11010: नाज्झलौ ============== **Padacheda:** न | S | 0 | 0 | अच्-हलौ | S | 1 | 2 | Sutrartha --------- **स्वराः तथा व्यञ्जनानि परस्पराणाम् सवर्णानि न भवन्ति ।** ययोः वर्णयोः मुखस्थितम् उच्चारणस्थानम् तथा च आभ्यन्तरप्रयत्नः - एतौ परस्पराभ्यां सह समानौ स्तः, तयोः **तुल्यास्यप्रयत्नं सवर्णम्** (1.1.9) अनेन सूत्रेण 'सवर्णसंज्ञा' दीयते । **तुल्यास्यप्रयत्नं सवर्णम्** (1.1.9) इत्यस्य आधारेण तु अवर्ण-हकारयोः, इवर्ण-शकारयोः, ऋवर्ण-षकारयोः, ऌवर्ण-सकारयोः अपि सावर्ण्यम् विधीयते । परन्तु तादृशं सावर्ण्यम् न इष्यते, अतः तस्य निषेधं कर्तुम् पाणिनिना वर्तमानसूत्रम् पाठितम् अस्ति । अतः इदम् **सवर्णसंज्ञानिषेधसूत्रम्** । स्वराः तथा व्यञ्जनानि परस्पराणाम् सवर्णाः न भवन्ति इति — अस्य सूत्रस्य आशयः । इत्युक्ते, स्वराणाम् सावर्ण्यम् अन्यैः स्वरैः सह एव भवितुं शक्यते; तथैव च व्यञ्जनानाम् सावर्ण्यम् अपि केवलं अन्यैः व्यञ्जनैः सह एव भवितुं शक्यते । अतः, यद्यपि अकार-हकारयोः उच्चारणस्थानम् आभ्यन्तरप्रयत्नः च समानौ स्तः, तथापि तौ सवर्णौ न स्तः । तथैव, इवर्ण-शकारौ, ऋवर्ण-षकारौ, ऌवर्ण-सकारौ अपि सवर्णौ न स्तः । अतएव, 'अहम्', 'दिशति', 'तृष्णा' इत्यादिषु शब्देषु (यथासङ्ख्यम्) शब्दे अकारस्य हकारेण सह, इकारस्य शकारेण सह, ऋकारस्य च षकारेण सह **अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः न सम्भवति । **आकारहकारयोः सावर्ण्यनिषेधः** **वस्तुतस्तु अस्मिन् सूत्रे विद्यमानेन 'अच्' इति प्रत्याहारेण केवलं माहेश्वरसूत्रे साक्षात् विद्यमानाः स्वराः (अ, इ, उ, ऋ, ऌ, ए, ऐ,ओ, औ) एव गृह्यन्ते । अन्येषाम् स्वराणाम् (आ, ई, ऊ, ॠ एतेषाम् तथा च सर्वेषाम् स्वराणाम् प्लुतभेदानाम्) अत्र 'अच्' इत्यनेन ग्रहणं न भवति** । इत्युक्ते, **तुल्यास्यप्रयत्नं सवर्णम्** (1.1.9) इत्यनेन प्राप्तम् अकार-हकारयोः सावर्ण्यम् यद्यपि अनेन सूत्रेण निवार्यते, तथापि तत्र प्राप्तम् आकार-हकारयोः सावर्ण्यम्, एवमेव ईकार-शकारयोः तथा ॠकार-षकारयोः सावर्ण्यं तु वर्तमानसूत्रेण नैव निवार्यते । (ऌकारस्य दीर्घभेदः नास्ति अतः तस्य विषये दोषः न वर्तते ।) एतादृशेन अनिष्ट-सावर्ण्यविधानेन तदा एव दोषः उद्भवति यदा सवर्णग्रहणसमये एकेन वर्णेन अपरस्य वर्णस्य ग्रहणम् सम्भवति । तत्र ईकार-शकारयोः विषये, तथा च ॠकार-षकारयोः विषये एतादृशम् परस्पराणाम् सवर्णग्रहणं नैव सम्भवति, यतः सवर्णग्रहणविधायके **अणुदित् सवर्णस्य