11021: आद्यन्तवदेकस्मिन् ======================== **Padacheda:** आदि-अन्तवत् | S | 0 | 0 | एकस्मिन् | S | 7 | 1 | Sutrartha --------- **केवलं एकः वर्णः अस्ति चेत् सः यथा आदिवत् कार्यम् करोति, तथैव अन्तवदपि कार्यं करोति ।** यदि कुत्रचित् शब्दस्य 'आदिवर्णस्य' किमपि कार्यमुक्तमस्ति तत्र यद्यपि तस्मिन् शब्दे एकः एव वर्णः अस्ति, तथापि सः एव आदिवर्णसंज्ञां स्वीकरोति । तथैव, यदि कुत्रचित् शब्दस्य 'अन्तिमवर्णस्य' किमपि कार्यमुक्तमस्ति तत्र यद्यपि तस्मिन् शब्दे एकः एव वर्णः अस्ति, तथापि सः एव अन्तिमवर्णः ज्ञातव्यः - इति अस्य सूत्रस्य आशयः । यथा - 1. 'अ' (= विष्णुः) इति अकारान्तपुंलिङ्गशब्दः । अस्य तृतीयाद्विवचनस्य रूपसिद्धौ 'अ + भ्याम्' इति स्थिते एकः प्रश्नः आगच्छति - **सुपि च** (7.3.102) इत्यनेन अङ्गस्य अन्तिम-अकारस्य दीर्घादेशः भवति । परन्तु अत्र अङ्गे केवलं एकः एव वर्णः अस्ति । तर्हि सः एव अन्तिमवर्णरूपेण स्वीकर्तुं शक्यते वा? (तस्मात् पूर्वम् किमपि नास्ति चेत् अयमन्तिमवर्णः कथं स्यात् - इति संशयः ।) अस्य उत्तरमनेन सूत्रेण दीयते - यत्र एकः एव वर्णः अस्ति, तत्र सः आदिवर्णवत् अपि कार्यं करोति, अन्तिमवर्णवत् अपि कार्यं करोति । अतः अत्र अनेन **सुपि च** (7.3.102) इत्यनेन अकारस्य दीर्घः भवितुमर्हति । 2. 'गुरोः भावः' अस्मिन् अर्थे गुरु-शब्दस्य अण्-प्रत्यये कृते 'गौरव' शब्दः सिद्ध्यति । अत्र प्रत्यये णकारः इत्संज्ञकः अस्ति, अतः केवलं अकारः एव अवशिष्यते । अयम् यद्यपि एकाल्-प्रत्ययः अस्ति, तथापि **आद्यन्तवदेकस्मिन्** (1.1.21) इत्यनेन सः आदिवत् अपि कार्यम् करोति, अतः **आद्युदात्तश्च** (3.1.3) इत्यनेन 'गौरव' अस्मिन् शब्दे वकारात् परः अयम् (प्रत्ययस्य आदिभूतः) अकारः उदात्तसंज्ञकः भवति । सामान्यभाषायाम् एतत् सूत्रम् स्पष्टीकर्तुम् एकमुदाहरणम् दीयते - 'देवदत्तस्य एकः एव पुत्र अस्ति चेत्, स एव ज्येष्ठः, स एव कनिष्ठः ' । इत्युक्ते, देवदत्तस्य यदि केवलं एकः एव पुत्रः अस्ति, तर्हि 'रे देवदत्त, तव ज्येष्ठपुत्रः कः' इति पृष्टेऽपि देवदत्तः तस्यैव निर्देशं करोति यस्य सः 'रे देवदत्त, तव कनिष्ठपुत्रः कः' इति पृष्टे करोति । अनेनैव प्रकारेण शब्दे एकः एव वर्णः अस्ति चेत् सः एव आदिवर्णः, सः एव अन्तिमवर्णः भवति । परिभाषेन्दुशेखरे विषयेऽस्मिन् एका परिभाषा दत्ता अस्ति - **व्यपदेशिवदेकस्मिन्** । अस्याः परिभाषायाः अर्थः अयम् - कस्यापि पदार्थस्य 'एकस्य भागस्य' दत्तमभिधानमपि सः पदार्थः तदा स्वीकरोति यदा सः पदार्थः स्वयम् एकभाग-इत्येव अस्ति । इयम् परिभाषा अस्य सूत्रस्यैव अर्थम् स्पष्टीकरोति । Sutrartha (English) ------------------- If