11014: निपात एकाजनाङ् ===================== **Padacheda:** निपातः | S | 1 | 1 | एकाच् | S | 1 | 1 | अनाङ् | S | 1 | 1 | Sutrartha --------- **'आङ्' इति वर्जयित्वा अन्ये व्यञ्जनविरहिताः एकाचः निपाताः प्रगृह्यसंज्ञकाः भवन्ति ।** व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् **ईदूदेद्द्विवचनं प्रगृह्यम्** (1.1.11) इत्यतः **ईदूतौ च सप्तम्यर्थे** (1.1.19) एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् चतुर्थम् सूत्रम् । **अनेन सूत्रेण विशिष्टानाम् निपातानाम् प्रगृह्यसंज्ञा विधीयते ।** निपातसंज्ञा — व्याकरणशास्त्रे शब्दानां कश्चन समूहः 'निपातः' नाम्ना ज्ञायते । **प्राग्रीश्वरान्निपाताः** (1.4.56) अस्मात् सूत्रात् आरभ्य **अधिरीश्वरे** (1.4.97) इति यावत्सु सर्वेषु सूत्रेषु निपातसंज्ञकाः शब्दाः पाठिताः सन्ति । एकाच्क-निपातानाम् प्रगृह्यसंज्ञा — ये निपातसंज्ञकाः शब्दाः एकाच्काः सन्ति (इत्युक्ते, येषु एकः एव स्वरः अस्ति तथा च किमपि व्यञ्जनम् नास्ति), तेषाम् प्रकृतसूत्रेण 'प्रगृह्यम्' इति संज्ञा विधीयते । एतेषाम् आवली इयम् — अ, आ, इ, उ, ऋ, ऌ, ए, ऐ, ओ, औ — एते एकाच्काः, अतः प्रगृह्यसंज्ञकाः निपाताः । प्रगृह्यसंज्ञायाम् जातायाम् **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इत्यनेन एतेषाम् अच्सन्धौ प्रकृतिभावः विधीयते । अतः 'अ अपेहि', 'आ एवं नु मन्यसे', 'इ इन्द्रं पश्यः, 'उ उत्तिष्ठ' एतेषु प्रयोगेषु अच्सन्धिः न भवति । **सूत्र अनाङ्-ग्रहणस्य प्रयोजनम्** 'आङ्' इति कश्चन निपातः अस्ति । उपरि निर्दिष्टायाम् आवल्याम् दर्शितात् 'आ' इति निपातात् अयं भिन्नः शब्दः । 'आङ्' अस्मिन् निपाते विद्यमानस्य ङकारस्य इत्संज्ञा, ततश्च लोपः भवति, केवलं 'आ' इत्यवशिष्यते । अतः अयम् अपि एकाच्कः निपातः एव । अस्य निपातस्य प्रगृह्यसंज्ञा नैव इष्यते, अतः तन्निषेधार्थम् अस्मिन् सूत्रे 'अनाङ्' इति निर्देशः कृतः अस्ति । **आङ्-भिन्नानाम् एकाच्कनिपातानाम् एव प्रगृह्यसंज्ञा भवति** — इति अत्र आशयः । अतः प्रगृह्यसंज्ञायाः अभावात् 'आङ्' शब्दस्य विषये अच्सन्धौ प्रकृतिभावः अपि न विद्यते, अतः सन्धिकार्यम् अवश्यम् भवितुम् अर्हति । यथा, आङ् + उष्णम् = ओष्णम् । 'किञ्चित् उष्णम्' इत्यर्थः । **'आ' तथा 'आङ्' एतयोः निपातयोः मध्ये अर्थभेदः** 'आ' तथा 'आङ्' द्वयोः अपि निपातयोः दृश्यरूपम् 'आ' इति समानमेव जायते । परन्तु तयोः अर्थयोः मध्ये सूक्ष्मः भेदः विद्यते । अयं भेदः सिद्धान्तकौमुद्यां काशिकायां च एकया कारिकया स्पष्टीकृतः अस्ति - ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्यात्,वाक्यस्मरणयोरङित् ॥ अस्यां कारिकायाम् 'आङ्' इत्यस्य चत्वारः पृथक् अर्थाः उक्ताः सन्ति, 'आ' इत्यस्य च द्वौ अर्थौ उक्तौ स्तः । **आङ् इत्यस्य चत्वारः अर्थाः** — 1) **ईषद्** ('किञ्चित्' इत्यर्थः) । यथा - ईषद् उष्णम् = आङ् + उष्णम् = ओष्णम् । 2) **क्रियायोगः** ('उपसर्गः' इत्यर्थः) । यथा - आङ् + अगच्छत् = आगच्छत् । 