कथं पुनर्ज्ञायतेऽभ्युपगतस्तदन्तविधिरिति ? अत एव निषेधात् । द्वितीयं सूत्रार्थं दर्शयति - बहुव्रीहावित्यादि । प्रथमस्योदाहरणमाह - प्रियविश्वायेति । 'सर्वनामसंख्ययोरुपसंख्यानम्' इति सर्वनाम्नः पूर्वनिपाते प्राप्ते 'वा प्रिययस्य' इति प्रियशब्दस्य पूर्वनिपातः । द्व्यन्यायेति । शर्वनामसंख्ययोः' इति द्व्यन्ययोः पूर्वनिपाते प्राप्ते परत्वात् सङ्ख्यायाः पूर्वनिपातः । द्वितीयस्योदहरणमाह - इह चेति । अत्र च प्रतिषेधोऽयमारभ्यत इत्यनुषङ्गः; अत्रासति निषेधेऽकचि सति त्वकत्पितृको मकत्पितृक इति प्राप्नोति, सति तु 'प्रागिवात्कः' इति के सति 'प्रत्ययोतरपदयोश्च' इति त्वमादेशयोस्त्वत्कपितृको मत्कपितृक इति सिद्ध्यति ङद्यःतश्च' इति समासान्ते कपि । ननु च बहुव्रीहावयं निषेधः, इह च प्रागेव; ततस्त्वकं पताऽस्यि अहकं पिताऽस्येति वाक्यावस्थायामेवाकच् प्राप्नोति ? एवं तर्हि प्रतिषेधसामर्थ्यात् यद्वाक्योपमर्देअन बहुव्रीहिर्भवति तस्यामेवावस्थायां निषेधो भविष्यति । अत्र च प्रथमः सूत्रार्थस्तदन्तविविज्ञापनायैवोपन्यस्तः, न तु प्रियविश्वायेत्यादौ समुदायस्य संज्ञाप्रसङ्गः; असर्वार्थत्वात्, यथा अतिसर्वायेत्यादौ । बहुव्रीहाविति वर्तमाने पुनर्बुहुव्रीहिग्रहणं किमर्थमित्याह - बहुव्रीहावित्यादि वस्त्रान्तरवसनान्तरा इति । वसनमन्तरं येषामिति बहुव्रीहौ द्वन्द्वः । अत्रासति बहुव्रीहिग्रहणे वर्तमानद्वन्द्वाश्रयो निषेधः स्यात्, ततश्च जसि विभाषा स्यात् । पुनर्बहुव्रीहिग्रहकणातु यदन्तो द्वन्द्वः, सोऽन्तरशब्दो बहुव्रीहेः पूर्वमत्रासीद् इति बहुव्रीह्याश्रयो नित्य एव निषेधो भवति । इदं तु 'तदन्तस्य संज्ञानिषेध' इति प्रथमपक्षानुरोधेन प्रत्युदाहरणम् । न त्वत्र प्रसङ्गः; असर्वार्थत्वात् । वसन्त्यस्मिन्निति वसनं गृहम्, तेन 'विरूपाणामपि समानार्थानाम्' इत्येकशेषाभावः ॥ Nyaas ----- `सर्वनामसंज्ञायाम्` इत्यादि। कथं पुरेतदवगतम्- अभ्युपगतस्तदन्तविधिरिति? अत एव प्रतिषेधात्, अन्यथा हि निष्फलः प्रतिषेधः स्यात्। तदन्तविध्यभ्युपगमे हि `परमसर्वस्मै उत्तमसर्वस्मै` इत्यत्रापि संज्ञा यथा स्यात्। `इह च` इत्यादि। अस्य `प्रतिषेध आरभ्यते` इत्यनेन सम्बन्धः। `त्वं पिताऽस्य, अहं पिताऽस्य` इति विगृह्र बहुव्रीहौ कृतेऽज्ञाताद्यर्थविवक्षायामसति प्रतिषेधे। **अव्ययसर्वनाम्नामकच् प्राक् टेः** (5.3.71) इत्यत्राकच् प्रसज्येत। ततश्च `त्वकत्पित-कः, मकत्पितृकः` इत्यनिष्टं रूपं स्यात्। तस्मादकज् मा भूदिति प्रतिषेद आरभ्यते। तेन `प्रागिवात् कः` (5.3.70) इति क एव भवति। तत्र परतः **प्रत्ययोत्तरपदयोश्च** (7.2.98) इति मपर्यन्त-र्योर्युष्मदस्मदोस्त्वमयोः कृतयोः **नद्यृतश्च** (5.4.153) इति समासान्ते कपि च `त्वत्कपितृकः, मत्कपितृकः` इति सिद्ध्यति। ननु चान्वर्थसंज्ञाकरणादेव संज्ञानिरासे कृतेऽकज् न भविष्यति-न ह्यत्र सर्वार्थता सम्भवति, विशेषविषयत्वात्, नैतदस्ति;समुदायो हि विशेषे वर्तते, पूर्वपदं तु सर्वार्थताया अनपेतमेव। भवत्वनयोरनन्तरयो-रुदाहरणयोरेतत्सूत्रविषयता, `प्रियिआआय` इत्यादिस्तु नपपद्यते; न हि प्रियविआआदयः शब्दाः सर्वेषां नामानि नापि तदवयवभूतानां विआआदिशब्दानां किञ्चित् सर्वनामका-र्यममुपपद्यते; स्मैप्रभृतीनामङ्गकार्यत्वात्, विआआदिशब्दानां चानङ्गत्वात्? एवं मन्यते- `त्वत्कपितृकः, कत्कपितृकः` इत्यत्राकज् मा भूदिति, एतदर्थं तावदेतदार-ब्धव्यम्, `प्रियविआआय` इत्येवमादावपि विस्पष्टार्थं भविष्यतीति।अथ `बहुव्रीहौ` इति वर्तमाने किमर्थं पुनर्बहुव्रीहग्रहणमित्याह- `बहुव्रीहौ` इत्यादि। `वस्त्रान्तरवसनान्तराः` इति। वस्त्रमन्तरं येषामिति बहुव्रीहि कृत्वा वस्त्रान्तराश्च वसनान्तराश्चेति द्वन्द्वः कृतऋ। अत्र वर्तमा-नत्वाद् द्वन्द्वस्य **द्वन्द्वे च** (1.1.31) , **विभाषा जसि** (1.1.32) इति द्वन्द्वा-श्रितो विभाषाप्रतिषेधः स्यात्, न नित्यो बहुव्रीह्राश्रितः। पुनर्बहुव्रीहिग्रहणा-त्तु भूतपूर्वस्यापि बहुव्रीहेराश्रयमात् तदाश्रयो नित्यः प्रतिषेधो भवति। वसनशब्द-श्चात्र वसत्यस्मिन्नित्यधिकरणसाधनो गृहे वर्तते, न वस्त्रे; अन्यथा वस्त्रान्तरवसनान्तरशब्दयोः पर्यायत्वाद् द्वन्द्वो न स्यात्, `तुल्यार्थाञ्च विरुपाणामेकशेषः` इत्येकशेषविधानात्। Praudhamanorama --------------- कृते बहुव्रीहौ निषेधो व्यर्थः 'उपसर्जनीभूता न सर्वादय' इति वक्ष्यमाणत्वादत आह- **प्रक्रियेति।** न च निमित्तस्यानुपसर्जनत्वस्य विनाशोन्मुखत्वात्प्रागेव संज्ञा न भविष्यतीति वाच्यम्। अकृतव्यूहपरिभाषाया अनित्यत्वात्। तत्र चैतत्सूत्रस्यैव ज्ञापकत्वात्। **अतिभवकानिति।** एतदेव ज्ञापनफलमिति भावः। **इष्टापत्तिं कृत्वेति।