11023: बहुगणवतुडति संख्या ========================= **Padacheda:** बहु-गण-वतु-डति | S | 1 | 1 | संख्या | S | 1 | 1 | Sutrartha --------- **'बहु' शब्दः, 'गण' शब्दः, 'वतुँप्' प्रत्ययान्तशब्दः, तथा च 'डति' प्रत्ययान्तशब्दः एतेषाम् 'संख्या' इति संज्ञा भवति ।** व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'संख्या' इति संज्ञा । 'बहु', 'गण' एतयोः शब्दयोः, 'वतुँप्'प्रत्ययान्तशब्दयोः, तथा च 'डति'प्रत्ययान्तशब्दयोः अनेन सूत्रेण संख्यासंज्ञा भवति । **'बहु' शब्दः** 'बहु' इत्यस्य शब्दस्य द्वौ अर्थौ भवतः - अ) बहु = अनेके (Many) । यथा, वृक्षे बहूनि फलानि सन्ति । **अस्मिन् अर्थे बहुशब्दस्य संख्यासंज्ञा भवति । ** आ) बहु = विपुलम् (Ample, A lot) । नद्या बहु जलं विद्यते । **अस्मिन् अर्थे बहुशब्दस्य संख्यासंज्ञा न भवति** । **'गण' शब्दः** 'गण' शब्दस्य अपि द्वौ अर्थौ स्तः । अ) गण = गणना (count) । यथा, तारकानां गणं न कर्तुं शक्यते । **अस्मिन् अर्थे गणशब्दस्य संख्यासंज्ञा भवति । ** ब) गण = सङ्घः (group) । यथा, संस्कृतस्य छात्राणाम् अयं गणः । **अस्मिन् अर्थे गणशब्दस्य संख्यासंज्ञा न भवति । ** **'वतुँप्' प्रत्ययः** 'वतुप्' इति कश्चन तद्धितप्रत्ययः । अयं प्रत्ययः द्वाभ्याम् सूत्राभ्याम् पाठितः अस्ति - अ) **यद्तदेतेभ्यः परिमाणे वतुप्** (5.2.39) इत्यनेन यद् / तद् / एतद् इत्येतेभ्यः वतुप्-प्रत्ययः विधीयते , येन 'यावत्' / 'तावत्' / 'एतावत्' एते शब्दाः सिद्ध्यन्ति । आ) **किमिदंभ्यां वो घः** (5.2.40) इत्यनेन किम् / इदम् इत्येताभ्याम् वतुप्-प्रत्ययः विधीयते, याभ्यां 'कियत्', 'इयत्' एतौ शब्दौ सिद्ध्यतः । एतेषां चतुर्णाम् अपि शब्दानाम् संख्यासंज्ञा भवति । अत्र एतत् स्मर्तव्यम् यत् 'संख्या' इति संज्ञा 'वतुँप्' प्रत्ययस्य संज्ञा नास्ति, अपि तु 'वतुँप्'प्रत्ययान्तशब्दानाम् (इत्युक्ते, 'यावत्', 'तावत्', 'कियत्', 'इयत्' एतेषाम् शब्दानाम्) इयं संज्ञा दीयते । **'डति' प्रत्ययः** 'डति' इत्यपि कश्चन तद्धितप्रत्ययः । **किमः संख्यापरिमाणे डति च** (5.2.41) इत्यनेन किम्-शब्दात् डति-प्रत्ययः विधीयते । अनेन 'कति' इति शब्दः सिद्ध्यति । अस्य शब्दस्य अपि 'संख्या' संज्ञा भवति । अत्रापि एतत् ज्ञेयम् यत् 'डति'प्रत्ययस्य संख्यासंज्ञा न भवति, अपि तु 'डति'प्रत्ययान्तस्य 'कति'शब्दस्य इयं संज्ञा दीयते । **लौकिकाः संख्याशब्दाः** ** 'एक / द्वि / त्रि / ...' एतादृशाः शब्दाः ये सामान्यरूपेण भाषायाम् 'संख्या' इत्यनेनैव ज्ञायन्ते, तेषाम् अपि 'संख्या' इत्यनया व्याकरणविशिष्टसंज्ञया ग्रहणं क्रियते । ** एतदर्थम् अष्टाध्याय्यां किमपि भिन्नं सूत्रम् न रचितम् अस्ति, यतः एतेषाम् लौकिकार्थः एव व्याकरणशास्त्रे अपि इष्यते । अतः यत्र कुत्रापि 'संख्या'शब्दं स्वीकृत्य किञ्चन कार्यम् उच्यते, तत्र सर्वत्र एक-द्वि-त्रि-आदयः शब्दाः अपि ग्रहीतव्याः । **प्रयोजनम्** अष्टाध्याय्यां 'संख्या' इयं संज्ञा बहुषु (30+) सूत्रेषु प्रयुक्ता दृश्यते । अस्याः संज्ञायाः साहाय्येन तत्र तत्र भिन्नानि कार्याणि उक्तानि सन्ति । यथा, 'प्रकाराणाम् गणना' यदा क्रियते तदा संख्यावाचकेभ्यः शब्देभ्यः **संख्याया विधार्थे धा** (5.3.42) इत्यनेन 'धा' इति तद्धितप्रत्ययः भवति । यथा - एकेन प्रकारेण = एकधा । द्वाभ्यां प्रकाराभ्याम् = द्विधा । पञ्चभिः प्रकारैः = पञ्चधा । बहुभिः प्रकारैः = बहुधा । कतिभिः प्रकारैः = कतिधा । आदयः । **वार्त्तिकम् 1 - ।