3) **मर्यादा** (सा सीमा यस्याः समावेशः प्रदेशे न भवति । Non-inclusive boundary of a region) । यथा - आङ् + अम्बुधेः = आम्बुधेः । समुद्रपर्यन्तम्, परन्तु समुद्रम् विहाय - इति अस्य अर्थः । वाक्ये प्रयोगः एतादृशः — तस्य राज्यं आम्बुधेः आसीत् । 4) **अभिविधि:** (सा सीमा यस्याः समावेशः प्रदेशे अवश्यं भवति । Inclusive boundary of a region) । यथा - आङ् + इन्द्राद् → एन्द्राद् । इत्युक्ते, इन्द्रपर्यन्तम्, इन्द्रमपि समाविश्य । वाक्ये प्रयोगः एतादृशः — तस्य भक्तिः एन्द्रात् । **आ-इत्यस्य द्वौ अर्थौ ** — 1) **वाक्ये उद्गाररूपेण** (As an exclamatory word in the sentence. Similar to 'oh!' or 'ah!') । यथा - आ एवं नु मन्यसे (Oh! You indeed think like this!) । अस्मिन् वाक्ये 'आ' इति केवलम् उद्गारम् दर्शयति । प्रगृह्यत्वात् अत्र अच्सन्धिकार्यं न क्रियते । 2) **स्मरणरुपेण** (As a filler word to indicate a certain memory. Similar to 'oh!' or 'ah!') । यथा 'आ एवं किल तत्' (Oh, that is thus indeed!) । अस्मिन् वाक्ये 'आ' इत्यनेन स्मरणम् (Recap) कृतम् अस्ति । अत्रापि प्रगृह्यत्वात् अच्सन्धिकार्यं न क्रियते । Sutrartha (English) ------------------- Except for the word आङ्, all other निपाताः that contain only one स्वर (and no व्यञ्जन) are known as प्रगृह्य. Vasu English Summary -------------------- A particle (1.4.56) consisting of a single vowel, with the exception of the particle आङ् is प्रगृह्य। Vasu English Translation ------------------------ A particle (1.4.56) consisting of a single vowel, with the exception of the particle आङ् is प्रगृह्य। This *sūtra* consists of three words: निपातः "particle", एकाच् "consisting of one vowel," अनाङ् "with the exception of आङ्." All such particles technically called *nipäta* (1.4.56) which consist of a simple vowel without any consonant, are *pragřihya* and therefore are not liable to the rules of *sandhi*. As इ इन्द्र "Oh, *Indra*" उ उत्तिष्ठ "O arise." It follows from the above definition that those *nipätas* which consist of two or more letters, vowel and consonant, are not *pragrihya*, e. g. प्र in प्राग्नये वाचमीरय. आङ् which is not a *pragrihya*, has four significations:- As a diminutive particle when joined to adjectives and nouns, as आ+उष्णम् = ओष्णम् "little hot, tepid" (2) as a prefix to verbs, it expresses the senses of "near" "nearto," and with verbs of "motion," "taking" &c., it shows the reverse of the action, as गम् 'to go', आगम 'to come;' आ+इहि = एहि, (3) as showing the limit inceptive (अभिविधि) "from," "ever since," as आजन्मनः "ever since his birth," (4) as showing the limit exclusive (मर्यादा), "till" "until" as आ+अध्ययनात् = आध्ययनात्, "until the reading begins." When the particle आ has not any one of the above four senses and is used in expressing regret &c., it is a *pragrihya*, as आ एवं किलासीत् "Ah! such there once was", आ एवं