** 'च्छ्वोः शूड्' इति सतुक्कग्रहणं, प्रकृतिप्रत्ययापत्तिवचनं वा अनित्यत्वे ज्ञापकम्, लक्ष्यानुरोधाद्व्यवस्थेति भावः। **यथोत्तरमिति।** तथा चाद्यत्वे भाष्यकारोक्त्यैव व्यवस्थेति भावः। यत्तु प्राचोक्तम्— बहुव्रीहौ सर्वादेः सर्वनामता न स्यात्। प्रियसर्वाय। सूत्रकारमते बहुव्रीहौ न सर्वनामता। भाष्यकारमते गौणत्वमात्रे। 'त्वत्कपितृको' 'मत्कपितृक' इत्यत्र समासावयवयोर्युष्मदस्मदोः सर्वनामत्वादनङ्गकार्यत्वेनाकच् स्यात् स मा भूत्, कप्रत्यय एव स्यादित्येतदर्थमिदं सूत्रमिति न्यासकृन्मतमिति। अत्रेदं वक्तव्यम्। किं बहुव्रीहौ संज्ञा नेति विवक्षितम् उत तदवयवानां सर्वादीनामिति? नाद्यः। समासावयवयोर्युष्मदस्मदोरित्युत्तरग्रन्थविरोधात्, समुदाये प्राप्तिविरहाच्च। न च तदन्तविधिना प्राप्तिः। बहुव्रीह्यवयवानामुपसर्जनतया सर्वादिबहिर्भावेन तदन्ते प्राप्तेर्दूरापास्तत्वात्। अत एव न द्वितीयोऽपि। न चोपसर्जनानां पाठात् पर्युदासो वार्तिककृतोक्तो न तु सूत्रारूढ इति वाच्यम्। अन्वर्थसंज्ञाबलेन सूत्राक्षरैरेव तल्लाभात्। एतेन सूत्रकारमते बहुव्रीहौ न सर्वनामतेत्यपि परास्तम्। बहुव्रीहावेवेति तस्यार्थः। भाष्यकारमते इत्याद्यपि न। विशेषोपादानेन हि सूत्रकारवार्तिककारयोर्मतमन्यादृशमिति प्रतीयते। देवदत्तो वामेनाक्ष्णा पश्यतीत्युक्ते दक्षिणेन न पश्यतीतिवत्। तच्च न। सौत्रवार्तिकमतेऽपि गौणपर्युदासस्येष्टत्वात्। यत्तु त्वत्कपितृक इत्यादि। तदित्थं प्राचा व्याख्यातम्— त्वं पिता यस्य, अहं पिता यस्येति विगृह्य बहुव्रीहिसमासे कृते समासावयवयोः समासान्तःपातिनोर्युष्मदस्मदोः सर्वार्थवाचकत्वेन सर्वनामसंज्ञकत्वादज्ञाताद्यर्थविवक्षायाम् 'अव्ययसर्वनाम्नाम्' इत्यकच् प्रसज्येत। तस्य स्मैप्रभृतीनामिवाङ्गाधिकारविहितत्वाभावेनाङ्गसंज्ञानपेक्षत्वात्। ततश्च त्वकत्पितृक इत्याद्यनिष्टं प्रसज्येतेति। न्यासकृताऽपि अन्वर्थसंज्ञाबलादेव संज्ञानिरासे कृतेऽकज् न भविष्यतीत्याशङ्क्य समुदायो हि विशेषे वर्तते, पूर्वपदन्तु सर्वार्थताया अनपेतमेवेत्युक्तम्। तदेतत्सर्वं प्रामादिकमेव। तथा हि— जहत्स्वार्थायां वृत्तौ समासावयवयोरर्थ एव नास्ति। अजहत्स्वार्थायामपि स्वार्थविशिष्टान्यपदार्थवृत्तित्वेनोपसर्जनत्वं स्पष्टमेव। एवं च समासान्तःपातिनोर्युष्मदस्मदोः सर्वार्थवाचकत्वेनेत्यादि ग्रन्थः, समुदायो हित्यादिन्यासग्रन्थश्च पक्षद्वयेऽपि व्याहतः। किं