** अर्थः - यस्य शब्दस्य पूर्वपदम् 'अर्ध' इति शब्दः अस्ति, उत्तरपदम् च पूरणप्रत्ययान्तः शब्दः अस्ति, तस्य शब्दस्य समासविधौ तथा च 'कन्'प्रत्ययस्य प्रयोगे 'संख्या' इति संज्ञा भवति । यथा, 'अर्धपञ्चम' इति शब्दः स्वीक्रियते चेत् - अ) 'अर्धपञ्चमेन शूर्पेण क्रीतम्' अस्मिन् अर्थे द्विगुसमासस्य निर्माणसमये 'अर्धपञ्चम' शब्दस्य संख्यासंज्ञा भवति, अतः च **शूर्पादञन्यतरस्याम्** (5.1.26) इत्यनेन विहितः अञ्-प्रत्ययः अनेन वार्त्तिकेन 'अर्धपञ्चम'शब्दात् अपि भवति - .. code-block:: text अर्धपञ्चमेन शूर्पेन क्रीतम् = अर्धपञ्चम + शूर्प + अञ् [**शूर्पादञन्यतरस्याम्** (5.1.26) इति अञ्-प्रत्ययः] → अर्धपञ्चम + शूर्प [**अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) इति लुक्] → अपञ्चमशूर्पः । आ) 'अर्धपञ्चमम् परिमाणम् अस्य' अस्मिन् अर्थे **संख्याया अतिशदन्तायाः कन्** (5.1.22) इत्यनेन कन्-प्रत्ययं कृत्वा 'अर्धपञ्चमक' इति शब्दः सिद्ध्यति - .. code-block:: text अर्धपञ्चम + कन् [**संख्याया अतिशदन्तायाः कन्** (5.1.22) इति कन्] → अर्धपञ्चमक एतौ द्वौ स्थलौ विहाय अन्यत्र 'अर्धपञ्चम'शब्दस्य संख्यासंज्ञा न भवति । यथा, **तस्य पूरणे डट्** (5.2.48) इत्यनेन संख्या वाचिभ्यः शब्देभ्यः विहितः डट्-प्रत्ययः 'अर्धपञ्चम' शब्दस्य विषये न प्रवर्तते । **वार्त्तिकम् 2 - ।** अर्थः - 'अध्यर्ध' अस्य शब्दस्य अपि समासविधौ तथा कन्-प्रत्ययस्य प्रयोगे संख्यासंज्ञा भवति । यथा - अ) 'अध्यर्धेन शूर्पेण क्रीतम्' अस्मिन् अर्थे द्विगुसमासस्य निर्माणसमये 'अध्यर्ध' शब्दस्य संख्यासंज्ञा भवति, अतः च **शूर्पादञन्यतरस्याम्** (5.1.26) इत्यनेन विहितः अञ्-प्रत्ययः अनेन वार्त्तिकेन 'अध्यर्ध'शब्दात् अपि भवति - .. code-block:: text अध्यर्धेन शूर्पेन क्रीतम् = अध्यर्ध + शूर्प + अञ् [**शूर्पादञन्यतरस्याम्** (5.1.26) इति अञ्-प्रत्ययः] → अध्यर्ध + शूर्प [**अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) इति लुक्] → अध्यर्धशूर्पः । आ) 'अध्यर्धम् परिमाणम् अस्य' अस्मिन् अर्थे **संख्याया अतिशदन्तायाः कन्** (5.1.22) इत्यनेन कन्-प्रत्ययं कृत्वा 'अध्यर्धक' इति शब्दः सिद्ध्यति - .. code-block:: text अध्यर्ध + कन् [**संख्याया अतिशदन्तायाः कन्** (5.1.22) इति कन्] → अर्ध्यर्धक एतौ द्वौ स्थलौ विहाय अन्यत्र 'अध्यर्ध'शब्दस्य संख्यासंज्ञा न भवति । यथा, **तस्य पूरणे डट्** (5.2.48) इत्यनेन संख्या वाचिभ्यः शब्देभ्यः विहितः डट्-प्रत्ययः 'अध्यर्ध' शब्दस्य विषये न प्रवर्तते । **भाष्यकारस्य मतम्** इति वार्त्तिकम् स्वीक्रियते चेत् **अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) अस्मिन् सूत्रे अध्यर्थग्रहणम् व्यर्थम् भवति । अयं पक्षः भाष्यकारेण स्वीकृतः अस्ति । काशिकाकारस्तु एतत् वार्त्तिकम् नैव पाठयति, अपितु **अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) इत्यत्र अध्यर्धग्रहणस्य विशिष्टम् प्रयोजनम् प्रतिपादयति । अस्य विस्तरः **अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) इत्यत्र द्रष्टव्यः । **उणादिसंज्ञकः डति-प्रत्ययः** 'डति' इति कश्चन उणादिप्रत्ययः **पातेर्डति** (4.57) इत्यस्मिन् औणादिके सूत्रे पाठितः अस्ति । परन्तु तस्य अत्र ग्रहणं न भवति । अस्मिन् सूत्रे निर्दिष्टः 'वतुँप्' शब्दः तद्धितसंज्ञकः, अतः तस्य साहचर्यात् केवलं तद्धितसंज्ञकस्यैव 'डति'प्रत्ययस्य अत्र ग्रहणं क्रियते । Sutrartha (English) ------------------- The words बहु and गण, and the words ending in the वतुँप् and डति प्रत्यय are known as 'संख्या'. Vasu English Summary -------------------- The words बहु 'many' , गण 'class' and the words ending in the affix वतु -- यद्तदेतेभ्यः परिमाणे वतुप् (5.2.39) and डति -- किमः संख्यापरिमाणे डति च (5.2.41) are called numerals (संख्या). Vasu English Translation ------------------------ The words बहु 'many' , गण 'class' and the words ending in the affix वतु -- यद्तदेतेभ्यः परिमाणे वतुप् (5.2.39) and डति -- किमः संख्यापरिमाणे डति च (5.2.41) are called numerals (संख्या). This *sutra* defines the word *sankhya*, or numeral. These are certain words, besides the ordinary numerals, having some peculiarity of declension. The words like बहु 'many,' and गण 'class', and those that have the affixes वत् and अति after them, belong to this class. The letters उ and ड of वतु and डति are इत्, or indicatory, the actual affixes being वत् and अति. The word *sankhya* means "numerals;" and this class contains, among others, the Sanskrit numerals. The words formed by adding वतु are generally compound pronouns, e.g. तावत् "so much," यावत् "as much," एतावत् "so much," similarly words formed by the affix डति, e.g. कति "how many," तति "so many," यति "as many." Thus बहु + कृत्वसुच् (5.4.17) = बहुकृत्वः "many times" the affix कृत्वसुच् being added only to *sankhya* words in the sense of the repetition of the action. So also बहु + धा (5.3.42) = बहुधा "in many ways." Here also the affix धा is added by virtue of बहु being a *sankhya*. Similarly बहुकः (5.1.22) "purchased for a big sum," बहुशः (5.4.43) "manifold." So also गणकृत्वः, गणधा, गणकः, गणशः; so also तावत्कृत्वः, तावद्धा, तावच्छः, कतिकृत्वः; कतिधा, कतिकः, कतिशः. When the words बहु and गण mean "abundance" and "multitude" they are not *sankhya*. It is only when they are expressive of numbers, that they get the designation of *sankhya*. The necessity of defining *sankhya* arose in order to exclude such words as, भूरि "numerous," &c., which though they express numbers, are not to be treated as "numerals," technically so called. Vart:- The word अर्द्ध "half" when standing