11022: तरप्तमपौ घः ================== **Padacheda:** तरप्-तमपौ | S | 1 | 2 | घः | S | 1 | 1 | Sutrartha --------- **'तरप्' तथा 'तमप्' एतौ प्रत्ययौ घसंज्ञकौ भवतः ।** व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'घ' इति संज्ञा । 'तरप्' तथा 'तमप्' एतयोः प्रत्यययोः 'घ' इति संज्ञा अनेन सूत्रेण दीयते । तरप् तथा तमप् एतौ द्वौ तद्धितप्रत्ययौ । **द्विवचनविभज्योपपदे तरबीयसुनौ** (5.3.57) अनेन तरप्-प्रत्ययः, तथा **अतिशायने तमबिष्ठनौ** (5.3.55) इत्यनेन तमप्-प्रत्ययः विधीयते । एतौ द्वावपि प्रत्ययौ प्रातिपदिकेभ्यः विधीयेते । 'पटुतर', 'विशालतर', 'पचतितराम्', 'किन्तराम्' एतानि तरप्-प्रत्ययस्य उदाहरणानि । 'पटुतम', 'विशालतम', 'पचतितमाम्', 'किन्तमाम्' एतानि तमप्-प्रत्ययस्य उदाहरणानि । **प्रयोजनम्** घसंज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां कानिचन कार्याणि उक्तानि सन्ति । यथा, **उगितश्च** (6.3.45) इत्यनेन उगित्-शब्दात् विहितस्य 'ङीप्' इति स्त्रीप्रत्ययस्य घ-प्रत्यये परे विकल्पेन ह्रस्वः भवति - .. code-block:: text श्रेयस् + ङीप् + तरप् + टाप् [**उगितश्च** (4.1.6) इति ङीप् । **द्विवचनविभज्योपपदे तरबीयसुनौ** (5.3.57) इति तरप् । **अजाद्यतष्टाप्** (4.1.4) इति टाप् ।] --> श्रेयस् + ई + तर् + आ [इत्संज्ञालोपः] --> श्रेयस् + इ + तर् + आ [**उगितश्च** (6.3.45) इति घसंज्ञके प्रत्यये परे ह्रस्वः] --> श्रेयसितरा । **प्रयोगः** 'घ'संज्ञायाः प्रयोगः अष्टाध्याय्याम् त्रिषु सूत्रेषु कृतः दृश्यते - 1. **किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे** (5.4.11) 2. **घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः** (6.3.43) 3. **नाद्घस्य** (8.2.17) अन्यत्रापि अनुवृत्तिरूपेण अस्याः संज्ञायाः प्रयोगः भवितुम् अर्हति । Sutrartha (English) ------------------- The तरप् प्रत्यय and the तमप् प्रत्यय are known as 'घ' Vasu English Summary -------------------- The affixes तरप् and तमप् ae called घ। Vasu English Translation ------------------------ The affixes तरप् and तमप् ae called घ। This *sutra* defines घ affixes. They are two, तर and तम, the प् in them being इत्. The special use of these affixes will be described later on. These affixes are useful in forming the comparative and the superlative degrees respectively of adjectives, adverbs, &c. The base undergoes certain changes before these terminations, which will be treated of in its proper place. Thus the words कुमारितरा