चैवम् अतिसर्वायेत्यत्र स्मायदेशो दुर्वारः, अङ्गाधिकारे तदन्तग्रहणात्। त्वदुक्तरीत्या सर्वशब्दस्य सर्वार्थतानपायात्। न हि पूर्वपदे सर्वार्थता उत्तरपदे तु नेति युक्तिमत्। अपि चैवं गौणत्वे सर्वादीनां सर्वार्थवाचकत्वं नास्तीति स्वोक्त्या सह विरोधः स्यादिति यत्किंचिदेतत्। यदपि व्याचख्युः— त्वं पिता यस्येत्यादौ विग्रहवाक्ये प्राप्ता संज्ञा निषिध्यते इति। तदपि न। विग्रहवाक्यं हि लौकिकमलौकिकं वा विवक्षितम्? नाद्यः। प्रक्रियावाक्येऽयं निषेधो न तु लौकिक इति कैयटग्रन्थविरोधात्, प्रकृतसनदर्भगतपूर्वापरस्वग्रन्थविरोधाच्च। न द्वितीयः। तस्य युष्मद् सु पितृ सु इत्याकारकत्वेन त्वं पितेत्याकारकत्वायोगात्। यदपि व्याचख्युः— नन्वतिसर्वादौ संज्ञा न प्रवर्तते त्वत्कपितृकादौ तु संज्ञा प्रवर्तत इत्यत्र किं विनिगमकन्तत्राह—अनङ्गकार्यत्वेनेति। अङ्गशब्दः समुदायपरः। तेनातिसर्व इत्यत्राङ्गसंज्ञाऽपेक्षिता सर्वनाम्नोऽङ्गात् स्मायादिविधानादवयवयमात्रस्य सत्यपि सर्वनामत्वे दोषाभावात्। समुदाये च समुदायार्थं प्रति सर्वादेरुपसर्जनत्वात् तदन्तस्य संज्ञा न भवतीति युक्तम्। इह तु अवयवमात्रस्य सा चिकीर्षिता न समुदायस्य, अवयवश्च स्वार्थमात्रप्रधान इति स्यात् प्रसङ्ग इति वैषम्यमस्तीत्याशय इति। तदपि न। अङ्गाधिकारे तदन्तविधेः सर्वसंमतत्वेनावयवमात्रे सत्यपि सर्वनामत्वे दोषो नास्तीत्युक्तेव्र्याहतत्वात्। अङ्गाधिकारपरिभाषया स्मै स्यादिति स्वग्रन्थविरोधाच्च। अथायमाशयः—प्राक् प्रवृत्ताऽपि संज्ञा अर्थान्तरोपसंक्रमे सति गतेति। तर्हि अकजपि गच्छतु। ननु कार्यकालपक्षे स्मायाद्यर्थं पुनः संज्ञापेक्षिता, सा च दुर्लभेत्याशयः इति चेत्? अस्त्वेवम्। न त्वसौ प्रकृतग्रन्थार्थः। न्यासग्रन्थविसंवादेन 'इति न्यासकृन्मतम्' इति वाक्यशेषविरोधात्। न्यासग्रन्थस्त्वनुपदमेवोदाहरिष्यते। यदपि व्याचख्युः— अङ्गप्रधानं बाध्यं तद्विरुद्धमनङ्गं बाधकमित्यर्थः। तथा च कप्रत्ययापवादत्वादकच् स्यदित्यर्थ इति। तदपि क्लिष्टं व्यर्थं च, न्यासग्रन्थासंमतं च। तथा हि, त्वत्कपितृको मत्कपितृक इति वृत्तिग्रन्थं व्याख्याय न्यासकार उज्जग्राह— ननु च अन्वर्थसंज्ञाकरणादेवात्र संज्ञानिरासे कृतेऽकज् न भविष्यति। न ह्यत्र सर्वार्थता सम्भवति विशेषविषयत्वात्। नैतदस्ति। समुदायो हि विशेषे वर्तते पूर्वपदं तु