a word has a single letter, it acts as the first letter, and it also acts as the last letter. Vasu English Summary -------------------- An operation should be performed on a single letter, as upon an initial or upon a final. Vasu English Translation ------------------------ An operation should be performed on a single letter, as upon an initial or upon a final. This is an *atidesa* *sutra* and consists of four words, आदि "the beginning," अन्त "end," वत् "like," एकस्मिन् "in one;" the literal translation being "beginning is end-like in one." The affix वत् has the force of the locative, and the meaning is "on the beginning," and "on the end," i.e., let an operation be performed on a single letter, as upon an initial or upon a final. Thus by (3.1.3). an affix has *udatta* or acute accent on its initial vowel. Thus the affix *tavya* has accent on the first अ, and we have कर्त्तव्य॑म्. But when an affix consists of a single vowel, it is itself the beginning and the end, and, as such, will have the accent. As in औपगवम् *aupagavam* the last *a* has the accent, which *a* represents the affix अण्. Similarly, by (7.3.102), the final of a base ending in short अ is lengthened before a case-affix beginning with a consonant of यञ् class. Thus राम + भ्याम् = रामाभ्याम्. This rule will apply when the word consists of one letter only, and that letter is a short अ. Thus अ + भ्याम् = आभ्याम् "by those two." Here it must not be objected that the solitary अ is initial, and cannot be final. Why do we say "in one"? If a word consists of more than one letter, then the beginning is not like the end. Thus in the word सभा the initial short अ is not like the final long आ; otherwise सभा would get the name of वृद्धम् (1.1.73), and the secondary derivative from सभासन्नयन would be formed by the affix छ् (4.2.114). But this is not so, the affix अण् is employed instead, and the form is साभासन्नयनः. Bhashya ------- आद्यन्तवदेकस्मिन् किमर्थमिदमुच्यते ? सत्यन्यस्मिन्नाद्यन्तवद्भावादेकस्मिन्नाद्यन्तवद्वचनम्। सति अन्यस्मिन् यस्मात् पूर्वं नास्ति परमस्ति स आदिरित्युच्यते। सति अन्यस्मिन् यस्मात् परं नास्ति पूर्वमस्ति सोऽन्त इत्युच्यते। सत्यन्यस्मिन्नाद्यन्तवद्भावादेतस्मात् कारणात् एकस्मिन्नाद्यन्तापदिष्टानि कार्याणि