as a first term in a compound number which takes an affix giving the sense of an ordinal, gets the designation of *sankhya*, for the purposes of the application of the rules of *samasa* and of the affix कन्. The ordinal affixes or *purana* *pratyayas* are like डट् (5.2.48), मट् (5.2.49), थक् (5.2.51), &c. Thus एकादशः "eleventh," पंचमः "fifth," चतुर्थः "fourth," &c. Similarly we have अर्द्धपंचशूर्पः "purchased for 41/2 baskets" (a *dvigu*). Here अर्द्ध + पंचमा (an ordinal) = अर्द्धपंचम्, a *bahuvrihi* compound meaning 41/2, vis., that in which half is the fifth term. अर्द्धपंचमैः शूर्पैः क्रीतः = अर्द्धपंचमशूर्पः the *taddhita* affixes ठञ् and अञ् required by (5.1.19) and (5.1.26) being elided by (5.1.28). Here, there is compounding (*dvigu*) by taking अर्द्धपंचमम् as a *sankhya*, and then applying *sutra* (2.1.51). The *samasa* here is in the sense of *taddhita*, and this compounding is only possible by rules (2.1.50) and (2.1.51), when अर्द्धपंचमम् gets the appellation of *sankhya*. Having got this name, it forms *dvigu* compound in the sense of the *taddhita* affixes अञ् and ठञ् (5.1.26). The word शूर्प takes both these affixes in the sense of "being bought with." Thus शौर्पिकम् and शौर्पम् both mean "bought with a measure called *surpa*." In the above compound of अर्द्धपंचमशुर्पः the sense is that of the above-named *taddhita*; but the affixes have been elided by (5.1.28) after *dvigu* compounds. So also we have अर्द्धपंचमकः by applying the affix कन्. For these two purposes, namely *samasa* and the application of कन्, compounds of *ardha*, like *ardha*-*panchama* are treated as *sankhya*. Bhashya ------- बहुगणवतुडति सङ्ख्या सङ्ख्यासञ्ज्ञायां सङ्ख्याग्रहणं संख्यासंप्रत्ययार्थम्। सङ्ख्यासञ्ज्ञायां सङ्ख्याग्रहणं कर्तव्यम्। बहुगणवतुडतयः सङ्ख्या सञ्ज्ञा भवन्ति, सङ्ख्या च सङ्ख्या सञ्ज्ञा भवतीति वक्तव्यम्। किं प्रयोजनम्? सङ्ख्या सम्प्रत्ययार्थम्। एकादिकायाः सङ्ख्यायाः सङ्ख्याप्रदेशेषु सङ्ख्येत्येष सम्प्रत्ययो यथा स्यात्। ननु चैकादिका सङ्ख्या लोके सङ्ख्येति प्रतीता, तेनास्याः सङ्ख्याप्रदेशेषु सङ्ख्यासम्प्रत्ययो भविष्यति। एवमपि कर्तव्यम्। किं प्रयोजनम्? इतरथा ह्यसम्प्रत्ययोऽकृत्रिमत्वाद् यथा लोके। अक्रियमाणे हि सङ्ख्याग्रहणे एकादिकायाः सङ्ख्यायाः सङ्ख्येत्येष सम्प्रत्ययो न स्यात्। किं कारणम्। अकृत्रिमत्वात्। वह्वादीनां कृत्रिमा सञ्ज्ञा। कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययो भवति। यथा लोके। गोपालकमानय कटजकमानयेति यस्यैषा सञ्ज्ञा भवति स आनीयते न योगाः पालयति यो वा कटे जातः। यदि तर्हि कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययो भवति नदीपौर्णमास्याग्रहायणीभ्य इत्यत्रापि प्रसज्येत। पौर्णमास्याग्रहणसमार्थ्यान्न भविष्यति। तद्विशेषेभ्यस्तर्हि प्राप्नोति गङ्गायमुने इति। एवं