चाप्रत्ययः** (1.1.69) इति सूत्रे विद्यमानेन अण्-प्रत्याहारेण ईकारस्य/शकारस्य/ॠकारस्य/षकारस्य वा निर्देशः एव न क्रियते । इत्युक्ते, व्याकरणशास्त्रे कुत्रापि ईकारग्रहणेन शकारग्रहण्, शकारग्रहणेन वा ईकारग्रहणम्, एवमेव ऋकारग्रहणेन षकारग्रहणम्, अथ वा षकारग्रहणेन ऋकारग्रहणम् न हि सम्भवति । अतः ईकार-शकारयोः, एवमेव ॠकार-षकारयोः अनिष्टम् सावर्ण्यं विद्यते चेदपि व्याकरणशास्त्रे न कुत्रचित् दोषाय । परन्तु, आकार-हकारस्य सावर्णं न निवार्यते चेत् व्याकरणशास्त्रे दोषः अवश्यम् आपतति, यतः यद्यपि **अणुदित् सवर्णस्य चाप्रत्ययः** (1.1.69) इति सूत्रे विद्यमानेन अण्-प्रत्याहारेण आकारस्य निर्देशः न क्रियते (अतश्च आकारेण हकारस्य ग्रहणं नैव सम्भवति), तथापि अण्-प्रत्याहारे हकारः अवश्यं विद्यते, अतः हकारग्रहणेन आकारस्य अनिष्टं ग्रहणम् अवश्यम् सम्भवति । एतादृशम् हकारेण आकारस्य ग्रहणं क्रियते चेत्, **हो ढः** (8.2.31) इति सूत्रेण विद्यमानेन हकारेण आकारस्यापि ग्रहणे कृते, 'विश्वपा' शब्दस्य तृतीयाबहुवचने 'विश्वपा + भिस्' इत्यत्र **हो ढः** (8.2.31) इति सूत्रेण आकारस्य अपि (झलि परे) अनिष्टं ढत्वं भवेत् । अस्य दोषस्य निराकरणार्थम् सिद्धान्तकौमुद्यां भट्टोजीदीक्षितः **नाज्झलौ** (1.1.10) इति सूत्रस्य पदविग्रहं 'न + **आ** + अच् + हलौ' इति आकारप्रश्लेषं कृत्वा सम्पादयति, येन — आकारस्य अच्-वर्णस्य च हल्-वर्णेन सह सावर्ण्यं न विद्यते — इति अर्थः फलति । एतादृशम् अर्थं कृत्वा आकारस्य हकारेण सह सावर्ण्यं निवार्यते, येन हकारग्रहणेन आकारग्रहणस्य अनिष्टापत्तेः अपि निवारणं भवति ।अस्मिन् विषये अस्मिन् लेखे विस्तरेण चर्चा कृता अस्ति, सा तत्रैव दृश्यताम् । **महाभाष्ये नाज्झलौ सूत्रस्य प्रत्याख्यानम्** महाभाष्ये भाष्यकारेण स्वराणाम् आभ्यन्तरप्रयत्नः 'विवृतः' तथा च ऊष्मणाम् आभ्यन्तरप्रयत्नः 'ईषद्विवृतः' इति उक्तः अस्ति । अस्याम् स्थितौ स्वरव्यञ्जनयोः सावर्ण्यम् तादृशमेव निवार्यते, अत च **नाज्झलौ** (1.1.10) इत्यस्य सूत्रस्य आवश्यकता अपि नास्ति । अतः अस्य सूत्रस्य व्याख्याने कैयटः अपि 'सूत्रप्रत्याख्यानसाधारणमुक्तम्' इति निर्देशेन इदं सूत्रं प्रत्याचख्यौ । Sutrartha (English) ------------------- A स्वर and a व्यञ्जन cannot be सवर्ण of each other. Vasu English Summary -------------------- There is however no homogeneity between vowels and consonants, though their place and effort