न सिध्यन्ति इष्यन्ते च स्युरिति। तान्यन्तरेण यत्नं न सिध्यन्ति इत्येकस्मिन्नाद्यन्तवद् वचनम्। एवमर्थमिदमुच्यते। अस्ति प्रयोजनमेतत्। किं तर्हीति। तत्र व्यपदेशिवद्वचनम्। तत्र व्यपदेशिवद्भावो वक्तव्यः। व्यपदेशिवदेकस्मिन् कार्यं भवतीति वक्तव्यम्। किं प्रयोजनम् ? एकाचो द्वे प्रथमार्थम्। वक्ष्यति- एकाचो द्वे प्रथमस्येति बहुव्रीहिनिर्देश इति। तस्मिन् क्रियमाणे इहैव स्यात् पपाच पपाठ। इयाय आर इत्यत्र न स्यात्। व्यपदेशिवदेकस्मिन् कार्यं भवतीत्यत्रापि सिद्धं भवति। षत्वे चादेशसम्प्रत्ययार्थम्। वक्ष्यति- आदेशप्रत्यययोरित्यवयवषष्ठीति। एतस्मिन् क्रियमाणे इहैव स्यात् करिष्यति हरिष्यति। इह न स्यात् इन्द्रो मा वक्षत्, स देवान्यक्षत् इति। व्यपदेशिवदेकस्मिन् कार्यं भवतीत्यत्रापि सिद्धं भवति। स तर्हि व्यपदेशिवद्भावो वक्तव्यः। न वक्तव्यः। अवचनाल्लोकविज्ञानात् सिद्धम्। अन्तरेणैव वचनं लोकविज्ञानात् सिद्धमेतत्। तद्यथा लोके शालासमुदायो ग्राम इत्युच्यते। भवति चैतदेकस्मिन्नपि - एकाशालो ग्राम इति। विषम उपन्यासः। ग्रामशब्दोऽयं बह्वर्थः। अस्त्येव शालासमुदाये वर्तते। तद्यथा ग्रामो दग्धः इति। अस्ति वाटपरिक्षेपेवर्तते। तद्यथा ग्रामं प्रविष्ट इति। अस्ति च मनुष्येषुवर्तते। तद्यथा ग्रामो गतो ग्राम आगत इति। अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते। तद्यथा ग्रामो लब्ध इति। तद् यः सारण्यके ससीमके सस्थण्डिलके वतते तमभिसमीक्ष्यैतत् प्रयुज्यते एकशालो ग्राम इति। यथा तर्हि वर्णसमुदायः पदम्। पदसमुदाय ऋक्। ऋक् समुदायः सूक्तमित्युच्यते। भवति चैतदेकस्मिन्नप्येकवर्णं पदम् एकपदा ऋक्, एकर्चं सूक्तमिति। अत्राप्यर्थेन युक्तो व्यपदेशः। पदं नामार्थः। ऋङ् नामार्थः। सूक्तं नामार्थ इति। यथा तर्हि बहुषु पुत्रेषु एतदुपपन्नं भवति अयं मे ज्येष्ठोऽयं मे मध्यमोऽयं मे कनीयानिति। भवति चैतदेकस्मिन्नपि अयमेव मे ज्येष्ठोऽयमेव मे मध्यमोऽयमेव मे कनीयानिति। तथाऽसूतायामसोष्यमाणायां च भवति - प्रथमगर्भेण हतेति। तथाऽनेत्यनाजिगमिषुराह- इदं मे प्रथममागमनमिति । आद्यन्तवद्भावश्य शक्योऽवक्तुम्। कथम्? अपूर्वानुत्तरलक्षणत्वादाद्यन्तयोः सिद्धमेकस्मिन्। अपूर्वलक्षण आदिः, अनुत्तरलक्षणोऽन्तः, एतच्चैकस्मिन्नपि भवति। अपूर्वानुत्तरलक्षणत्वाद् एतस्मात् कारणाद् एकस्मिन्नप्याद्यन्तापदिष्टानि कार्याणि भविष्यन्तीति नार्थ आद्यन्तवद्भावेन। गोनर्दीयस्त्वाह - सत्यमेतत् सति त्वन्यस्मिन्निति। कानि पुनरस्य योगस्य प्रयोजनानि? आदिवत्त्वे प्रयोजनं प्रत्ययञ्ञ्निदाद्युदात्तत्वे। प्रत्ययस्यादिरुदात्तो भवतीति इहैव स्यात् कर्तव्यं, तैत्तिरीयः। औपगवः कापटवः इत्यत्र न