तर्हि आचार्यप्रवृत्तिर्ज्ञापयति न तद्विशेषेभ्यो भवतीति। यदयं विपाट् शब्दं शरत्प्रभृतिषु पठति। इह तर्हि प्राप्नोति - नदीभिश्चेति। बहुवचननिर्देशान्न भविष्यति। स्वरूपविधिस्तर्हि प्राप्नोति। बहुवचननिर्देशादेव न भविष्यति। एवं च न चेदमकृतं भवति - कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्यय इति। न च कश्चिद्दोषो भवति। उत्तरार्थं च। उत्तरार्थं च सङ्ख्याग्रहणं कर्तव्यम्। ष्णान्ता षट्। षकारनकारान्तायाः सङ्ख्यायाः षट् सञ्ञ्ज्ञां यथा स्यात्। इह मा भूत् - पामानो विप्रुष इति। इहार्थेन तावन्नार्थः सङ्ख्याग्रहणेन। ननु चोक्तम् - इतरथा ह्यसम्प्रत्ययोऽकृत्रिमत्वाद् यथा लोके इति ॥ नैष दोषः। अर्थात् प्रकरणाद्वालोके कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययो भवति। अर्थो वास्यैवंसञ्ञ्ज्ञकेन भवति प्रकृतं वा तत्र भवति। इदमेवंसञ्ञ्ज्ञकेन कर्तव्यमिति। आतश्चार्थात् प्रकरणाद्वा। अङ्ग हि भवान् ग्राम्यं पांशुरपादमप्रकारणज्ञमागतं ब्रवीतु - गोपालकमानय कटजकमानयेति। उभयगतिस्तस्य भवति। साधीयो वा यष्टिहस्तं गमिष्यति। यथैव तर्ह्यर्थात्प्रकरणाद्वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययो भवति एवमिहापि प्राप्नोति। जानाति ह्यसौ बह्वादीनामियं सञ्ज्ञा कृतेति। न यथा लोके तथा व्याकरणे। उभयगतिः पुनरिह भवति। अन्यत्रापि नावश्यमिहैव। तद्यथा कर्तुरीप्सिततमं कर्मेति कृत्रिमा कर्म सञ्ज्ञा। कर्मप्रदेशेषु चोभयगतिर्भवति - कर्मणि द्वितीया इति कृत्रिमस्य ग्रहणम्। कर्तरि कर्मव्यतिहारे इत्यत्राकृत्रिमस्य। तथा - साधकतमं करणमिति कृत्रिमा करणसञ्ज्ञा। करणप्रदेशेषु चोभयगतिर्भवति। कर्तृकरणयोस्तृतीयेति कृत्रिमस्य ग्रहणम्। शब्दवैरकलहाभ्रकण्वमेघभ्यः करणे इत्यत्राकृत्रिमस्य। तथा - आधारोऽधिकरणमिति कृत्रिमा अधिकरणसञ्ज्ञा। अधिकरणप्रदेशेषु चोभयगतिर्भवति। सप्तम्यधिकरणेचेति कृत्रिमस्य ग्रहणम्। विप्रतिषिद्धं चानधिकरणवाची त्यत्राकृत्रिमस्य। अथवा - नेदं सञ्ज्ञाकरणं तद्वदतिदेशोऽयम्। बहुगणवतुडतयः सङ्ख्यावद् भवन्तीति। स तर्हि वतिनिर्देशः कर्तव्यः। न कर्तव्यः। न ह्यन्तरेण वतिमतिदेशो गम्यते । अन्तरेणापि वतिमतिदेशो गम्यते। तद्यथा - एष ब्रह्मदत्तः। अब्रह्मदत्तं ब्रह्मदत्त इत्याह तेन मन्यामहे ब्रह्मदत्तवदयं भवतीति। एवमिहापि असख्यां सङ्ख्येत्याह। सङ्ख्यावदिति गम्यते। अथवाचार्यप्रवृत्तिर्ज्ञापयति भवत्येकादिकायाः सङ्ख्यायाः सङ्ख्याप्रदेशेषु सम्प्रत्यय इति। यदयं सङ्ख्याया अतिशदन्तायाः कन् इति तिशदन्तायाः प्रतिषेधं शास्ति। कथं कृत्वा ज्ञापकम्? न हि कृत्रिमात्यन्ता शदन्ता वा सङ्ख्यास्ति। ननु चेयमस्ति डतिः। यत्तर्हि शदन्तायाः प्रतिषेधं शास्ति। यच्चापि त्यन्तायाः प्रतिषेधं शास्ति। ननु चोक्तं इत्यर्थमेतत् स्यात्। अर्थवद्ग्रहणे नानर्थकस्येति अर्थवतस्तिशब्दस्य ग्रहणं, न च डतेस्तिशब्दोऽर्थवान्। अथवा महतीयं सञ्ज्ञा क्रियते। सञ्ज्ञा च नाम यतो न लघीयः। कुत एतत्? लघ्वर्थं हि सञ्ज्ञाकरणम्। तत्र महात्याः सञ्ज्ञायाः करणे एतत् प्रयोजनमन्वर्थसञ्ज्ञा यथा विज्ञायेत। सङ्ख्यायते अनयेति सङ्ख्या। एकादिकया चापि सङ्ख्यायते। उत्तरार्थेन चापि नार्थः