मन्यसे "Oh! do you think so." The word एकाच् in this aphorism has a peculiar meaning. It means "consisting of one vowel and nothing else." In other words, the vowels themselves when used as निपात, e. g. आ, उ, इ &c. But the term एकाच् has a wider signification than that given to it in this *sūtra*. It means "a word or a portion of a word consisting of one vowel which can be pronounced at once"- in other words एकाच् means a "syllable". In that sense the words प्र, नि, वि &c., will also be एकाच्, but not so here. Therefore the rule of *sandhi* will apply to them, thus प्राग्नये वाचमीरय. See *sūtra* (6.1.1) where the word एकाच् means a monosyllable. Why do we say "a *nipata*?" Because if the single vowel is not a particle, but something else, an affix &c., then it will not be a *pragrihya*, as the final अ in चकार "he did", is the affix of third person perfect tense, and is liable to *sandhi*; as चकारात्र. Bhashya ------- निपात एकाजनाङ् निपात इति किमर्थम् ? चकारात्र। जहारात्र। एकाजिति किमर्थम् ? प्रेदं ब्रह्म। प्रेदं क्षत्रम्। एकाजित्यप्युच्यमानेऽत्रापि प्राप्नोति। एषोऽपि ह्येकाच्। एकाजिति नायं बहुव्रीहिः। एकोऽज् यस्मिन् सोऽयमेकाच् एकाजिति। किं तर्हि तत्पुरुषोऽयं समानाधिकरणः। एकः अच् एकाच् एकाजिति। यदि तत्पुरुषोऽयं समानाधिकरणो नार्थ एकग्रहणेन। इह कस्मान्न भवति। प्रेदं ब्रह्म। प्रेदं क्षत्रम्। अजेव यो निपात इत्येवं विज्ञायते। किं वक्तव्यमेतत्। नहि। कथमनुच्यमानं गंस्यते। अज्ग्रहणसामार्थ्यात्। यदि हि अच्च अन्यच्च तत्र स्याद् अज्ग्रहणमनर्थकं स्यात् । अस्ति ह्यन्यदज्ग्रहणस्य प्रयोजनम्। किम्। अजन्तस्य यथा स्यात् हलन्तस्य मा भूत् । नैव दोषो न प्रयोजनम् । एवमपि कुत एतत्। द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः आद्यन्तवदेकस्मिन् येन विधिस्तदन्तस्येति च। इयमिह परिभाषा भविष्यति आद्यन्तवदेकस्मिन् इति। इयं च न भविष्यति येन विधिस्तदन्तस्येति। आचार्यप्रवृत्तिर्ज्ञापयति। इयमिह परिभाषा भवति आद्यन्तवदेकस्मिन्निति। इयं च न भविष्यति - येन विधिस्तदन्तस्येति। यदयमनाङिति प्रतिषेधं शास्ति । एवं तर्हि सिद्धे सति यदज्ग्रहणे क्रियमाणे एकग्रहणं करोति तज्ज्ञापयत्याचार्यः अन्यत्र वर्णग्रहणे जातिग्रहणं भवतीति। किमेतस्य ज्ञापने प्रयोजनम् ? दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात् सिद्धमितियदुक्तं तदुपपन्नं भवति। अनाङिति किमर्थम् ? आ उदकान्तात् -ओदकान्तात् । इह कस्मान्न भवति आ एवं नु मन्यसे। आ एवं किल तद् इति । सानुबन्धकस्येदमाकारस्य ग्रहणम्। अननुबन्धकश्चात्राकारः । क्व पुनरयं सानुबन्धकः। क्व निरनुबन्धकः । इर्षदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातं ङितं विद्याद् वाक्यस्मरणयोरङित् । Kashika ------- एकश्चासावच्चेत्येकाच् । निपातो य एकाच् आङ्वर्जितःस प्रगृह्यसंज्ञो भवति। अ अपेहि। इ इन्द्रं पश्य। उ उत्तिष्ठ। आ एवं नु मन्यसे । आ एवं किल तत्। निपात इति किम् ? चकारात्र। जहारात्र। एकाजिति किम्? प्राग्नये॒ वाच॑मीरय (ऋ०१०.