स्यात्। ञ्ञ्नित्यादिर्नित्यम् इति इहैव स्यात् - अहिचुम्बकायनिः, आग्निवेश्यः। गार्ग्यः, कृतिः इत्यत्र न स्यात्। वलादेरार्धधातुकस्येट् प्रयोजनम्। आर्धधातुकस्येड् वलादेरितीहैव स्यात् - करिष्यति हरिष्यति। जोषिषत् मन्दिषदित्यत्र न स्यात्। यस्मिन्विधिस्तदादित्वे। यस्मिन् विधिस्तदादित्वे प्रयोजनम्। वक्ष्यति यस्मिन् विधिस्तदादावल्ग्रहणे इति। तस्मिन् क्रियमाणे अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इति इहैव स्यात् - श्रियः भ्रुवः। श्रियौ भ्रुवौ - इत्यत्र न स्यात्। अजाद्याट्त्वे प्रयोजनम्। आडजादीनाम् इति इहैव स्यात् ऐक्षिष्ट, ऐहिष्ट । ऐष्ट अध्यैष्ट इत्यत्र न स्यात्। अथान्तवत्त्वे कानि प्रयोजनानि ? अन्तवद् द्विवचनान्तप्रगृह्यत्वे। अन्तवद् द्विवचनान्तप्रगृह्यत्वे प्रयोजनम्। इर्दूदेद् द्विवचनं प्रगृह्यम् इतीहैव स्यात् पचेते इति, पचेथे इति। खट्वे इति, माले इति इत्यत्र न स्यात्। मिदचोऽन्त्यात्परः प्रयोजनम्। इहैव स्यात् - कुण्डानि वनानि। तानि यानीत्यत्र न स्यात्। अचोन्त्यादि टि प्रयोजनम्। टित आत्मनेपदानां टेरे इहैव स्यात् - कुर्वाते, कुर्वाथे। कुरुते-कुर्वे इत्यत्र न स्यात्। अलोन्त्यस्य प्रयोजनम्। अतो दीर्घो यञ्ञि सुपि च इहैव स्यात् - घटाभ्यां पटाभ्यामिति। आभ्याम् इत्यत्र न स्यात्। येन विधिस्तदन्तत्वे प्रयोजनम्। अचो यत् इहैव स्यात् चेयं जेयम्। एयमध्येयमित्यत्र न स्यात्। आद्यन्तवदेकस्मिन् कार्यं भवतीत्यत्रापि सिद्धं भवति ॥21 ॥ Kashika ------- असहायस्याद्यन्तोपदिष्टानि कार्याणि न सिध्यन्तीत्ययमतिदेश आरभ्यते । सप्तम्यर्थे वतिः। आदाविव अन्त इव एकस्मिन्नपि कार्यं भवति। यथा क॒र्तव्य॑म् इत्यत्र प्रत्ययाद्युदात्तत्वं (३.१.३) भवति, एवम् औ॒प॒ग॒वम् इत्यत्रापि यथा स्यात् । यथा वृक्षाभ्यामित्यत्रातोऽङ्गस्य दीर्घत्वम् (७.३.१०२) एवमाभ्यामित्यत्रापि यथा स्यात् । एकस्मिन्निति किम् ? सभासन्नयने भवः साभासन्नयनः। आकारमाश्रित्य वृद्धसंज्ञा न भवति॥ Siddhanta Kaumudi ----------------- एकस्मिन् क्रियामाणं कार्यमादाविवाऽन्त इव स्यात् । आभ्याम् ॥ Laghu Siddhanta Kaumudi ----------------------- एकस्मिन्क्रियमाणं कार्यमादाविवान्त इव स्यात्। सुपि चेति दीर्घः। आभ्याम्॥ Balamanorama ------------ **आद्यन्तवदेकस्मिन्** - ननु इदम् भ्यामिति स्थिते त्यदाद्यत्वे पररूपे इदो लोपे च कृते अ-भ्याम् इति स्थिते अङ्गस्याकारात्मकत्वाददन्तत्वाभावात्कथंसुपि चे॑ति दीर्घ इत्यत आह-आद्यन्तवदे । आदित्वान्तत्वयोर्नित्यमन्यसापेक्षत्वादेकस्मिन् तत्प्रयुक्तकार्याणामप्राप्तौ तत्पाप्त्यर्थमिदमारभ्यते ।एकशब्दोऽसहायवाची ।