सङ्ख्याग्रहणेन। इदं प्रकृतमुत्तरत्रानुवर्तिष्यते। इदं वै सञ्ज्ञार्थमुत्तरत्र च सञ्ज्ञिविशेषणेनार्थः। न चान्यार्थे प्रकृतमन्यार्थं भवति। न खल्वप्यन्यत् प्रकृतमनुवर्तनादन्यद् भवति। न हि गोधा सर्पन्ती सर्पणादहिर्भवति। यत्तावदुच्यते - न चान्यार्थं प्रकृतमन्यार्थं भवतीति। अन्यार्थमपि प्रकृतमन्यार्थं भवति। तद्यथा - शाल्यर्थं कुल्याः प्रणीयन्ते। ताभ्यश्च पानीयं पीयते। उपस्पृश्यते च। शालयश्च भाव्यन्ते। यदप्युच्यते - न खल्वप्यन्यत् प्रकृतमनुवर्तनादन्यद् भवति। न हि गोधा सर्पन्ती सर्पणादहिर्भवतीति। भवेद् द्रव्येष्वेतदेवं स्यात्। शब्दस्तु खलु येन येन विशेषेणाभिसंबध्यते तस्य तस्य विशेषको भवति। अथवा सापेक्षोऽयं ष्णान्ता इति निर्देशः क्रियते। न चान्यत् किंचिदपेक्ष्यमस्ति। तेन सङ्ख्यामेवापेक्षिष्यामहे। अध्यर्धग्रहणं च समासकन्विध्यर्थम्। अध्यर्धग्रहणं च कर्तव्यम्। किं प्रयोजनम्? समासकन्विध्यर्थम्। समासविध्यर्थम्। कन्विध्यर्थं च। समासविध्यर्थं तावत् - अध्यर्धशूर्पम्। कन्विध्यर्थम् - अध्यर्धकम्। लुकि चाग्रहणम्। लुकि चाध्यर्धग्रहणं न कर्तव्यं भवति - अध्यर्धपूर्वद्विगोर्लुगसञ्ज्ञायामिति। द्विगोरित्येव सिद्धम्। अर्धपूर्वपदश्च पूरणप्रत्ययान्तः। अर्धपूर्वपदश्च पूरणप्रत्ययान्तः सङ्ख्यासंज्ञो भवतीति वक्तव्यम्। किं प्रयोजनम्? समासकन्विध्यर्थमेव। समासविध्यर्थं कन्विध्यर्थं च। समासविध्यर्थं तावत्। अर्धपञ्चमशूर्पम्। कन्विध्यर्थम्। अर्धपञ्चमकम्। अधिकग्रहणं चालुकि समासोत्तरपदवृद्ध्यर्थम्। अधिकग्रहणं चालुकि कर्तव्यम्। किं प्रयोजनम्? समासोत्तरपदवृद्ध्यर्थम्। समासविध्यर्थमुत्तरपदवृद्ध्यर्थं च। समासविध्यर्थं तावत्। अधिकषाष्टिकः। अधिकसाप्ततिकः। उत्तरपदवृद्ध्यर्थम्। अधिकषाष्टिकः। अधिकसाप्ततिकः। अलुकीति किमर्थम्? अधिकषाष्टिकः। अधिकसाप्ततिकः। बहुव्रीहौ चाग्रहणम्। बहुव्रीहौ चाधिकशब्दस्य ग्रहणं न कर्तव्यं भवति। संख्ययाव्ययासन्नादूराधिकसंख्याः सङ्ख्येये इति सङ्ख्येत्येव सिद्धम्। बह्वादीनामग्रहणम्। बह्वादीनां ग्रहणं शक्यमकर्तुम्। केनेदानीं सङ्ख्याप्रदेशेषु सङ्ख्यासम्प्रत्ययो भविष्यति। ज्ञापकात् सिद्धम्। ज्ञापकं किम् ? यदयं वतोरिड् वेति सङ्ख्याया विहितस्य कनो वत्वन्तादिटं शास्ति। वतोरेव तज्ज्ञापकं स्यात्। नेत्याह। योगापेक्षं ज्ञापकम्। Kashika ------- बहु गण वतु डति इत्येते संख्यासंज्ञा भवन्ति। बहुकृत्वः। बहुधा। बहुकः। बहुशः। गणकृत्वः। गणधा। गणकः। गणशः। तावत्कृत्वः। तावद्धा। तावत्कः। तावच्छः। कतिकृत्वः। कतिधा। कतिकः। कतिशः। बहुगणशब्दयोर्वैपुल्ये संङ्घे च वर्तमानयोरिह ग्रहणं नास्ति, संख्यावाचिनोरेव। भूर्यादीनां निवृत्त्यर्थं संख्यासंज्ञा विधीयते॥ अर्धपूर्वपदश्च पूरणप्रत्ययान्तः संख्यासंज्ञो भवतीति वक्तव्यं समासकन्विध्यर्थम्॥ अर्धपञ्चमशूर्पः। अर्धं पञ्चमं येषामिति बहुव्रीहौ कृतेऽर्धपञ्चमैः शूर्पैः क्रीतः। **तद्धितार्थो॰**(२.१.५१) इति समासः। तत्र **दिक्संख्ये संज्ञायाम्**(२.१.५०) इत्यनुवृत्तेस्ततः संख्यापूर्वस्य द्विगुसंज्ञायां (२.१.५२) **शूर्पादञन्यतरस्याम्**(५.१.२६) इत्यञ् ठञ्च। **अध्यर्धपूर्वद्विगोः॰**(५.१.२८) इति लुक् । अर्धपञ्चमकः। संख्याप्रदेशाः — **संख्या वंश्येन** (२.