१८७.१)। अनाङिति किम्? आ उदकान्तात् ओदकान्तात् । ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित्॥ Siddhanta Kaumudi ----------------- एकोऽज्निपात आङ्वर्जः प्रगृह्यः स्यात् । इ विस्मये । इ इन्द्रः । उ वितर्के । उ उमेशः । अनाङित्युक्तेरङिदाकारः प्रगृह्य एव । आ एवं नु मन्यसे । आ एवं किल तत् । ङित्तु न प्रगृह्यः । ईषदुष्णम् ओष्णम् ॥ ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥ Laghu Siddhanta Kaumudi ----------------------- एकोऽज् निपात आङ्वर्जः प्रगृह्यः स्यात्। इ इन्द्रः। उ उमेशः। वाक्यस्मरणयोरङित्; आ एवं नु मन्यसे। आ एवं किल तत्। अन्यत्र ङित् ; आ ईषदुष्णम् ओष्णम्॥ Balamanorama ------------ **निपात एकाजनाङ्** - निपात एकाच् ।प्रगृह्यमित्यनुवर्तते, पुंलिङ्गतया च विपरिणम्यते । एकाश्चासावच्चेति कर्मधारयः । तदाह — एकोऽजित्यादिना । इ विस्मये इति । इ इति चादित्वान्निपातः । स च आश्चर्ये वर्तत इत्यर्थः । इ इन्द्रः । उ उमेशः । इ इति उ इति निपातः । सम्बोधने उभयोरपि एकाच्त्वान्निपातत्वाच्च प्रगृह्रत्वान्न सन्धिः ।अना॑ङित्यत्र ङकारानुबन्धस्य प्रयोजनमाह - अनाङित्युक्तेरिति । आ एवमिति । पूर्व प्रक्रान्तवाक्यार्थस्याऽन्यथात्वद्योतकोऽयमाकारः । पूर्वमित्थं नामंस्था इदानीं त्वेवं मन्यसे इत्यर्थः । आ एवमिति । स्मरणद्योतकोऽयमाकारः । इहोभयत्रापि आकारस्य ङित्त्वाऽभावान्न पर्युदासः । ङित्त्विति । ङित्तु आकारः प्रगृह्रो न भवति, अनाङिति पर्युदासादित्यर्थः । ओष्णमिति । आ-उष्णमित्यत्र आकारस्य ङित्त्वात्प्रगृह्रत्वाऽभावे सति आद्गुणः । ननु प्रयोगदशायां ङकारस्याऽश्रवणाविशेषान्ङिदङिद्विवेकः कथमित्यत आह-वाक्येति । प्रक्रान्तवाक्यार्थस्यान्यथात्वे स्मरणे च अङित् । अन्यत्र=ईषदाद्यर्थे गम्ये, ङिदिति विवेकः — भेदोऽवगन्तव्य इत्यर्थः । तथाच भाष्यम्-॒ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातांङितं विद्याद्वाक्यस्मरणयोरङित्॥॑ इति॥एकोऽच् यस्ये॑ति बहुव्रीहिस्तु नाश्रितः, तथा सतिप्रेद॑मित्यादाबतिप्रसङ्गात् । Tattvabodhini ------------- **निपात एकाजनाङ्** - निपात एकाच् । निपातः किम् । अततेर्डः । अः ।हे अ आगच्छ॑ । अत्र प्रगृह्रसंज्ञा मा भूत् । एकग्रहणाऽभावेयेन विधि॑रिति सूत्रात्तदन्तलाभेप्रेद॑मित्यत्र स्यादत उक्तम् — एक इति ।एका॑जिति तु न बहुव्रीहिः, उक्तातिप्रसङ्गतादवस्थ्यात् । अतःपूर्वकालैके॑ति कर्मधारय एव । ननुनिपातोऽना॑तित्युक्ते हलन्तस्य सत्यपि प्रगृह्रत्वे प्रयोजनाऽभावादजन्ते प्राप्ते अज्ग्रहणसामर्थ्यादज्रूपस्यैव निपातस्य प्रगृह्रत्वे सिद्धे किमेकग्रहणेन । न चपुरोऽस्ती॑त्यादौ हलन्तस्य संज्ञायां सत्यां प्रकृतिभावादतो रोरितिरोरुत्वं न स्यादतोऽज्ग्रहणसामर्थ्यमुपक्षीणमित्येकग्रहणमावश्यकमिति वाच्यम्; प्रगृह्रसंज्ञां प्रति रुत्वस्याऽसिद्धतया रेफान्त[स्यैत]स्य प्रगृह्रसंज्ञाऽभावेन दोषाऽप्रसक्तेः । न च सान्तस्य कृता प्रगृह्रसंज्ञा एकदेशविकृतन्यायेन रेफान्तस्यापि स्यादेवेति प्रकृतिभावादुत्वाऽभावप्रसङ्गस्तदवस्थ इति