एके मुख्यान्यकेवलाः॑ इत्यमरः । सप्तम्यन्ता॒त्तत्र तस्येवे॑ति वतिः, एकस्मिन्नित्युपमेये सप्तमीदर्शनात् । वतिश्च द्वन्द्वान्ते श्रूयमाणत्वात्प्रत्येकं संबध्यते । तदाह-एकस्मिन्नित्यादि । तदादितदन्तयोः क्रियमाणं कार्यं तदादौ तदन्त इव च असहायेऽपि स्यादित्यर्थः । एकस्मिन्निति किम् । दरिद्रातेरेरजिति न । आदिवत्त्वफलम्-औपगव इत्यादौ अण्प्रत्ययाद्युदात्तत्वम् । आभ्यामित्यादौ अन्तवत्त्वाद्दीर्घादिर्भवति । भाष्ये तु आद्यन्तवदित्यपनीय व्यपदेशिवदेकस्मिन्निति सूत्रपाठः शिक्षितः । तेन इयायेत्यादौएकाचो द्वे प्रथमस्ये॑ति द्विर्भावः, धुगित्यत्र व्यपदेशिवत्त्वेन धात्ववयवत्वाद्भष्भावश्च सिध्यति । विशिष्टोऽपदेशो-व्यपदेश=मुख्यो व्यवहारः । सोऽस्यास्तीति व्यपदेशी । मुख्य इति यावत् । एकस्मिन् तदादित्वतदन्तत्वतदवयवत्वादिप्रयुक्तकार्यं स्यादिति फलितम् । ()इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ।२.४.३२ ।इदम् — भिसिति स्थिते त्यदाद्यत्वे पररूपे 'हलि लोपः' इति इदो लोपे अ-भिस् इति स्थितेअतो भिस ऐ॑सिति प्राप्ते — नेदमदसोरकोः ।अतो भिस ऐ॑सित्यतो भिस ऐसित्यनुवर्तते ।अको॑रिति षष्ठो । न विद्यते ककारो ययोरिति बहुव्रीहिः । तदाह — अककारयोरित्यादिना । एत्त्वमिति ।बहुवचने झलीत्यनेने॑ति शेषः । ङयि विशेषमाह-अत्वमित्यादि । अत्वं ङेः स्मै इत्यन्वयः । इदम् एव इति स्थिते स्मैभावात्परत्वादनादेशेविप्रतिषेधे यद्बाधितं तद्बाधितमेवे॑ति न्यायेन पुनः स्मैभावो न स्यादित्यत आह — नित्यत्वादिति । कृतेऽकृतेऽप्यनादेशे प्रवृत्तियोग्यतया स्मैभावस्य नित्यत्वादनादेशात्प्रागेव स्मैभावे कृतेऽनादेशस्य हलि लोपेन बाध इति भावः । आभ्यामिति । पूर्ववत् । एभ्य इति । त्यदाद्यत्वं, पररूपत्वं, हलि लोपः,बहुवचने झल्ये॑दित्येत्त्वंचेति भावः । अस्मादिति । त्यदाद्यत्वं, पररूपत्वं हलि लोपःस 'ङसिङ्योः' इति स्मादिति भावः । अस्येति । त्यदाद्यत्वं, पररूपत्वं, स्यादेशः, हलि लोपश्चेति भावः । अनयोरिति । त्यदाद्यत्वंस पररूपत्वम्, 'अनाप्यकः'ओसि चे॑त्येत्त्वम्, अयादेशश्चेति भावः । एषामिति । आमि त्यदाद्यत्वं, पररूपत्वं, हलि लोपः, एत्त्वषत्वे इति भावः । अस्मिन्निति । अत्वं, पररूपत्वं, स्मिन्, हलि लोपश्चेति भावः । एइआति अत्वं, पररूपत्वं, हलि लोपः, एत्त्वषत्वे इति भावः । ककारयोगे त्विति ।अव्ययसर्वनाम्नामकच् प्राक् टे॑रित्यनेन इदंशब्दस्य, अकचि सतीत्यर्थः । अयकमिति । अकचि सति निष्पन्नस्य इदकम्शब्दस्यतन्मध्यपतिन्यायेन 'इदमो मः' इत्यादाविदंग्रहणेन ग्रहणान्मत्वादिकमिति भावः । 