and कुमारितमा are formed by adding the affixes तर and तम to the word or 'a girl,' whose long ई is shortened before these affixes by *sutra* 43 of the third chapter of the 6th Book. Bhashya ------- तरप् तमपौ घः घसञ्ज्ञायां नदीतरेऽप्रतिषेधः। घसञ्ज्ञायां नदीतरेऽप्रतिषेधो वक्तव्यः। नद्यास्तरो नदीतरः। घसञ्ज्ञायां नदीतरेऽप्रतिषेधः। अनर्थकः प्रतिषेधः अप्रतिषेधः। घसञ्ज्ञा कस्मान्न भवति। तरप्ग्रहणं ह्यौपदेशिकम्। औपदशिकस्य तरपो ग्रहणम्। न चैष उपदेश तरप् शब्दः। किं वक्तव्यमेतत् ? नहि। कथमनुच्यमानं गंस्यते? इह हि व्याकरणे सर्वेष्वेव सानुबन्धकग्रहणेषु रूपमाश्रीयते। यत्रास्यैतद् रूपमिति। रूपनिर्ग्रहश्च शब्दस्य नान्तरेण लौकिकं प्रयोगम्। तस्मिंश्च लौकिके प्रयोगे सानुबन्धकानां प्रयोगो नास्तीति कृत्वा द्वितीयः प्रयोग उपास्यते। कोऽसौ? उपदेशो नाम। न चैष उपदेशे तरप् शब्दः। अथवास्त्वस्य घसञ्ज्ञा। को दोषः ? घादिषु नद्या ह्रस्वो भवतीति ह्रस्वत्वं प्रसज्येत। समानाधिकरणेषु घादिषु इत्येवं तत्। यदा तर्हि सैव नदी स एव तरस्तदा प्राप्नोति। स्त्रीलिङ्गेषु घादिषु इत्येवं तत्। अवश्यं चैतदेवं विज्ञेयम्। समानाधिकरणेषु घादिषु इत्युच्यमान इह प्रसज्येत- महिषीरूपमिव। ब्राह्मणीरूपमिवेति। Kashika ------- तरप् तमप् इत्येतौ प्रत्ययौ घसंज्ञौ भवतः। कुमारितरा। कुमारितमा। ब्राह्मणितरा। ब्राह्मणितमा। घप्रदेशाः — **घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः** (६.३.४३) इत्येवमादयः॥ Siddhanta Kaumudi ----------------- एतौ घसंज्ञौ स्तः ॥ Laghu Siddhanta Kaumudi ----------------------- एतौ घसंज्ञौ स्तः॥ Balamanorama ------------ **तरप्तमपौ घः** - तरप्तमपौ घः । प्रथमस्य प्रथमपादे सूत्रमिदम् । आतिशायनिकप्रत्ययप्रकरणान्ते, 'पितौ घः' तादी घः इति वा वक्तव्ये प्रकरणान्तरे पृथग्गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तरपं ज्ञापयति । तस्य आतिशायनिकप्रकरणबहुर्भूतस्य सत्त्वे तत्संग्रहणार्थं प्रकरणान्तरे सूत्रकरणस्यावश्यकत्वादित्याहुः । तेन 'अल्पाच्तरं' 'लोपस्च बलवत्तरः' इत्यादि सिद्धम् । किमेत्तिङव्यय । 'आमु' इति छेदः । उकार उच्चारणार्थः । किम्, एते, तिङ्, अव्यय — एषां चतुर्णां द्वन्द्वः ।किमेत्तिङव्ययप्रकृतिको घः॑ इति मध्यमपदलोपी समासः । फलितमाह — किम एदन्तादित्यादिना । एभ्य इत्यर्थः । किन्तमामिति अत्यन्तस्वार्थिकोऽयं तमप्, नत्वतिशायने । एषामतिशयेनाढ इतिवदेषामतिशयेन क इति विग्रहस्याऽसंभवात् । जातिगुणक्रियासंज्ञाभि समुदायादेकदेशस्य पृथक्करणं हि निर्धारणम् । प्राह्णे तमामिति । प्राह्ण=पूर्वाह्णः ।