वाच्यम्; प्रगृह्रसंज्ञां प्रतीव प्रकृतिभावं प्रत्यपि रुत्वस्याऽसिद्धत्वात्प्रकृतिभावाऽप्रवृत्तेः । सकारान्तस्य तु न किंचिदपि सिद्धकाण्डस्थं प्रयोजनं प्राप्नोति यत्प्रकृतिभावेन व्यावर्त्त्येत । न चाज्ग्रहणसामर्थ्यादजन्तस्यैव प्र परा अपेत्यादिनिपातस्य प्रगृह्रसंज्ञा स्यान्न त्वज्रूपनिपातस्यैति वैपरीत्यशङ्कानिवारणार्थमेकग्रहणमिति वाच्यम्; अनाङ्ग्रहणवैयथ्र्यापत्तेः ,व्याहरति मृग॑ इत्यादिनिर्देशविरोधाच्चोक्तशङ्काया अप्रवृत्तेः । किंचनिपातोऽजना॑ङित्युक्तेऽप्यनाङिति प्रतिषेधसामर्थ्यान्निपातस्य विशेषणत्वाभ्युपगमे तदन्तविध्यप्रवृत्त्या निपातरूपो योऽच्स प्रगृह्र इत्यर्थलाभादज्रूपस्यैव निपातस्य प्रगृह्रत्वं सिद्धमिति नास्त्येव प्रयोजनमेकग्रहणस्य । नन्वेवमपि समुदायनिवृत्त्यर्थमेकग्रहणमावश्यकमेव । अन्यथाऐउ अपेही॑त्यत्रैकाज्द्विर्वचनन्यायेन समुदायस्यैव संज्ञा स्यान्नाऽवयवानामिति चरमस्यैव प्रकृतिभावः स्यान्न तु पूर्वयोरिति चेन्न;अ॑जित्येकत्वस्य विवक्षयैव समुदायनिराससंभवात्समुदायसंज्ञयाऽवयवानामननुग्रहेणैकाज्द्विर्वचनन्यायस्याऽप्यप्रवृत्तेः । एकस्मिन्निपाते संज्ञाविधानसंभवेन निपातसमुदायस्य निपातग्रहणेनाऽग्रहणाच्च । अत्राहुर्भाष्यकाराः-॒अच्समुदायग्रहणशङ्कनिरासार्थमेकग्रहणं कुर्वन् ज्ञापयति वर्णग्रहणेषु व्यक्तिसङ्ख्या न विवक्ष्यते किंतु जातिरेव निर्दिश्यते॑ इति । तेनहलन्ताच्चे॑ति सनः कित्त्वात्दम्भ इच्चे॑तीत्त्वेधिप्सती॑त्यादि सिद्धम् । हल्ग्रहणस्य व्यक्तिपरत्वे तु योऽत्रेकः समीपो हल् नकारो, न ततः परः सन्, यस्माच्च परः सन् भकारान्नासाविकः समीप इति कित्त्वं न स्यात्, ततश्च नलोपो न स्यात् । वस्तुतस्तु अपृक्तसंज्ञायामेकग्रहणमुक्तार्थज्ञापकमित्याश्रित्य प्रकृतसूत्रे एकाज्ग्रहणं त्यक्तुं शक्यम् । त #एव मनोरमायामनाङिति पर्युदासादेवाऽज्रूषनिपाते लब्धे निपातग्रहणमुत्तरार्थं सत्स्पष्टप्रतिपत्त्यर्थमिहैव कृतमिति निपातग्रहणस्यैव प्रयोजनमुक्तं न त्वेकाज्ग्रहणस्य । अत्र नव्याः — यदुक्तं मनोरमायाम्-॒अनाङिति पर्युदासा॑दित्यादि, तच्चिन्त्यम्,ओत्सूत्रे भाष्यकारैः प्सज्यप्रतिषेधस्यैवाङ्गीकृतत्वात् । नच लभ्यभेदाऽभावात्प्रौढिवादमात्रं भाष्यमिति वाच्यम्;-अस्मादेव भाष्यवचनाल्लक्ष्यभेदोऽप्सतीति सुवचत्वात् । तथाहि-अततेर्डः-अः ।अकारो वासुदेवः स्या॑दिति वचनाद्रूढिशब्दो वा । अनेनअ॑ शब्देन सहअङ्भर्यादाभिविध्योः॑ इति आङोऽव्ययीभावे सवर्णदीर्घेअव्ययीभावश्चे॑ति नपुंसकत्वाद्ध्रस्वत्वे सोरम्यमि पूर्वे च कृतेअ॑मिति रूपं भाष्यकृत्संमतम् । तथा इणो निष्ठायामितः, वेञस्तु निष्ठायां संप्रसारणे उतः । अम् इतः-एतः, अमुतः-ओतः॑ इत्यासमुद्रक्षिति-वत्समासे रूपं च तत्संमतम् । तत्र पर्युदासपक्षे अमि पूर्वो गुणश्च न सिध्यति । अशब्दस्याङ्भिन्नत्वात्स्थानिवद्भावेन निपातत्वाच्च प्रगृह्रत्वात् । प्रसज्यप्रतिषेधाश्रये तु सिध्यति, तस्याङ्त्वेन प्रगृह्रत्वनिषेधात् । न चैतादृशप्रयोगोऽप्रामाणिक इति वक्तुं युक्तम्, प्रकृतभाष्यस्यैव प्रमाणत्वात् । अन्यथा हि भाष्यकारेङ्गितमात्रावलम्बनेन तत्र प्राचां ग्रन्थानामधिक्षेपाय भवतां प्रवृत्तयो