'अनाप्यकः' इति, 'हलि लोपः' इति,नेदमदसोरको॑रिति च नेह प्रवर्तते । ककारयोगे तन्निषेधादित्याशयेनाह — इमकेन इमकाभ्यामिति । इत्यादीति । इमकैः । इमकस्यै । इमकेभ्यः । इमकस्मात् । इमकस्य, इमकयोः २, इमकेषाम् । इमकस्मिन् इमकेषु । Tattvabodhini ------------- **आद्यन्तवदेकस्मिन्** - आद्यन्तवत् ।सत्यन्यस्मिन् यस्य पूर्वो नास्ति स आदिः॑,सत्यन्यस्मिन्यस्य परो नास्ति सोऽन्तः॑इति लोके प्रसिद्धं, तदुभयमेकस्मिन्नसहाये न संभवतीति तत्राद्यन्तव्यपदिष्टानि कार्याणि नस्युरतोऽयमतिदेश आरभ्यते । नच परत्वात्,सुपिचे॑ति दीर्घे पश्चाद्धिलि लोपे सति आभ्यामित्यादि सिध्यतीति किमत्राद्यन्तवत्सूत्रोपन्यासेनेति शङ्क्यम्, नित्यत्वाद्धलि लोर इत्यस्य दीर्घात्पूर्वमेव प्रवृत्तेः । ॑एकस्मि॒न्नित्युपमेये सप्तमीदर्शनात्सप्तम्यर्थ एव वतिरित्यभिप्रेत्याह — आदाविवान्त इवेति । आदिवत्किम् । औपगवः । अत्राऽण आद्युदात्तत्वं यथा स्यात् । भाष्ये त्वादियविदित्यपनीयव्यपदेशिवदेकस्मि॑न्निति सूत्रमूहितम् । विशिष्टोऽपदेशो व्यपदेशः -मुख्यो व्यवहारः । सोऽस्यातीति व्यपदेशी, मुख्य इति यावत् । तेन तुल्यमेकस्मिन्नसगायेऽपि कार्यं स्यादित्यर्थः । तेनइयाय॒॑आरे॑त्यादौ॒एकाचः॑इति द्वित्वं सिध्यति । अन्यथा आद्यन्तापदिष्टत्वाद्धित्वं न स्यादिति दिक् । Padamanjari ----------- 'द्वन्द्वे घि' इत्येतद्वाधित्वा 'अजाद्यदन्तम् ' इत्यन्तशब्दस्य पूर्वनिपातः प्राप्नोऽस्मादेव निर्द्देशान्न भवति । न चात्यन्तबाधः, अन्तादिवच्चेति लिङ्गात् । असहायस्येत्यादिना सूत्रारम्भस्य प्रयोजनमाह । सति परस्मिन् यस्मात्पूर्वं नास्ति स आदिः, सति च पूर्वस्मिन्यस्मात्परं नास्ति सोऽन्तः, तदेतदुभयमसहाये न सम्भवति । तस्मादाद्यन्तयोर्यान्युपदिष्टानि उक्तानि कार्याणि तान्यसहायस्यापि यथा स्युरित्ययमारम्भः । असहायस्येत्यनेनासहायवचन एकशब्दो न संख्यावचन इति दर्शयति । बहुष्वपि व्यवस्थितस्यैकत्वसंख्यास्तीति 'एकस्मिन्' इति व्यर्थं स्यादिति भावः । 'एकस्मिन्' इत्युपमेये सप्तमीश्रवणादुपमानस्यापि सप्तमीसमर्थतेत्याह-सप्तम्यर्थे वतिरिति । वर्तमानादिति शेषः । 'तत्र तस्येव' इति इवार्थे वतिः । पूर्वं त्वसहायस्येति षष्ठीनिर्देशः सप्तम्यर्थस्यैव शेषरूपविवक्षया । कार्यार्थत्वात्सर्वातिदेशानां प्राधान्यात्कार्यातिदेशोऽयमित्याह-कार्ये भवतीति । । आद्यन्तवद्व्यपदेशो निमितम् । 'पूर्ववत्सनः' इति तु निर्मूलम्, व्यपदेशातिदेशे हि कुरुते, कुर्वे इत्यादौ अन्तवद्व्यपदेशेऽपि अन्त्योऽजादिरस्येत्येवं रूपस्य बहुव्रीह्यर्थस्याभावाट्टिसंज्ञाया अभावे टेरेत्वं न स्यात् । कुर्वाते इत्यादौ तु दृष्टस्य टेरेत्वाख्यस्य कार्यस्यातिदेशे न दोषः । आभ्यामिति । अत्र द्वे अन्तत्वे उपयुज्येते-आकारान्तस्याङ्गस्यालोऽन्त्यस्य दीर्घ इति । सभासन्नयन इति । असत्येकग्रहणे यत्रादिव्यपदेशो नास्ति मध्येऽसहाये च सोऽतिदेशस्य विषयः । 