१.१९) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- एते सङ्ख्यासंज्ञाः स्युः ॥ Balamanorama ------------ **बहुगणवतुडति संख्या** - अथ षट्संज्ञाकार्यं वक्ष्यन् षट्संज्ञोपयोगिनीं सङ्ख्यासंज्ञामाह-बहुगण । बहुश्च गणस्च वतुश्च डतिश्चेति समाहारद्वन्द्वः । एतत्सङ्ख्यासंज्ञं स्यादित्यर्थः । फलितमाह-एते इति । बह्वादय इत्यर्थः । बहुगणशब्दाविह त्रित्वादिपरार्धान्तशङ्ख्याव्यापकधर्मविशेषवाचिनौ गृह्रेते । न तु वैपुल्यसङ्घवाचिनौ, सङ्ख्यायतेऽनयेति अन्वयर्थसंज्ञाविज्ञानात् । वतुडती प्रत्ययौ । संज्ञाविधावपीह तदन्तग्रहणं, केवलयोः प्रयोगानर्हत्वात् । वतुरिहयत्तदेतेभ्यः परिमाणे वतु॑विति तद्धितप्रत्ययो गृह्रते, न तुतेन तुल्यं क्रिया चेद्वति॑रिति वतिरपि, उकारानुबन्धात् । डतिरपिकिमः सङ्ख्यापरिमाणे डति च ॑ इति विहिस्ततद्धित एव गृह्रते, वतुना साहचर्यात् । न तु भातेर्डवतुरिति विहितः कृदपि । ननुसङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसु॑जित्यादिसङ्ख्याप्रदेशेषु बह्वादीनामेव चतुर्णां ग्रहणं स्यात् । न तु लोकप्रसिद्धसङ्ख्यावाचकानामपि,कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः॑ इति न्यायात् । ततश्च 'पञ्चकृत्वः' इत्यादि न स्यादिति चेन्न,सङ्ख्याया अतिशदन्तायाः कनि॑त्यत्र तिशदन्तपर्युदासबलेन सङ्ख्याप्रदेशेषु कृत्रिमाऽकृत्रिमन्यायाऽप्रवृत्तिज्ञापनात् । नहि विंशतितिंरशदादिशब्दानां कृत्रिमा सङ्ख्यासंज्ञाऽस्ति । नचैवं सति बहुगणग्रहणवैयथ्र्यं शङ्क्यं, तयोर्नियतविषयपरिच्छेदकत्वाऽभावेन लोकसिद्धसङ्ख्यात्वाऽभावात् । अत एव भाष्येएतत्सूत्रमतिदेशार्थं यदयमसङ्ख्यां संख्येत्याह॑ इत्युक्तं सङ्गच्छते इत्यस्तां तावत् । Tattvabodhini ------------- **बहुगणवतुडति संख्या** - बहुगणवतु । बहुगणौ प्रतिपादके सङ्ख्यावाचके गृह्रते न तु सङ्घवैपुल्यवाचके अपि, सङ्ख्यायते अन्येत्यान्वर्थसंज्ञाविज्ञानात् । अत एव डतिरपिकिमः सङ्ख्यापरिमाणे डति चे॑ति विहितस्तद्धित एव गृह्रते,वतु॑साहचर्याच्च । न तुपातेर्डतिः॑ । यद्यपि संज्ञाविधौ प्रत्यग्रहणे तदन्तग्रहणं नास्ति तथापीह वतुडत्योः केवलयोः संज्ञाविधौ फलाऽभावादन्वर्थताबलाच्च तदन्तयोरेव संज्ञा प्रवर्तते । सानुवन्धनिर्देशस्तुव्राहृणबद्वसति॑रित्यदावतिप्रसङ्गशङ्कां निराकर्तुमित्याहुः । न चैवं सङ्ख्याकार्येषु कृत्वसुजादिषु कृत्रिमसङ्ख्याया एव ग्रहणं स्यान्न त्वकृत्रिमाया इतिपञ्चकृत्व॑इत्यादि न सिध्येत्, कृत्रिमाऽकत्रिमयोः कृत्रिमे कार्यसंप्रत्ययादिति वाच्यम्;सङ्ख्याया अतिशदन्तायाः क॑न्नित्यत्रातिशदन्तपर्युदासबलेन सङ्ख्याकार्येषु कृत्रिमाऽकृत्रिमन्यायाऽप्रवृत्तेः । नन्वेवं भूरिशब्दात्कृत्वसुच्प्रत्ययप्रसङ्ग इति चेदत्राहुः-॒अनियतसङ्ख्यावाचिनां चेत्सङ्ख्याकार्यं स्यात्तर्हि वहुगणयोरेवे॑त्येवंभूतनियमफलसङ्ख्याविज्ञानान्नास्त्यतिपर्सङ्ग इति । Nyaas ----- अत्र बहुगणशब्दौ प्रातिपदिके, वतुडती प्रत्ययौ। `बहुकृत्वः` इति- `सख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्` (5.4.17) । `बहुधा` इति- `सख्याया विधार्थे धा` (5.3.42) `बहुकः` इति- `सख्याया अतिशदन्तायाः कन्` (5.1.22) `तावत्कृत्वः` इत्यादि- तच्छब्दात् `यत्तदेतेभ्यः परिमाणे वतुप्` (5.2.39) इति वतुपि कृते **आ सर्वनाम्नः** (6.3.91) इत्यात्त्वे कृते `तावत्` इति भवति; किंशब्दात् किमः संख्यापरिमाणे डतौ कृते टिलोपे च `कति` इति भवति; ताभ्यां पूर्ववदेव कृत्वसुजादयः।