व्याहन्योरन्नित्याद्याहुः । आङ्वर्ज इति । प्रतिषेधपक्षे तु प्रगृह्रः स्यादित्येतदुत्तरमिदं द्रष्टम् । वज्र्यत इति वर्जः । वृजेण्र्यन्तात्कर्मणि घञ् । वर्जनीय इत्यर्थः । आङो न भवतीति यावत् । आ एवमिति । पूर्वप्रक्रान्तवाक्यार्थस्य अन्यथात्वद्योतकोऽयमाकारः । पूर्वमित्थं नामंस्था इदानीं त्वेवं मन्यसे इत्यर्थः । आ एवं किलेति । स्मरणद्योतकोऽयमाकारः । वाक्यस्मरणयोरित्यादि । अत्रायमाशयः-॒ईषदर्थे क्रियायोगेमर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ।॑ इति भाष्यस्याऽङिल्लक्षण एव तात्पर्यं, लाघवात् । अन्यस्य ङित्त्वं त्वर्थसिद्धम् ।ईषदर्थ#ए-॑इत्यादिस्त्वेकदेशानुवादः । एवंचअभ्र आँ अप॑इत्यत्र सप्तम्यर्थवृत्तेरप्याकारस्य ङित्त्वात्आङोऽनुनासिकश्छन्दसी॑ति प्रवर्तत इति । Padamanjari ----------- ' व्याहरति मृगः', 'व्यवहृपणोः समर्थयोः' इति निर्देशादेकाजिति कर्मधारयः, न बहुव्रीहिरित्याह-एकश्चासाविति । यद्येवम्, तएकग्रहणमनर्थकम्, निपातोऽजित्येवास्तु, तत्र निपातेनाज् विशिष्यते । निपातसंज्ञकोऽजिति विपर्ययस्तु न भवति; 'अजन्तो निपातः' इति व्यावर्त्याभावाद् हलन्तानां सत्यसति वा प्रगृह्यत्वे विशेषाभावात् । ननु पुरोस्तीति हलन्तस्य प्रकृतिभावाद्रो रुत्वं न स्यात्,नैतदस्ति; प्रगृह्यसंज्ञायां रुत्वस्यासिद्धत्वात्, सकारस्य च कार्यान्तराप्रसङ्गात् । ननु चेदमस्ति प्रयोजनमचा निपातस्य विशेषणे किम् ? अजन्तस्य यथा स्याद्, अज्मात्रस्य मा भूत् इति । एवं सत्यनाङित्यनर्थकं स्यात्, अतो निपातेनाज् विशेष्यते, नार्थ एकग्रहणेन, न; अच्समुदायनिवृत्यर्थं तर्ह्येकग्रहणम् ऐउ अपेहीति समुदायस्यैव स्याद्, नावयवानाम्; एकाज्द्विर्वचनवदजन्तस्यैव प्रकृतिभावः स्यात्, पूर्वयोस्तु स्वरसन्धिः स्यात् । ननु च निपातोऽजिति चैकत्वस्य विवक्षितत्वात् समुदायस्य न भविष्यति, एवं तर्ह्यच्समुदायग्रहणशङ्कानिरासार्थमेकग्रहणं कुर्वन् ज्ञापयति-'वर्णानिर्द्देशेषु व्यक्तिसंख्या न विवक्ष्यते, जातिरेव निर्द्दिश्यते' इति । तेन दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धमित्युपपन्नं भवति । निपात इति किमिति । निपातस्यैवैकाचोऽर्थवत्वसम्भव इति प्रश्नः । चकारारात्रेति - कृञो लिटि तिपो णल् । अन्वयव्यतिरेकाभ्यां प्रत्ययस्याप्यर्थवत्वमिति भावः । आकारोऽत्र ङिद्विशिष्ट उपातः, प्रयोगे च न क्वचिन् ङ्कारः श्रूयते । अतोऽर्थवशेन इङ्त्वाइङ्त्वे व्यवस्थापयति । ईषदर्थ इत्यादि । ईषदर्थे-आ अ उष्णाः उ ओष्णः । आङीषदर्थ इति चोक्तम् । क्रियायोगे - आ अ इतः उ एतः । प्रादिषु पठितः । मर्यादाभिविधौ चेति । समाहारद्वन्द्व आगमस्यानित्यत्वान्नुमभावः । मर्यादासहितो वाऽभिविधिः । मर्यादायाम्- आ अ उदकान्ताद् उ ओदकान्तात् । अभिविधौ - आ अ अहिच्छत्राद् उआहिच्छत्रात् । आह च - 'विना तेन मर्यादा, सह तेन इत्यभिविधिः' । 'आङ्मर्यादाभिविध्योः' इति च ङिन्निर्द्दिष्टः पूर्वप्रक्रान्तस्य वाक्यस्यान्यथात्वद्योतनाय आकारः प्रयुज्यते-आ एवं नु मन्यसे, नैवं पूर्वममंस्थाः, संप्रति त्वेवं मन्यसे इति । तथा स्मृतेः सूचकः आकारः प्रयुज्यते, ततः स्मृतोऽर्थो निर्दिश्यते-आ एवं किल तदिति ॥ Nyaas ----- एकाजिति बहुव्रीहिर्वाऽयं स्यात्,कर्मधारयो वा? यदि बहुव्रीहिः, प्रशब्द-स्यापि प्रगृह्रसञ्ज्ञा स्यात्। ततश्च `प्रोपाभ्याम्` (1.3.42) इति निर्देशो नोपप-द्येत, प्राग्नय इति च प्रत्युदाहरणम्। तस्मात् कर्मधारयोऽयमिति मनसि कृत्वाह- `एकश्चासावच्छेत्येकाच्` इति। `अ अपेहि` इत्यादीनि त्रीणि च्छान्दसान्युदाहरणानि; इतरत् तु लौकिकम्। तत्र `आ एवं नु मन्यसे` इत्यत्राकारो वाक्यापरिपूरणार्थः। `आ एवं किल तत्` इत्यत्र तु स्मरणार्थः। `चकारात्र` इति। करोतेर्लिट्। `परस्मैपदानाम्` (3.4.82) इत्यादिना तिपो णल्, वृद्धिः, रपरत्वम्। **द्विर्वचनेऽचि** (1.1.59) इतिस्थानिवद्भावेन द्विर्वचनम्। उरत्त्वम् (7.4.66) । **कुहोश्चुः** (7.4.62) इति चुत्वम्। भवत्ययं णलकार एकाच्, न तु निपातः।`प्राग्नये` इति। प्रशब्दो भवति निपातः, न त्वेकाच्। तेन **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इति प्रकृतिभावो न भवति। **अकः सवर्णे दीर्घः** (6.1.101) इति दीर्घत्वं तु भवत्येव।आकारोऽत्र हि ङिद्विशिष्ट उपात्तः, तस्य न ज्ञायते- क्व च ङित्त्वम्, क्व च नेति। अतो ङित्त्वाङित्त्वयोर्विषयविभागप्रदर्शनार्थमाह- `ईषदर्थे` इत्यादि।तत्रेषदर्थे-आ-उष्णम्- ओष्णमिति।ईषदुष्णमित्यर्थः। क्रियायोगे उपसर्गसञ्ज्ञायां ङिद्विशिष्ट एव पठते।प्रपरापसमन्ववनिर्दुव्र्याङन्यधयोऽप्यतिसूदभयश्च।प्रतिना सह लक्षयितव्याः पर्युपयोरपि लक्षणमत्र॥ इति।आ इहि- एहि। आ अत्ति= आत्ति। मर्यादाभिविध्योरपि ङिद्विशिष्ट एव पठते, `आह मर्यादाभिविध्योः` (2।113) इति। मर्यादा= ,सीमा; अवधिः। आ उदकान्तात्= ओदकान्तात्प्रियं प्रोधमनुव्रजेत्। अभिविधिः = अभिव्याप्तिः। आ अहिच्छत्रात्, आहिच्छत्रं वृष्टो देवः। अहिच्छत्रं गृहीत्वा वृष्टो देव इत्यर्थः। ङिद्विशिष्टस्य `अनाङ` इति प्रगृह्रसञ्ज्ञाप्रतिषेधात् स्वरसन्धिर्भवति। अथ `एतमातम्` इत्यत्रैतदः `द्वितोयाटौस्त्वेनः` (2.4.35) इत्येनादेशः कस्मान्न भवति? `अन्वादेशे` इति तत्रानुवर्तते। अस्ति चेहान्वादेश इत्यस्ति प्राप्तिः? यथा न भवति तथा तत्रैव प्रकरणे वृत्तिकारः स्वयमेव वक्ष्यतीति(का।162) पुनरिह नोच्यते। `आतम्` इति। आकारे तकारो मुखसुखार्थः। ये तु पुरेतमाङमिति ङकारसहितमाकारं पठन्ति तेषां ङितं विद्यादिति वचनमनर्थकं स्यात्; ङकारसहितस्य पाठादेव ङित्त्वविज्ञानात्। तस्मात् तकारपर एवायमाकारः पठितव्यः। `वाक्यस्मरणयोः` इति। वाक्यशब्देन वाक्यार्थ उक्तः; अबिधेयेऽभिधानोपचारात्। प्रक्रान्तं हि वाक्यार्थं किञ्चिदपेक्ष्येदं प्रयुज्यते- `आ एवं नु मन्यसे` इति। एवमयं वाक्यार्थो विज्ञायत इत्य्रथः। पूर्वप्रक्रान्तवाक्यार्थप्रदर्शनपरोऽयमाकारः प्रयुक्तः। अथ वा- पूर्वप्रक्रान्तवाक्यार्थस्यान्यथाकरणमिदं प्रयुज्यते, `आ एवं नु मन्यसे` इति, नैवं पूर्वममंस्थाः, सम्प्रति त्वेवं मन्यस इति। अथ वा- वाक्याशब्देन वाक्यमेवोच्यते, वाक्यावयवो निरर्थक एवाकारः प्रयुज्यत इति। स्मरणं स्मृतिः, तत्र य आकारो वर्तते स्मृतिसूचकः,स ङिन्न भवति। `आ एवं किल तत्`, एवमिदं विज्ञातमित्यर्थः। ज्ञातं स्मृतमेव। अथ वा- स्मर्तव्यार्थविषयः पूर्वमाकारः प्रयुज्यते। `आ` इति स्मतेरुत्तरकालमर्थ आख्यायते। `आ` इत्येतस्यैवं किल तदिति भवत्ययमर्थ इत्यर्थः। वाक्यस्मरणयोराकारस्य प्रगृह्रसञ्ज्ञास्त्येवेति **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इति प्रकृतिभावः। तेन **वृद्धिरेचि** (6.1.88) इति वृद्धिर्न भवति। Praudhamanorama --------------- अनाङिति पर्युदासादेवाज्रूपनिपाते लब्धे निपातग्रहणमुत्तरार्थं स्पष्टार्थमिहैव कृतम्। **आ एवमिति।