सर्वार्थताया अनपेतमेव। भवतु तर्हि अनयोरनन्तरयोरेतत्सूत्रविषयता । प्रियविश्वायेत्यादेस्तु नोपपद्यते। न हि प्रियविश्वादयः सर्वेषां नामानि। नापि तदवयवभूतानां विश्वादिशब्दानां किञ्चित्सर्वनामकार्यमुपपद्यते। स्मैप्रभृतीनामङ्गकार्यत्वात्। विश्वादिशब्दानामनङ्गत्वात्। एवं मन्यते—त्वत्कपितृको मत्कपितृक इत्यत्राकज् मा भूद् इत्येतदर्थं तावदेतदारब्धव्यम्। प्रियविश्वायेत्यादावपि विस्पष्टार्थं भविष्यतीति। अनेन हि न्यासग्रन्थेनाङ्गसंज्ञाऽनपेक्षत्वमेवार्थो लभ्यते, स च स्वोत्प्रेक्षितव्याख्यायां दूरोत्सारित एव। यदपि व्याचख्युः—यद्यपि सूत्रवार्तिककृतोरप्येतन्मतं तथाऽपि न्यासकृता विवृतत्वाद् न्यासकृन्मतमित्युक्तमिति। तदपि स्थवीयः, वार्तिककृता अस्यार्थस्यास्पृष्टत्वात्। न्यासकृता समासे कृते सतीत्यदि वदता त्वदुक्तार्थस्य दूरत्यक्तत्वेन तद्विवृतत्वाभावाच्च। यदप्याहुः- न्यासकृच्छब्देन सूत्रकार एव विवक्षित इत्यादि। तदपि न । सूत्रकारमते बहुव्रीहावित्यादिपूर्वग्रन्थेन सह विरोधात्। भाष्यकारमते त्विति ग्रन्थेन तस्य विच्छिन्नत्वाच्च। तस्मादिह प्राचः प्रक्रियाग्रन्थास्तद्व्याख्यातृग्रन्थाश्चापातरमणीया एवेत्यास्तां तावत्। यदि तु प्रक्रियाग्रन्थोऽपि कथंचिद्भाष्याविरोधेन व्याख्येय इत्याग्रहस्तर्हीत्थं व्याख्यायताम्— ननु प्रियविश्वायेति गौणतया गतार्थम्। अतो निष्कर्षमाह— **बहुव्रीहाविति।** चिकीर्षिते सतीति शेषः। **गौणत्वमात्र इति।** मात्रशब्दोऽवधारणे, गौणत्वे एव न तु ततः प्राक्। तथा च सूत्रं प्रत्याख्यातमिति भावः। न्यासकृन्मतस्य तु अतिफल्गुत्वात् 'स्वरूपव्याक्रियैव पराक्रियेत्याशयेनाह- **त्वत्कपितृक इत्यादि'** । एतच्च प्राचीनतत्तद्ग्रन्थपरिशीलनशालिभिर्विभावनीयम्। प्रकृतमनुसरामः। **संज्ञाकार्यमिति।** सर्वनामसंज्ञाप्रयुक्तं स्मायादिकमित्यर्थः। **अन्तर्गणकार्यमिति।** 'अद्ड्डतरादिभ्यः' 'त्यदादीनामः' 'तदोः सस्सौ' इत्यादिकमित्यर्थः। Vartika ------- अकच्स्वरौ तु कर्तव्यौ प्रत्यङ्गं मुक्तसंशयम् । Sutra Prayogas -------------- * **वन्येतरा** (रघुवंशम्): `न बहुव्रीहौ` इति सर्वनामसंज्ञानिषेधः। * **सव्येतरे** (रघुवंशम्): `न बहुव्रीहौ` इति `इतर` शब्दस्य सर्वनामसंज्ञाप्रतिषेधः। * **सप्तर्षिपूर्वाः** (कुमारसम्भवम्): `न बहुव्रीहौ` इति सर्वनामसंज्ञाप्रतिषेधः।