be equal. Vasu English Translation ------------------------ There is however no homogeneity between vowels and consonants, though their place and effort be equal. This *sutra* lays down an exception to the former *sutra*. There can be no homogeneity or *savarna* relationship between vowels and consonants, though their आस्य and प्रयत्न may be the same. Thus इ and श have the same आस्य namely तालु 'palate,' and the same प्रयत्नः namely *vivrita*, but still they are not to be called *savarna*. Thus in दण्डहस्त, दधिशीतलं &c., the letters अ and ह in the first example, and इ and श in the second not being homogeneous letters; there is no combination or *sandhi*, which would otherwise have taken place. Similarly if श and इ be held homogeneous, then विपाश+अण् (4.3.53) = विपाश्+अण् (6.4.148); here श would be elided by (6.4.148), but it is not so and we have वैपाशः "belonging to *vipåså* or born therein." So also in आनडुहं "ox-skin," the ह would have been omitted, if held homogeneous with अ. Bhashya ------- नाज्झलौ ॥ अज्झलोः प्रतिषेधे शकारप्रतिषेधोऽज्झलत्वात् । अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसञ्ज्ञायाः प्रतिषेधः प्राप्नोति। किं कारणम्? अज्झल्त्वात्। अच्चैव हि शकारो हल् च। कथं तावदच्त्वम्? इकारः सवर्णग्रहणेन शकारमपि गृह्णातीत्येवमच्त्वम्। हल्षु चोपदेशाद्हल्त्वम्। तत्र को दोषः? तत्र सवर्णलोपे दोषः। तत्र सवर्णलोपे दोषो भवति। परश्शतानि कार्याणि - झरो झरि सवर्णे इति लोपो न प्राप्नोति । ॥ सिद्धमनच्त्वात् । सिद्धमेतत्। कथम्? अनच्त्वात्। कथमनच्त्वम्? स्पृष्टं स्पर्शानां करणं। इर्षत्स्पृष्टमन्तस्थानाम्। विवृतमूष्मणाम्। इर्षदित्येवानुवर्तते। स्वराणां च विवृतम्। इर्षदिति निवृत्तम् । ॥ वाक्यापरिसमाप्तेर्वा । वाक्यापरिसमाप्तेर्वा पुनः सिद्धमेतत्। किमिदं वाक्यापरिसमाप्तेरिति। वर्णानामुपदेशस्तावत्। उपदेशोत्तरकाला इत्संज्ञा। इत्संज्ञोत्तरकाल आदिरन्त्येन सहेतेति प्रत्याहारः। प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा। सवर्णसंज्ञोत्तरकालमणुदित्सवर्णस्य चाप्रत्यय इति सवर्णग्रहणम्। एतेन सर्वेण समुदितेन वाक्येनान्यत्र सवर्णानां ग्रहणं भवति। न चात्रेकारः शकारं गृह्णाति । यथैव तर्हीकारः शकारं न गृह्णाति एवमीकारमपि न गृह्णीयात्, तत्र को दोषः। कुमारी- इर्हते कुमारीहते। अकः सवर्णे दीर्घः इति दीर्घत्वं न प्राप्नोति । नैष दोषः। यदेतदकः सवर्णे इत्यत्र प्रत्याहारग्रहणं तत्रेकारः ईकारं गृह्णाति शकारं न गृह्णाति । अपर आह। ॥ अज्झलोः प्रतिषेधे शकारप्रतिषेधोऽज्झल्त्वात् ॥। अज्झलोः प्रतिषेधे शकारस्य शकारेण सवर्णसञ्ज्ञायाः प्रतिषेधः प्राप्नोति। किं कारणम्? अज्झल्त्वात्। अच्चैव हि शकारो हल् च। कथं तावदच्त्वम्। इकारः सवर्णग्रहणेन शकारमपि गृह्णातीत्येवमच्त्वम्। हल्षूपदेशाद् हलत्वम्। तत्र को दोषः। तत्र सवर्णलोपे दोषः। तत्र सवर्णलोपे दोषो भवति। परश्शतानि कार्याणि। झरोझरि सवर्णे इति लोपो न प्राप्नोति। सिद्धमनच्त्वात्। सिद्धमेतत्। कथम्। अनच्त्वात्। कथमनच्त्वम्। वाक्यापरिसमाप्तेर्वा। उक्ता वाक्यापरिसमाप्तिः । अस्मिन् पक्षे वेत्येतदसमर्थितं भवति । एतच्च समर्थितम्। कथम्। अस्तु वा शकारस्य शकारेण सवर्णसञ्ज्ञा मा वा भूत्। ननु चोक्तं परश्शतानि कार्याणि। झरो झरि सवर्णे इति लोपो न प्राप्नोतीति। मा भूल्लोपः । ननु च भेदो भवति। सति लोपे द्विशकारकम्। असति लोपे त्रिशकारकम्। नास्ति भेदः। असत्यपि लोपे द्विशकारकमेव। कथम्। विभाषा द्विर्वचनम्। एवमपि भेदः। असति लोपे कदाचिद् द्विशकारकं कदाचित् त्रिशकारकम्। सति लोपे द्विशकारकमेव। स एष कथं भेदो न ? स्याद् यदि नित्यो लोपः स्यात्। विभाषा तु स लोपः। यथाऽभेदस्तथास्तु । इति चतुर्थमाह्निकम् । अथ पञ्चमाह्निकम् Kashika ------- अच्च हल् च अज्झलौ। तुल्यास्यप्रयत्नावपि अज्झलौ परस्परं सवर्णसंज्ञौ न भवतः। अवर्णहकारौ — दण्डहस्तः। इवर्णशकारौ — दधि शीतम् । सवर्णदीर्घत्वं न भवति। वैपाशो मत्स्यः। आनडुहं चर्मेति **यस्येति च** (६.४.१४८) इति लोपो न भवति॥ Siddhanta Kaumudi ----------------- आकारसहितोऽच् आच् स च हल् चेत्येतौ मिथः सवर्णौ न स्तः । तेन दधीत्यस्य हरति शीतलं षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न । अन्यथा दीर्घादीनामिव हकारादीनामपि ग्रहणकशास्त्रबलादच्त्वं स्यात् ॥ तथा हि ॥ Laghu Shabdendushekhar ---------------------- सूत्रे द्विवचनोपपत्तये मध्यमपदलोपिसमासं दर्शयति-**आकारसहित इति** । अत एव 'वेलास्वि'ति निर्देश उपपद्यते । समाहारद्वन्द्वे तु टच्प्रसङ्गः, अज्झलिति समाहारद्वन्द्वं कृत्वा आपदेन द्वन्द्वे तु अज्भिरप्याकारस्य सावर्ण्यं न स्यादिति भावः । अत एव भाष्ये प्रयत्नभेदेनैषां सावर्ण्याभावः साधितः । एतेषु परेष्विति । इदमुपलक्षणम्- 