`बहुगणशब्दयोः` इत्यादि। बहुशब्दोऽयं संख्यावचनोऽप्यस्ति, वैपुल्यवचनोऽपि; गणशब्दः संख्यावचनोऽप्यस्ति, सङ्घवचनोऽपि; तत्र यौ वैपुल्य्सङ्घवचनौ,तयोरिह ग्रहणं नास्ति, संख्यावाचिनोरेव तयोस्त्वेषा सङ्ख्यासंज्ञा विधीयते,तत्कथं संख्ये-त्यन्वर्थसंज्ञेयम्- संख्यायतेऽनया संख्या ! न च यो वैपुल्ये बहुशब्दो वर्तते,यश्च सङ्घे गणशब्दः, ताभ्यां संख्यायते। तथा हि- `बहुरोदनः` इत्युक्ते वैपुल्यंगम्यते; तथा `महान् भिक्षौउमां गणः` इत्युक्ते सङ्घः,न तु संख्यानम्। तस्मादन्वर्थसंज्ञाकरणाद् यावेकद्विसंख्याव्यवच्छेदेन संख्याविशेषमाहतुः, तयोरेव ग्रहणम्।यद्येवम्,किमर्थं तयोरियं संज्ञा विधीयते, यावता संख्यावाचिनौ तौ लौकिकसंख्यायामन्तर्भूतौ? लौकिकी च संख्या शास्त्रे गृह्रत एव; अन्यथा **संख्याया अतिशदन्तायाः कन्** (5.1.22) इत्यत्र `अतिशदन्तायाः` इति प्रतिषेधोऽनर्थकः स्यात्, शास्त्रीयायाः संख्याया अतिशदन्ताया अभावादित्यत् आह- `भूर्यादीनां निवृत्त्यर्थम्` इति। भूरि-प्रभूतमित्येवमादयस्तज्जातीयाः प्रचुरविशेषवाचिनः सन्ति, तेषां मा भूदित्येवमर्थबहुगणशब्दयोः संख्यासंज्ञा विधीयते। तदेतेन नियमार्थमेतयोः संज्ञाविधानमेतदिति दर्शयति। तुल्यजातीयापेक्षया हि नियमः। अतस्तुल्यजातीयानां भूर्यादीनामेव नियमेन व्यावृत्तिः क्रियते, नान्येषाम्।`अर्धपूर्वपदश्च` इति। अर्धशब्दः पूर्वपदं यस्य पूरणप्रत्ययान्तस् सोऽर्ध-पूर्वपदः, स च संख्यासंज्ञो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। किमर्थमित्याह- `समासकन्विध्यर्थम्` इति। तत्रेदं व्याख्यानम्- `डति च` (1.1.24) इत्यत्र यश्चकारः, स इह स्वरितत्वमासज्य सिंहावलोकितन्यायेनोपस्थाप्यते। स चानुक्तसमुच्चयार्थः। तेनार्धपूर्वपदश्च पूरणप्रत्ययान्तः संख्यासंज्ञो भवतीति। अर्धपञ्चमशूर्पः` इति। अर्धं पञ्चमं येषामिति बहुव्रीहिः। अर्धपञ्चमैः शूर्पैः क्रीतमिति **तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) इति समासः। **संख्यापूर्वो द्विगुः** (2.1.52) इति द्विगुसंज्ञा। **शूर्पादञन्यतरस्याम्** (5.1.26) इति विहितस्याञष्ठञो वा `अध्यर्धपूर्वद्विगोर्लुग-संज्ञायाम्` (5.1.28) इति लुक्। `अर्धपञ्चकः` इति। **संख्याया अतिशदन्तायाः कन्** (5.1.22) ॥ Praudhamanorama --------------- 'बहुगण'॥ बहगणौ प्रातिपदिके संख्यावाचके गृह्येते, न तु संघवैपुल्यवाचके अपि, संख्यायते अनयेति अन्वर्थसंज्ञाविधानात्। अत एव डतिरिपि तद्धित एव गृह्यते, वतुना साहचर्याच्च; न तु पातेर्डतिः। Prakriyasarvasvam ----------------- बह्वर्था बहुगणशब्दौ वतुडतिप्रत्ययान्ताश्च संख्यासंज्ञाः । एकद्वयादेरपि संख्यासंज्ञेष्टा लोकसिद्धत्वात्तु नोक्ता । Sarala ------ (एते संख्यासञ्ज्ञाः स्युः) ॥ Sudha ----- **बहुगण इति ।** बहुश्च, गणश्च, वतुश्च,डतिश्च, इति समाहारद्वन्द्वः । एतत्सख्यासंज्ञं स्यादित्यर्थः ।