** पूर्वं प्रक्रान्तस्य वाक्यार्थस्यान्यथात्वद्योतकोऽयमाकारः। पूर्वमित्थं नामंस्था इदानीं त्वेवं मन्यसे इत्यर्थः। **आ एवं किलेति।** स्मरणद्योतकोऽयमाकारः। **वाक्येत्यादि।** तथा च भाष्यम्— ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित्॥1॥इति। अत्र अङिल्लक्षण एव तात्पर्यं लाघवात्। अन्यस्य ङित्त्वं त्वर्थसिद्धम्। ईषदर्थेत्यादिस्तु अवयुत्यानुवादः। एवं च अभ्र आँ अप इत्यत्र सप्तम्यर्थवृत्तेरप्याकारस्य ङित्वात् **आङोऽनुनासिकश्छन्दसि** (6.1.126) इति प्रवर्तत इति भावः॥ Prakriyasarvasvam ----------------- केवलाज्रूप आङ्वर्जितो निपातः प्रगृह्याख्यः । अ अपेहि । ऐ आगच्छ । क्षेपानुनयावर्थौ । अनाडित्युक्तेराङः सन्धिरस्ति । आ शब्दस्य तु प्रगृह्यत्वाद- सन्धिरेव । *“ईषदर्थंक्रियायोगमर्यादाभिविधिष्विह । आकारो ङिदिति प्राहुर्वाक्यस्मरणयोरङित् ॥ ४१ ॥ ईषदर्थे भवेदोष्णमाइनातीति क्रियायुतौ । मर्यादायामार्णवात् भूः परस्मिन्नाच्युतात् सुराः ॥ ४२ ॥ पूर्वोक्तवाक्यान्यथात्वसूचनावाक्यमुच्यते । आ एवं वदसीदानीं प्राङ नैवमिति सूच्यते ॥ ४३ ॥ प्रसादे तु द्विधा प्रोक्तं वाक्यालङ्कार एव वा । वाक्यं स्यात् पूर्ववाक्यार्थपरामर्शनमेव वा ॥ ४४ ॥ वाक्यालङ्कारमात्रेऽर्थे शश्वदा अच्युतं भजे । पूर्वोक्तस्य परामर्शे त्वेतदा उपपद्यते ॥ ४५ ॥ अर्थस्य स्मर्यमाणत्वसूचनं स्मरणं भवेत् । आ इदं गुरुणोक्तं प्रागिति ब्रूते स्मरन्नसौ ॥ ४६ ॥ Sarala ------ **ईदूदेद्द्विवचनं प्रगृह्यम्** (१.१.११) इत्यतः "प्रगृह्यम्" इत्यनुवर्तते, "एकाच्" इति च कर्मधारयः - इत्येतदभिप्रायेणाह - **एकोजिति** । **ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥** ॥ Sudha ----- **इ इन्द्र इति ।** "इ-इन्द्र" इत्यत्र इकारस्य **चादयोऽसत्त्वे** (1.4.57) इत्यनेन निपातसंज्ञायाम् **निपात एकाजनाङ्** (1.1.14) इत्यनेन प्रगृह्यसंज्ञायाम् **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इत्यनेन प्रकृतिभावे "इ इन्द्र" इति भवति । स एव प्रकारो "उ उमेशः" इत्यत्र विज्ञेयः । **आ एवमिति ।** ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥ इति । प्रकृते " आ एवं नु मन्यसे" इत्यस्य वाक्यार्थत्वात्, "आ एवं किल तत्" इत्यस्य स्मरणार्थकत्वाच्च अङित्त्वेन **निपात एकाजनाङ्** (1.1.14) इत्यनेन आ इत्यस्य प्रगृह्यत्वे **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इत्यनेन प्रकृतिभावे सति रूपम् । **अन्यत्रेति । ** वाक्यस्मरणार्थकभिन्ने इत्यर्थः । तेन ईषदर्थक-आ-इत्यस्य ङित्त्वात् प्रगृह्यसंज्ञाभावे प्रकृतिभावाभावेन **आद्गुणः** (6.1.87) इत्यनेन गुणे "आ-ईषद् उष्णम्, ओष्णम्" इति जायते ॥