'एतेषु विद्यमानस्ये'त्यपि बोद्ध्यम्, तेन हकारादीनामकारादिषु परतो दीर्घादिसङ्ग्रहः । **अच्त्वं स्यादिति** । अच्पदबोद्ध्यत्वं स्यादित्यर्थः । इदं **प्रत्याहारघटकेष्वपि ग्राहकशास्त्रप्रवृत्तिः** इति मते व्यक्तिपक्षे च बोध्यम् । Balamanorama ------------ **नाज्झलौ** - एवं प्राप्ते प्रतिषेधति — नाज्झलौ । आसहितः अच्-आच् । शाकपार्थिवादित्वात्सहितशब्दस्य लोपः । आ च हस्व-आज्झलौ । तुस्यास्यसूत्रात्सवर्णमित्यनुवर्तते । तच्च पुंलिङ्गाद्विवचनान्ततया विपरिणम्यते । तदाह — अकारसहितोऽजित्यादिना । ननु किमर्थोऽयं प्रतिषेध इत्यत आह — तेनेत्यादि यणादिकं नेत्यन्तम् । तेन=प्रतिषेधेन । आदिना सवर्णदीर्घसङ्ग्रहः । दधीति इकारस्य हकारे षकारे सकारे च परे 'इको यणचि' इति यणादेशः, शीतलमित्यत्र शकारे परे सवर्णदीर्घश्च न भवतीत्यर्थः । नन्वस्त्वकारहकारयोरिकारशकारयोरृकारषकारयोर्ऌकारसकारयोश्च सावण्र्यं, तथापिदधि षष्ठ॑मित्यादौ यणादिकं न प्रसक्तम्, अचपरकत्वाऽभावादित्यत आह — अन्यथेत्यादिना । अन्यथा=तेषां सावण्र्याभ्युपगमे, दीर्घादीनामिव हकारादीनामप्यच्त्वं स्यादित्यन्वयः । ननु वर्णसमाम्नाये हकारादीनामकारचकारमध्यगत्वाऽभावात्कथमच्त्वमित्यत आह-ग्रहणकशास्त्रबलादिति । गृह्णन्त्यकारादयः स्वसवर्णान् येन तद्ग्रहणम् । करणे ल्युट् । स्वार्थे कः । अणुदित्सूत्रादित्यर्थः । यद्यप्यच्छब्द०वाच्यत्वं वार्णसमाम्नायिकानामेव वर्णानान्तथापीको यणचीत्यादावच्छब्देनाऽकारादिषूपस्थितेषु तैरणुदित्सूत्रबलेन स्वस्वसवर्णानामाकारादीनामुपस्थितिरस्ति । ततश्चाऽत्राच्पदवाच्याकारादिवाच्यत्वादाकारादीनामिव हकारादीनामपि लक्षणया अच्छब्देन ग्रहणं स्यादित्यर्थः । न च इको यणचीत्यादौ शक्यार्थमादायैवोपपत्तेर्न लक्षणासंभवः । अणुदित्सूत्रे तु अस्य च्वावित्यादौ सावकाशमिति वाच्यं, स्वादिभ्य इत्यादिनिर्देशबलेन प्रत्याहाराणां स्ववाच्यवाच्येषु लक्षणाऽवश्यंभावात् । तथा चअच्त्वं स्या॑दित्यस्य अचपदबोध्यत्वं स्यादित्यर्थः । किं तद्ग्रहणकशास्त्रमित्याकाङ्क्षायां तदुपपादनं प्रतिजानीते-तथा हीति । Padamanjari ----------- अत्राज्झलौ न केनापि सवर्णसंज्ञौ भवत इति तावदर्थो न भवति; संज्ञाया निर्विषयत्वात् । एतावन्तो वर्णा अचश्च हलश्च । नाप्यचामज्भिर्हलां हल्भिः सवर्णत्वनिषेधः; अत एव निर्देशात् । अन्यथाऽकारस्याकारे दीर्घो न स्यान्नाजिति, नाप्यज्झलाविति पूर्वसवर्णः । तस्मादचां हलां च मिथः सवर्णसंज्ञा निषिध्यते । तत्र च