'वृद्धिर्यस्याचामादिस्तद्वृद्धम्' इत्यत्रादिग्रहणस्याप्येतदेव व्यावर्त्यमिति विकल्पः स्यात्-कदाचिद् वृद्धसंज्ञा, कदाचिन्न इति । तस्मादाकारमाश्रित्य पक्षे वृद्धसंज्ञा न भवतीति ग्रन्थार्थः ॥ Nyaas ----- `असहायस्य` इत्यादिना सूत्रारम्भस्य फलं दर्शयति। इति करणो हेतौ। यस्मादादेरन्तस्य यानि कार्याण्युपदिष्टानि, तान्यविद्यमानसहायस्य न सिध्यन्ति; तस्मादतिदेशोऽयमारभ्यते। द्वितीयादिकं हि सहायमपेक्ष्याद्यन्तशब्दौ प्रवर्तते। तथा हि - लोकः सति हि परस्मिन् सहाये पूर्वाभावे चादिरिति व्यपदिशति, सति च पूर्वस्मिन्पराभावे चान्त इति। अतस्तदुभयमसहाये नास्तीति। तत्राद्यन्तप्रतिबद्धानि कार्याणि न स्युः, यद्ययमतिदेशो आरभ्यते। `एकस्मिन्` इति वचनात् `आद्यन्तवत` इत्यत्र सप्तमीसमर्था-द्वतिर्गम्यत इत्याह- `सप्तम्यर्थे वतिः` इति। आद्यन्तयोरिवाद्यन्तवत्, **तत्र तस्येव** (5.1.116) इति वतिः। `औपगवम्` इत्यत्राप्यादिव्यपदिष्टं कार्यमतिदेशस्य फलम्। प्रत्ययाद्युदात्तत्वं ह्रादेरुपदिष्टम्, **आद्युदात्तश्च** (3.1.3) इति वचनात्। `आभ्याम्` इति। अत्रान्तोपदिष्टं दीर्घत्वं ह्रन्तस्योपदिष्टम्, **अलोऽन्त्यस्य** (1.1.52) इति वचनात्। इदमो भ्याम्, त्यदाद्यत्वम्, (7.2.102) , **अतो गुणे** (6.1.97) पररूपत्वम्, **हलि लोपः** (7.2.113) इतीद्रूपस्य लोपः, `सुपि च` (7.3.102) इति दीर्घः। Prakriyasarvasvam ----------------- एकस्मिन्वर्णऽप्यादिवदन्तवच्च कार्यं स्यात् । इत्यदन्तकार्यं 'सुपि च' (७-३-१०२) इति दीर्घः । आभ्याम् । Sudha ----- आद्यन्तवदिति । 'सत्यन्यस्मिन् यस्य पूर्वो नास्ति स आदिः, सत्यन्यस्मिन् यस्य परो नास्ति सोऽन्तः' इति लोके प्रसिद्धं, तदुभयमेकस्मिन्नसहाये न सम्भवतीति तत्राद्यन्तव्यपदिष्टानि कार्याणि न स्युरतोऽयमतिदेश आरभ्यते । आदाविवान्त इव च स्यादिति । तदादितदन्तयोः क्रियमाणं कार्यं तदादौ तदन्त इव च असहायेऽपि स्यादित्यर्थः । आभ्यामिति । इदम् + भ्याम् इत्यत्र **त्यदादीनामः**(7.2.102) इत्यकारान्तादेशे **अतो गुणे**(6.1.97) इति पररूपैकादेशे 'इद भ्याम्' इति जाते **हलि लोपः**(7.2.113) इति इद्भागस्य लोपे प्राप्ते **अलोऽन्त्यस्य**(1.1.52) इत्यनेनान्त्यस्य लोपे प्राप्ते <ऽनानर्थकेऽलोऽन्त्यविधिरनभ्यासविकारेऽ> इति परिभाषया अलोऽन्त्यविध्यभावे इद्भागस्यैव लोपे अ+भ्याम् इत्यवशिष्टे अत्र **सुपि च**(7.3.102) इति दीर्घत्वे प्राप्ते परमत्र विद्यमानस्याकारस्यादन्तत्वं वर्तते नवेति शङ्कायाम् **आद्यन्तवदेकस्मिन्**(1.1.21) इति एकस्मिन्नेवाकारे अन्तवद्भावेन अदन्तत्वं मत्वा दीर्घे कृते 'आभ्याम्' इति रूपम् ।