प्राह्णाऽपराह्णमध्याह्नाः त्रिसन्ध्य॑मित्यमरः । अतिशयिते पूर्वाह्णे इत्यर्थः । पूर्वावयवगतप्रकर्षादह्नः प्रकर्षो बोध्यः । अत्र अहर्न द्रव्यम्, सूर्योदयादारभ्य सूत्रास्तमयावधिकस्यैव कालस्य अहन्शब्दार्थत्वात् । तस्य च उदयादिक्रियाघटितत्वान्न द्रव्यत्वमिति भावः । पचतितमामिति । अतिशयिनता पाकक्रियेत्यर्थः, तिङन्तेषु क्रियाविशेष्यकबोधस्यैवप्रशंसायां रूप॑विति सूत्रभाष्ये प्रपञ्चितत्वात् । अतोऽत्र क्रियाया एवन प्रकर्षो नतु द्रव्यस्येति भावः । उच्चैस्तमामिति ।आशंसती॑त्यध्याहार्यम् । अतिशयेन उच्चैराशंशनादिक्रियेत्यर्थः । अत्रापि क्रियाया एव प्रकर्षो न तु द्रव्यस्य । उच्चैस्तमस्तरुरिति । अतिशेन उच्चैस्तरुरित्यर्थः । अत्र उच्चैस्त्वप्रकर्षस्य तरौ द्रव्ये भानादाभ्यनेत्यर्थः ।किंतमा॑मित्यादौयस्येति चे॑ति लोपं परत्वाद्बाधित्वा ह्रस्वान्तलक्षणनुटो निवृत्त्यर्थमामु इत्युकारोच्चारणम् । सति तु तस्मिन्निरनुबन्धकग्रहणे न सानुबन्धकस्ये॑ति परिभाषया नुड्विधावस्य न ग्रहणमित्यादि 'आमि सर्वनाम्नः' इति सूत्रभाष्ये प्रपञ्चितम् । Tattvabodhini ------------- **तरप्तमपौ घः** - तरप्तमपौ घः । अस्मिन्नेवाऽऽतिशायनिकप्रकरणेतादौ घः॑पितौ घः॑इति वा वक्तव्ये प्रकरणान्तरेण गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तरपं ज्ञायपति । तेनअल्पाच्तरं॑, लोपश्च बलवत्तरः॑ इत्यादि सिद्धम् । अल्पाजेव ह्रल्पाचतरम् । न त्वत्र द्वयोरेकस्यातिशयविवक्षायां तरप् । अन्यथाशिवकेशवौ॑इथ्यादिसिद्धावपिशङ्खदुन्दुभिवीणाः॑इत्यादि न सिध्येदित्याहुः । Padamanjari ----------- तरतेः 'ऋदोप्' इत्यपि गुणे भूतपूर्वेण पकारेण यद्यपि तरबिति रूपं भवति, तथापि तमपा साहचर्यात् प्रत्ययस्यैव ग्रहणमित्याह - तरपतपौ प्रत्ययाविति । तेन नद्यास्तरो नदीतर इति ह्रस्वो न भवति । अथ वा तरबिति रूपाश्रय संज्ञा, रूपनिर्ग्रहश्च प्रयोगे उपदेशे वा । तत्र न क्वचित्प्रयोगे तरबिति रूपमस्तीत्युपदेशगतं गृह्यते । न चात्रौपदेशिकं तरब्रूपमस्ति, सत्यामपि वा घसंज्ञायां न दोषः, ह्रस्वत्वं हि समानाधिकरणे स्त्रीलिङ्गे विधीयते । आतिशायनिकप्रकरण एव तादी घः, पितौ घ इति वा कर्तव्ये प्रकरणोत्कर्षेण संज्ञाकरणमन्योऽपि तरबस्तीति सूचनार्थम्, तेन 'अल्पाच्तरम्' 'लोपश्च बलवतरः' इत्यादौ स्वार्थे तरप् सिद्धो भवति ॥ Nyaas ----- `कुमारितरा` इति। `द्विवचविभज्योपपदे` (5.3.57) इत्यादिना तरप्। `कुमारितमा` इति। `अतिशायने` इत्यादिना तमप्। तयोर्घसञ्ज्ञायां सत्यां **घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः** (6.3.43) इत्यादिना ह्रस्वत्वं भवति। Prakriyasarvasvam ----------------- एतौ घसंज्ञौ ।