यद्यपि ङाज्झलौ' इति सामान्येनोक्तम्, तथाप्यकारहकारयोरिकारशकारयोश्च प्राप्तिरिति तत्रैव निषेधः । यद्येवम्, नाण्शलाविति वक्तव्यम् ? न तावदेवं लाघवे विशेषः । किं च प्रागुक्तं पक्षद्वयं सम्भाव्येत । ऽअच्च हल् चेऽति । अनेन नात्राज्झलोर्निर्देश इति दर्शयति । तत्रापि न दोषः कश्चित्, किन्तु पक्षान्तरसम्भावनैव । तुल्यास्यप्रयत्नाविति प्रसङ्गे हेतुमाह । सवर्णदीर्घत्वं न भवतीति प्रतिषेधस्य फलं दर्शयति । ननु दीर्घविधावचीत्यनुवर्तते, तच्चावश्यमनुवर्त्यम्, कुमारी शेते इत्यत्र मा भूदिति, न ह्यात्रानेन निषेधः सिद्ध्यति । किं कारणम् ? वाक्यापरिसमाप्तेः । इह हि वर्णानामुपदेशः पूर्वम्, तत इत्संज्ञा, ततः 'आदिरन्त्येन सहेता' इति प्रत्याहारः, ततः ङाज्झलौ' इत्यस्य निष्पतिः, तस्मिंश्च निष्पन्ने सत्यपवादविषयपरिहअरेणेष्टविषये सवर्णसंज्ञा प्रवर्तते, न त्वेतत्सूत्रनिष्पतिसमये । ततश्च 'अणुदित्सवर्णस्य च' इत्येतत् स्वाङ्गभूतेषु उपदेशेत्संज्ञाप्रत्याहारसवर्णत्वेषु निष्पन्नेषु 'अस्य च्वौ' इत्यादिषु वर्तते, न त्वङ्गेषूपदेशादिष्विति ङाज्झलौ' इत्यगृहीतसवर्णानामचां ग्रहणमिति सिद्धम् । अवश्यं चागृहीतसवर्णानामेवाचां ग्रहणमेष्टव्यम्, अन्यथा ह्यजिति गृह्यमाण इकारः शकारस्य? ग्राहकः स्यात् । न चास्मिन्नपि सूत्रेऽयमेव निषेधः, स्वात्मनि क्रियाविरोधात् । अतोऽज्ग्रहणेनापि शकारस्य ग्रहणम्, हल्षु चोपदेशाद्धल्ग्रहणेनापीति शकारद्वयस्य मिथः सवर्णसंज्ञा न स्यात् । ततश्च 'परःशतानि कार्याणि' इत्यत्र शतात्पराणि, शतादधिकानीति विगृह्य 'कर्तृकरणे कृता बहुलम्' इति बहुलवचनात्समासे पारस्करादित्वात्सुटि कृते 'अनचि च' इति शकारस्य द्विर्वचने परश्श्शतानीति स्थिते मध्यमस्य शकारस्य 'झरो झरि सवर्णे' इति लोपो न स्यादिति सर्वदा शकारत्रयश्रवणप्रसङ्गः । अतोऽगृहीतसवर्णानामचां ग्रहणादीकारशकारयोरप्रतिषिद्धं सवर्णत्वमिति 'कुमारी शेते' इत्यत्र मा भूदिति दीर्घविधौ 'अचि ' इत्यनुवर्त्यं तदनुवृत्तिसामर्थ्याच्चाजेव योऽज् न कथञ्चन हल्, तत्रैव दीर्घत्वविज्ञानाद्धकारशकारयोरकारेकाराभ्यां सावर्ण्येन ग्रहणादच्त्वे सत्यपि हल्त्वस्यापि भावाद्दीर्घाभावः सिद्धः, सत्यम्; अज्ग्रहणमप्यन्यार्थमनुवर्त्यम्, इदमपि वैपाशो मत्स्यः, आनडुहं चर्म्मेत्यत्र यस्येति लोपाभावार्थं कर्तव्यं दण्डहस्तो दधिशीतमित्येतदुभयथापि सिद्ध्यतीति प्रदर्शनार्थमुदाहरणद्वयमुपन्यस्तम् । ऽवैपाशा ऽइति -भवार्थेऽण् । ऽआनडुहमिऽति-विकारे 'प्राणिरजतादिभ्योऽञ्' ॥ Nyaas ----- `तुल्यास्यप्रयत्नावपि` इति प्रसङ्गे हेतुमाह, प्रसङ्गपूर्वकत्वात् प्रतिषेधस्य। `दण्डहस्त` इत्यत्राकारहकारयोद्र्वयोरपि कण्ठस्थानत्वात् तुल्यस्थानत्वम्, उभयोर्विवृतकरणत्वात् तुल्यप्रयत्नत्वम्; `दधि शीतम्` इत्यत्राप्यत एव तुल्युप्रयत्नत्वम्, उभयोस्तालव्यत्वात् तुल्यस्थानत्वम्। `सवर्णदीर्घत्वं न भवति` इति प्रतिषेध-स्य फलं दर्शयति। ननु च अकः सवर्णे दीर्घविधौ (6.1.97) `अचि`; इति वर्तते, तत्रासत्यपि प्रतिषेधे दीर्घत्वं न भविष्यति, यथा- कुमारी शेते इत्यत्र, तदयुक्तमे-वोदाहरणद्वयम्। स्यादेतत्- **अणुदित् सवर्णस्य चाप्रत्ययः** (1.1.69) इत्यकारेका-राभ्यां सावण्र्येन ग्रहणादच्त्वमस्ति, तथापि हल्षूपदेशाद् हल्त्वमप्यस्तीति न तावद्धकारश्कारवचावेव, अपि तु हलावपीति, सत्यमेतत्। अयं पुनरत्र वृत्तिकारस्याभिप्रायः- अवश्यं तावदन्यार्थं **नाज्झलौ** (1.1.10) इत्येतत् कर्तव्यम्, यस्येति लोपा-भावार्थम्। तदन्यार्थं कृतमेतदर्थमपि स्यात्। एवं तह्र्रजनुवृत्तिद्वारेण दीर्घत्वाभावप्रतिपत्तौ साध्यायां यत् प्रतिपत्तिगौरवमापद्यते, तदपास्तं भवतीति।`वैपाशः` इति। विपाशि भव इत्यण्। **यस्येति च** (6.4.148) इत्यत्रेवर्णउपादीयमानः सावण्र्येन शकारमप्युपादत्ते। एवं च तस्य लोपः प्रसज्येत। `आनहुहम्` इति। अनडुहो विकार इति **प्राणिरजतादिभ्योऽञ्** (4.3.154) ,तत्र **यस्येति च** (6.4.148) इत्यत्राकारो गृह्रकारो हकारमपि गृह्णीयात्, ततश्च पूर्ववत् तस्य लोपः स्यात्। Praudhamanorama --------------- **आकारसहित इति॥** अत्र च **कालसमयवेलासु** (3.3.167) इत्यादिनिर्देशाः प्रश्लेषे लिङ्गम्। न चैवमपि यिया3सो, इत्यादौ **गुरोरनृत** (8.2.86) इति प्लुतादकारात्परस्य सनः सस्य षत्वं स्यादेवेति वाच्यम्, आश्च आश्चेति द्वन्द्वे सवर्णदीर्घेण दीर्घात्परत्र प्लुतादपि प्रश्लिष्यत इति व्याख्यानात्। **यणादिकमिति।** शीतलशब्दे सवर्णदीर्घ आदिशब्दार्थः। Prakriyasarvasvam ----------------- तुल्यास्यप्रयत्नावप्यज्झलौ तु न मिथः सवर्णा । अवर्णादयो हि ह्रस्वदीर्घ- प्लुतभेदेन त्रिविधाः सन्तः सानुनासिकनिरनुनासिकभेदात् पुनः षोढाभूताः । पुनरप्युदात्तानुदात्तस्वरितभेदादष्टादशधा स्युः । ऌवर्णस्य लिपिपाठादन्यत्र दीर्घा- प्रयोगाद्, एचां च ह्रस्वाभावात् ते पञ्चापि द्वादशधैव । यवला अपि सानुनासिक- निरनुनासिकतया द्वेधा । वर्णाश्च मिथः सवर्णाः । रेफोष्मणां नान्यः सवर्णः । इति । अथ ह्रस्वादिसंज्ञोच्यते—